________________
२२६
तिथ्यर्कः इति नारदवचनात् कार्तिकोद्यापनवद् ज्ञेयः । अथ फाल्गुनपौर्णमास्यां होलिकापूजनमुक्तं भविष्ये
"तपस्यपूर्णिमायान्तु रजन्यां होलिकोत्सवः ।" इति ।
तत्र पौर्णमासी प्रदोषव्यापिनी ग्राह्या । तदाह चन्द्रप्रकाशे नारदः
“प्रदोषव्यापिनी ग्राह्या पूर्णिमा फाल्गुनी सदा ।
तस्यां भद्रामुखं त्यक्त्वा पूज्या होला निशामुखे ॥” इति । प्रदोषस्त्रिमुहूर्त्तात्मकः । यदा तु दिनद्वये प्रदोषव्यापिनी तदोतरा, पूर्व दिने भद्रारहितकालाभावात् । तथा च निर्णयामृतमदनरत्नयोः पुराणसमुच्चये
"भद्रायां दीपिता होली राष्ट्रभङ्ग करोति वै ।
नगरस्य च नैवेष्टा तस्मात्ता परिवर्जयेत् ॥” इति । यदा पूर्वदिने प्रदोषव्यापिनी, परदिने प्रदोषेऽभावः, तदा तु पूर्वदिने भद्रां विहाय कार्या,
"राकायामद्वयादूज़ चतुर्दश्यां यदा भवेत् ।
होला भद्रावसाने तु होलिकां तत्र दीपयेत् ॥" इति भविष्योत्तराच्च। यदा पूर्वदिने प्रदोषव्याप्तिन तत्सान्त्वना। अथ च भद्रारहितः कालो न लभ्यते, उत्तरदिने च प्रदोषे पूर्णिमाभावस्तदा भद्रापुच्छे कार्या,
"पृथिव्यां यानि कार्याणि शुभानि त्वशुभानि तु । तानि सर्वाणि सिद्धयन्ति विष्टिपुच्छे न संशयः ॥"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com