SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ विथ्यर्कः तन्महत्त्वे किं महत्त्वगुणोपेतोपादेया ? किं वा मातृविद्धत्वगुणोपेता पूर्वापादेया ? इति संशये पूर्वेवेति प्रतीमः, न्यायाद्वाचनिकस्य माविद्धत्वगुणस्य वलीयस्त्वात् । अत्र चन्द्रदर्शननिषेधमाह पराशरः "कन्यादित्ये चतुझं तु शुक्ले चन्द्रस्य दर्शनम् । मिथ्याभिदूषणं कुर्याद्रात्रौ पश्येन तं सदा ॥ तदोषशान्तये सिंहः प्रसेनमिति वै पठेत् ।" इति । अत्र रात्रिग्रहणाद् दिवा चन्द्रदर्शने न दोष इति निर्णयामृतकारादयः। युक्तं तु "भाद्रे मासि सिते पक्षे चतुर्थी खातियोगिनी। मिथ्याभिशापं कुरुते दृष्टचन्द्रा न संशयः ॥" इति मार्कण्डेयादिवचनान्तरेषु चतुर्थीमात्रग्रहणाद दिवापि चन्द्रो न द्रष्टव्य इति प्रतिभाति । प्रमादाचन्द्रदर्शने तद्दोषशान्त्यर्थ प्राङ्मुख उदङमुखो वा पौराणं वाक्यं पठेत् । तच्च "सिंहः प्रसेनमवधीत् सिहो जाम्बवता हतः । सुकुमारकमारोदीस्तव ह्येष स्यमन्तकः ॥” इति । इयं भौमेनार्केण वा युक्ताऽतिप्रशस्तेत्युक्तं गोविन्दार्णवे वाराहे "भाद्रशुक्लचतुर्थी या भामेनार्केण वा युता । महती साऽत्र विघ्नेशमर्चित्वेष्टं लभेन्नरः ॥” इति । इयमेव शिवाख्येत्युक्तं भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy