SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २२७ तिथ्यर्कः भान्विता, उत्तरेऽह्नि प्रदोषे ग्रस्तोदयात्मकं चन्द्रग्रहणम्, तदा स्नात्वा होला कार्या, "स्नात्वा कर्माणि कुर्वीत भृतमन्नं विवजयेत्" । इति वाक्यात् । अत्र कृत्यं हेमाद्रौ भविष्ये - "सञ्चयं शुष्ककाष्ठानामुपलानाञ्च कारयेत् । तत्राग्निं विधिवद् हुत्वा रक्षाघ्नैर्मन्त्रविस्तरैः ॥" पूजामन्त्रस्तु "असकपामयसंत्रस्तैः कृता त्वं होलि ! वालिशैः । अतस्त्वां पूजयिष्यामि भूते ! भूतिप्रदा भव ॥" इति । फाल्गुनो मलमासश्चेच्छुद्ध मासि होला कार्या, "स्पष्टमासविशेषाख्याविहितं वर्जयेद् मले ।" इति नारदवचनात् । इयमपि मन्वादिरित्युक्तं प्राक् । अत्रापि दोलोत्सव उक्तः कृत्यचिन्तामणी ब्राह्मे "नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् । फाल्गुन्यां संयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥ इति । पौर्णमासी गुरुवारेण सिद्धा, मन्देन विरुद्धा । योगिन्यत्र वायव्यामिति पौर्णमासीनिर्णयः ।। इति श्रीमद्विद्वच्छिरोमणिभारद्वाजमहादेवभट्टात्मनसकलविद्यानिधानदिवाकरविरचिते तिथ्यर्के षोडशतिथीनां निर्णयः समाप्तः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy