________________
तिथ्यर्क :
वजाश्व ! तां गतिं क्षिप्रं तच्च पापं भवेत्तव ॥ विकृतिं यदि गच्छेथा युद्धाध्वनि तुरङ्गम ! | रिपून् विजित्य समरे सह भर्त्रा सुखी भव ॥"
अथ ध्वजस्य
“शक्रकेता ! महावीर्य्य ! श्यामवर्णार्चयाम्यहम् । पत्रिराज ! नमस्तेस्तु तथा नारायणध्वज ! ॥ काश्यपेयारुणभ्रातर्नागारे ! विष्णुवाहन ! | अमेय ! दुराधर्ष ! रणे देवारिसूदन ! ॥ गमन्मारुतगतिस्त्वयि सन्निहितो यतः ।
साश्ववर्माऽऽयुधान् योधान रक्ष त्वं च रिपून् दह ||"
अथ पताकाया:
―――――
"हुतभुग्वस रुद्रा वायुः सोमो महर्षयः । नाग किन्नर गन्धर्वयक्षभूतगणग्रहाः ॥ प्रथमस्तु सहादित्यैभूतेशो मातृभिः सह । शक्रः सेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि || प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु । यानि प्रयुक्तान्यरिभिरायुधानि समन्ततः ॥ पतन्तूपरि शत्रणां हतानि तव तेजसा । हिरण्यकशिपोयुद्धे युद्धे देवासुरे तथा ॥ कालनेमिवधे यद् यद्वत् त्रिपुरघातने । शोभितोऽसि तथैवाद्य शोभयामांश्च संस्मर ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२३
www.umaragyanbhandar.com