________________
तिथ्यर्कः "जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥
अनेनैव तु मन्त्रेण जपहोमादि कारयेत् ।। इति । तत्रादौ महाकाल्यै नमः, महालक्ष्म्यै नमः, महासरस्वत्यै नमः, प्रभायै नमः, मायायै नमः, जयायैः नमः, विशुद्धायै नमः, नन्दिन्यै नमः, सप्रभायै नमः, विजयायै नमः, सर्वसिद्धिप्रदायै नमः, वज्रनखदंष्ट्रायै नमः। एभित्रयोदशनामभिः पीठपूजां कृत्वा देवीं ध्यायेत् । ध्यानमुक्तं शारदायाम्
"सिंहस्था शशिशेखरा मरकतपख्या चतुर्भिभुजैः शङ्ख चक्रधनुःशरांश्च दधती नेत्रस्त्रिभिः शोभिता ।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्ची कणन्नूपुरा दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला ॥" इति ध्यात्वा, पूर्वोक्तमन्त्रेण दुर्गायै नमः-अनेनैवावाहनादि पुष्पसमर्पणान्तं कृत्वा अङ्गपूजां कुर्यात् ।
दुर्गायै नमः पादौ पूजयामि, कात्यायन्यै नमो गुल्फो पूजयामि, सावित्र्यै नमो जानुनी पूजयामि, सरस्वत्यै नमो जङ्घ पूजयामि, भद्रकाल्यै नमः कटिं पूजयामि, मङ्गलायै नमो नाभिं पूजयामि, शिवायै नम उदरं पूजयामि, क्षमायै नमो हृदयं पूजयामि, धात्र्यै नमा हस्तौ पूजयामि, स्वधायै नमः कण्ठं पूजया में, महिषमर्दिन्यै नमो मुखं पूजयामि, नारायण्यै नमो नासिकां पूजयामि, रौद्रायै नमः श्रोत्रे पूजयामि, सिंहवाहिन्यै नमो नेत्रे पूजयामि, कालरात्र्यै
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com