SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २८४ तिथ्यर्कविषयानुक्रमणिका दानं कृष्णाजिनस्याथ कुम्भदानं तथैव च । ज्येष्ठस्य पूर्णिमायां तु सावित्रीपूजनं स्मृतम् ॥ १३० ।। तिलछत्रादिदानानि कीर्त्तितानि विशेषतः । कोकिलाव्रतकालश्च व्यासपूजाविनिर्णयः ।। १३१ ।। विष्णोः शयनकालश्च देशकालविभेदतः । श्रावणी पौर्णमासी तु निर्णीता च ततः परम् ।। १३.२ ।। उपाकर्माऽपि तत्रोक्तं विस्तरेण ततः परम् । उत्सर्जनं च कथितं श्रवणाकर्मनिर्णयः ॥ १३३ ॥ सर्वेषामिह वर्णानां रक्षाबन्धविधिस्तथा । भद्रायां तनिषेधस्तु हयग्रीवसुरार्चनम् ॥ १३४ ॥ नान्दीमुखानां प्रत्यब्दं भाद्रयां श्राद्धविधिस्तथा । आश्विन्यामाश्विनीकर्म कोजागरविधिस्तथा ॥ १३५ ॥ कार्तिक्यां कार्तिकेयस्य दर्शनं त्रिपुरोत्सवः । क्षीरसागरदानं च दृषोत्सर्गविधिस्तथा ॥ १३६ ॥ अथार्जवतिनः सम्यगुद्यापनविधिः स्मृतः । मागशीर्ष्या पौर्णमास्यामुक्तं प्रत्यवरोहणम् ॥ १३७ ।। पौषीकृत्यं ततः प्रोक्तं माघीकृत्यं सविस्तरम् । स्नानाद्यापनकर्माणि होलिकानिर्णयस्ततः॥ १३८ ।। भद्रापुच्छं विनिर्णीतं होलिकाकृत्यमेव च । मलमासनिषेधश्च दोलोत्सव उदाहृतः ॥ १३९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy