SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: स देवैः समरे क्रुद्धैर्बहुधा शकलीकृतः ॥ तदङ्गसम्भवं सर्व लोह' यद् दृश्यते क्षितौ । तस्याभिसरणाद्राज्ञो विजयः समुदाहृतः ॥" अभिसरणादर्चनात् । इदं च कर्म काम्यम्, जयाभिलाषीतिफलश्रवणात् । अत्र शस्त्रपूजैव प्रधानम्, फलसम्बन्धात् । अथाऽऽयुधादिपूजामन्त्रा मदनरत्ने विष्णुधर्मोत्तरे तत्रादौ छत्रस्य“यथाम्बुदश्छादयति शिवायेमां वसुन्धराम् । तथा छादय राजानं विजयारोग्यवृद्धये ॥" २२ अथ चामरस्य “शशाङ्कक र संकाश तीक्ष्णडिण्डिरपाण्डुर ! | प्रोत्सारयाशु दुरितं चामरामरदुर्लभ ! ॥" अथाश्वस्य "गन्धर्व कुलजातस्त्व' मा भूयाः कुलदूषकः । ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥ प्रभावाच्च हुताशस्य वर्द्धय त्वं तुरङ्गमान् । तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ।। रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च । स्मरत्व ं राजपुत्रत्वं कौस्तुभं च मणिं स्मर || यां गतिं ब्रह्महा गच्छेन्मातृहा पितृहा तथा । भूमिहाऽनृतवादी च क्षत्रियश्च पराङ्मुखः ॥ सूर्याचन्द्रमसौ वायुर्यावत्पश्यन्ति दुष्कृतम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy