SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः २५ एतानि नव नामानि स्वयमुक्तानि वेधसा । नक्षत्रं कृत्तिका ते तु गुरुर्देवो महेश्वरः ॥ रोहिण्यश्च शरीरं ते दैवतं च जनार्दनः । पिता पितामहो देवस्त्वं मां पालय सर्वदा ।। नीलजीमूतसंकाशस्तीक्ष्णदंष्ट्रः कृशोदरः । भावशुद्धोऽमर्षणश्च अतितेजास्तथैव च ॥ इयं येन धृता शोणी हतश्च महिषासुरः । तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः ॥" अथ क्षुरिकायाः "सर्वायुधानां प्रथमं निर्मितासि पिनाकिना। शुलायुधाद्विनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् ॥ चण्डिकायाः प्रदत्तासि सर्वदुष्टनिवर्हिणी । तया विस्तारिना चादिदेवानां प्रतिपादिता ॥ सर्वसत्त्वाङ्गभूतानि सर्वाऽशभनिवर्हिणी । क्षुरिके ! रक्ष पां नित्यं शान्ति यच्छ नमोऽस्तु ते ॥" अथ कटारिकायाः-- "रक्षाङ्गानि गजान् रक्ष रक्ष वाजिधनानि च । मम देहं सदा रक्ष कटारक ! नमोऽस्तु ते ॥" अथ धनुषः "सर्वायुधमहामात्र ! सर्वदेवारिसूदन ! चाप ! मां समरे रक्ष साकं शरवरैरिह । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy