SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ २४ तिथ्यर्क : नीलश्वेतानिमान् दृष्ट्वा नश्यन्त्वाशु नृपारयः । व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः || पूतना रेवती नाम्ना कालरात्रिश्च या मृता । दह चाशु रिपून् सर्वान् पताके! त्वमथार्चिता ||" अथ हस्तिन: “कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः । सुप्रतीकोऽञ्जना नील एतेऽष्टौ देवयोनयः ।। तेषां पुत्राथ पौत्राव वनान्यष्टौ समाश्रिताः । मन्दो भद्रो मृगश्चैव गजः संकीर्ण एव च ॥ वने वने प्रसूतास्ते स्मर योनि महागज ! पान्तु त्वां वसवो रुद्रा आदित्या समरुद्गणाः ।। भर्तारं रक्ष नागेन्द्र ! स्वामिवत्प्रतिपाल्यताम् । जयं युद्धे गमने स्वस्तिनेा व्रज ॥ श्रीस्ते सामाद् बलं विष्णेस्तेजः सूर्याज्जयेोऽनिलात् । स्थैर्य मेरोर्जयं रुद्राद्यशो देवात्पुरन्दरात् || युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः । अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतः सदा ॥" अथ खड्जस्य — “असिर्विशनसः खङ्गस्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy