SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः १२५ इति भृगूक्तः। अत्र सर्वराशिष्विनि कथनाचन्द्रानुकूल्य नापेक्ष्यमित्याशयः। ननु सायंकाले यात्रा विहिता पुनरपि तस्मिन्नेव वाक्ये दिवा विजयलक्षणे काले च विहिता। तथा च विरोध इति चेन्नैवं; यदा दिनद्वयेऽपि सायंकालावच्छेदेन दशमी न तदा द्वितीयदिन एकादशमुहूर्ते यात्रा विधातव्येत्येतदर्थमेकादश्यां यात्रानिषेधात् । तथा च स्कान्दे स्मयते "दशमी यः समुल्लङ्घय प्रस्थानं कुरुते नरः । तस्य संवत्सरं राज्ये न कापि विजयो भवेत् ॥” इति अस्यां कृत्यमुक्तं भविष्ये शमी सलक्षणोपेतामीशानाशाप्रतिष्ठिताम् । सम्प्रार्थ्य तां च सम्पूज्य ईशानीसन्मुखो भवेत् ॥ प्रार्थनामन्त्रौ तत्रैव "शमी शमयनं पापं शमी लोहितकण्टका । *धारयव्यर्जुनास्त्राणां रामसंवाददायिनी ।। करिष्यमाणयात्रायां यथाकालं सुखं मम । तत्र निर्विघ्नकर्वी त्वं भव रामप्रपूजिता ॥" इति । "गृहीत्वा साक्षतामार्दा शमीमूलगतां मृदम् । गीतवादिवनिर्घोषैरानयेत्स्वगृहं प्रति ॥ * 'धारिण्यर्जुनवाणानां रामस्य प्रियवादिनी' इत्यपि पाठः स्मयते । www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy