SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २२६ तिथ्यर्कः इति नारदवचनात् कार्तिकोद्यापनवद् ज्ञेयः । अथ फाल्गुनपौर्णमास्यां होलिकापूजनमुक्तं भविष्ये "तपस्यपूर्णिमायान्तु रजन्यां होलिकोत्सवः ।" इति । तत्र पौर्णमासी प्रदोषव्यापिनी ग्राह्या । तदाह चन्द्रप्रकाशे नारदः “प्रदोषव्यापिनी ग्राह्या पूर्णिमा फाल्गुनी सदा । तस्यां भद्रामुखं त्यक्त्वा पूज्या होला निशामुखे ॥” इति । प्रदोषस्त्रिमुहूर्त्तात्मकः । यदा तु दिनद्वये प्रदोषव्यापिनी तदोतरा, पूर्व दिने भद्रारहितकालाभावात् । तथा च निर्णयामृतमदनरत्नयोः पुराणसमुच्चये "भद्रायां दीपिता होली राष्ट्रभङ्ग करोति वै । नगरस्य च नैवेष्टा तस्मात्ता परिवर्जयेत् ॥” इति । यदा पूर्वदिने प्रदोषव्यापिनी, परदिने प्रदोषेऽभावः, तदा तु पूर्वदिने भद्रां विहाय कार्या, "राकायामद्वयादूज़ चतुर्दश्यां यदा भवेत् । होला भद्रावसाने तु होलिकां तत्र दीपयेत् ॥" इति भविष्योत्तराच्च। यदा पूर्वदिने प्रदोषव्याप्तिन तत्सान्त्वना। अथ च भद्रारहितः कालो न लभ्यते, उत्तरदिने च प्रदोषे पूर्णिमाभावस्तदा भद्रापुच्छे कार्या, "पृथिव्यां यानि कार्याणि शुभानि त्वशुभानि तु । तानि सर्वाणि सिद्धयन्ति विष्टिपुच्छे न संशयः ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy