SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कविषयानुक्रमणिका अथ सिद्ध विरुद्धादियोगिनी निर्णयस्ततः । सूक्ष्मत्वात्सन्धिकालस्य कृतस्तत्रेष्टिनिर्णयः ॥ १४० ॥ विकृते कालनिर्देशः पश्वाग्रयणनिर्णयः । निर्णय ग्रहणस्याथ दानद्रव्यमुदाहृतम् ॥ १४१ ॥ पात्रलक्षणमप्युक्तमपात्रे दानमीरितम् । चूडामणिसमाख्या च सूतकादैा तदर्हता ॥ १४२ ॥ दानश्राद्धादिकालश्च स्नानतीर्थविनिर्णयः । निषिद्धग्रहणे दानशान्ती मोक्तेऽथ (१) पक्षकः ॥ १४३ ॥ मासस्तद्धे दकथनं विनियोगस्तथैव च । मासदेवाः समाख्याता मलमासस्य निर्णयः ।। १४४ ॥ कार्याकार्यविवेकस्तु दानं चोक्तं ततः परम् । चान्द्रसावन सौरास्तु त्रयः संवत्सरा मी ।। १४५ ॥ २८५ क्षौरकालनिषेधश्च क्वचित्तदपवादनम् । कलिवर्ज्यानि चोक्तानि पर्ववर्ज्यानि चैव हि ॥ १४६ ॥ तैलवर्जनकालश्च पुष्पतैलनिषेधनम् । अष्टम्यादिषु वर्ज्यानि प्रथमाब्द निषेधनम् ॥ १४७ ॥ जन्मवासरकृत्यं च तत्र वर्ज्यानुकीर्त्तनम् । दिनद्वये जन्मतिथेः सत्त्वासत्त्वविनिर्णयः ॥ १४८ ॥ अमावास्या विनिर्णीता पितृयज्ञविनिर्णयः । श्राद्धकालो विनिणींतो व्रतकालस्तथैव च ॥ १४९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy