________________
तिथ्यर्कः “पञ्चमी तु प्रकर्त्तव्या षष्ठया युक्ता तु नारद ।" इति ब्रह्मवैवर्तवचनं तत्
"स्कन्दोपवासे स्वीकार्या पञ्चमी परसंयुता।
त्रिमुहूर्ता तु षष्ठ्यां स्यात् परा पूर्वयुताऽन्यथा ॥" इति तत्रैवक्तित्वात्स्कन्दोपवासविषयम् ।। न च युग्मवचनं 'पञ्चमी तु तथा' इति स्कान्दवचनं कृष्णपञ्चमीविषयम्, 'पञ्चमी तु प्रकर्तव्या' इति तु शुक्लपञ्चमीविषयम्,
“शुक्लपक्षे तिथिाह्या यस्मामभ्युदितो रविः ।
कृष्णपक्षे तिथिह्या यस्यामस्तमितो रविः ॥" इति मार्कण्डेयवचनादेवं व्यवस्थाकर्तव्येति वाच्यम् ; हारीतेन पक्षद्वयेऽपि चतुर्थीविद्धाया एव पञ्चम्याः समादिष्टत्वात् । उपवासे तु स्कन्दोपवासपञ्चमी व्यतिरिक्ता सर्वापि पञ्चमी पूर्वविद्धैव ग्राह्या,
"प्रतिपत्पश्चमी चैव उपोष्याः पूर्वसंयुता ।" इति जाबालिवचनात् । उपवासस्तु सर्वतिथिषु माधवीये नारदीये दर्शितः ।
"शुक्लान् वा यदि वा कृष्णान् प्रतिपत्मभूतांस्तिथीन् । उपाण्यैव बलिं दत्वा विधिनेत्यपरे दिने । ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते ।" इति ।
चैत्रशुक्लपञ्चम्यां श्रीपूजोक्ता हेमाद्रौ मात्स्ये"शुक्लायामथ पञ्चम्यां चैत्रे मासि शुभानना ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com