SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ४७ तिथ्यर्कः यतेविधवायाश्च दिवैव नक्तमुक्तं स्मृत्यन्तरे "नक्त निशायां कुर्वति गृहस्थो विधिसंयुतः । यतिश्च विधवा चैव कुर्यात्तु सदिवाकरम् ।। सदिवाकरं तु तत्प्रोक्तमन्तिमे घटिकाद्वये ।" इति । व्यासः-- "हविष्यभोजन स्नानं सत्यमाहारलाघवम् । अग्निकार्यमधामय्यां नक्तभाजी षडाचरेत् ॥" तृतीयेऽयाचितम् । तच्चास्मिन्नहोरात्रेयाचितमन्न न भोक्ष्येइति सङ्कल्परूपम्। अयाचितान्नभोजनफलमुक्त माधवीये स्मृत्यन्तरे'अयाचिताशीमितभुक् परां सिद्धिमवामुयाद ।' इति । अत्र तिथिनिर्णयमाह नारदः "एकभक्तायाचितयोर्या त्रिंशद्धटिकावधिः । सा तिथिः सर्वदा ज्ञेया नक्ते सायाह्नसंयुता ॥" इति । सर्वदा सकलेत्यर्थः। चतुर्थे तूपवासः । एवं कृते यथोक्तफलसिद्धिर्भवति । माघकृष्णचतुर्थ्यां सङ्कष्टचतुर्थीव्रतारम्भ उक्तो भविष्योत्तरे "माघे मासे कृष्णपक्षे चतुर्थ्यां व्रतमुत्तमम् । प्रतिमासं प्रकुर्वीत व्रतं सङ्कष्टनाशनम् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy