SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ विथ्यर्कः पूजयेद्विधिवद् वीर ! दधिर्वाङ्करैः कुशैः । गन्धपुष्पोपहारैश्च ब्राह्मणानां च तर्पणैः ।। ये तस्यां पूजयन्तीह नागान् भक्ति पुरस्सराः । न तेषां सर्पता वीर ! भयं भवति कुत्रचित् ॥” इति । अस्यां नागकुण्डे स्लानमुक्तं काशीखण्डे "यः स्नातो नागपञ्चम्यां कुण्डे वासुकिसंज्ञके । न तस्य विषसंसर्गो भवेत्सर्पसमुद्भवः ॥ कर्तव्या नागपञ्चम्यां यात्रा वर्षासु तत्र । नागाः प्रसन्ना जायन्ते कुले तस्यापि सर्वदा ॥” इति । भाद्रशुक्लपञ्चमी ऋषिपञ्चमी । इयं त्वविशेषात् "पूजाव्रतेषु सर्वेषु मध्याह्नव्यापिनी तिथिः" इति माधवीये हारीतोक्तर्मध्याह्नव्यापिनी ग्राह्या । दिनद्वये मध्याह्नव्याप्तिसत्त्वेऽसत्त्वे वा सामान्यनिर्णयात् पूर्वा । अत्र ऋषिपूजनमुक्तं ब्राह्म "नभस्य शुक्लपक्षे तु यदा भवति पञ्चमी । नद्यादिके तदा स्नात्वा कृत्वा नियममेव च ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वापि वरानने ! । कत्वा नैमित्तिकं कर्म गत्वा निजगृहं पुनः ।। वेदि सम्यक् प्रकुर्वीत गोमयेनोपलिप्य ताम् । तत्र सप्त ऋषीन् दिव्यान् भक्तियुक्तान् (क्तः?) प्रपूजयेत् ॥" ऋषयश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy