________________
१८
तिथ्यर्कः ब्रह्माणी सर्वकार्येषु अर्थार्थे नृपवंशजाम् ।
लाभार्थे वैश्यवंशोत्यां सुतार्थे शूद्रवंशजाम ॥" इति । अपूज्यकन्या उक्तास्तत्रैव
"हीनाधिकाङ्गी कुष्ठीं च विनाशिकुलसम्भवाम् । ग्रन्थिस्फुरितशीर्णाङ्गी रक्तपूयत्रणाङ्किताम् ॥ जात्यन्धा केकरां काणी कुरूपां तनुरोमशाम् ।
सन्त्यजेद्रोगिणीं कन्यां दासीगर्भसमुद्भवाम् ॥” इति । ययोक्तकन्यालाभे तु देवीपुराणे
"विवाहानन्तरं कन्यां कन्यात्वमुपजायते ।
तावत्संपूजयेत्कन्यां यावत्पुष्पं न दृश्यते ॥” इति । ततो देवी प्रार्थयेत्
"महिषन्नि ! महामाये ! चामुण्डे ! मुण्डमालिनि ! ।
द्रव्यमारोग्यविजयं देहि देवि ! नमः सदा ॥" ततश्च दुर्गाग्रतो मन्त्र जपेत् । तदुक्तं देवीपुराणे
"दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः समाहितः ।" इति । जपोत्तरं चण्डीपाठोऽपि तत्रैवोक्तः
"एकोत्तराभिटक्या तु नवमीं यावदेव हि ।
चण्डीपाठं यजेच्चैव याजयेद्वा विधानतः ॥” इति । नवरात्रारम्भोत्तर सूतके प्राप्ते विशेषो विश्वरूपनिबन्धे
"आश्विने शुक्लपक्षे तु प्रारब्धे नवरात्रके। शावे सूते समुत्पन्ने क्रिया कार्या कथं बुधैः ।"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com