SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १८ तिथ्यर्कः ब्रह्माणी सर्वकार्येषु अर्थार्थे नृपवंशजाम् । लाभार्थे वैश्यवंशोत्यां सुतार्थे शूद्रवंशजाम ॥" इति । अपूज्यकन्या उक्तास्तत्रैव "हीनाधिकाङ्गी कुष्ठीं च विनाशिकुलसम्भवाम् । ग्रन्थिस्फुरितशीर्णाङ्गी रक्तपूयत्रणाङ्किताम् ॥ जात्यन्धा केकरां काणी कुरूपां तनुरोमशाम् । सन्त्यजेद्रोगिणीं कन्यां दासीगर्भसमुद्भवाम् ॥” इति । ययोक्तकन्यालाभे तु देवीपुराणे "विवाहानन्तरं कन्यां कन्यात्वमुपजायते । तावत्संपूजयेत्कन्यां यावत्पुष्पं न दृश्यते ॥” इति । ततो देवी प्रार्थयेत् "महिषन्नि ! महामाये ! चामुण्डे ! मुण्डमालिनि ! । द्रव्यमारोग्यविजयं देहि देवि ! नमः सदा ॥" ततश्च दुर्गाग्रतो मन्त्र जपेत् । तदुक्तं देवीपुराणे "दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः समाहितः ।" इति । जपोत्तरं चण्डीपाठोऽपि तत्रैवोक्तः "एकोत्तराभिटक्या तु नवमीं यावदेव हि । चण्डीपाठं यजेच्चैव याजयेद्वा विधानतः ॥” इति । नवरात्रारम्भोत्तर सूतके प्राप्ते विशेषो विश्वरूपनिबन्धे "आश्विने शुक्लपक्षे तु प्रारब्धे नवरात्रके। शावे सूते समुत्पन्ने क्रिया कार्या कथं बुधैः ।" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy