________________
तिथ्यर्कविषयानुक्रमणिका
२८३ व्रतप्रकारकथनं तन्नित्यत्वप्रकाशनम् । ॐकारयात्रा कथिता श्रावणे भूतनिर्णयः ॥ १२० ॥ भाद्रशुक्लचतुर्दश्यामनन्तव्रतनिर्णयः । ऊर्जकृष्णचतुर्दश्यामभ्यङ्गस्नानमीरितम् ॥ १२१ ।। तन्निर्णयः प्रकथितो यमतर्पणमेव च । प्रदोषसमये दीपदानं च कथितं ततः ॥ १२२ ॥ ऊर्जकृष्णचतुर्दश्याः कृत्यमुक्तं समासतः । मार्गशुक्लचतुर्दश्या अपि कृत्य हि वर्णितम् ॥ १२३ ॥ शिवरात्रिव्रतस्याथ निर्णयः समुदाहृतः । अधिकारश्च सर्वेषां व्रतानुष्ठानपद्धतिः ॥ १२४ ॥ पारणानिर्णयः पश्चाच्चैत्रकष्णचतुर्दशी । अथ सिद्ध विरुद्धादियोगिनीनिर्णयस्ततः ॥ १२५ ॥ अमावास्या विनिर्णीता सोमपाशस्त्यमेव च ।। योगः पुष्करसंज्ञस्तु सावित्रीव्रतकीर्तनम् ॥ १२६ ॥ दर्भसंग्रहकालस्तु कात्तिकामाव्रतं तथा । अझैदयविधिः पश्चादात्मनिर्णय उदाहृतः ॥ १२७ ।। पारिभाषिकयोगस्तु पाताख्यः समुदाहृतः । अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः ॥ १२८ ॥ पूर्णिमानिर्णयः पश्चादथ चैत्रस्य पूर्णिमा । वैशाखोद्यापनविधिर्वैशाख्यामनुवर्णितः ॥ १२९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com