________________
श्री.
भूमिका दिवाकरकृतिधर्मशास्त्रसुधानिधिर्नाम जयति धर्मशास्त्रस्य किमप्यपूर्व प्रन्यरत्नम्। तस्यैकभागरूपं तिथ्यर्कमिममच्युतप्रन्थमालायां संग्रथ्य सर्वसुलभता नयन्तो वयं भृशं मोदामहे। तिथ्यर्केऽस्मिन् प्रतिपदमारभ्य पौर्णमासीपर्यन्तं सामान्येन विशेषेण च निखिलास्तिथयो निर्णीताः । तेषु विहितं कृत्यं च संक्षेपेयोपवर्णितम् । अयमस्त्यत्र विशेषो यत्प्रतिपनिर्णये समुपक्रान्ते चैत्रशुक्लादयश्चैत्रकृष्णान्ता अब्दभवाः सकलाः प्रतिपदो विषयान्तरव्यवधानमन्तरेण निर्णीताः । एवं सर्वा द्वितीयातृतीयाचतुादयश्चेति। तिथिनिर्णयान्ते इष्टिकाल-ग्रहण-पत्त-मास-मलमास-संवत्सर-कलिवर्य-वर्षवृद्धि-दर्शश्राद्धादयो भृशमपेक्षिता विषया अपि सुस्पष्टतया निर्णीताः। तिथ्यर्केति प्रन्थस्यास्य नूनमन्वर्थ नाम । तिथीनामर्कवत्प्रकाशके केवलेऽप्यस्मिन् प्रन्थेऽवगते तिथिविषयको लेशतोऽपि नादेति सन्देहः ।
श्रीबालकृष्णात्मजसूनुनिर्मिता
वर्षे खवेदाश्वहिमांशुसंयुते । कृतिं विलोक्याऽखिलकालनिर्णय
___ निःशङ्कमाशंसतु पण्डितो जनः ॥ इति वदता ग्रन्थकतापि निरूपितो प्रन्थस्यास्य महिमा। बहुलमर्थमादधानः संक्षिप्तोऽप्ययं प्रन्थः प्रन्थकारस्य रचनाकौशलमनुमापयति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com