SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ४४ तिथ्यर्क: ' तद् ग्रासत्रयेण न्यूनम् ' -- इत्यन्त्यपादेनोच्यते । तेनैकभक्ते एकोनत्रिंशद् ग्रासा इति फलितार्थ: । भोजने द्वात्रिंशद्ग्रासादिनियमस्तु मत्कृताचारा द्रष्टव्यः । पद्मपुराणे " मध्याह्वव्यापिनी ग्राह्या एकभक्तवते तिथिः” । इति । बौधायनोऽपि - "उदये तूपवासस्य नक्तस्यास्तमये तिथिः । मध्याह्नाव्यापिनी ग्राह्या एकभक्तवते तिथिः ॥” इति । अत्र त्रेधा विभक्तस्याहो मध्यमभागो मध्याह्नः, “पूर्वाह्न देवा अशनमभिहरन्ति मध्यन्दिने मनुष्या अपराह्न पितरः" इति श्रुतेः । तत्रापि दिनार्डोत्तरमवशिष्टं मध्यादभागे कार्यम्, 'दिनार्द्धसमयेऽतीते' इति देवलेाक्तः | दिनद्वयेऽपि मध्याह्न - व्याप्त वेकदेशसमव्याप्तौ वा युग्मवाक्यान्निर्णयः । श्रयञ्च निर्णयः स्वतन्त्रैकभक्तविषयः । अन्यत्रताङ्गभूतमेकभक्तं तत्तिथावेव भवति । द्वितीये नक्तमुक्तम्, तच्चाहरशनं वर्जयित्वा रात्रौ भोक्तव्यमिति नियमस्वरूपम् । तत्कालमाह व्यास: " त्रिमुहूर्तमदेोषः स्याद भानावस्तं गते सति । नक्तं तत्र प्रकुर्वीत इति शास्त्रस्य निश्वयः ॥” इति । नक्तशब्दा भोजनपरः । अत्र केचित् - " चत्वारीमानि कर्माणि सन्ध्यायां परिवर्जयेत् । आहार मैथुनं निद्रां स्वाध्यायं च चतुर्थकम् ॥” Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy