SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः ४३ "शिवा शान्ता सुखा राजन् ! चतुर्थी त्रिविधा स्मृता । मासि भाद्रपदे शुक्ला शिवलोकप्रपूजिता ॥ तस्यां स्नानं तथा दानमुपवासा जपस्तथा । क्रियमाणं तिगुणं प्रसादादन्तिनो नृप ! ॥” इति । मार्गशुक्लचतुर्थी परचतुर्थी । तस्यां सर्वार्थसाधकमब्दचतुष्टयसाध्यं व्रतमुक्तं स्कन्दपुराणे "चतुर्थ्या पार्गशीर्षे तु शुक्लपक्षे नृपोत्तम ! । प्रारभ्य प्रतिमासं च चतुझं गणनायकम् ।। सम्पूज्य विधिना कुर्यादेकभक्तं समाहितः । अक्षारलवण त्वेवं पूणे संवत्सरे ततः ॥ द्वितीये वत्सरे चाऽथ नक्तं प्रति चतुर्थिकाम् । कुर्याद् गणेशमभ्यर्च्य तृतीयेऽयाचितं तथा ॥ एवमेव प्रकुनोत चतुर्थे स्यादुपोषणम् । ततश्चतुर्थे सम्पूर्णे तदुद्यापनमाचरेत् ॥ इदं वरचतुर्थ्याख्यं व्रतं सर्वार्थसाधकम् ॥” इति । अत्र प्रथमवर्षे एकभक्तमुक्तं तत्स्वरूपमाह देवलः "दिनार्द्धसमयेऽतीते भुज्यते नियमेन यत् । एकभक्तमिति प्रोक्तं न्यूनं ग्रासत्रयेण तु ॥” इति । ननु भोजनं ग्रासत्रयेण न्यूनं कथं ज्ञातव्यमिति चेत्, शृणु "भोजनं तु विधिप्राप्तं द्वात्रिंशद्माससंमितम् ।" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy