________________
तिथ्यर्कः
४५
इति वचनात् - "सायं सन्ध्या त्रिघटिका ह्यस्तादुपरि भास्वतः” । इति स्कान्दोक्त सन्ध्यायां भोज निषिद्ध मित्याहुः, तदशुद्धम्, सूर्य नक्षत्र वर्जित कालरूप मुख्यसंध्याकालत्यागे तदाह योगियाज्ञवल्क्यः
मानाभावात् ।
"अहोरात्रस्य यः सन्धिः सूर्यनक्षत्रवर्जितः ।
सा तु सन्ध्य सामाख्याता ऋषिभिस्तत्त्वदर्शिभिः।।" इति । हेमा स्मृत्यन्तरेऽपि -
" नक्षत्रदर्शना सन्ध्या सायं ततत्परतः स्थितम् ।
तत्परा रजनी या तत्र धर्मान् विवर्जयेत् ॥” इति । अस्तु वा घटिका सन्ध्यापदवाच्यम् । तथापि तत्र रागप्राप्तं भोज निषिद्धम् ननु वैधम्, विधिस्पृष्टे निषेधानवकाशात् । एतेन पर्वादिरात्रिभोजन निषेधो ऽपि प्रत्युक्तः ।
वत्स:
"प्रदपव्यापिनी ग्राह्या सदा नक्तत्रते तिथिः । एकादशी व सर्वाशुक्ले कृष्णे विशेषतः ॥” इति । हरिक्त तूदयव्यापिनी ग्राह्या । तदुक्तं माधवीये स्कान्दे" प्रदेोषव्यापिनी ग्राह्या सदा नक्तत्रते तिथिः । उदयस्था सदा पूज्या हरिनक्तत्रते तिथिः ॥” इति । यदा नक्ततिथिः पूर्वापरयोरोः प्रदेोषं व्याप्नोति, तदा परा ग्राह्या, “यदि स्यादुभये। स्तिथ्योः" इति वक्ष्यमाणजावालिवच
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com