SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः नमो ललाटं पूजयामि, कुमार्यै नमः शिरः पूजयामि, महादेव्यै नमः सर्वाङ्ग पूजयामि । ततो धूपादिपूजां समाप्य, कूष्माण्डादिवलिं निवेद्य, कुमारीपूजा कार्या। तदुक्तं नवरात्रप्रकरणे देवीपुराणे “न तथा तुष्यते शक्र ! जपहोमसमाधिना । कुमारीपूजनेनात्र यथा देवी प्रसीदति ॥” इति । स्कान्देऽपि "आयुष्यबलद्धयर्थ कुमारी पूजयेन्नरः ।" इति । कुमारीपूजामन्त्रस्तु स्कान्दे “मन्त्राक्षरमयीं लक्ष्मी मातणां रूपधारिणीम् । नवदुर्गात्मिकां साक्षात्कन्यामावाहयाम्यहम् ॥ जगत्पूज्ये ! जगद्वन्ध ! सर्वशक्तिस्वरूपिणि ! पूजां गृहाण कामारि ! जगन्मातर्नमोऽस्तु ते ॥ कञ्चुकैश्चापि वस्त्रैश्च गन्धपुष्पाक्षतादिभिः । नानाविधैर्भक्ष्यभोज्योजयेत्पायसादिभिः ।।" इति । कुमारीवयाप्रमाणं पदनरत्ने स्कान्दे "एकवर्षा तु या कन्या पूजार्थे तां विवर्जयेत् । गन्धपुष्पफलादीनां प्रीतिस्तस्या न विद्यते ॥ द्विवर्षकन्यामारभ्य दशवर्षावधि क्रमात् । पूजयेत्सर्वकार्येषु यथाविध्युक्तमार्गतः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy