SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः श्रीब्रह्मलोकान्मानुष्यं सम्माता केशवाज्ञया ॥ ततस्तां पूजयेत्र यस्त' लक्ष्मीर्न मुञ्चति ।" इति । इयं कल्पादिरपि । कल्पादयस्तु हेमाद्री मात्स्ये -- ५१ “वैशाखस्य तृतीया या कृष्णा या फाल्गुनस्य च । पञ्चमी चैत्रमासस्य तस्यैवान्त्या तथा परा ॥ शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी । नवमी मार्गशीर्षस्य सप्तैता: संस्मराम्यहम् || कल्पानामादये ह्येता दत्तस्याक्षयकारकाः : " अत्राविशेषाद युगादेिवन्निर्णयो ज्ञेयः । श्रावण शुक्लपञ्चमी नागपञ्चमी । सा परविद्धेत्युक्तं चमत्कारचिन्तामणी “पञ्चमी नागपूजायां कार्य्या पष्ठीसमन्विता । तस्यां तु तुपिता नागा इतरा सचतुर्थिका ।" इति । प्रतापमार्तण्डे स्मृत्यन्तरेऽपि - "श्रावणे पत्र मी शुक्ला सम्प्रोक्ता नागपञ्चमी । तां परित्यज्य पञ्चम्यश्चतुर्थीसहिता विभो ! ॥” इति । तां परित्यज्य चतुर्थीयुक्ता ग्राह्येत्युक्त्या नागपञ्चम्याश्चतुर्थीविद्राया निषेधावर मात् त्रिमुहूर्तचतुर्थोयुक्ता नागपञ्चमीव्यति - रिक्ता सर्वा पञ्चमी पूर्वा, परेद्युखिमुहूर्ता नागपञ्चमी परा, अन्यथा पूर्वव । अत्र नागपूजनमुक्तं गोविन्दार्णवे भविष्ये"श्रावणे मानि पञ्चम्यां शुक्लपक्षे नराधिप ! | द्वारस्योभयते लेख्या गोमयेन विपोल्वणाः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy