________________
४६
तिथ्यर्कः
नात् । यदेोभयत्रापि न प्रदोषव्यापिनी, तदापि परैव ग्राह्या । परन्तु दिवैव आत्मच्छायाद्वैगुण्यकाले नक्तं कार्यं न रात्रौ । तदुक्तं स्कान्दे
"प्रदोषव्यापिनी न स्याद् दिवा नक्तं विधीयते । आत्मना द्विगुणच्छायामतिक्रामति भास्करे || नक्तं नक्तमित्याहुन नक्तं निशि भोजनम् । एवं ज्ञात्वा ततो विद्वान् सायाह्न े तु भुजि क्रियाम् ॥ कुर्यान्नक्तव्रती नक्तफलं भवति निश्चितम् ॥” इति । यदा नक्ततिथिः पूर्वदिने प्रदोषे सम्पूर्ण, परदिने तत्र स्वल्पा, तदापि परैव ग्राह्याः नक्तस्य दिवारात्रि व्रतत्वेन दिवारात्रिस्पृशि तत्तत्तिथैौ कर्त्तव्यत्वात् ।
सप्तमी भानुवारादौ सौरनक्तव्रते तु सुमन्तुः“त्रिमुहूर्तस्पृगेवाह्नि निशि चैतावती तिथिः ।
तस्यां सारं भवेन्नक्तमहन्येव तु भोजनम् ॥” इति । भोजनकालः कैौमें
―――――
-
" नरस्य द्विगुच्छायामतिक्रामेद यदा रविः । तदा सौरं चरेन्नक्तं न नक्तं निशि भोजनम् ॥” इति । सौरनक्तं भविष्यत्पुराणे दर्शितम् -
“ये चादित्यदिने ब्रह्मन् ! नक्तं कुर्वन्ति मानवाः । दिनान्ते तेsपि भुञ्जीरन निषेधा रात्रिभोजने ॥” इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com