________________
तिथ्यर्कः "जयाभिलापी नृपतिः पतिपत्प्रभृति क्रमात् ।
लोहाभिसा के कर्म कारयेद् यावदष्टमीम् ॥" तद्विधानं च तत्रैव
"प्रागुदक प्रवणे देशे पताकाभिरलङकृते ।
मण्डपं कारयेदिव्य नवसप्तकरं परम् ।।" नवसप्तकरं षोडश हस्तमित्यर्थः ।।
"आग्न्येय्या कारयेत्कुण्डं हस्तमात्रं सुशोभनम् । मेखलात्रयसंयुक्तं योन्याऽश्वत्थदलाभया ।। राजचिह्नानि सर्वाणि शस्त्राण्यस्त्राणि यानि च । आनीय मण्डपे तानि सर्वाण्येवाधिवासयेत् ॥ ततस्तु ब्राह्मणः स्नातः शुक्लाम्बरधरः शुचिः । ॐकारपूर्वकर्मन्त्रैस्तल्लिङ्गजुहुयाद् घृतम् ॥ शस्त्रास्त्रमन्त्रोतव्य पायसं घृतसंयुतम् । हुतशेष तुरङ्गाणां राजानमुपहारयेत् ।। लोहाभिसा रेक कर्म तेनैतदृषिभिः स्मृतम् । धृतपल्ययन नश्वानाजांश्च समलङ्कृतान् ॥ भ्रामयेन्नग नित्यं नन्दिघोषपुरःसरम् । प्रत्यहं नृपतिः स्नात्वा सम्पूज्य पितृदेवताः ।।
पूजयेद्राज्याचेहानि फलमायविभूषणैः ।" राजचिह्नानि शस्त्राश्वादीनि ।
"लोहनामाऽभवत्पूर्वमसुरः सुमहाबलः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com