________________
तिथ्यर्कः आचार्य भोजयेत्पश्चात्सात्त्विकान्नैः सुविस्तरम् । भुञ्जीत स्वयमप्येवं हृदि राममनुस्मरन् ॥ शृण्वन् रामकथां दिव्यामहःशेष नयन्मुनिः । ततः प्रातः समुत्थाय स्नात्वा सन्ध्यां विधाय च ॥ स्वगृहस्योत्तरे देशे दानस्योज्ज्वलमण्डपम् । शङ्खचक्रहनूमद्भिः प्राग्द्वारे समलङ्कृतम् ॥ गरुत्मच्छाङ्गबाणैश्च दक्षिणे समलङ्कृतम् । गदाखड्गाङ्गदैश्चैव पश्चिमे सुविभूषितम् ।। पद्मस्वस्तिक नीलैश्च कौवेरे समलङ्कृतम् । मध्ये हस्तचतुष्केण वेदिकायुक्तमायतम् ।। ततः सङ्कल्पयेद्देवं राममेव स्मरन्मुने ! । अस्यां रामनवम्यां च रामाराधनतत्परः ॥ उपाध्याष्टसु यामेषु पूजयित्वा यथाविधि । इमां स्वर्णमयीं रामप्रतिमां च प्रयत्नतः ॥ श्रीरामप्रीतये दास्ये रामभक्ताय धीमते । प्रीतो रामो हरत्वाशु पापानि सुबहूनि मे ॥ अनेकजन्मसं सिद्धान्यभ्यस्तानि महान्ति च । ततः स्वर्णमयीं रामप्रतिमा पलमानतः ।। निर्मितां द्विभुजां दिव्यां वामाङ्कस्थितजानकीम् । विभ्रती दक्षिणकरे ज्ञानमुद्रां महामुने ! ॥ वामेनाधः करेणाराद् देवीमालिङ्गय संस्थिताम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com