________________
अथेष्टिकालनिर्णयः तत्रेष्टिः पर्वपतिपत्सन्धौ कार्या। तदुक्तं माधवीये गोभिलेन"पक्षान्ता उपवस्तव्याः पक्षादयो यष्टन्याः सन्धिमभितो यजेत्" इति । उपवासोऽन्वाधानम् । सन्धेः सूक्ष्मत्वात् तत्र यागानुष्ठानस्य बाधात् तत्सामीप्य विषयः। तदाह माधवीये बौधायन:
"सूक्ष्मत्वात् सन्धिकालस्य सन्धिविषय उच्यते ।
सामीप्यं विषयं प्राहुः पूर्वेणाप्यपरेण च ॥" अत्र पूर्वापरशब्दाभ्यां सन्धेः प्राचीन पर्वदिन प्रतीचीन प्रतिपद्दिनमुच्यते । तत्र पूर्वस्मिन् पर्वदिनेऽन्वाधानादिरूपो यागारम्भः कार्यः। अपरस्मिन् प्रतिपदिने स्विष्टकृदादिस्तेमरूपा यागसमाप्तिः कार्या। तथा च तैत्तिरीयब्राह्मणश्रुतिः"पूर्वे रिध्मावहिः करोति यज्ञमेवारभ्य गृहीत्वोपवसति" इति । शतपथेऽपि-"पूर्वेधुरग्निं गृह्णात्युत्तरमहर्यजति" इति । अन्वाधानयागयोः कालमाह लौगाक्षिः
"त्रीनशानौपवस्तस्य यागस्य चतुरो विदुः ।
द्वावशावुत्सृजेदन्त्यौ यागे च व्रतकर्मणि ॥" इति । पतिपत्पर्वणोरन्त्यौ द्वावशा यथाक्रमं यागान्वाधानयोस्त्याज्याविति भावः । तानिमान् यागस्य चतुरोंऽशान् विणतो माधवीये यज्ञपाशातातपा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com