________________
१४
तिथ्यर्कः ____ अथ संक्षेपेण नवरात्रकृत्यम् । तत्रादी कई नियमा देवीपुराणे
"कन्यासंस्थे रवौ शक्र ! शुक्लामारभ्य नन्दिकाम् । अयाची त्वथ चैकाशी नक्ताशी वाथ वाय्वदः ।। प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः ।
जपहोमसमायुक्तः कन्यकां भाजयेन्मुदा ॥" नन्दिको प्रतिपदम् । ननु नन्दिकापदेन पष्ठ्येव गृह्यतामिति चेत्, न; तद्ग्रहणे सति नवरात्रत्वव्याघातापत्तेः। शिवा च शिवश्व शिवा तयोः पूजकः शिवपूजकः। कलशस्थापनप्रकारो यामले
"शुभाभिमृत्तिकाभिश्च पूर्वे कृत्वा तु वेदिकाम् । यवान्नं वापयेत्तत्र गोधूमैश्चापि संयुतम् ॥ तत्र संस्थापयेत्कुम्भं विधिना मन्त्रपूर्वकम् ।
सौवर्ण राजत वापि ताम्र मृण्मयजं तु वा ॥" इति । इदं च कुम्भस्थापनं देवीप्रतिमापूजार्थम्,
'पूज्या मण्डलकुम्भस्था' इति देवीपुराणात् । प्रतिमा च हेमादिमयी। तदुक्तं देवीपुराणे-- .
"हेमराजतमृद्धातु शैलचित्राप्तिापि वा ।
खड्ग शूलेऽर्चिता देवी सर्वकामफलप्रदा ॥इति । प्रतिमालक्षणश्च-'चतुर्भुजा महिषारूढा' इत्यादिकं समयमयूखे द्रष्टव्यम् । वेदिकापरिमाणं भविष्ये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com