SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ १४ तिथ्यर्कः ____ अथ संक्षेपेण नवरात्रकृत्यम् । तत्रादी कई नियमा देवीपुराणे "कन्यासंस्थे रवौ शक्र ! शुक्लामारभ्य नन्दिकाम् । अयाची त्वथ चैकाशी नक्ताशी वाथ वाय्वदः ।। प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः । जपहोमसमायुक्तः कन्यकां भाजयेन्मुदा ॥" नन्दिको प्रतिपदम् । ननु नन्दिकापदेन पष्ठ्येव गृह्यतामिति चेत्, न; तद्ग्रहणे सति नवरात्रत्वव्याघातापत्तेः। शिवा च शिवश्व शिवा तयोः पूजकः शिवपूजकः। कलशस्थापनप्रकारो यामले "शुभाभिमृत्तिकाभिश्च पूर्वे कृत्वा तु वेदिकाम् । यवान्नं वापयेत्तत्र गोधूमैश्चापि संयुतम् ॥ तत्र संस्थापयेत्कुम्भं विधिना मन्त्रपूर्वकम् । सौवर्ण राजत वापि ताम्र मृण्मयजं तु वा ॥" इति । इदं च कुम्भस्थापनं देवीप्रतिमापूजार्थम्, 'पूज्या मण्डलकुम्भस्था' इति देवीपुराणात् । प्रतिमा च हेमादिमयी। तदुक्तं देवीपुराणे-- . "हेमराजतमृद्धातु शैलचित्राप्तिापि वा । खड्ग शूलेऽर्चिता देवी सर्वकामफलप्रदा ॥इति । प्रतिमालक्षणश्च-'चतुर्भुजा महिषारूढा' इत्यादिकं समयमयूखे द्रष्टव्यम् । वेदिकापरिमाणं भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy