SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ २० तिथ्यर्कः इति समयमयूखे विश्वरूपनिबन्धेनोदाहृतत्वात् । मलमासे तु द्वितीयनवरात्रारम्भोऽपि न भवति । तथा चोक्तं विश्वरूपनिबन्धे “ मलमासे न कर्त्तव्यं नवदुर्गोत्सवव्रतम् ।" इति । न च नवदुर्गोत्सवत्रतमित्यनेन नूतनदुर्गोत्सवत्रतं मलमासे न कर्तव्यमिति वाच्यम् , नव च ता दुर्गाश्चति व्युत्पत्त्या नवशब्दस्य संख्यावाचित्वात् । ___" नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम् ।" इति स्कान्दात् संख्यावाचित्वमेव न नूतनवाचित्वम् । अत्र चाधिकारः सर्वेषाम् । तदुक्तं मदनरत्ने भविष्योत्तरे"पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे । शस्तैः प्रमुदितैर्हष्टैाह्मणैः क्षत्रियैर्विशैः ॥ शूद्वैभक्तियुतैर्लेच्छैरन्यैश्च भुवि मानवैः। स्त्रीभिश्च कुरुशार्दूल ! ............ ॥” इति । अत्र साश्वपुरुषाणामश्वपूजोक्ता तत्रैव देवीपुराणे आश्वयुक शुक्लपतिपत्स्वातियोगे शुभे दिने । पूर्वमुच्चैःश्रवा नाम प्रथमं श्रियमावहत् ।। तस्मात्साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सदा । पूजनीयाच तुरगा नवमी यावदेव हि । शान्तिः वस्त्ययनं कार्य तदा तेषां दिने दिने ॥” इति । अस्यामेव अष्टम्यवधि राज्ञां लोहाभिसारिकं कर्म प्रोक्तं मदनरत्ने भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy