Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
Catalog link: https://jainqq.org/explore/006194/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् डॉ. कपिलदेव द्विवेदी 000000.0.0.0.0 bodod Poboc bobog boc Page #2 -------------------------------------------------------------------------- ________________ संस्कृत-निबन्ध-शतकम् ( विश्वविद्यालयस्तरीयाः प्रौढाः प्रबन्धाः ) लेखक डॉ० कपिलदेव द्विवेदी आचार्य एम०ए० (संस्कृत, हिन्दी ), एम० ओ० एल०, डी० फिल० (प्रयाग), पी०ई०एस० . विद्याभास्कर, साहित्यरत्न, व्याकरणाचार्य, संचालक, विश्वभारती अनुसंधान परिषद्, ज्ञानपुर (वाराणसी) । प्रणेता - 'अर्थविज्ञान और व्याकरणदर्शन' ( उ०प्र० शासन द्वारा संमानित पुस्तक), 'अथर्ववेदकालीन संस्कृति', 'प्रौढ - रचनानुवादकौमुदी', 'संस्कृत - व्याकरण', 'संस्कृत भाषाविज्ञान एवं भाषाशास्त्र' आदि । | विश्वविद्यालय प्रकाशन, वाराणसी Page #3 -------------------------------------------------------------------------- ________________ Sanskrit Nibandh Shatakam by Dr. K.D. Dwivedi Second Edition, 1980 2200 Copies प्रकाशक विश्वविद्यालय प्रकाशन, चौक, वाराणसी-१ मुद्रक शीला प्रिण्टर्स लहरतारा, वाराणसी Page #4 -------------------------------------------------------------------------- ________________ समर्पणम् श्रद्धाविश्वास-रूपिण्याः, ब्रह्मसायुज्यमुपगतायाः, प्रेरणा-स्रोतःस्वरूपायाः, मानसैकललितायाः, देव्याः, 'श्रीमती ओमशान्ति-द्विवेदी'-ति ख्यातायाः पादारविन्दे श्रद्धाञ्जलि-रूपेण समप्यते कृतिरियम् । धाः । श्रद्धा-शान्ति-विवेक-भक्ति-सुधया बिभ्रत् सुधांशोः प्रभाम्, स्नेहौदार्य-दया-विभाऽत्मविभवैर्देदीप्यमानात्मधीः व्यद्योतिष्ट प्रभोच्चयेन भुवने या भानुवद् भास्वरा, तस्यै साधु समर्प्यते कृतिरियं स्नेह-प्रणुन्नात्मना ॥ कपिलदेव द्विवेदी आचार्यः Page #5 --------------------------------------------------------------------------  Page #6 -------------------------------------------------------------------------- ________________ निबन्धानुक्रमः - पृष्ठाङ्काः निबन्ध-संख्या विषयाः (१) वैदिकाः शास्त्रीयाश्च निबन्धाः १. वेदानां महत्त्वम् क. वेदोऽखिलो धर्ममूलम् २. वेदाङ्गानां महत्त्वम् ___ क. षडङ्गो वेदोऽध्येयो ज्ञेयश्च ३. मुखं व्याकरणं स्मृतम् क. तेषां हि सामय॑जुषां पवित्रं महर्षयो व्याकरणं निराहुः ४. उपनिषदां महत्त्वम् क. सर्वोपनिषदो गाव:० ५. गीता सुगीता कर्तव्या क. दुग्धं गीतामृतं महत् ६. रम्या रामायणी कथा क. आदिकविर्वाल्मीकिः ख. वन्दे वाल्मीकि-कोकिलम् ७. भारतं पञ्चमो वेदः . क. यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ख. महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते ८. पुराणं पञ्चलक्षणम् । क. पुराणं दशलक्षणम् ९. पुराणानां महत्त्वम् क. इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् १०. विद्यावतां भागवते परीक्षा (२) दार्शनिका निबन्धाः ११. भारतीयदर्शनानां महत्त्वं वैशिष्ट्यं च १२. कर्मण्येवाधिकारस्ते० __क. कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः १३. नास्ति सांख्यसमं ज्ञानम् . क. सांख्याभिमत-तत्त्वमीमांसा १४. एकं सांख्यं च योगं च यः पश्यति स पश्यति क. सांख्ययोगयोः साम्यं वैषम्यं च Page #7 -------------------------------------------------------------------------- ________________ निबन्ध - संख्या १५. नास्ति योगसमं बलम् क. योग-तत्त्वमीमांसा १६. ब्रह्म सत्यं जगन्मिथ्या क. सर्वं खल्विदं ब्रह्म ( ६ ) विषया: (३) काव्यशास्त्रीया निबन्धाः १७. वाक्यं रसात्मकं काव्यम् क. काव्यलक्षणम् १८. वक्रोक्तिः काव्यजीवितम् क. काव्यं हि वक्रोक्तिप्रधानम् १९. रीतिरात्मा काव्यस्य २०. काव्यस्यात्मा ध्वनिः क. ध्वनिसिद्धान्तः २१. विभावानुभाव-व्यभिचारि-संयोगाद् रसनिष्पत्तिः क. रस-सिद्धान्तः ख. रसो, वे सः २२. वैदर्भी ललितक्रमा क. समग्रगुणा वैदर्भी २३. शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते २४. काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते क. अलंकार - संप्रदायः २५. सत्यं शिवं सुन्दरम् २६. एको रसः करुण एव २७. शब्दशक्तयः ( ४ ) साहित्यिका निबन्धाः २८. कालिदास्य सर्वस्वमभिज्ञानशाकुन्तलम् क. नाटकेषु शकुन्तला २९. उपमा कालिदासस्य ३०. भारवेरथंगौरवम् ३१. दण्डिनः पदलालित्यम् ३२. माघे सन्ति त्रयो गुणाः क. मेघे माघे गतं वयः क. नारिकेलफलसंमितं वचो भारवेः पृष्ठाङ्काः ५१ ५४ ५७ ६१ ६४ ६७ ७१ ७५ ७७ ७९ ८२ ८५ ८९ ९३ ९८ १०३ - १०८ ११२ Page #8 -------------------------------------------------------------------------- ________________ निबन्ध - संख्या ३३. नैषधं विद्वदोषधम् क. नैषधे पदलालित्यम् . ख. उदिते नेषधे काव्ये क्व माघः क्व च भारविः ३४. कारुण्यं भवभूतिरेव तनुते ( ७ ) विषयाः क. उत्तरे रामचरिते भवभूतिर्विशिष्यते ३५. काव्येषु नाटकं रम्यम् ३६. गद्यं कवीनां निकषं वदन्ति क. ओजः समासभूयस्त्वमेतद् गद्यस्य जीवितम् ३७. बाणोच्छिष्टं जगत्सर्वम् क. पञ्चबाणस्तु बाणः ख. बाणः कवीनामिह चक्रवर्ती ग. वाणी बाणो बभूव ह घ. कादम्बरी - रसज्ञानाम् आहारोऽपि न रोचते ३८. संस्कृत-साहित्ये गद्यस्य विकास्त्र: क. गद्यकाव्य-परम्परा ३९. नाटकोत्पत्ति-विषयका वादा: क. नाट्योत्पत्ति- समीक्षा ४०. अपारे काव्यसंसारे कविरेव प्रजापतिः क. भारती कवेर्जयति ख. इदमेव तत्कवित्वं यद् वाचः सर्वतोदिक्काः ग. गिरः कवीनां जीवन्ति न कथामात्रमाश्रिताः ४१. कविकुलगुरुः कालिदासो विलासः क. क इह रघुकारे न रमते ख. मेघे माघे गतं वयः ४२. भासनाटकचक्रम् क. भासो हासः ख. सूत्रधारकृतारम्भः भासो देवकुलेरिव (५) भाषावैज्ञानिका निबन्धाः ४३. भारतीयानां भाषाविज्ञाने योगदानम् ४४. भाषोत्पत्ति-विषयका वादा: ४५. अर्थविज्ञानम् क. अर्थविकास: ख. शब्दार्थविज्ञानम् पृष्ठाङ्काः ११७ १२१ १२६ १२९ १३२ १३७ १४० १४३ १४७ १५१ १५५ १५९ १६४ Page #9 -------------------------------------------------------------------------- ________________ पृष्ठाङ्काः १६७ १७० १७६ १४ १८९ (6) निबन्ध-संख्या विषयाः ४६. वैदिक-लौकिक-संस्कृतयोः साम्यं वैषम्यं च ___क. वैदिकसंस्कृत-लौकिकसंस्कृतयोस्तुलना ४७. संस्कृत-प्राकृतभाषयोः साधम्यं वैधयं च (६) सांस्कृतिका निबन्धाः ४८. वैदिकी संस्कृतिः ४९. भारतीया संस्कृतिः क. भारतीयसंस्कृतेर्मूलतत्त्वानि ५०. संस्कृतिः संस्कृताश्रया क. संस्कृतं भारतीय-संस्कृतिश्च ख. संस्कृतं भारतीयसंस्कृतेर्मूलमाधत्ते ५१. भारतीयसंस्कृतौ नारीणां स्थानम् क. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ख. भारतीयसमाजे महिलानां गौरवम् ५२. नहि सत्यात् परो धर्मः क. सत्यमेव जयते नानृतम् ख. सत्ये सर्व प्रतिष्ठितम् ५३. अहिंसा परमो धर्मः ५४. यतो धर्मस्ततो जयः क. धर्मो रक्षति रक्षितः ख. धर्मो धारयते प्रजाः ग. धारणाद् धर्म इत्याहुः घ. धर्मेण हीनाः पशुभिः समानाः ङ. न धर्मात् परमं मित्रम् च. न च धर्मो दयापरः छ. न धर्मवृद्धेषु वयः समीक्ष्यते ज. धर्मस्य त्वरिता गतिः झ. धर्मः स नो यत्र न सत्यमस्ति ५५. परोपकाराय सतां विभूतयः ५६. आचारः परमो धर्मः क. शीलं परं भूषणम् ख. वृत्तं यत्नेन संरक्षेत् ग. सुवृत्तैरेव शोभन्ते प्रबन्धाः सज्जना इव घ. सदाचारः १९४ Page #10 -------------------------------------------------------------------------- ________________ पृष्ठाङ्काः २ * * * निबन्ध-संख्या विषयाः (७) सामाजिका निबन्धाः ५७. स्त्रीशिक्षाया आवश्यकतोपयोगिता च ५८. विज्ञानस्य लाभा दोषाश्च ५९. चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः . क. वर्ण-व्यवस्था ख. जातिप्रथाया दोषाः ६०. महर्षिर्दयानन्दः ____ क. दयानन्द-गुण-गौरवम् ६१. महात्मा गान्धिः (८) आर्थिका निबन्धाः ६२. कुटीरोद्योगः ( Cottage Industry ) ६३. सहकारितान्दोलनम् ( Cooperative Movement ) ६४. परिवार नियोजनम् ( Family Planning ) (९) राष्ट्रिया निबन्धाः ६५. पञ्चवर्षीय-योजनाः ( Five-year Plans ) ६६. जनतन्त्रवादः ( Democracy ) क. लोकतन्त्रशासनपद्धतिः ख. प्रजातन्त्रशासनविधिः ग. सर्वेषां राजतन्त्राणां लोकतन्त्रं विशिष्यते ६७. समाजवादः ( Socialism ) ६८. साम्यवादः ( Communism) ६९. विश्वशान्तेरुपायाः ७०. छात्राणां राजनीती प्रवेशः . क. छात्रा राजनीतिश्च ७१: वसुधैव कुटुम्बकम् क. विश्वबन्धुत्वम् ख. विश्वधर्मः ७२. देशभक्तिः क. भारतमहिमा __ ख. धन्या भारतभूः प्रकामवसुधा प्रत्ना च तत्संस्कृतिः (१०) शैक्षिका निबन्धाः ७३. संस्कृतभाषाया महत्त्वम् २२३ • २२६ २३० २३७ २३९ . ३ Page #11 -------------------------------------------------------------------------- ________________ निबन्ध - संख्या क. भारते भातु भारती ख. भाषासु मधुरा मुख्या दिव्या गीर्वाणभारती ग. संस्कृताध्ययनस्य मुख्य प्रयोजनानि ७४. संस्कृतस्य रक्षार्थं प्रसारार्थं चोपायाः ७५. भारतीय शिक्षापद्धती अपेक्षिताः परिष्काराः क. भारतीयशिक्षापद्धत्या गुणदोषविमर्श: ७६. शिक्षा मनोविज्ञानम् ( Educational Psychology ) क. शिक्षा-दर्शनम् ख. शिक्षाया उद्देश्यम् ७७. अभिनवभारते संस्कृतम् क. भारतीयभाषासु संस्कृतस्य योगदानम् ख. संस्कृतसाहित्यं तत्प्रवृत्तयश्च ग. संस्कृतं राष्ट्रभाषा भवितुमर्हति ७८. त्रिभाषासूत्रं संस्कृतं च ( १० ) विषया: क. शिक्षाक्रमे संस्कृतस्य स्थानम् ७९. अनुशासन - समस्या क. शिक्षार्थिषु निरङ्कुशत्वम्, तन्निरोधोपायाश्च ८०. आचार्यदेवो भव क. आचार्यो ब्रह्मणो मूर्तिः ख. गुरुपूजा ( ११ ) प्रकीर्णा निबन्धाः ८१. ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः क. मुहूर्तं ज्वलितं श्रेयो न च धूमायितं चिरम् ८२. नालम्बते दैष्टिकतां न निषीदति पौरुषे । शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥ क. दिष्टं पौरुषं च ख. भाग्यवादः पुरुषार्थवादश्च ग. सर्वकषा भगवती भवितव्यतेव घ. अनतिक्रमणीय विधिः ङ. यदभावि न तद्भावि च. शिरसि लिखितं लङ्घयति कः ८३, आशा बलवती राजन् शल्यो जेष्यति पाण्डवान् क. आशा हि परमं ज्योतिः पृष्ठाङ्काः २४८ २५० २५३ २५७ २६० २६२ २६५ २६८ २७१ २७४ Page #12 -------------------------------------------------------------------------- ________________ पृष्ठाकाः ( ११ ) निबन्ध-संख्या विषयाः ८४. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी क. मातृदेवो भव ख. माता भूमिः पुत्रो अहं पृथिव्याः ८५. संघे शक्तिः कलौ युगे क. संहतिः श्रेयसी पुंसाम् ८६. चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च क. कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा ख. नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ग. पतनान्ताः समुच्छ्रयाः घ. चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः ८७. आर्जवं हि कुटिलेषु न नीतिः क. शठे शाठ्यं समाचरेत् ख. मायाचारो मायया वर्तितव्यः ग. मृदुर्हि परिभूयते ८८. धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुत्तमम् क. शरीरमाद्यं खलु धर्मसाधनम् ख. आरोग्यम् ८९. उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः क. नास्त्युद्यमसमो बन्धुः ख. क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ग. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ९०. उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । क. मन एव मनुष्याणां कारणं बन्धमोक्षयोः ९१. योगः कर्मसु कौशलम् क. कर्मण्येवाधिकारस्ते ख. कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ९२. गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः क. गुणैर्गौरवमायाति न महत्यापि संपदा ख. गुरुतां नयन्ति हि गुणा न संहतिः ग. तेजसां हि न वयः समीक्ष्यते घ. योऽनूचानः स नो महान् ९३. सहसा विदधीत न क्रियाम् ९४. चिन्ताविषघ्नं रसायनम् Page #13 -------------------------------------------------------------------------- ________________ ( १२ ) विषयाः निबन्ध - संख्या क. नास्ति चिन्तासमो व्याधिः ९५. विद्याधनं सर्वधनप्रधानम् क. विद्वान् सर्वत्र पूज्यते ख. ऋते ज्ञानान्न मुक्ति: ग. विद्याविहीनः पशुः घ. विद्या परं दैवतम् ङ. किं किं न साधयति कल्पलतेव विद्या च. नहि ज्ञानेन सदृशं पवित्रमिह विद्यते छ. यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ज. सा विद्या या विमुक्तये ९६. सत्संगतिः कथय किं न करोति पुंसाम् क. सतां सद्भिः संगः कथमपि हि पुण्येन भवति ख. संसर्गजा दोषगुणा भवन्ति ग. सतां संगो हि भेषजम् घ. सतां हि संगः सकलं प्रसूयते ङ. संगः सतां किमु न मङ्गलमातनोति ९७. सर्वे गुणाः काञ्चनमाश्रयन्ते क. हिरण्यमेवार्जय निष्फला गुणाः ख. धनान्यर्जयध्वं धनान्यर्जयध्वम् ९८. त्याज्यं न धैर्यं विधुरेऽपि काले ९९. न निश्चितार्थाद् विरमन्ति धीराः क. न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ख. साहसे श्रीर्वसति ग. मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् १००. पुराणमित्येव न साधु सर्वम् क. क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः पृष्ठाङ्काः ३०८ ३११ ३१४ ३१७ ३१९ ३२२ Page #14 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् ग्रन्थ-रचनाया उद्देश्यम्-सर्वप्रथमम् अनुयोगोऽयं विचारचर्चाम् आरोहति यत् सत्सु दशाधिकेषु संस्कृत-निबन्ध-ग्रन्थेषु का नाम आवश्यकता नूतनस्य संस्कृत-निबन्ध-ग्रन्थस्य ? यदि याथातथ्येन विविच्यते तहि सुतरां स्फुटमेतद् आपद्यते यत् सन्ति केचन निबन्धग्रन्थाः लघुकलेवराः, अन्ये महाकायाश्च । केचन लघोयांसः, अन्ये च महीयांसः । केचन परिष्कृताः, अन्ये च विविधदोषबहुलाः केचन वाग्वैदग्ध्यप्रधानाः पाण्डित्यप्रदर्शनप्रवणाः, शास्त्रीयपद्धतिसमाश्रयणकरसिकाः, दुर्बोधाः, अहृदयङ्गमाश्च, अन्ये तु अनावश्यक-विस्तारबहुलाः, अपरिष्कृत-भाव-भाषोपेताः, मुद्रणादिदोषसंवलिताः, दुरास्वाद्याश्च । दशहायनपूर्वं मया याऽऽवश्यकता अन्वभूयत प्रौढस्य विश्वविद्यालय-स्तरीयस्य समीक्षात्मकस्य संस्कृत-निबन्ध-ग्रन्थस्य, सा रचनयाऽनया पूर्तिमुपैतीति न केवलं मामकं स्वान्तम्, अपि तु समेषां सचेतसां विपश्चितामपि मुदम् आवक्ष्यतीति मे निश्चितं मतम् । निबन्धरचनायां के गुणा विशेषतः समावेश्या इति विचारे निश्चप्रचं मे मतिरुदेति यद् नवीनेषु निबन्धग्रन्थेषु विविधविषयावगाहि ज्ञानं संगृह्येत, गीर्वाणवाण्यास्तत्र तथाविधं स्वरूपम् उपस्थाप्येत यथा देववाण्यां विदुषाम् अभिरुचिर्वर्धेत, तादृशी भाषा प्रयुज्येत या सारल्येन हृदयङ्गमा स्यात्, विषयविवेचनं तथा प्रस्तूयेत यथा ज्ञानसंवर्धनेन सममेव प्रामाणिकी सामग्रीमपि समुपस्थापयेत् । तत्र पाण्डित्यप्रदर्शनं निरस्य, दार्शनिकी भाषाशैलीम् अननुरुध्य, अनर्थकं वाग्जालं परिहाय, अनपेक्षितम् अपास्य, परिष्कृतया भाषया, प्राञ्जलया शैल्या, हृदयंगमया भावाभिव्यक्तिप्रक्रियया, मनोज्ञया साधिष्ठया प्रेष्ठया च विवृत्या विषयप्रतिपादनं स्यात् ।। पूर्वोक्त-वैशिष्टयं संग्रहीतुकामेन मयाऽत्र तादृशी शैली समाश्रिता यया प्रतिपदं प्रतिपलं गीर्वाणवाण्या अध्ययने पठने अनुशीलने व्यवहारे च न केवलं संस्कृतानुरागिणां सुधियामेव प्रवृत्तिः स्यात्, अपि तु सामान्यधियाम् अल्पधियां चापि जिज्ञासूनाम् अभिरुचिः प्रवर्धेत । ___ग्रन्थस्य शैली-ग्रन्थेऽस्मिन् कतिपये विशेषा अपि समभिनिवेशिताः । इंग्लिश्-जर्मन-फ्रेंच-भाषादिषु निबन्ध-विषये नव्या वैज्ञानिकी शैली समाश्रीयते। तत्र न केवलं साधीयसी भाषैव महत्त्वम् आश्रयते, अपि तु विषय-प्रतिपादनं तथा सयुक्तिकं सुव्यवस्थितं प्रामाणिक-सामग्री-संकलितं स्यात्, यथा विषयविवृतिः सर्वाङ्गीणा हृद्या च स्यात् । सैव वैज्ञानिकी शैली ग्रन्थेऽस्मिन् अपि समाश्रिता प्रयुक्ता च । विषय-विवेचने भारतीयानां पाश्चात्त्यानां च विपश्चितां तत्र तत्र किम् अभिप्रेतमित्यपि साधु उपन्यस्तम् । तत्र पाण्डित्यप्रदर्शनं व्युदस्य, Page #15 -------------------------------------------------------------------------- ________________ अनुपयोगि विवरणं निरस्य, वाग्जालं परिहृत्य, साधिष्ठया विवृत्या विषयप्रतिपादनं व्यधायि । भाषा सुरुचिरा, प्रौढा, परिष्कृता, मनोज्ञा स्यादिति प्रतिपदं प्रयत्न आस्थितः। शास्त्रीयेषु विषयेषु शास्त्रीया शैली समाश्रिता । विषयप्रतिपादनं शास्त्रीयया पद्धत्या व्यधायि । विषयावबोधः सारल्येन स्यादिति यथाशक्ति प्रयतितम् । सामाजिका राष्ट्रिया आर्थिकादिविषयका निबन्धा युक्ति-प्रमाण-पुरःसरं प्रामाणिक-सामग्री-संकलनसमवेता उपन्यस्ताः । भाषा-ग्रन्थेऽस्मिन् संस्कृतभाषायाः परिष्कृतं स्वरूपम् उपन्यस्तम् । भाषा नातिकठिना, नातिसरला, नातिपाण्डित्यप्रदर्शनपरा, न दुरवबोधा, न दुर्गाह्या, न भावबोधनसामर्थ्यरहिता, न निःसारा, न च पादपू]कदृशा प्रयुक्ता । परिष्कृत्या सममेव अर्थगाम्भीर्यम्, रुचिरपदावली-संकलनम्, माधुर्यम्, प्राञ्जलत्वं च संगृहीतं स्यादिति प्रतिपदं प्रायत्यत । क्वचिद् लोकप्रयोगम् आश्रित्य सत्यपि शुद्ध राष्ट्रिय-शब्दे ( राष्ट्रावारपाराद् घखो, अ०४-२-९३, इति घइय-प्रत्ययः), राष्ट्रीयशब्दोऽपि (वृद्धाच्छः, अ०४-२-११४ इति छ-ईय-प्रत्ययः) बहुधा प्रयुक्तः । एवमेव अर्थवेशद्यम् आश्रित्य-पूंजीवादः ( Capitalism ), पंजीवादिनः ( Capitalists ) इत्यादयः शब्दा अपि यथास्थानं प्रयुक्ताः । एवमेव विविधस्थलेषु नव-भावावबोधनार्थं वैज्ञानिकाः प्रचुरप्रयोगाश्च शब्दाः एटमबम-कार-रेडियो - ट्रान्ज़िस्टर-टैंक-सबमैरीन-राडार - राकेट-एक्सरे-अल्ट्रावायोलेट रेज़-कैमरा-ग्रामोफोन-रोटरी मशीन-टाइपराइटर-टेपरिकार्डर-साइक्लोस्टाइल मशीन-स्कूटर-लप-प्रभृतयो यत्र तत्र संस्कृतीकरणम् अनाश्रित्य प्रयुक्ताः। ते विद्वद्भिर्लोकधर्म युगधर्म चान्वीक्ष्य न विप्रतिपत्तव्याः।। भाषा-विषये इदं चापरं वक्तव्यं यत् क्वचित् क्वचिद् अर्थस्पष्टीकरणम् आश्रित्य सति संभवेऽपि सन्धि-समाश्रयणे न अनिवार्यतः सन्धिप्रयोगो विहितः । यत्र कृतेऽपि सन्धौ नार्थावगमे काठिन्यं तत्र सन्धिर्विहितः । अर्थावबोधे काठिन्ये सति सन्धिपरिहारो विहितः । । प्रतिपाद्या विषयाः-निबन्धानां विषय-संग्रहे काचिद् नवीनताऽत्र परिलक्षिष्यते । संस्कृते प्रचलिताः शास्त्रीयाः साहित्यिकाः प्रकीर्णाश्च विषयाः समेषामेव दृग्गोचरताम् उपयान्ति, परम् अद्यत्वे न प्राचीना एव विषयाः पर्याप्ताः । आधुनिका अपि विषयाः सर्वत्र जिज्ञासाविषयाः परीक्षाविषयाश्च । तद्यथा-पञ्चवर्षीया योजनाः, कुटीरोद्योगः, सहकारितान्दोलनम्, परिवारनियोजनम्, जनतन्त्रम्, समाजवादः, साम्यवादः, विश्वशान्तेरुपायाः, छात्राणां राजनीतौ प्रवेशः, भारतीयानां भाषाविज्ञाने योगदानम्, भाषोत्पत्तिविषयका वादाः, विज्ञानस्य लाभा दोषाश्च, भारतीय-शिक्षापद्धती अपेक्षिताः परिष्कासः, अभिनवभारते संस्कृतम्, अनुशासन-समस्या, त्रिभाषासूत्रं संस्कृतं च, इत्यादयः। एवं स्फुटमेतद् विज्ञायते यद् यथैव शास्त्रीयाणां विषयाणां महत्त्वं Page #16 -------------------------------------------------------------------------- ________________ ( १५ ) तथैव प्रचलितानामपि विषायाणां गौरवास्पदत्वम् । एतद् अवधार्यैव एकादशवर्गेषु -निबन्धशतकं विभाजितम् । शास्त्रीय-विषयैः सहैव सामाजिकाः, आर्थिकाः, राष्टीयाः, शैक्षिकाः, सांस्कृतिकाश्च विषया विवेचिताः व्याख्याताश्च । वर्गभेदम् आश्रित्य विवेचितानां विषयाणां संख्या अधोविन्यस्तरूपेण विद्यते-(१) वैदिकाः शास्त्रीयाश्च निबन्धाः-१०; (२) दार्शनिका निबन्धाः-६; (३) काव्यशास्त्रीया निबन्धाः-११; (४) साहित्यिका निबन्धाः-१५; (५) भाषावैज्ञानिका निबन्धाः-५; (६) सांस्कृतिका निबन्धाः-९; (७) सामाजिका निबन्धाः-५; (८) आर्थिका निबन्धाः-३; (९) राष्ट्रीया निबन्धाः-८; (१०) शैक्षिका निबन्धाः -८; (११) प्रकीर्णा निबन्धाः-२० । एवं व्याख्यातानां विषयाणां महत्त्वं स्वयमेव अवधारयितुं पार्यते। विषयाणां प्रतिपादने सर्वत्रैव प्रामाणिकी सामग्री संकलिता वर्तते । यत्र मन्त्रादिकं पद्यादिकं वा उध्रियते तत्र तस्य प्रामाणिकः सन्दर्भोऽपि प्रस्तूयते। ग्रन्थस्य वैशिष्टयम्-ग्रन्थस्यास्य केचन विशेषाः सन्ति, तेऽत्र समासत उपस्थाप्यन्ते:(१) शास्त्रीयाणां वैज्ञानिकानां लौकिकानां च विषयाणां संग्रहः । (२) सरल-सरस-ललित-परिष्कृत-प्राञ्जल-भाषाप्रयोगः। ( ३ ) पाण्डित्य-प्रदर्शन-निरसन-पुरःसरं मनोज्ञा भावाभिव्यक्तिप्रक्रिया, वैज्ञा निकी विश्लेषण-पद्धतिश्च । (४) शास्त्रीयविषयैः सहैव राष्ट्रिय-सांस्कृतिक-सामाजिक-आर्थिक-शैक्षिकादि विषयाणां विवेचनं विश्लेषणं च । (५) विषयप्रतिपादने वैज्ञानिक्या नवीनतमशैल्याः समाश्रयणम् ।। ( ६ ) तत्तद्विषयविवेचने प्रामाणिक-सामग्री-संकलनम्, प्रामाणिकः सन्दर्भ निर्देशश्च । (७) विश्वविद्यालय-स्तरीय-निबन्धानां प्रामाणिकः संग्रहः। (८) संस्कृतानुरागिणां परीक्षादित्सूनां चानुपमो निधिः । (९) धारावाहिक-भाषा-प्रयोगः, भाषा-काठिन्यापनोदनं च । (१०) राष्ट्रिय-सामाजिक-आर्थिकादि-विषय-विवेचने प्रामाणिक-सामग्री-संकल नम् । तद्विषये भारतीय-पाश्चात्त्यादिविदुषां मतप्रकाशनम् । . (११) शैक्षिकादिविषयेषु, विवादास्पदेषु च केषुचिद् विषयेषु याथातथ्यतो विषयविवेचनं स्वमतप्रकाशनं च । स्थूलाक्षरोपयोगेन मुद्रण-सौन्दर्यम्, स्फुटा भावाभिव्यक्तिः, मुद्रण-त्रुट्यभावः, लोकोपयोगित्वं च। (१२) Page #17 -------------------------------------------------------------------------- ________________ कृतज्ञता-प्रकाशनम्-ग्रन्थस्यास्य प्रकाशने प्रेरणास्रोतःस्वरूपा, दिवंगताऽपि भूमण्डलव्यापिनी श्रीमती ओमशान्ति द्विवेदी सततं संस्मर्यते । कुमारी भारती द्विवेदी, भारतेन्दुः द्विवेदी, धर्मेन्दु: द्विवेदी च सामग्री-संकलनादिषु साहाय्यम् आचरितवन्तः, तदर्थम् आशीर्वादभाजः । कुमारी प्रतिभा द्विवेदी, ज्ञानेन्दुः द्विवेदी, विश्वेन्दुः द्विवेदी, आर्येन्दुः द्विवेदी च कार्यस्यास्य निर्विघ्नं परिसमाप्त्यर्थम् आशीर्वादभाजः । प्रकाशकः श्रीपुरुषोत्तमदास मोदी एम० ए० मुद्रणव्यवस्थार्थम् अनवरतप्रेरणाप्रदानाथं च धन्यवादम् अर्हति । .. उपसंहारः-'आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम्' ( शाकु० १-२) इति कालिदासभणितिम् अनुसृत्य विद्वत्परितोष एव मे परितोषविषयः। ग्रन्थान्तर्गताः त्रुटयः, संशोधन-परिवर्तन-परिवर्धनादिविचाराश्च कृतज्ञता-पुरःसरं स्वीकरिष्यन्ते। संस्कृतानुरागिणां छात्राणां समुत्कर्षः साफल्यं चेद् ग्रन्थेनतेन संपाद्यते तर्हि श्रमो मे फलेग्रहिः। एतदभिधाय विरम्यते यत् पुराणमित्येव न साधु सर्व, न चापि किंचिन्नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद् भजन्ते, मूढः परप्रत्ययनेयबुद्धिः॥ शान्तिनिकेतन, ज्ञानपुर ( वाराणसी) ) ज्येष्ठ पूर्णिमा कपिलदेवो द्विवेदी दिनांक-२३-६-७५ ई० द्वितीयं संस्करणम् हर्षावहोऽयं विषयो यद् विद्वद्भिः संस्कृतानुरागिभिश्च छात्रः ग्रन्थोऽयं समाहृतः । अल्पीयसैव कालेन ग्रन्थस्यास्य प्रथमसंस्करणस्य समाप्तिः संसूचयति लोकप्रियताम् । तदर्थ विद्वासः संस्कृतानुरागिणः छात्राश्च सुतरां धन्यवादार्हाः । द्वितीयेऽस्मिन् संस्करणे आवश्यक-सामग्री-संवर्धनम्, अपेक्षितं परिवर्तनं परिवर्धनं संशोधनं च विहितम् । आशासे परिवर्धनादि-समन्वितं संस्करणमिदं समेषामपि मुदम् आवक्ष्यतीति । शान्तिनिकेतन, ज्ञानपुर (वाराणसी) ) मकर-संक्रान्तिः, २०३६ वि० कपिलदेवो द्विवेदी दिनांक-१४-१-८० ई० Page #18 -------------------------------------------------------------------------- ________________ १. वेदानां महत्त्वम् (वेदोऽखिलो धर्ममूलम् ) वेदशब्दार्थः–'विद ज्ञाने' इति ज्ञानार्थकाद् विद्धातोपनि प्रत्यये कृते वेद इति रूपं निष्पद्यते । एवं वेदशब्दो ज्ञानार्थकः । ज्ञानराशिर्वेद इति वक्तं शक्यते। विद सत्तायाम्, विद विचारणे, विद्लु लाभे, विद् चेतनाख्याननिवासेषु इति धातुभ्योऽपि घनि वेदरूपं निष्पद्यते । वेदा ज्ञानराशित्वात् शाश्वतस्थायिनः, ज्ञाननिधयः, मानवहितप्रापकाः, मनुज-कर्तव्य-बोधका इति विविधधात्वर्थग्रहणाद् ज्ञायते। वेदानां वेशिष्टयम-वेदार्थानुशीलनाद् ज्ञायते यद् वेदा हि विविधज्ञानविज्ञान-राशयः, संस्कृतेराधाररूपाः, कर्तव्याकर्तव्यावबोधकाः शुभाशुभनिदर्शकाः, जीवनस्योन्नायकाः, विश्वहितसंपादकाः, आचार-संचारकाः, सुखशान्तिसाधकाः, ज्ञानालोकप्रसारकाः, सत्यतायाः सरणयः कलाकलापप्रेरकाः, आशाया आश्रयाः, नैराश्य-विनाशकाः, चतुर्वर्गावाप्तिसोपानस्वरूपाश्च सन्ति । ___ वेदानां महत्त्वविचारचिन्तायां कतिपयेऽनुयोगाः पुरतोऽवतिष्ठन्ते । कति वेदाः ? किं वेदानां महत्त्वम् ? किं वेदानां वेदत्वम् ? किं तत्र विशिष्टं ज्ञानम् ? किं तेषां व्यावहारिकी उपयोगिता ? किं वेदाध्ययनस्य जीवने उपयोगित्वम् ? किं च समस्याबहुले जगति समस्या-निराकरणत्वं वेदानाम् ? किं च वेदानां धार्मिक राजनीतिकम् आर्थिक भाषा-वैज्ञानिकम् ऐतिहासिकं काव्यशास्त्रीयं शास्त्रीय सामाजिक सांस्कृतिकं च महत्त्वम् ? इत्येवात्र समासतो विवियते प्रस्तूयते च । वैदिकं साहित्यम्-मुख्यत्वेन वेदशब्दः ऋग्यजुः सामाथर्वनामभिः प्रचलितानां चतसृणां वेदसहितानां बोधकः। एतेषामेव चतुर्णां वेदानां व्याख्यानभूता ब्राह्मणग्रन्थाः सन्ति, येषु वैदिककर्मकाण्डस्य विशदं वर्णनमस्ति । एतेष वेदानाम् आध्यात्मिकी व्याख्याऽपि प्रस्तूयते । एतेषां परिशिष्टरूपेण आरण्यकग्रन्थाः सन्ति । एषु अध्यात्मविद्याया विवेचनं प्राप्यते । उपनिषत्सु च तस्या एवाध्यात्मविद्यायाश्चरमोत्कर्षः संलक्ष्यते। वैदिकसाहित्यशब्देन समग्रोऽपि मन्त्र-ब्राह्मण-आरण्यक-उपनिषत्-संग्रहरूपो निधिर्गृह्यते । अतएव 'मन्त्रब्राह्मणयोर्वेदनामधेयम्' (आप० श्रौत० ३१ ) इति निर्दिश्यते । वेदानां धार्मिक महत्त्वम्-वेदा मन्वादिभिः ऋषिभिः परमप्रमाणत्वेनोपन्यस्ताः । 'वेदोऽखिलो धर्ममूलम् ( मनुस्मृति २-६ ) इति समुद्घोषयता मनुना समग्रस्यापि वेदनिधेर्धर्माधाररूपेण प्रतिष्ठा विहिता। मानवस्याखिलं कृत्यजातं कर्तव्याकर्तव्यं वा देवेषु विशदतया निरूप्यते । अतएव वेदा आचारसंहिता-रूपेण प्रमाणीक्रियन्ते । Page #19 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ ( मनु० २-७ ) सर्वेऽपि विद्वत्तल्लजा भारतीया दार्शनिकाः, आचारशिक्षणप्रवणाः स्मृतिकाराः, शब्दतत्त्वमीमांसादक्षा वैयाकरणाः, अन्ये च शास्त्रकारा वेदानां परमप्रामाण्यं प्रतिपदम् उद्घोषयन्ति । अतएव महर्षिणा पतञ्जलिना कर्तव्यत्वेन समादिश्यते यत् M ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च । ( महाभाष्य, आह्निक १) स्मृतिकारैर्न एतावतैव विरम्यते, अपितु निर्दिश्यते यत् ब्राह्मणेन एकनिष्ठया वेदाध्ययनं संपाद्यम् । एतद् ब्राह्मणस्य परमं तपः । यश्च वेदाध्ययनम् अवमत्य शास्त्रान्तरे कृतमतिः, स जीवन्नेव सपरिवारः शूद्रत्वम् उपयाति । वेदमेव सदाऽभ्यस्येत् तपस्तप्यन् द्विजोत्तमः । वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ॥ मनु० २-१६६ योsनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ मनु० २-१६८ वेदानां सांस्कृतिकं महत्त्वम् - भारतीयायाः संस्कृतेर्मूल स्रोतोऽनुसंधीयते चेत् तर्हि वेदा एव तन्मूलस्रोतस्त्वेनोपतिष्ठन्ति । वेदष्वेव प्रत्नतमा भारतीया संस्कृतिर्वणिताऽस्ति । भारतीयायाः संस्कृतेर्मूलरूपं वेदेष्वेवोपलभ्यते । वेदेष्वेव प्राक्तनभारतीयानां जीवनदर्शनं, कार्यकलापः, आचार-विचाराः, नैतिकं सामाजिकं च चरितं प्राप्यते । मानवानां विविधकर्तव्यादिनिर्धारणं तत्रैवोपलभ्यते । उक्तं च मनुना सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ॥ मनु० १-२१ लोकमान्य-तिलकमहाभागास्तु वेदेषु प्रामाण्यबुद्धिमेव आर्यत्वस्य लक्षणं व्यादिशन्ति — 'प्रामाण्यबुद्धिर्वेदेषु', वेदेष्वेवार्याणां संस्कृतेविशुद्ध रूपं विस्तरशः प्राप्यते । आर्याणां यज्ञेषु दृढविश्वासः, एकेश्वरवादेन सहैव बहुदेवतावाद - स्यापि स्वीकरणम्, अनासक्तभावनया कर्मविधिः, ईश्वरस्य सर्वव्यापकत्वम्, ज्ञानकर्मणोः समन्वयः, भौतिकवादं प्रत्यनास्था, पुनर्जन्मनि विश्वास:, मोक्षस्यजीवनोद्देश्यत्वं चेत्यादितथ्यानि वेदेष्वेव प्राप्यन्ते । 1 विश्वसंस्कृतेरैतिह्यं गवेषितं चेत् तर्हि वेदा एव सर्व प्रमुखत्वेन दृष्टिपथम् अवतरन्ति । अस्मिन् संसारे संस्कृतेः सभ्यतायाश्च कथमिव विकासोऽभूदित्यर्थं वेदानुशीलनम् अनिवार्यम् आपद्यते । तत एव क्रमिकविकासस्य प्रक्रिया प्राप्यते । अतएव यजुर्वेदे प्राप्यते - ' सा प्रथमा संस्कृतिविश्ववारा' ( यजु० ७ - १४), वैदिकी संस्कृतिः प्रथमा संस्कृतिरासीत् । Page #20 -------------------------------------------------------------------------- ________________ वेदानां महत्त्वम् शास्त्रीयं महत्त्वम्-वेदानां शास्त्रीयं महत्त्वं सर्वतोमुख्यं वर्तते । 'सर्वज्ञानमयो हि सः' इति वदता मनुना वेदानां सर्वविधज्ञाननिधानत्वम् उरीकृतम् । यदि विचारदृशा समोक्ष्यते तहि वेदेषु बीजरूपेण दार्शनिकाः सिद्धान्ताः, राजनीतिः, समाजशास्त्रम्, अध्यात्मम्, मनोविज्ञानम्, आयुर्वेदः, गणितम्, अर्थशास्त्रम्, नाट्यशास्त्रम्, काव्यशास्त्रम्, कामशास्त्रम्, अन्याश्च विविधाः कलास्तत्र तत्र वर्ण्यन्ते । वैदिकं दर्शनम् अध्यात्मतत्त्वं चोपादाय उपनिषदो विविधानि दर्शनानि च प्रवृत्तानि । तथ्यमेतद् निदर्शनरूपेण नाट्यशास्त्रकृतो भरतमुनेविवेचनेन विशदीभवति जग्राह पाठ्यम् ऋग्वेदात् सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ नाट्यशास्त्र १-१७ नैतिकं महत्त्वम्-वेदानाम् आचारशिक्षा-दृष्टया, नैतिक-दर्शनरूपेण चातीव महत्त्वं वर्तते । कर्तव्योद्बोधनरूपेण तेषां परमं प्रामाण्यं वर्तते । किं कर्म, किम् अकर्मेति चिन्तायां वेदा एवादर्शरूपेण प्रस्तूयन्ते । अतएव मनुनोच्यते वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः। एतच्चतुर्विधं प्राहुः साक्षात् धर्मस्य लक्षणम् ॥ मनु० २-१२ श्रुतिस्मृत्युदितं धर्मम् अनुतिष्ठन् हि मानवः। इहकीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ मनु० २-९ धर्मचिन्तायां कर्तव्यविचारणे च वेदाः परमप्रमाणभूताः सन्ति । धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः॥ मनु० २-१३ सामाजिकं महत्त्वम्-समाजशास्त्रीयदृष्ट्याऽपि वेदा अत्यन्तं महत्त्वपूर्णाः सन्ति । समाजस्य विकासस्य, सभ्यतायाः समुन्नतेः, वर्णानां विविधवृत्तिपराणां नराणां च कर्मकलापस्य, सामाजिक्या व्यवस्थायाश्च महत्त्वपूर्णम् इतिवृत्तं वेदेषुपलभ्यते । प्राक्तनस्य समाजस्य किं स्वरूपमासीदित्यपि तत एवाप्तुं पार्यते । आर्थिकं महत्त्वम्-अर्थशास्त्रदृष्ट्याऽपि वेदानां महत्त्वम् अस्ति । वेदेषु प्रत्नाया अर्थव्यवस्थायाः स्वरूपं स्फुटं समवाप्यते। आदान-प्रदानस्य, क्रयविक्रयस्य, व्यापारस्य वाणिज्यस्य च, गवादिपशूनाम्, कृषि-धान्यादीनां च का व्यवस्थाऽवस्था चासीदित्यपि तत्र प्राप्तुं शक्यते । आदान-प्रदानस्य महत्त्वं यजुर्वेदे वर्ण्यते देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारं च हरासि मे निहारं निहराणि ते ॥ यजु० ३-५० राजनीतिक महत्त्वम्-राजनीतिशास्त्रदृष्ट्यापि वेदानां महत्त्वं नावमूल्ययितुं शक्यते । वेदेषु राज्ञः प्रजायाश्च कर्माणि, राजतन्त्रस्य विविधं स्वरूपम्, राज्ञो वरणम्, सभायाः समितेश्च संस्थापना, मन्त्रिपरिषदो मनो Page #21 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् नयनम्, राजतन्त्रीया प्रजातन्त्रीया च शासनव्यवस्था, शत्रु संहारः, सामदण्डादिविधीनां प्रयोगः, समुपलभ्यन्ते । वेदेषु राज्ञो निर्वाचनस्य प्रजातन्त्रीयाया राज्यव्यवस्थायाश्चापि समुल्लेखो विविधेषु स्थलेषु उपलभ्यते । तद्यथा— विशस्त्वा सर्वा वाञ्छन्तु ० ( अथर्व ० ६-८७ - १ ) त्वां विशो वृणतां राज्याय । ( अथर्व ० ३ - ४-२ ) महते जानराज्याय ० । ( यजु० ९-४० ) भाषावैज्ञानिकं महत्त्वम् - तुलनात्मकभाषाविज्ञानस्याध्ययनाय वेदानाम् अतीव महत्त्वं विद्यते । वेदा विश्वस्य प्राचीनतमाः समुपलब्धा ग्रन्थाः । तत्रापि ऋग्वेदस्य प्राचीनतमत्वेन भाषायाः प्राचीनतमं रूपं प्राप्यते । पारसीकधर्मग्रन्थ-जेन्दावेस्ता ( छन्दोऽवस्था ) ग्रन्थेन सह तुलनायाम् अवेस्ता - भाषया सह वैदिकभाषाया घनिष्ठः सम्बन्धो दृश्यते । ऋग्वेदीया मन्त्रा अवेस्ताभाषायाम् अवेस्ता- मन्त्राश्च वैदिकमन्त्रेषु च परिवर्तयितुं शक्यन्ते । तुलनात्मकभाषाविज्ञानस्य दृष्ट्या विशेषतो वेदानाम् अध्ययनं पाश्चात्त्य देशेषु प्रवृत्तम् । वैदिक-संस्कृतभाषाया लौकिक - संस्कृतस्य ततश्च भाषाणाम् अन्यासां जनि - क्रमस्यावबोधाय वेदानाम् अध्ययनम् अनिवार्यम् । " ४ ऐतिहासिकं महत्त्वम् -- वेदेषु कतिपये ऐतिह्यावबोधकाः सन्दर्भा अपि तत्र तत्रोपलभ्यन्ते । तानाश्रित्य संदर्भान् विद्वद्भिः प्राचीनतमम् ऐतिह्यं प्रस्तूयते । तत्र गङ्गादीनां नदीनाम् ( ऋग्० १०-७५-५ ), दाशराज्ञयुद्धस्य ( ऋग्० ७-८३-७ ), पञ्च जनानान् ( ऋग्० ३ - ३७-९), विविधानां वर्णानां वृत्तीनां च (यजु० ३०-५-२२ ) उल्लेखः प्राप्यते । काव्यशास्त्रीयं साहित्यिकं च महत्त्वम् - काव्यशास्त्रीयदृष्ट्याऽपि वेदानां महत्त्वं प्रशस्यम् । तत्र अनुप्रास - यमक - रूपकादीनाम् अलंकाराणां प्रयोगोऽनेकत्र प्राप्यते । उषः सूक्ते उषसो वर्णने कवित्वस्य स्फुटं दर्शनं जायते । सुन्दरी युवतिः स्ववस्त्राणीव उषाः स्वीयं सौन्दर्यं विस्तारयति । सकलेऽपि भुवने तस्याः सौन्दर्यम् आहलादकारि व्याप्नोति अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी । स्वर्जनन्ती सुभगा सुदंसा आन्ताद् दिवः पप्रथ आ पृथिव्या: ॥ (ऋग्० ३ - ६१-४) एवं वेदाध्ययनं जीवनं पावयति, चिन्ताकुलं जगत् चिन्तायास्त्रायते, लोकानां विविधाः समस्या निवारयति, जीवनम् उन्नमयति, सद्भावांश्च प्रेरयति इति सर्वथा वेदानां महत्त्वं सिध्यति । 1 वेदानां महत्त्वम् अङ्गीकृत्यैव भारतीयैः पाश्चात्त्यैश्च विपश्चिद्भिः वेदाध्ययने स्वजीवनं यापितम् । तद् यथा - सायणाचार्य - वेंकटमाधव - महर्षि - दयानन्द - मधुसूदन ओझा - मोतीलाल शर्मा - वासुदेवशरण अग्रवाल- मैक्समूलररुडाल्फ रॉठ-विल्सन-ग्रिफिथ-मैकडानल प्रभृतयो विद्वत्तल्लजाः । Page #22 -------------------------------------------------------------------------- ________________ २. वेदाङ्गानां महत्त्वम् ' (षडङ्गो वेदोऽध्येयो ज्ञेयश्च ) वेदार्थावबोधाय तत्स्वराद्यवगमाय तद्विनियोगज्ञानाय चासीद् महत्यावश्यकता केषांचित् सहायकग्रन्थानाम् । एतदभावपूर्तये एव जनिरभूद् वेदाङ्गानाम् । षडिमानि वेदाङ्गानि । १. शिक्षा, २. व्याकरणम्, ३: छन्दः, ४. निरुक्तम्, ५. ज्योतिषम्, ६. कल्पः । तथोच्यते शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः। ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु॥ षण्णाम् एतेषां महत्त्वं निरीक्ष्यैव पाणिनीयशिक्षायां प्रतिपाद्यते यत्छन्दः पादौ तु वेदस्य हस्तो कल्पोऽथ पठ्यते। ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ॥ शिक्षा नाणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ पा० शिक्षा, श्लोक १४-४२ वेदाङ्गानामेतेषां विवरणं वेदार्थबोधोपयोगिता च समासतोऽत्र प्रस्तूयते । (१) शिक्षा-शिक्षाग्रन्था वर्णोच्चारणविधि विशेषतो वर्णयन्ति । कथं वर्णा उच्चारणीयाः, किं तेषां स्थानम्, कश्च तत्र यत्नः, कण्ठताल्वादीनाम् उच्चारणे किं महत्त्वम्, कति वर्णाः, कथं कायमारुतो वर्णत्वेन विपरिणमते, कति स्थानानि, कति स्वराः, कथं च ते प्रयोज्या इत्यादयो विषयाः शिक्षाग्रन्थेषु विविच्यन्ते । सायणेन ऋग्वेदभाष्यभूमिकायां शिक्षालक्षणम् उच्यते यत् स्वरवर्णाधुच्चारणप्रकारो यत्र शिक्ष्यते सा शिक्षा । तैत्तिरीयोपनिषदि शिक्षायाः स्वरूपं निरूप्यते यद् वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तानः। इत्युक्तः शिक्षाध्यायः। तै०२-१ ___ एतच्च पाणिनिना मुनिनैवं विवियते-वर्णः अकारादिः, स्वराःउदात्तानुदात्तस्वरिताः, मात्रा:-ह्रस्वदीर्घप्लुताः, बलम्-स्थानप्रयत्नौ, सामसाम्येन विधिना माधुर्यादि-गुणसमन्वित-वर्णोच्चारणम्, सन्तानः-संहितापगठम् अनुसृत्य सन्धिनियमानुकूलं पदप्रयोगः । उच्यते च पाणिनीयशिक्षायाम् माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः। धैर्य लयसमथं च षडेते पाठका गुणाः॥ (पा० ३३) साम्प्रतम् उपलभ्यमानेषु ३२ शिक्षाग्रन्थेष पाणिनीयशिक्षा प्रमुखा। अन्ये च विशिष्टाः शिक्षाग्रन्थाः सन्ति—याज्ञवल्क्यशिक्षा, व्यासशिक्षा, नारदशिक्षा, माण्डूकीशिक्षा चेति । वर्णोच्चारणादिविधि-ज्ञानम् अन्तरेण न शक्यो वेदानां विशुद्धः पाठोऽर्थावगमश्चेति । 'शिक्षा घ्राणं तु वेदस्य' व्याहरता पाणिनिना शिक्षाग्रन्थानां नासिका स्थानीयत्वं स्वीक्रियते । Page #23 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् (२) व्याकरणम्-व्याकरणे प्रकृति-प्रत्ययस्य विचारः, उदात्तादिस्वरविचारः, उदात्तादिस्वरसंचारनियमाः, सन्धिनियमाः, शब्दरूप-धातुरूपादि निर्माणनियमाः, प्रकृतेः प्रत्यस्य च स्वरूपावधारणं तदर्थनिर्धारणं चेति विविधा विषया विविच्यन्ते । वेदेषु प्रकृति-प्रत्यय-विचारस्य स्वरस्य च महन्महत्त्वमिति तत्र व्याकरणमेव साहाय्यम् अनुतिष्ठतीति षडङ्गेषु व्याकरणमेव प्रधानम् । संस्कृतव्याकरणं प्रातिशाख्यमूलकमेव । वेदानां प्रतिशाखाम् आश्रित्य व्याकरणग्रन्था आसन्, ते च प्रातिशाख्यग्रन्था इति प्रसिद्धिम् आप्ताः । साम्प्रतं केचनैव प्रातिशाख्यग्रन्था उपलभ्यन्ते । ते कमप्येकं वेदम् आश्रित्य वर्तन्ते । तद्यथा-ऋग्वेदस्य शौनकप्रणीतम् ऋक्प्रातिशाख्यम् । एतदेव पार्षदसूत्रम् इत्यप्यभिधीयते । शुक्लयजुर्वेदस्य कात्यायनविरचितं शुक्लयजुः प्रातिशाख्यम्, कृष्णयजुर्वेदस्य तैत्तिरीयप्रातिशाख्यं । सामवेदस्य सामप्रातिशाख्यं पुष्पसूत्रं वा, पञ्चविधसूत्रं च । अथर्ववेदस्य अथर्वप्रातिशाख्यम् । व्याक्रियन्ते विविच्यन्ते शब्दा अनेनेति व्याकरणम् । एतदर्थमेव संस्कृतव्याकरणस्य जनिरभूत् । संस्कृतव्याकरणावबोधाय महर्षेः पाणिनेः अष्टाध्यायी प्राधान्यं लभते । लौकिकसंस्कृतेन सहैव वैदिकसंस्कृतस्यापि व्याकरणं तत्र प्रस्तूयते । अन्ये प्राचीना व्याकरणग्रन्था लुप्तप्राया एव । पाणिनीयसूत्रेषु कात्यायनेन वार्तिकाः पतञ्जलिना च महाभाष्यं विरचितम् । पाणिनिकात्यायन-पतञ्जलि-इति त्रयं मुनित्रयम् इत्यभिधीयते । तत्र पाणिनेरष्टाध्यायी सर्वाङ्गविभूषितत्वात् सर्वत्रादरं लेभते । पतञ्जले: महाभाष्यं च व्याकरणदर्शनस्य मूलम् । अत्र विशदीकृतस्य दार्शनिकभावजातस्य समाश्रयणं विधाय कैयटनागेश-भर्तृहरि-प्रभृतिभिः व्याकरणदर्शनस्य विकासो व्यधायि । वाक्यपदीयं व्याकरणदर्शनस्य मूर्धन्यं रत्नम् । संस्कृत-व्याकरण-विषये अन्येऽपि केचन ग्रन्थाः सादरं स्मर्यन्ते । तद्यथा-वामन–जयादित्य-कृता अष्टाध्याय्याः काशिकावृत्तिः, तत्र च जिनेन्द्रबुद्धिकृतो न्यासग्रन्थः, हरदत्तमिश्रकृता पदमञ्जरी च, भट्टोजिदीक्षितप्रणीताः सिद्धान्तकौमुदी-शब्दकौस्तुभ-प्रौढमनोरमा-ग्रन्थाः, नागेशभट्टकृताः शब्देन्दुशेखर-परिभाषेन्दुशेखर-मञ्जषा-स्फोटवादादिग्रन्थाः, वरदराजकृता लघुसिद्धान्तकौमुदी मध्यसिद्धान्तकौमुदी च । (३) छन्दः-वेदेषु मन्त्राः प्रायशश्छन्दोबद्धा एव । अतो वृत्तज्ञानाय छन्दःशास्त्रम् अनिवार्यम् । छन्दःशास्त्रविषयको मुख्यो ग्रन्थः पिंगल-प्रणीतं छन्दः सूत्रमेवोपलभ्यते । प्रातिशाख्यग्रन्थेष्वपि वृत्तविचारः प्राप्यते । एभ्य एव लौकिकछन्दोविषयकाणां ग्रन्थानां विकासः समजनि । (४) निरुक्तम्-निरुक्ते क्लिष्टवैदिकशब्दानां निर्वचनं प्राप्यते । विषयेऽस्मिन् यास्कप्रणीतं निरुक्तमेव प्रमुखो ग्रन्थः । अत्र मन्त्राणां निर्वचनमूलाया व्याख्यायाः प्रथमः प्रयासः समासाद्यते । वैदिकशब्दानां संग्रहात्मको Page #24 -------------------------------------------------------------------------- ________________ वेदाङ्गानां महत्त्वम् ग्रन्थो निघण्टुरिति कथ्यते । तस्यैव व्याख्यानभूतं निरुक्तमेतत् । यास्को निरुक्ते स्वपूर्ववर्तिनः सप्तदशनिरुक्तकारान् परिगणयति । निरुक्ते काण्डत्रयं नैघण्टुककाण्डं नैगमकाण्डं दैवतकाण्डं चेति । निरुक्तस्य पञ्चविधकार्यत्वम् । उक्तं च वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते-पञ्चविधं निरक्तम् ॥ (५) ज्योतिषम्-शुभं मुहूर्तम् आश्रित्यैव विशिष्टोऽध्वरः प्रावर्ततेति शुभमुहूर्ताकलनाय ज्योतिषस्योदयोऽभूत् । अत्र सूर्यचन्द्रमसोर्ग्रहाणां नक्षत्राणां च गतिनिरीक्ष्यते परीक्ष्यते विविच्यते च । सौरमासश्चान्द्रमासश्चोभयं परिगण्यतेऽत्र । मखमुहर्तनिर्धारणे चान्द्रमासस्य प्राधान्यं लक्ष्यते । विषयेऽस्मिन् आचार्यलगधप्रणीतं वेदाङ्गज्योतिषम् इति ग्रन्थ एव साम्प्रतम् उपलभ्यते । अतीव गूढार्थकोऽयं ग्रन्थः । अद्यावधि न कोऽप्यस्यार्थावधारणे सक्षमः । ज्योतिषस्य महत्त्वं तत्रोच्यतेवेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः। तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद वेदम् ॥ (वेदाङ्गज्योतिषम्) (६) कल्पः कल्पसूत्रेषु विविधाध्वराणां संस्कारादीनां च वर्णनं प्राप्यते । मन्त्राणां विविधकर्मसु विनियोगश्च तत्र प्रतिपाद्यते । कल्पसूत्राणि चतुर्धा विभज्यन्ते-( क ) श्रौतसूत्रम् , ( ख ) गृह्यसूत्रम् , ( ग ) धर्मसूत्रम् , (घ ) शुल्बसूत्रं च । ( क ) श्रौतसूत्रम्-श्रौतसूत्रेषु श्रुतिप्रतिपादितानां सप्त हविर्यज्ञानां सप्त सोमयज्ञानाम् एवं चतुर्दशयज्ञानां विधिविनियोगादिकं च प्रतिपाद्यते । तत्र प्रमुखाणि श्रौतसूत्राणि सन्ति-आश्वलायनश्रौतसूत्रम् , शांखायनश्रौतसूत्रम्०, बौधायन०, आपस्तम्ब०, मानव०, कात्यायन०, लाट्यायन०, द्राह्यायण०, वैतानश्रौतसूत्रं च । श्रौतसूत्राणीमानि कमप्येकं वेदमाश्रित्य वर्तन्ते । ( ख ) गृह्यसूत्रम्-गृह्यसूत्रेषु षोडशसंस्काराणां पञ्चमहायज्ञानां सप्तपाकयज्ञानाम् अन्येषां च गृह्यकर्मणां सविशेषं वर्णनम् आप्यते । गृह्यसूत्राण्यपि कमप्येकं वेदम् आश्रित्य वर्तन्ते । तत्र प्रमुखाणि सन्ति-आश्वलायनगृह्यसूत्रम्, पारस्कर०, शांखायन०, बौधायन०, आपस्तम्ब०, मानव०, हिरण्यकेशी०, भारद्वाज०, काठक०, लौगाक्षि०, गोभिल०, जैमिनोय०, खदिरगृह्यसूत्रं चेति । (ग) धर्मसूत्रम्-धर्मसूत्रेषु मानवानां कर्तव्यं नीतिधर्मो रीतयः चतुर्वर्णाश्रमाणां कर्तव्यादिकम् अन्यच्च सामाजिकनियमादिकं वर्ण्यते । तत्र प्रमुखा ग्रन्थाः सन्ति–बौधायनधर्मसूत्रम्, आपस्तम्ब०, हिरण्यकेशी०, वसिष्ठ०, मानव०, गौतमधर्मसूत्रं च । (घ ) शुल्वसूत्रम्--शुल्वसूत्रेषु यज्ञवेद्या मानादिकं वेदीनिर्माणविध्यादिकं च वर्ण्यते। तत्र मुख्या ग्रन्थाः सन्ति–बौधायनशुल्वसूत्रम् , आपस्तम्ब०, कात्यायन०, मानवशुल्वसूत्रं च । Page #25 -------------------------------------------------------------------------- ________________ ३. मुखं व्याकरणं स्मृतम् ( तेषां हि सामर्यजुषां पवित्रं महर्षयो व्याकरणं निराहुः) व्याकरणशब्दार्थ:--व्याक्रियन्ते विविच्यन्ते प्रकृतिप्रत्ययादयो यत्र तद् व्याकरणम्, इति व्युत्पत्तिम् आश्रित्य व्याकरणं शब्दशास्त्रं नाम । व्याकरणे हि प्रकृतिप्रत्ययादीनां सूक्ष्मातिसूक्ष्म विवेचनं प्रस्तूयते । विवेचनमेव व्याकरणस्य मुख्यार्थः । प्रकृतिप्रत्यययोः, ध्वनिस्फोटयोः, शब्दापशब्दयोः, आकृतिद्रव्ययोः, शब्दनित्यतानित्यतयोः, पदवाक्ययोः, पदपदार्थयोः, वाक्यवाक्यार्थयोः विवेचनं विश्लेषणं च व्याकरणस्य प्रयोजकत्वेनास्थीयते । व्याकरणस्य प्रयोजनम्-भगवता पतञ्जलिना व्याकरणस्य पञ्च प्रयोजनानि उपस्थाप्यन्ते । तद्यथा रक्षोहागमलध्वसन्देहाः प्रयोजनम् । ( महाभाष्य, आ० १) वेदानां रक्षार्थम्, ऊहार्थम्, अर्थात् यथास्थानम् उचितशब्दप्रयोगार्थम्, शास्त्राज्ञापालनार्थम्, लघ्वर्थम्, असन्देहाथं च व्याकरणाध्ययनम् अनिवार्यम् । शास्त्राज्ञामनुवदता पतञ्जलिना प्रोच्यते ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च । प्रधानं च षडङ्गेषु व्याकरणम्। (महाभाष्य, आ० १) एवं पतञ्जलिना व्याकरणाध्ययनस्योपयोगित्वं षडङ्गेषु व्याकरणस्य मुख्यत्वं च प्रतिपाद्यते। व्याकरणस्य महत्त्वम्--वर्णोच्चारणज्ञानम् अन्तरेण न वैदुष्यं न च शास्त्रज्ञत्वं प्राप्तुं शक्यते । वर्णोच्चारणज्ञानम्, शब्दापशब्दज्ञानम्, प्रकृति-प्रत्ययज्ञानम्, विविधशब्दनिर्माण प्रक्रियाज्ञानम्, च व्याकरणेनैव अवाप्तुं शक्यते, अतः आबालवृद्धं व्याकरणस्य महत्त्वम् । व्याकरणाद् ऋते शुद्धशब्दज्ञानं परिष्कृतशब्दप्रयोगश्च न संभाव्यते । अतएव एकस्यापि शुद्धस्य शब्दस्य ज्ञानं सुप्रयोगश्च स्वर्गे लोके कामधुक्त्वेन प्रशस्यते पतञ्जलिना . एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग् भवति । भगवता भर्तृहरिणा 'साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः' (वाक्यपदीय १-१४३ ) इति निर्दिशता साधुत्वज्ञानार्थं व्याकरणस्यानिवार्यत्वम् उपदिश्यते। __ यजुर्वेदे 'दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः' ( यजु० १९-७७ ) इति मन्त्रेण सत्यासत्य-विवेचनमपि व्याकरणशब्देन समर्थ्यते । काव्यादर्श महाकवेर्दण्डिनः सत्यमिदं वचनं यद् यदि शब्दनामकं ज्योतिर्भुवने न दीप्येत तर्हि जगदिदम् अन्धन्तमः स्यात् Page #26 -------------------------------------------------------------------------- ________________ मुखं व्याकरणं स्मृतम् इदमन्धन्तमः कृत्स्नं जायते भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥ ( काव्यादर्श १-३४) शुद्धशब्दज्ञानार्थं शुद्धशब्दप्रयोगार्थं च व्याकरणज्ञानस्यानिवार्यता सर्वैरेव संस्तूयते । अतः साधूच्यते यद्यपि बहु नाघीषे तथापि पठ पुत्र व्याकरणम् । स्वजनः श्वजनो मा भूत् सकलं शकलं सकृत् शकृत् ॥ साधुशब्दज्ञानं बिना, वर्णोच्चारणज्ञानमन्तरेण च सकारशकारयोर्भेदो न ज्ञायेत । एवं सति ' सकृद् भुङ्क्ते एकवारं भुङ्क्ते, इत्यर्थकं वाक्यं शकृद् भुङ्क्त' मलं भुङ्क्ते, इत्यर्थकं स्यात् । एवमेव स्वजन: ( स्वकीयो जनः ) श्वजनः ( कुक्कुरवर्गः ) भविष्यति, सकलं ( समग्रम् ) च शकलम् (अर्धांशः) । व्याकरणस्य वेदाङ्गत्वम् - वेदानां साधु ज्ञानार्थं षण्णां वेदाङ्गानां ज्ञानम् अनिवार्यम् । षड् वेदाङ्गानि निर्दिश्यन्ते— शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः । ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु ॥ प्रत्येकस्य वेदाङ्गस्योपयोगिताम् आश्रित्य वेदस्य शरीरावयवरूपेण तस्य उच्चावचं महत्त्वं प्रदर्शयता प्रोच्यते छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ ( पा० शिक्षा ४१-४२ ) अत्र 'मुखं व्याकरणं स्मृतम्' इति उद्घोषयता शिक्षाकारेण षडङ्गेषु व्याकरणस्य मुख्यत्वं प्रतिपाद्यते । महर्षिणा पतञ्जलिनाऽपि एतदेव व्यादिश्यते'प्रधानं च षडङ्गेषु व्याकरणम्' ( आ० १ ) । व्याकरणस्य मुखत्वं मुख्यत्वं च - व्याकरणं वेदाङ्गेषु मुखत्वेन उररीक्रियते । शब्दाधीनं जगत् शब्दश्च मुखेनोच्चारणीयः, अतः तत्साधनत्वेन व्याकरणमपि शब्दब्रह्मणो मुखरूपम् अस्ति । यथा मुखं सौन्दर्यार्थकं तथैव व्याकरणमपि भाषायाः साधुत्वप्रतिपादनेन सौन्दर्याधायकम्, मुखं भाषण - साधनं तथैव व्याकरणमपि परिष्कृतशब्दप्रयोगसाधनम् । व्याकरणमेव शब्दप्रकाशनेन स्वमनोगतभावाविर्भावकम् अन्तर्निहितविचारप्रसारकं ज्ञानज्योति - श्चास्ति । यथा शरीरावयवेषु मुखस्योत्कृष्टत्वं न केनाप्याक्षिप्यते, तथैव भाषातत्त्वविवेचनेन शब्दज्ञानमूलकत्वेन शब्दशास्त्रावगाहनेन वाक्यतत्त्वविवेचनेन शब्दब्रह्मस्वरूप-प्रकाशनेन व्याकरणस्य शास्त्रेषु सर्वोत्कृष्टत्वं न केनापि व्याक्षेप्तुं पार्यते । Page #27 -------------------------------------------------------------------------- ________________ १० । संस्कृतनिबन्धशतकम् समग्रस्यापि ज्ञानस्य शब्दविवेचनमूलत्वात् तत्साधनत्वाच्च व्याकरणस्य मुख्यत्वं निर्विवादम्-'अवैयाकरणस्त्वन्ध एव' इति वचनमपि न संशयलेशम् आवहति । व्याकरणमन्तरेण शब्दतत्त्वज्ञानाभावेन मानवस्यान्धत्वम् आपद्यते । अतो व्याकरणस्य सर्वशास्त्रेषु मुख्यत्वं ज्ञायते । व्याकरणस्यानिवार्यत्वम्-स्वर-वर्णोच्चारणज्ञानमन्तरेण शब्दस्य अर्थबोधनस्थाने अनर्थबोधकत्वं स्यात् । वेदेषु विशेषतः स्वरज्ञानस्य शुद्धप्रयोगस्य च नितरां महत्त्वं प्रतिपाद्यते । स्वरस्य अन्यथा उच्चारणेन 'इन्द्रशत्रुर्वर्धस्व' इति वृत्रासुरविजयाथं पठितोऽपि मन्त्रः तत्पुरुषेऽन्तोदात्ते प्रयोक्तव्ये इन्द्रः शत्रुः नाशयिता अस्य, इति बहुव्रीहौ आधुदात्ते प्रयुक्ते इन्द्र एव वृत्रस्य संहर्ता समभवत् । एवम् इन्द्रविजयस्य स्थाने वृत्रवध एव संवृत्तः । अशुद्धोच्चारणस्य असाधुशब्दप्रयोगस्य च एष एव दुःखदो दुष्परिणामो जायते । उक्तं च मन्त्रो हीनः स्वरतो वर्णतो वा, मिथ्याप्रयुक्तो न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ (महा० १) एतेन साधुशब्दज्ञानार्थं शुद्धशब्दप्रयोगार्थं च व्याकरणज्ञानम् अनिवार्यम् । व्याकरणशास्त्रस्य विशालत्वम्-पुरा व्याकरणस्य तादृशं महत्त्वम् आसीद् यद् व्याकरणम् अष्टप्रभेदं प्रथितम् आसीत् । तद्यथा ब्राह्ममैशानमैन्द्रं च प्राजापत्यं बृहस्पतिम् । त्वाष्ट्रमापिशलं चेति पाणिनीयमथाष्टमम् ॥ (हैम-बृहद्वृत्त्यवचूर्णि) पाणिनि-पूर्ववर्तिनां ८५ · वैयाकरणानाम् उल्लेखः प्राप्यते । पाणिनिना स्वीये व्याकरणे गार्य-शाकटायन-स्फोटायनादीनां दशाचार्याणाम् उल्लेखो विहितः। पाणिनि-परवर्तिषु वैयाकरणेषु कात्यायन-पतञ्जलि-वामन-भर्तृहरिकैयट-भट्रोजिदीक्षित-नागेश-वरदराजादीनां वैयाकरणानां व्याकरणविषये विशिष्टं योगदानं वर्तते । ___ व्याकरणस्य परमपावनत्वम्-'यन्मनसा ध्यायति तद् वाचा वदति, यद् वाचा वदति तत् कर्मणा करोति, यत् कर्मणा करोति तदभिसंपद्यते' इति सिद्धान्तमाश्रित्य मानवजीवनशुद्धयर्थं भावशुद्धिः शब्दशद्धिश्च नितराम् आवश्यकी । शब्दशुद्धिश्च व्याकरणेनैव संभाव्यते । अतएव व्याकरणस्य परमपावनत्वम् अङ्गीक्रियते । एतद्-भावात्मकमेवैतद् उच्यते तेषां हि सामय॑जुषां पवित्रं महर्षयो व्याकरणं निराहः। व्याकरणं न केवलं भावशुद्धिसाधनमेव, अपि तु शब्दब्रह्मशोधकं शब्द१. विवरणार्थं द्रष्टव्यम्-लेखककृतं संस्कृत-व्याकरणम्, भूमिका, पृष्ठ १४-४४ । Page #28 -------------------------------------------------------------------------- ________________ मुखं व्याकरणं स्मृतम् ११ ब्रह्मावाप्तिसाधनं च वर्तते । अतएव ऋग्वेदे वर्ण्यते यद् यो वाक्तत्त्वं सर्वथा पश्यति, वाक्तत्त्वमपि तस्मै स्वीयं रूपं प्रकटयति उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं विसस्त्रे जायेव पत्य उशती सुवासाः ॥ ( ऋग्० १०-७१-४ ) अतएव भगवता भर्तृहरिणा शब्दसंस्कारः शब्दब्रह्मप्राप्तिसाधनत्वेन निरूप्यते तस्माद् यः शब्दसंस्कारः सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञस्तद् ब्रह्मामृतमश्नुते ॥ ( वाक्य० १-१३३ ) वाक्यपदीये शब्द तत्त्वस्य महत्त्वं प्रतिपादयता तेनोच्यते यत् शब्द एव विश्वस्यास्य निबन्धनं संयोजकश्चास्ति । शब्द एव नेत्ररूपः सन् जगदिदं द्योतयति च शब्देष्वेवाश्रिता शक्तिविश्वस्यास्य निबन्धनी । यन्नेत्रः प्रतिभांत्माऽयं भेदरूपः प्रतीयते ॥ ( वाक्य ० १ - ११९ ) शब्दस्य ज्ञानाश्रयत्वेन शब्दज्ञानयोः परस्परान्वयित्वं निर्णीयते । उक्त न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते । ( वाक्य ० १ - १२४) व्याकरणस्य परमवैदुष्याधायकत्वम् -- न केवलं तत्त्वज्ञैरेव व्याकरणं प्रशस्यते, अपि तु विविधशास्त्रपारदृश्वभिर्विद्वत्तल्लजैरपि इदम् अभिनन्द्यते । काव्यशास्त्रतत्त्वज्ञमूर्धन्यः काव्यप्रकाशकारो मम्मटो वैयाकरणानां तत्त्वज्ञतां प्रतिपादयन् अभिधत्ते बुधैर्वैयाकरणैः प्रधानभूतस्फोट - व्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्व नरिति व्यवहारः कृतः । ( काव्यप्रकाश, उच्छ्वास १ ) वैयाकरणैः शब्दब्रह्मरूप-व्यङ्ग्य-स्फोट- व्यञ्जकस्य ध्वनिरिति नाम व्यवह्रियते । ध्वनिरेव काव्यज्ञानां सर्वस्वम् । अतएव आनन्दवर्धनाचार्यादिभिः ध्वनिकाव्यस्योत्कृष्टत्वं समर्थ्यते प्रतिपाद्यते च । विविधा दार्शनिकाः, भाषाशास्त्रज्ञाः, अन्ये च सूरयो व्याकरणशास्त्रस्य महत्त्वम् उद्घोषयन्ति तज्ज्ञानं चानिवार्यत्वेन प्रतिपादयन्ति । अत एतद् वचनं न विप्रतिपत्तिलेशमप्यावहति यद् – अवैयाकरणस्त्वन्ध एव । , Page #29 -------------------------------------------------------------------------- ________________ ४. उपनिषदां महत्त्वम् ( सर्वोपनिषदो गावः ) उपनिषद् - शब्दार्थ:- - उप-नि-उपसर्गपूर्वकात् विसरण - गत्यवसादनार्थकात् षद् (सद् ) धातोः क्विपि उपनिषत्-शब्दो निष्पद्यते । उप-समीपे नि-निश्चयेन, सद्-स्थानम् इति, तत्त्वज्ञानार्थं गुरोः समीपे सविनयं स्थितिः उपनिषद् इत्युच्यते । तत्त्वज्ञान प्रतिपादनाद् एतद्विषयका ग्रन्था अपि उपनिषद इत्युच्यन्ते । उपनिषद्-शब्दार्थो ब्रह्मविद्येत्यपि गृह्यते । सद्धातो: अर्थत्रयम् आश्रित्य उपनिषच्छब्दार्थो निरूप्यते यद् या संसारबीजभूताम् अविद्यां नाशयति, यया ब्रह्मप्राप्तिः ब्रह्मज्ञानं वा भवति, यया च मानव-दुःखावसादो भवति सा उपनिषदिति । अतएव श्रीशंकराचार्यः अविद्यानाशनं दुःखनिरोधं ब्रह्मप्राप्तिं च, इत्यर्थत्रयम् आश्रित्य उपनिषद्शब्दं ब्रह्मविद्याद्योतकत्वेन स्वीकरोति । गौण्या वृत्त्या च ब्रह्मविद्याप्रतिपादका ग्रन्था अपि उपनिष च्छब्दवाच्याः । उपनिषदां संख्या - यद्यपि उपनिषदां संख्या शतद्वयपर्यन्तं मन्यते, तथापि तत्र एकादशोपनिषद एव मुख्यत्वेन मन्यन्ते । तद्यथा — ईश - केन - कठप्रश्न- मुण्डक-माण्डूक्य-तैत्तिरीय - ऐतरेय - छान्दोग्य - बृहदारण्यक - श्वेताश्वतराः । श्रीशंकराचार्योऽपि एतासामेव भाष्यमकरोत् । प्रत्येका उपनिषत् केनापि वेदेन संबद्धा वर्तते । विषयानुसारम् १०८ उपनिषदां षट्सु भागेषु विभाजनं क्रियते । ( वेदान्तविषयसंबद्धाः-२४, ( २ ) योगसिद्धान्तसंबद्धा: - २०, (३) सांख्यसिद्धान्तसंबद्धा: - १७, ( ४ ) वैष्णवसिद्धान्तसंबद्धा: - १४, ( ५ ) शैवसिद्धान्तसंबद्धा:१५, ( ६ ) शाक्तसिद्धान्तसंबद्धाः - १८ । उपनिषदां महत्त्वम् — उपनिषदां महत्त्वं न केवलं भारतीयैः, अपितु पाश्चात्त्यैरपि मनीषिभिर्निविवादम् उररीक्रियते । उपनिषदो हि भवाब्धिसंतारिकाः, आधि-व्याधि-संतप्त मानस-संतपिकाः, मायामोह - निबद्ध-जीवाधिविनाशन-हेतवः, तात्त्विक ज्ञान - प्रभा-संतानेन मानवान्तःकरण- प्रदीपिकाः, सुखशान्तिसाधिकाः, अभ्युदय - निःश्रेयसावाप्तिहेतवश्च सन्ति । अध्यात्ममीमांसाया देदीप्यमान रत्नभूता इमाः । सर्वेष्वपि भारतीयेषु दर्शनेषु आसां प्रभावः स्फुटमवलोक्यते । सर्वैरपि मनीषिभिः, धर्मप्रवर्तकैः, तत्त्वज्ञः, आचारशिक्षकैः, धर्मशास्त्रकारैश्च उपनिषदां महत्त्वं स्वीयदृष्ट्या स्वोक्रियते । भारत सर्वस्वभूता इमा उपनिषदो न केवलं स्वप्रभया भारतमेव विद्योतयन्ति, अपितु सकलमपि भुवनं तरणिवदाभया भासयन्ति । भारतीय संस्कृतौ अध्यात्मतत्त्वस्य समन्वयस्य श्रेयः उपनिषदामेव । Page #30 -------------------------------------------------------------------------- ________________ उपनिषदां महत्त्वम् एता हि दुःखाधिव्याधि-विशीर्ण-जगद्-दुःखनिवृत्त्यै, पापविमुक्तये, आनन्दावाप्तये, निर्वाणप्राप्तये च राजमार्गं प्रदर्शयन्ति । जराधिव्याधि-पोडितो मानवः स्वाभीष्ट-लक्ष्य-प्राप्तये उपनिषदामेव शरणं कामयते । अतएव उपनिषदां देशे विदेशे च शतमुखं स्तुतिः संश्रूयते । उपनिषत्सु अध्यात्मम् - उपनिषदो हि अध्यात्मविद्यायाः स्रोतः स्वरूपः । एतदुद्भूता नानानिर्झरिण्यो नानाशास्त्र - धर्मशास्त्र - आचारशास्त्र नीतिशास्त्रादि रूपेण सकलमपि भुवनं भागीरथीप्रवाह इव पावयन्ति । अध्यात्मप्रधानायां प्रस्थानत्रय्याम् उपनिषदो मूर्धन्यभूताः । प्रस्थानत्रय्याम् अन्यद् द्वयं ग्रन्थरत्नं गीता ब्रह्मसूत्रं चेति परिगण्यते । वस्तुतो गीता ब्रह्मसूत्रं चेति द्वयमपि उपनिषदाश्रयमेव । एवं प्रस्थानत्रय्याम् उपनिषद एव परमप्रमाणत्वेन संग्राह्याः । १३ मुण्डकोपनिषदि वेदादीनां गणना अपराविद्यायां वर्तते, उपनिषदां पराविद्यायाम् । अपरा विद्या लौकिकविषयप्रधाना, परा च ब्रह्मज्ञानप्रधाना । अतएवोच्यते तत्रापरा ऋग्वेदो यजुर्वेदः, अथ परा यया तदक्षरमधिगम्यते । ( मुण्डक० १-१-५ ) उपनिषदां महत्त्वमवधार्यैव १७ तम शताब्द्यां दाराशिकोहो नाम राजकुमारः ५० उपनिषदां पारसीकभाषायाम् अनुवादं विदधे । तन्मूलकमेव आंके त्वेल दूपेरांनामक फ्रेंच विदुषा विहितं लेटिन भाषानुवादम् आधीत्य शर्म॑ण्यदेशीयो विद्वान् प्रसिद्धदार्शनिकः शोपेनहावर उपनिषदां गुणानुवादं कुर्वन्नाह - एता उपनिषदो मम जीवनस्य शान्तिसाधिकाः, मरणान्तरं चापि शान्तिसाधिका भविष्यन्ति । It has been the solace of my life and will be the solace of my death, उपनिषदां विषयाः - उपनिषदस्तु भारतीय तत्त्वज्ञानां सात्त्विकचिन्तनस्य प्रायशः सकलोऽपि संग्रहः समुपस्थाप्यते । उपनिषत्सु मुख्यत्वेन वर्णिता विषयाः समासतः सन्तिः — किं ब्रह्म, क ईश्वरः, जीवात्मनः किं स्वरूपम्, जीवात्मनः किं लक्ष्यम्, जीवो ब्रह्मणो भिन्नोऽभिन्नो वा, कथं च भिन्नत्वम् अभिन्नत्वं वा, सृष्टेः मूलरूपं किम्, कथं जगतः प्रादुर्भावः, कथं जगतः प्रलयः, अध्यात्मज्ञानस्य आवश्यकता, अध्यात्मेन किं साध्यते, अध्यात्मेन च कथं मोक्षावाप्तिः, कानि च मोक्षस्य साधनानि, निवृत्तिमार्गस्य कावश्यकता, ज्ञानमार्गेण किं साध्यते, ब्रह्मसाक्षात्कारस्य के लाभाः, इत्यादयः । उपनिषदां महत्त्वबोधकाः केचन विषया अत्र समासत उपस्थाप्यन्ते । विनश्वरे जगति एकं सत् अविनश्वरं च वस्तु ब्रह्मैव, तदेव जीवनेऽन्वेषितव्यम् । Page #31 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् अस्थूलमनण्वह्रस्वमदीर्घम्-अरसमगन्धम्-अस्मिन्नु खल्वक्षरे गार्याकाश ओतश्च प्रोतश्च ।-बृहदारण्यक० ३-८-८।। तस्य ब्रह्मणः सत्तयैव वाक्चक्षुर्मन आदिकं स्वकर्म कतु प्रभवन्ति । यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते। (केन १-५) जीवनेऽस्मिन् यदि ब्रह्मज्ञानं न स्यात् तहि जीवनं निष्फलमेव । तत्त्वज्ञानेन ब्रह्मदर्शनेन च जीवो मुक्तिं लभते इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः। भूतेषु भूतेषु विचिन्त्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ (केन २-५ ) कठोपनिषदि ब्रह्मप्राप्तः साध साधनं वर्ण्यते । रूपकम् आश्रित्याभिधीयते यत्-शरीरेऽस्मिन् आत्मा रथी, शरीरं रथः, बुद्धिः सारथिः, मनः प्रग्रहः, इन्द्रियाणि हयाः, संयमेनेन्द्रियाश्वान् वशे कृत्वा रथिनम् आत्मानं प्रेक्षेत आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयान्याहुविषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ कठ० १-३-३-४ ब्रह्मणोऽनिर्वचनीयत्वम् आश्रित्यैव उपनिषत्सु नेति नेति प्रोच्यते । ब्रह्मसाक्षात्कार एवं उपनिषदां चरमं लक्ष्यम् । ब्रह्मसाक्षात्कारेणैव सर्वपापनिरोधो मोक्षावाप्तिश्च तमेव विदित्वातिमृत्युमेति, नान्यः पन्था विद्यतेऽयनाय । श्वेताश्व० ३-८ ___ उपनिषत्सु वेदाभिमतः त्रैतवादोऽपि प्रस्तूयते । तत्रैक ईश्वरः अभोक्ता साक्षिरूपश्च, द्वितीयो जीवः कर्मफलभोक्ता, तृतीया प्रकृतिश्च अचेतना । दृष्टान्तरूपेण प्रकृतिः वृक्षः, जोवेश्वरौ च तत्रस्थौ पक्षिणौ। द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वादद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥ श्वेता० ४-६ वेदान्तप्रतिपादितस्य 'तत्त्वमसि' इति महावाक्यस्य मूलं छान्दोग्योपनिषदि प्राप्यते तत् सत्यं स आत्मा तत्त्वमसि श्वेतकेतो। छान्दोग्य० ६-६-१२-३ भगवद्गीतायां मुख्यतः प्रतिपादितस्य निष्कामकर्मयोगस्य मूलम् ईशोपनिषदि प्राप्यते कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ ईश० २ विश्वबन्धुत्वस्योपदेश ईशोपनिषदि उपलभ्यते Page #32 -------------------------------------------------------------------------- ________________ उपनिषदां महत्त्वम यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ईश० ६ ज्ञानकर्ममार्गयोः समन्वयेनैव सुखसाधनत्वं सिध्यति अविद्यया मृत्युं तो विद्ययाऽमृतमश्नुते। ईश० ११ उपनिषत्सु वेदानां सारभागः सरलयाव्यभिक्त्या प्रश्नोत्तररूपेण आख्या- . यिकासमन्वयेन च रुचिरां शैलीम् आश्रित्य प्रतिपाद्यते। उपनिषद एताः जीवने शान्तिप्रदायिकाः, आधिव्याधिनिरोधिकाः मनसः शान्तिदाः, आत्मनश्च प्रसादिकाः, अविद्यान्धतमसविनाशनात् ज्ञानप्रभाप्रसारिकाः, सर्वशास्त्रमूर्धन्यत्वेन समाहताश्च सन्तीति एतासां महत्त्वम् अक्षुण्णं निर्विवादं च । Page #33 -------------------------------------------------------------------------- ________________ .. ५. गीता सुगोता कर्तव्या (दुग्धं गीतामृतं महत् ) गीताया महत्त्वम्-कस्य न विदितं विपश्चितो भगवद्गीताया गुण· गौरवम् । गीतेयं न केवलं प्रस्तवीति सर्वासामपि उपनिषदां सारभागम्, अपि तु श्रुतिसारमपि प्रस्तौतितराम् । सांख्य-योगदर्शनयोः सिद्धान्तानां वैशयेन विवेचनात् प्रतिपादनाच्च दर्शनसारसंग्रहोऽप्यत्र उपलभ्यते । वेदान्तदर्शनप्रतिपादितस्य 'तत्त्वमसि' इति महावाक्यस्यापि अत्रोपलम्भाद् वेदान्तावगाहित्वमप्यस्य लक्ष्यते । सेयं सरलया भावाभिव्यक्ति-प्रक्रियया, भूयिष्ठायाऽर्थगभीरतया, प्रेष्ठया पद्धत्या, श्रेष्ठया विवृतिसरण्या, साधिष्ठया योगसाधनादीक्षया, वरिष्ठया आत्मविशुद्धि-शिक्षया सर्वस्यापि लोकस्य आतिम् अनुभवति । दुग्धं गीतामृतम्-गीतायाम् अस्यां सर्वासामपि उपनिषदां सारः मनोज्ञया पद्धत्या साधुतरं विविच्यते । उपनिषत्सु ये भावाः केवलं दार्शनिकपद्धत्या नीरसशैल्या च समभिहिताः सन्ति, ते एव भावाः साधिष्ठया भावप्रकाशनशैल्या विशदं समासतश्च प्रस्तूयन्ते । गीता न केवलम् उपनिषादमेव अपि तु समग्रस्यापि पूर्ववर्तिनो वाङ्मयस्य सारम् उपस्थापयति । अत एव गीता लोकप्रिया विश्वप्रिया चाभवत् । उक्तं च सर्वोपनिषदो गावो दोग्धा गोपालगन्दनः। पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥ गीतायाः सर्वविषयावगाहित्वेन, ज्ञान-विज्ञानसमन्वयात्, अध्यात्मविद्याचरमोत्कर्षेण, जगतो विनश्वरता-प्रतिपादनेन, साधनापद्धतेः विवृत्या, आचारविचार-शिक्षया, कर्तव्याकर्तव्य-प्रबोधनेन, निष्काम-कर्म-दीक्षया, अनासक्तियोग-शिक्षया चेयं समेषामपि विपश्चितां हृद्या अपचितिभाक च संजाता। __ 'अस्या भाषाशैली तादृशी मनोरमा, प्रसादगुणोपेता, माधुर्यावगाहिनी च यत् स्वल्प-शिक्षा-प्रबुद्धोऽपि मानवोऽस्या: सामान्यमर्थम् अवगन्तं पारयति । अतएव 'गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः' इति वचने न संशीतिलेशोऽपि । गीताया विषयप्रतिपादनम्–केचन दार्शनिका भावा ये दर्शनानां सारभूता आदर्शरूपाश्च सन्ति ते तथा रुचिरया भाषयाऽभिहिताः सन्ति, यथा सर्वजन-ग्राह्यत्वं भजन्ते । यथा-आत्मनः अजरत्वम् अमरत्वम् अविनाशित्वं च यद् दर्शनानां सारमस्ति तत् कथमिव हृद्यरूपेण माधुर्येण च प्रस्तूयते अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ (गीता २-२०) . आत्मनः अवध्यत्वं शाश्वतत्वं चोपदिशता प्रोच्यते Page #34 -------------------------------------------------------------------------- ________________ गीता सुगीता कर्तव्या नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। म चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥ (गीता २-२३) मृत्युना शरीरनाशो न त्वात्मविनाशः अन्यजन्मधारणं जीर्णवस्त्रपरिवर्तनेन नव-वस्त्र-धारणमिव विज्ञेयम् । तद्यथा वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ (२-२२} सांख्याभिमतः सत्कार्यवादः श्लोकद्वयेन साधूपस्थाप्यते। नासतो विद्यते भावो नाभावो विद्यते सतः। (२-१६ ) अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिवेदना ॥ (गीता २-२८) स्वकर्तव्यपालनं मानवस्य परमं कर्तव्यम् । कर्तव्यपालनेनैव जीवनस्य साफल्यं सिद्धलाभश्च तद्यथा स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः॥ (१८-४५ ) कीतिरक्षा मानवस्य मुख्य लक्ष्यम् । अयशोदूषितस्य नरस्य जीवनेन अलम् । यशो हि परमं भूषणम् । संभावितस्य चाकोतिर्मरणादतिरिच्यते ॥ (२-३४) कर्मफलस्य अवश्यंभावित्वम् उपपादयता साधु निरूप्यते यत् नहि कर्मनाशः न च कर्मफले प्रत्यवायः । स्वल्पमपि सुकृतं महद्भयविनाशकम् इति । नेहाभिकमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ( २-४० ) अनासक्तभावेनैव कार्यकरणं गीतायाः परमोपदेशः । तदुच्यतेकर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ (२-४७ ) अनासक्तिभावनया क्रियमाणं कर्म न बन्धनहेतुः, न च विषयोपलेपसाधनम्, अपि तु दुःख-पाप-विनाशनत्वाद् योगरूपं सत् त्रिविधतापापहं संजायते । उच्यते च . बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। __तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ (२-५०) विषयासक्तेः पुरुदर्कत्वं दुष्परिणामित्वं च कथमिव मनोवैज्ञानिक्या शैल्या प्रतिपाद्यते यद् ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते। संगात् संजायते कामः कामात् क्रोधोऽभिजायते ॥ क्रोधाद् भवति संमोहः संमोहात् स्मृतिविभ्रमः। स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥ (२-६२, ६३) Page #35 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् इन्द्रियसंयमः साफल्यस्य साधनमिति न केनापि व्यपदेष्टुं पार्यते । अतएवोच्यते यत् संयमिन एव प्रज्ञा प्रतिष्ठिता भवति । तस्माद् यस्य महाबाहो निगहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ( २-६८) कर्तव्यस्य कर्मणः अनिवार्यत्वम् उपपादयता उपस्थाप्यते यत् कर्तव्यानुष्ठानम् अन्तरेण लोकयात्राऽपि न प्रवर्तेत । नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिध्येदकर्मणः॥ ( ३-८) यज्ञस्य महत्त्वम् उपवर्णयता तस्य सर्वाभीष्टप्रदत्वम् उपपाद्यतेदेवान् भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ( ३-११) तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ( ३-११) आत्मसमर्पणस्य आत्मप्राप्तिसाधकत्वं प्रतिपाद्यतेब्रह्माणं ब्रह्म हविब्रह्माग्नौ ब्रह्मणा हतम । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ( गीता ४-२४) ज्ञानस्य परमपावनत्वं सर्वकर्मनाशकत्वं सर्वदुःखनिवारकत्वं च प्रतिपाद्यते ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ ( ४-३७ ) नहि ज्ञानेन सदृशं पवित्रमिह विद्यते । ( ४-३८ ) जीवने श्रद्धायाः किं महत्त्वं किं च तदुपयोगित्वमिति निरूपयता प्रोच्यते श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः। ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ( ४-३९ ) युक्ताहारविहार एव योगसाधने सक्षमः । तादृशस्यैव आत्यन्तिकी दुःखप्रहाणिः संजायते युक्ताहारविहारस्य युक्तचेष्टस्य कर्मस् । युक्यस्वप्नावबोधस्य योगो भवति दुःखहा ॥ ( ६-१७ ) अभ्यासाद् ज्ञानम्, ज्ञानाद् ध्यानम्, ध्यानात् कर्मफलत्यागो विशिष्यते । कर्मफलत्यागः शान्तेः प्रमुखं सोपानम् । श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागस्त्यागाछान्तिरनन्तरम् ॥ ( १२-१२) ऊर्ध्वमूलस्याश्वत्थस्य वर्णनं दर्शनसारसंग्रहम् उपलक्षयति । ' ऊर्ध्वमूलमधःशाखमश्वत्यं प्राहुरव्ययम् ।। छन्दांसि यस्य पर्णामि यस्तं वेद स वेदवित् ॥ (१५-१) Page #36 -------------------------------------------------------------------------- ________________ गीता सुगीता कर्तव्या दैवीसम्पद आसुरीसम्पदश्च वर्णनम् आचारशास्त्रं मानवजीवनस्य कर्तव्याकर्तध्यं च प्रस्तौतितराम् । अहिंसादिगुणगणसंपृक्ता दैवी सम्पद् विमोक्षाय, हिंसा-मिथ्याभाषणादिदुर्गुण-तति-निरता आंसुरी सम्पद् बन्धनाय विनाशाय च प्रवर्तेते, नात्र संशीतिः । दैवी संपद् विमोक्षाय निबन्धायसुरी मता ॥ (१६-५ ) श्रद्धाया मनोवैज्ञानिक रूपम् उपस्थापयता प्रोच्यते यत् पुरुषोऽयं श्रद्धामयः । यादृशी मानवस्य श्रद्धा तादृशः सोऽवगन्तव्यः । ___ श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ (१७-३) जीवने सर्व-कर्म-परित्यागेऽपि यज्ञ-दान-तपसाम् अपरिहार्यत्वम् अवश्यकर्तव्यत्वं च गृहमेधिनां यतीनां च कृते निरूप्यते । जीवनस्य पावनत्वं त्रयाणामप्येषां फलम् । 'यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्च व पावनानि मनीषिणाम् ॥ (१८-५) स्वधर्मानुशिष्टं कर्म कथमपि न परिहेयम् । स्वधर्मे निधनमपि श्रेयोवहम् । श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ (३-३५ ) सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । ( १८-४८) एवमिह गीता-प्रतिपादितानां केषांचिद् राद्धान्तानां समासतोऽत्र वर्णनम् उपस्थापितम् । एतस्यावलोकनेन निश्चप्रचम् एतत् सिध्यति यद् गीतायां सर्वेषां दर्शनानाम् उपनिषदां च सारः प्रस्तूयते । यदि केवलं गीतका एव अधीयते, विविच्यते, चिन्त्यते, लौकिकजीवने व्यवह्रियते च तर्हि मानवजीवनं सर्वथा सुख-शान्ति-समन्वितं सदुदकं च भविष्यति । अतः साधूच्यते गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद् विनिःसृता ॥ Page #37 -------------------------------------------------------------------------- ________________ ६. रम्या रामायणी कथा ( १. आदिकविर्वाल्मीकिः, २. वन्दे वाल्मीकिकोकिलम् ) वाल्मीकेरादिकवित्वम्-इह सुविपुले वाङ्मये महाकवेर्वाल्मीके म वियति तरणिरिव विद्योततेतमाम् । कविरयं वैदिकवाङ्मयानन्तरं सरसलौकिककाव्योपज्ञो रसभावनिष्णातो धर्मार्थकाममोक्षात्मकचतुर्वर्गोपदेष्टा जीवनोन्नायक आदर्शसंस्थापको धर्मकामः मृदुलसरसपदपरिपूतो माधुर्य-मृद्वीका-रसमनोहरः प्रसादाच्छच्छायासमलंकृतः कस्य न सचेतसः चेतः आह्लादयति । वाल्मीकिपूर्ववति समग्रमपि वाङ्मयं धर्मप्रवणत्वाद् धार्मिकम् आध्यात्मिकं चाभवत् । वाल्मीकिरेव तादृशः प्रगतिशीलो लोकभावाभिज्ञः सरसभावानुविद्धो मानवमनोविज्ञान-विदग्धः कविरासीद् यो रामचरितम् आश्रित्य लौकिकभावमयं रस-भाव-भाषालंकारालंकृतं सर्वजनग्राह्यं महाकाव्यं प्रणिनाय । अतएवायम् 'आदिकविः' इत्युपाधिना विभूष्यते । रामायणेऽप्येतत् तथ्यं कविना उल्लिख्यते आदिकाव्यमिदं चार्ष पुरा वाल्मीकिना कृतम् । उत्तररामचरितेऽप्येतत् तथ्यं प्रतिपाद्यते । ऋषे, आद्यः कविरसि । आम्नायादन्यत्र नतनश्छन्दसामवतारः। ( अंक २) रामायणस्याविर्भावः-पुण्यसलिलायास्तमसायास्तटे क्रौञ्चवधमवलोक्य तस्य महाकवेः सहसा कारुण्यपूर्णा तेजोमयी वाक् प्रास्फुरत् मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ -रामायण १-२-१५ तत्कालादारभ्य भारतीयवाङ्मये लौकिकभावोपेतां रामकथामूला रामायणसरित् प्रसृता। एतदेवानुसृत्य महाकविः कालिदासः सीतापरित्यागप्रसङ्गे अवोचतनिषादविद्धाण्डजदर्शनोत्थः, श्लोकत्वमापद्यत यस्य शोकः।-रघु० १४-७० ध्वन्यालोककृद् आनन्दवर्धनाचार्योऽपि वाल्मीकिमेवं स्तौति । काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा। क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः॥ -ध्वन्यालोक १-५ रामायणस्य महत्त्वम्--महाकाव्यमिदं रामायणं विशिष्टेनोदात्तत्वेन, भाषाया माधुर्योजःप्रसादगुण-समन्वितत्वेन, रचनाशैल्याः प्राञ्जलतया, भावानां मनोहारिण्या विवृत्या, सर्वेषां रसानां यथास्थानम् उपन्यासात्, भारतीयायाः संस्कृतेविशदं विवरणात्, तात्कालिकसभ्यतायाः सुस्पष्ट चित्रणेन, आचारसंहितायाः संकलनेन, नीतिशिक्षायाः संग्रहेण, आयुर्वेद-धनुर्वेद-गान्धर्ववेदादीनां यथायथम् उपयोगात्, गाम्भीर्येण, अर्थगौरवेण, ललितपदपद्धत्या, मार्मिकभावाभिव्यञ्जनेन, अलंकाराणां सुनियोजनेन, छन्दसां संगीतात्मकत्वेन च Page #38 -------------------------------------------------------------------------- ________________ रम्या रामायणी कथा विशालेऽस्मिन् काव्याकाशे चकास्तितमाम् । अतएव भूयोभूयो महाकाव्यमिदं संस्तूयते प्रशस्यते अभिवन्द्यते च विद्वद्धौरेयैविदग्धैः । अनर्घराघवे कविर्मुरारि:-अहो, सकलकविसार्थ-साधारणी खल्वियं वाल्मीकीया सुभाषितनीवी ( प्रस्तावना ), इति वाल्मीकि प्रशंसति । श्रीभोजराजो रामायणचम्पूग्रन्थे तं मधुररचनाप्रचारचतुरं कवीनां मार्गदर्शकं चेति मन्यते मधुमयभणितीनां मार्गदर्शी महर्षिः॥ रामायणचम्पू १-८ महाकाव्यमिदं परवर्तिनां काव्यानां नाटकानां चोपजीव्यत्वेन संस्तूयते । बाल्मीकेर्मतं यद् रामचरितम् अनाश्रित्य न काव्यानां यशोभाक्त्वं प्रसिध्यति । उक्तं च रामायणेन ह्यन्योऽर्हति काव्यानां यशोभाग् राघवाद् ऋते। रामायण, उत्तर० ९८-१८ रामायणस्योपजीव्यत्वम्-महाकाव्यमेतदाश्रित्य प्रवृत्तानि कानिचित् काव्यानि नाटकानि च दिङ्मात्रमिह उदाह्रियन्ते । ( १ ) भासकृतम्-प्रतिमानाटकम्, (२) कालिदासकृतम्-रघुवंशमहाकाव्यम्, ( ३ ) दिङ्नागकृता-कुन्दमाला, (४) भट्टिकृतम्-भट्टिकाव्यम्, (५) भवभूतिकृतम्-महावीरचरितम्, उत्तररामचरितं च, (६) मुरारिकृतः-अनर्घराघवः (७) क्षेमेन्द्रकृता-रामायणमञ्जरी, (८) भोजराजकृतः-रामायणचम्पूः । रामायणस्य लोकप्रियता-रामायणस्य तादृशी लोकप्रियता यथा न केवलमेतद् विदुषामेव विभूषणम्, अपि तु सामान्यरूपेण सर्वजनानां धनिनांनिर्धनानाम्, विदग्धानाम्-अज्ञानाम्, पुरुषाणां-स्त्रीणाम्, आबालवृद्धं कण्ठाभरणताम् आपद्यते । आचारसंहितारूपेणेदं सर्वत्र आद्रियते, भक्तानां भवनेषु च प्रतिदिनं पारायणीक्रियते । अतः सत्यमुच्यते भगवता वाल्मीकिना यद् यावद् स्थास्यन्ति गिरयः सरितश्च महीतले। तावद् रामायणकथा लोकेषु प्रचरिष्यति ॥ रामायण बालकाण्ड २-३६ रामायणमेतद् नवरसरुचिरा कृतिः । अत्र यथास्थानं सर्वेषामपि रसानाम् अभिव्यक्तिरवलोक्यते । तत्रापि विप्रलम्भशृंगारस्य करुणरसस्य चाभिव्यक्ती चरमोत्कर्षत्वं लक्ष्यते । उक्तं च हास्य-शृङ्गार-कारुण्य-रौद्र-वीर-भयानकैः। बीभत्साद्भुत-संयुक्तं काव्यमेतदगायताम् ॥ रा० बाल० ४-९ वाल्मीकिः काव्यकानने राम-रामेति मधुरं कूजन् कलरवरुचिरः कोकिला इति संस्मर्यते सूरिभिः कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकि-कोकिलम् ॥ Page #39 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् रामायणस्य महत्त्वं बृहद्धर्मपुराण-स्कन्दपुराणादिषु जेगीयते । तद्यथा पठ रामायणं व्यास काव्यबीजं सनातनम् । यत्र रामचरितं स्यात् तदहं तत्र शक्तिमान् ॥ बृहद्धर्मपुराण रामायणं नाम परं तु काव्यं पुण्यप्रदं वै शृणुत द्विजेन्द्राः।। यस्मिन् श्रुते जन्मजरादिनाशो भवत्यदोषः स नरोऽच्युतः स्यात् ॥ स्कन्दपुराण रामायणस्य विषयाः-रामायणे क्वचिद् दर्शनानाम्, क्वचिद् आगमानाम्, क्वचिद् उपनिषदाम्, क्वचित् स्मृतीनाम्, क्वचिन्नीतिशास्त्रस्य, क्वचित् विज्ञानस्य, क्वचिन्मनोविज्ञानस्य, क्वचिद् आयुर्वेद-धनुर्वेद-ज्योतिष-मनोविज्ञान-तन्त्रादीनां सारः तत्संबद्धा उपयोगिनो विषयाश्च समुपस्थाप्यन्ते । दिङ्मात्रमिह केचन श्लोका उदाह्रियन्ते :यस्मिस्तु सर्वे स्युरसंनिविष्टा धर्मो यतः स्यात् तदपक्रमेत। द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता । अयोध्या० २१-५८ कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।। चारित्रमेव व्याख्याति चि वा यदि वाऽचिम् ॥ सत्यमेवेश्वरो लोके सत्ये धर्मः सदाश्रितः। सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् । अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ सुन्दरकांड सर्ग १२ नाराजके जनपदे धनवन्तः सुरक्षिताः। शेरते विवृतद्वाराः कृषिगोरक्ष-जीविनः ॥ अयोध्या० ६७-१९ अतएवेयं रामायणी गङ्गा भुवनत्रयपावनीति प्रशस्यतेवाल्मीकिगिरिसंभूता रामाम्भोनिधि-संगता। श्रीमदरामायणी गङ्गा पुनाति भुवनत्रयम् ॥ त्रिविक्रमभट्टो नलचम्पूकाव्ये विरोधाभासमाश्रित्य वाल्मीकिम् अभिनन्दयन् आह सदूषणापि निर्दोषा सखरापि सुकोमला। नमस्तस्मै कृता येन रम्या रामायणी कथा ॥ नलचम्पू १-११ . Page #40 -------------------------------------------------------------------------- ________________ ७. भारतं पञ्चमो वेद: ( १. यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्, २. महत्वाद् भारवत्त्वाच्च महाभारतमुच्यते ) महाभारतस्य कर्तृत्वं विवरणं च - महाभारतस्य कर्तृत्वविषये प्रचुरो विवादः । अस्य परिमाणविषयेऽपि नैकमत्यं विदुषाम् । महाभारते क्वचिद् ग्रन्थोऽयं जयनाम्ना, क्वचिद् भारत- नाम्ना, क्वचिच्च महाभारत- नाम्नोल्लिख्यते । सूक्ष्मेक्षिकयाऽवलोकनेन विज्ञायते यद् महाभारतस्य प्रगतेः चरणत्रयं वर्तते । प्रथमे चरणे जयनामकं काव्यमेतत् ८८०० श्लोकपरिमितं व्यासकृतं धर्मचर्चाम् आश्रित्य वैशम्पायनाय श्रावितमभूत् । द्वितीयचरणे भारतनामकं महाकाव्यमेतद् वैशम्पायनकृतं २४ सहस्रश्लोकपरिमितं जनमेजयस्य नागयज्ञे जनमेजयाय श्रावितमभूत् । तृतीयचरणे महाभारत - नामकं महाकाव्यमेतत् सौतिकृतम् एकलक्षश्लोकपरिमितं नैमिषारण्ये यज्ञकाले शौनकादिभ्य ऋषिभ्यः श्रावितमभवत् । अत्र प्रधानतः कौरव - पाण्डवानाम् इतिवृत्तं विवादो गीतोपदेशो महाभारतयुद्धे पाण्डवानां विजयावाप्तिश्च वर्ण्यन्ते । अस्य कर्तृत्वरूपेण व्यासो वेदव्यासो वा प्राधान्येन प्रकीर्त्यते । व्यासस्य जन्मादिविषये बहुविधा किंवदन्ती श्रूयते । परं वेदानां यथायथं विभाजनाद् वेदव्यासः समासतो व्यास इति नामान्तरं संगच्छते । ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया । विव्यास वेदान् यस्मात् स तस्माद् व्यास इति स्मृतः ॥ ( महा० १-६६-८८ ) व्यासो वर्षत्रयेण महाकाव्यमेतत् प्रणिनायेति तद्वचनादेव विज्ञायते । त्रिभिर्वर्षेः सदोत्थाय कृष्णद्वैपायनो मुनिः । महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥ महाभारत १-५६-३२ लक्षश्लोकपरिमितत्वादेव गुप्तकालीन शिलालेखेषु 'शतसाहस्री संहिता' इति नाम्ना ग्रन्थोऽयं निर्दिश्यते । अत्र कथाविभागम् आश्रित्य १८ पर्वाणि सन्ति । महाभारतस्य वैशिष्ट्यम् - महाभारतमिदं न केवलम् आख्यानम् अपितु समग्रस्यापि संस्कृतवाङ्मयस्य सारभूतम् । सर्वलोकप्रियत्वाय निखिलमपि वैदिकं लौकिकं च तथ्यम्, दर्शनम्, शास्त्रसारम्, आख्यानम्, नीतिशास्त्रम्, आचारशास्त्रम्, अन्यच्चापि लोकोपयोगि तत्त्वम् अत्र संगृह्य प्रस्तूयते । महाभारतकृतोऽवर्तत महत्त्वाकाङ्क्षयं यद् धर्मार्थ-क -काम-मोक्ष-विषयकम् अखिलमपि जिज्ञासितं तथ्यम् अत्रावाप्येत । न च किंचिद् उच्छिष्येत । अतएवोच्यते— Page #41 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥ महा० १-६२-५३ महत्त्वाद् भारवत्त्वाच्च०-महाभारतस्य विशालं परिमाणमपि विलोक्यास्य महत्त्वविषये प्रोच्यते यद् महनीयोऽयं ग्रन्थो यथैव वपुषा विशालस्तथैव भावगाम्भीर्येण अर्थगौरवेण च । ज्ञानाग्निसमेधितत्वाच्च एतस्य महत्त्वं न कथंचिदपि अपलपितुं पार्यते । अतएव महत्त्वमेतस्य उद्गायता प्रोच्यते महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते। भारतं पञ्चमो वेदः-वेदानां धर्मप्रधानत्वाद् यज्ञादिकर्मकाण्डसमन्वितत्वाद् अध्यात्मभावप्रवणत्वाच्च न समेषां प्रियत्वम् । अतएव लोकाख्यानसमन्वितं नीतिदीक्षाविशिष्टं राजनीतिशिक्षासंजुष्टम् आचारशिक्षासंपुष्टं च कामिनीवचोमधुरं काव्यमिदं व्यासोपदिष्टम । सर्वमनोमोहनत्वाच्चैतद् न केवलं भारतवर्षे अपितु यव-सुवर्णादिपूर्वीयद्वीपेषु अन्येषु च वैदे शकेषु प्रदेशेषु नितरां प्रसिद्धि लेभे । एतदेवोद्दिश्य भागवते प्रोच्यते भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः। दश्यते यत्र धर्मादि स्त्रीशद्रादिभिरप्युत ॥ भागवत०१-४-२९ वेदचतुष्टय्यां द्विजानामेव विशिष्टा गतिः धर्मत्वेनाभिरुचिश्च, परं महाभारते समेषामपि वर्णानां सामान्याभिरुचिः प्रीतिर्गतिश्च । अस्य पावनत्वम् उत्कृष्टत्वं सर्वार्थसाधकत्वं च प्रेक्ष्य 'पञ्चमोऽयं वेदः' इति विपश्चिद्भिः साह्लादम उद्घोष्यते । .., यदिहास्ति तदन्यत्र०-समन्वयात्मकमिदं महाकाव्यम् अत्र सर्वविषयसंकलनात् सकलशास्त्रीयतत्त्वसारग्रहणाद् विश्वकोशत्वेन गणना महाभारतस्यास्य गौरवं विवृणुते । तदानीन्तनः समग्रोऽपि वैदिको लौकिकश्च प्रथितो विषयो महाभारते संलक्ष्यते । महाभारतेऽस्मिन् काव्यम्, दर्शनम्, अध्यात्मम्, वैदिकं तत्त्वम्, ऐतिह्यम्, आख्यानम्, नीतितत्त्वम्, राजनीतिसारः, अन्यच्चापि लोकोपयुक्तं तत्त्वजातं सुमधुरया शैल्या संगृह्योपस्थाप्यते । अतएव ग्रन्थकर्तुः इयम् उद्घोषणा न विप्रतिपत्तिम आश्रयते यद यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥ अतएव महाभारतस्य गुणगौरवं समीक्ष्य वेणीसंहारे भट्टनारायणो व्यासवचनं सुधामधुरमिति संस्तवीति श्रवणाञ्जलिपुटपेयं विरचितवान् भारताख्यममृतं यः। तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ वेणीसंहार १-४ स्वगुणगौरवादेव व्यास: त्रिदेववद् आद्रियते संमान्यते च । उक्तं चअचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः। अभाललोचनः शम्भुर्भगवान् बादरायणः॥ Page #42 -------------------------------------------------------------------------- ________________ भारतं पञ्चमो वेदः . २५ महाभारतस्य विविधविषयावगाहि-ज्ञानम् अर्थगौरवं भावगाम्भीयं च . प्रदर्शयितुं कतिपयानि सुभाषितानि दिङ्मात्रमत्र उपस्थाप्यन्ते। ' ( क ) दार्शनिकभावोपेतानि सूक्तानि नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् । क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद स परः कविः ॥ उद्योग० ३३-१०७ अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा, लिङ्गस्य योगेन च याति नित्यम् । तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम् ॥ उद्योग० ४६-१५ (ख ) नीतिशिक्षाविषयकाणि सुभाषितानि । यथायस्मिन् यथा वर्तते यो मनुष्यस्तस्मिन् तथा वर्तितव्यं स धर्मः। मायाचारो मायया वतितव्यः साध्वाचारः साधुना प्रत्युपेयः॥ उद्योग० ३-७७ वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च । अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ उद्योग० ३६-३० न च शत्रुरवज्ञेयो दुबलोऽपि बलीयसा। अल्पोऽपि दहत्यग्नि-विषमल्पं हिनस्ति च ॥ शान्ति० ५७-१७ (ग ) अर्थशास्त्रीयाः सूक्तयो यथा धनमाहः परं धर्म धने सर्व प्रतिष्ठितम् । जीवन्ति धनिनो लोके मृता ये त्वधना नराः॥ उद्योग० ७१-३१ धनात् कुलं प्रभवति धनाद् धर्मः प्रवर्धते । नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ॥ शान्ति०८-२२ (घ ) राजनीतिविषयकाणि सूक्तानि यथा राजा प्रजानां प्रथमं शरीरं प्रजाश्च राज्ञोऽप्रतिमं शरीरम् । राज्ञा विहीना न भवन्ति देशा देशैविहीना न नृपा भवन्ति ॥ __ शान्ति० ६७-५९ राजा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते। ___ यद् यदाचरते राजा तत् प्रजानां स्म रोचते ॥ शान्ति० ७५-४ एवं विज्ञायते यद् महाभारतं गुणगौरवात्, सर्वविषयावगाहित्वात्, आचारशिक्षणात्, पावनत्वाच्च पञ्चमो वेद इति । Page #43 -------------------------------------------------------------------------- ________________ ८. पुराणं पञ्चलक्षणम् (पुराणं दशलक्षणम् ) पुराणानां स्वरूपम्-पुराणानि भारतीय-संस्कृतेः पुरातनं स्वरूपं प्रकाशयन्ति, वेदार्थं च कथा-आख्यानादिरूपेण विशदयन्ति, प्राचीनम् इतिहासम् अज्ञातं चापि ऐतिह्यं प्रकाशताम् आपादयन्ति । एवं भारतीयैतिह्य-ज्ञानाय, भारतीय-संस्कृतेः ज्ञानाय, प्राचीनाचार-विचार-परिज्ञानाय, प्राचीन-भौगोलिकविवरण-ज्ञानाय, विविध-शास्त्राणां च सारज्ञानाय पुराणानां महत्त्वं न केनापि निराकतुं शक्यते । पुराणं पञ्चलक्षणम्-विष्णुपुराणादिषु प्रतिपाद्य-विषयम् आश्रित्य पुरा णानां लक्षणं निरूप्यते यत् सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चल णम् ॥ . पुराणेषु मुख्यतः पञ्चतत्त्वानां समावेशः स्वीक्रियते । लक्षणेष्वेतेषु कस्यचित् तत्त्वस्य कस्मिश्चित् पुराणे वैशिष्टयं निरूप्यते, अन्यस्मिश्च कस्यचिदन्यस्य तत्त्वस्य । एवं प्रतिपुराणं लक्षणानाम् एषां न्यूनाधिक्यम् अवलोक्यते । एवं क्वचित् पञ्चानामपि लक्षणानां समावेश उपलभ्यते, अन्यत्र च कस्यचिद् एकस्य द्वयस्य वा तत्त्वस्य समुपलब्धिर्भवति । सन्ति च कानिचित् पुराणानि येषु अन्येषामेव विषयाणां वैशिष्ट्येन प्रतिपादनं वर्तते । तथापि तेषां गणना पुराणेषु स्वीक्रियते । पुराणं दश-लक्षणम्-श्रीमद्भागवतपुराणानुसारं पुराणानां दश-लक्षणानि सन्ति । क्वचित् पञ्च लक्षणानि क्वचित् दश लक्षणानि, इति मतभेदस्य किं कारणमिति जिज्ञासायां तदुत्तरं भागवतकृता स्वयमेव व्यादिश्यते, यत् महापुराणेषु दश लक्षणानि प्राप्यन्ते, लघुषु च पुराणेषु केवलं पञ्चानामेव लक्षणानां प्राप्तिर्भवति । एवं महल्लघुभेदेन दश-पञ्च-लक्षणानां संगतिव्यवस्थाप्या। दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः । केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ भागवतपु० १२-७-२० सामान्यतः स्वीकृतानां पञ्चानां लक्षणानां प्राग् विवृतिः प्रस्तूयते । सर्गः-श्रीमद्भागवत-पुराणे पञ्चानामपि लक्षणानां विवरणं प्राप्यते । तत्र च सर्गस्य स्वरूपं निरूप्यते यत् अव्याकृत-गुणक्षोभान्महतस्त्रिवृतोऽहमः। भूतमात्रेन्द्रियार्थानां संभवः सर्ग उच्यते ॥ भागवतपु० १२-७-११ Page #44 -------------------------------------------------------------------------- ________________ पुराणं पञ्चलक्षणम् २७. सर्ग-शब्देन सृष्ट्युत्पत्तेः वर्णनम् अभिप्रेतमस्ति । भागवतानुसारं सर्गशब्देन सांख्याभिमता सृष्टि-प्रक्रिया स्वीक्रियते । साम्यावस्थाम् आपन्नायां मूलप्रकृतौ यदा गुणक्षोभ आपद्यते, तदा महत्-तत्त्वम् उत्पद्यते, ततश्च अहंकारस्योद्भवो भवति, गुणत्रयम् आश्रित्य त्रिविधाद् अहंकारात् पञ्चतन्मात्राणाम् एकादशेन्द्रियाणां चोत्पत्तिर्भवति । पञ्चतन्मात्राभ्यश्च पञ्चमहाभूतानाम् उद्भवो जायते। प्रतिसर्गः-प्रतिसर्ग-शब्देन प्रलयस्य सृष्टेः पुनरुद्भवस्य च वर्णनम् अभीष्यते । भागवतानुसारं प्रतिसर्ग-लक्षणम् अस्ति पुरुषानुगृहीतानामेतेषां वासनामयः। विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् ॥ भा० पु० १२-७-१२ इदं सकलं चराचरात्मकं जगत् स्व-वासनामयैः संस्कारैः पुनः पुनः सृष्टिरचनायां जनिम् आपद्यते । यथा बीजानि वृक्षादिरूपेण समुद्भूतानि प्रलये बीजरूपं प्राप्तान्यपि पुनः वृक्षादिरूपेण आविर्भवन्ति, तथैव स्थावरं जङ्गमं च जगत् स्वसंस्कारवशात् पुनर्जायते । एतस्यैव वर्णनं प्रतिसर्ग-शब्देन अभीष्यते। वंशः-वंश-शब्देन राज्ञाम् ऋषीणां च वंशावल्या वर्णनम् इष्टमस्ति । वंश-लक्षणं भागवतानुसारमस्ति राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः। भागवतपु० १२-७-१६ ब्रह्मण: समुद्भूतानां नृपाणां त्रिकालमाश्रित्य वंशावल्या वर्णनं वंशशब्दस्याभिप्रायः । वंश-शब्देन न केवलं नृपाणामेव, अपि तु ऋषीणां देवादीनां चापि वंशावलिः संग्राह्या। रामायण-महाभारतादिषु कस्यचिदेकस्य वंशस्य वर्णनमाप्यते, परं पुराणेषु सामान्यरूपेण अतीत-वर्तमान-अनागतानां च नृपादीनां वंशावलिर्वर्ण्यते । इद चात्रावधेयं यत् पुराणानि सांस्कृतिक दृष्ट्या ऐतिहासिक-दृष्टया चातीव महत्त्वपूर्णानि रत्नानि सन्ति । सृष्टेः प्रारम्भादारभ्य विविधानां नपवंशावलीनां वर्णनं यथा व्यवस्थितरूपेण पुराणेषूपलभ्यते, न तथान्यत्र । बहूनि चात्र वर्णितानि तथ्यानि प्राप्तेभ्यः शिलालेखादिभ्यः पुष्टि. मुपयान्ति । सूर्यवंश-चन्द्रवंशादीनां प्रथितानां वंशानां विविधवत्त-समन्वितं वर्णनं पुराणेषु साधूपलभ्यते । एवं वंशवर्णनम् ऐतिह्य-दृष्ट्या नितान्तं महत्त्वपूर्ण सिध्यति। __ मन्वन्तरम्--मन्वन्तर-शब्देन प्रत्येकस्य मनोः कालः, तदानीन्तनानां विविधानां वृत्तानां सुव्यवस्थितम् उल्लेखो वर्णनं च मन्वन्तर-शब्देनाभीष्टं वर्तते । भागवतानुसारं मन्वन्तरस्य लक्षणं विद्यते-- मन्वन्तरं मनुदेवा मनुपुत्राः सुरेश्वरः। ऋषयोंऽशावतारश्च हरेः षड्विधमुच्यते ॥ भागवतपु० १२-७-१५ मन्वन्तर-शब्देन मनोः देवानां मनुपुत्राणाम् इन्द्रस्य सप्तर्षीणां विष्णोः Page #45 -------------------------------------------------------------------------- ________________ २८ संस्कृतनिबन्धशतकम् अंशावताराणां च वर्णनं तत्सम्बद्धं च विविधं वृत्तं संग्राह्यम् । प्रतिकल्पं चतुर्दश मनवो भवन्ति । प्रतिमन्वन्तरं के राजानोऽभवन्, तत्र के ऋषयो महर्षयश्चाभवन्, तैः किं विशिष्टं कृत्यजातं व्यधायि, तस्मिन् काले किं किं विशिष्टं वृत्तं वा घटितम्, इत्यादि सर्वमपि मन्वन्तर-वर्णने वर्ण्यते । ऐतिह्यस्य याथातथ्यतोऽवबोधाय मन्वन्तरस्य ज्ञानमपि नितराम् आवश्यकम् । वंशानुचरितम्--वंशानुचरिते विशिष्टवंशोत्पन्नानां नृपादीनां विशिष्टं चरितं विशदतया वर्ण्यते । भागवतानुसारं तल्लक्षणं विद्यते वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ भागवतपु० १२-७-१६ वंशानुचरिते सूर्य-चन्द्रादि-वंशजानां नृपाणां तवंशधराणां च जीवनचरितं सविस्तरं प्रतिपाद्यते । वंशानुचरितस्य पुराणेषु महती आवश्यकता वर्तते । ये केचन तत्र राजर्षयो महात्मानः पुण्यात्मानश्चाभवन्, तेषां सविशदं चरितम् अनुश्रुत्यैव परवर्तिनः सामान्या नराः स्वजीवनं पावयन्ति, तथाविधकर्मानुष्ठानेन विपत्पारावारं समुत्तितीर्षन्ति, स्वजन्म सफलं चिकीर्षन्ति, लौकिकं पारलौकिकं च पुण्यं चिचीर्षन्ति । यद्यैवं विचार्यते चेत् तर्हि वंशानुचरित-वर्णनस्यापि महती आवश्यकता उपयोगिता चास्ति । पुराणं दशलक्षणम्-श्रीमद्भागवते पुराणे पुराणं दशलक्षणमिति निरूप्यते । भागवतकृता चैवं तद्वर्णनं निर्दिश्यते पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिनिरूपितम् । शृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः॥८॥ सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च । वंशो वंशानुचरितं संस्था हेतुरपाश्रयः॥९॥ दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः। केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ भागवत० १२-७-१० एषां दशलक्षणानां पञ्चकं प्राग निरूपितमेव । अवशिष्टं पंचकं संक्षेपतो निरूप्यते। वृत्तिः--अत्र वृत्तिशब्देन जीवानां भोजनाच्छादनादिकं तेषां जीविकानिर्वाहोपायाः, कृत्याकृत्यादिवर्णनम्, हेयोपादेयादिकं च निरूप्यन्ते । उच्यते च वृत्तिर्भूतानि भूतानां चराणामचराणि च । कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा ॥ भागवत० १२-७-१३ तत्र काचिद्वत्तिः स्वेच्छया स्वीक्रियते, काचिच्च शास्त्रानुसारतो जीविकानिर्वाहार्थं वा। रक्षा---अत्र वेदादीनां वैदिकर्मिणां च रक्षार्थं विष्णोः अवतारस्य वर्णनं भवति । अवतारं प्राप्तस्य विष्णोर्वेदविरोधिनां संहारस्य पुण्यात्मनां रक्षायाश्च वर्णनं भवति । उच्यते च-- Page #46 -------------------------------------------------------------------------- ________________ २९ पुराणं पञ्चलक्षणम् रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे। , तिर्यमर्त्यषिदेवेषु हन्यन्ते यैस्त्रयोद्विषः ॥ भाग० १२-७-१४ संस्था-संस्थाशब्देन सर्गस्यास्य प्रलयस्य वर्णनम् अभीष्टमस्ति । प्रल-- यश्च चतुर्विधो भवति-नैमित्तिकः, प्राकृतिकः, नित्यः, आत्यन्तिकश्च । ___हेतुः-हेतु-शब्देन जीवस्य ग्रहणं भवति । स एव अविद्यावशगो भूत्वा जायते म्रियते च । अत्र जाग्रत्-स्वप्न-सुषुप्ति-दशानां वर्णनं भवति । अपाश्रयः--अपाश्रयशब्देन तुरीयतत्त्वस्य ब्रह्मणो वर्णनम् अभीष्टमस्ति । व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु । मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः ॥ भाग १२-७-१९ एवं पञ्चलक्षणेन दशलक्षणेन च पुराणानां महत्त्वं वैशिष्ट्यं च प्रतिपाद्यते । Page #47 -------------------------------------------------------------------------- ________________ ९. पुराणानां महत्त्वम् ( इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ) पुराण-शब्दार्थः--किं तावत् पुराणमिति जिज्ञासायां पुराण-शब्दार्थो बहुधा निरुच्यते । काश्चन निरुक्तयोऽत्र समासतो निर्दिश्यन्ते । ( १ ) पुराणम् आख्यानं पुराणम् इति, अर्थात् प्राचीनानि आख्यानानि पुराणानीति । (२) यस्मात् पुरा हि अनति इदं पुराणम् ( वायुपुराण १-२०३), यत् पुरा सजीवम् आसीत् तत् पुराणम् । (३) जगतः प्रागवस्थाम् अनुक्रम्य सर्गप्रतिपादकं वाक्यजातं पुराणम् ( सायण, ऐ० ब्रा० भूमिका), संसारोत्पत्तेः विकासक्रमस्य च बोधकं पुराणम् । ( ४ ) पुरार्थेषु आनयतीति पुराणम् ( पद्मपुराण ), पुरुष-प्रकृत्यादि-पूर्वतत्त्वचिन्तनपरं पुराणमिति । ( ५ ) पुरा परम्परां वक्ति पुराणं तेन वै स्मृतम् ( वायुपुराण), प्राचीन-परम्परा-प्रतिपादका ग्रन्थाः पुराणमिति । ( ६ ) विश्वसृष्टेरितिहासः पुराणम् (मधुसूदन-सरस्वती )। विश्वरचनाया ऐतिह्यमेव पुराणशब्दाभिमतम् । १८ पुराणानि, १८ उपपुराणानि च पुराणनाम्ना व्यवह्रियन्ते । पुराणं पञ्चलक्षणम्--प्रतिपाद्यविषयम् आश्रित्य पुराणानां पञ्चलक्षणानि निर्दिश्यन्ते सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।। ___वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ( विष्णु पुराण) पुराणेषु पञ्चतत्त्वानां समावेशोऽपेक्ष्यते। (१) सर्गः-सृष्ट्युत्पत्तिवर्णनम् । (२) प्रतिसर्गः-प्रलयस्य, सृष्टेः पुनरुद्भवस्य च वर्णनम् । (३) वंशःदेवानाम् ऋषीणां च वंशावल्या वर्णनम् । (४) मन्वन्तराणि---प्रत्येकस्य मनोः कालः, तत्काल-घटितानां वृत्तानां च वर्णनम् । ( ५ ) वंशानुचरितम्--सूर्यचन्द्रादि-वंशजानां नपाणाम् इतिवृत्तात्मकं वर्णनम् । पञ्चलक्षणमिति सामान्यो निर्देशः । नैतेन सर्वविषय-संग्राहकत्वम् । विषयान्तराणामपि पुराणेषु सद्भावात्, पञ्चलक्षणस्य च क्वचित् परिहारात् । पुराणानां रचनाकालः-पुराणानां रचनाकाल: ६०० ईसवीयपूर्वादारभ्य ५०० ईसवीयसंवत्सरं यावत् स्वीक्रियते । पुराणेषु प्रतिपाद्या विषयाः-पुराणेषु मुख्यतो निम्नाङ्कितानां तथ्यानां वर्णनम अवाप्यते । (१) कस्यचिद् देवस्य कस्याश्चिद् देव्या वोपासना। तस्यैव देवस्य सर्वोत्कृष्टता-प्रतिपादनं च । (२) ब्रह्म-विष्णु-महेशेषु कस्याप्येकस्य इष्टदेवत्वेन वर्णनम् । (३ ) सृष्टेरुत्पत्तेः स्थितेः प्रलयस्य च वर्णनम् । (४) देवानाम् ऋषीणां च वंशावलिः, तज्जीवनवृत्तं च । ( ५ ) मनोः मन्वन्तरस्य च वर्णनम् ( ६ ) नन्द-मौर्य-शुङ्ग-आन्ध्र-गुप्तादिवंशजानां नृपाणां भूपतीनां च Page #48 -------------------------------------------------------------------------- ________________ पुराणानां महत्त्वम् इतिवृत्त-वर्णनम् । (७) तीर्थानां प्रथित भौगोलिकस्थानानां तीर्थयात्रादीनां च वर्णनम् । (८) व्रत-जप-उपवास-प्रार्थनादीनां सानुष्ठानं वर्णनम् । (९) अवतारवादस्य मूर्तिपूजाया विविधदेवोपासनायाश्च संस्थापना। (१०) सगणोपासनाया भक्तिमार्गस्य च प्राधान्येन प्रतिपादनम् । (११) दार्शनिकधार्मिक-राजनीतिक-आचारशास्त्रादि-महत्त्वभाजां विषयाणां विवेचनं विश्लेषणं च । (१२) व्याकरण-काव्यशास्त्र ज्योतिःशास्त्र-शरीरविज्ञान-आयुर्वेदादि शास्त्रीयाणां वैज्ञानिकानां च विषयाणां तथ्यसंकलनम् ।। पुराणानां महत्त्वम्--भारतीयायाः संस्कृतेः सभ्यतायाश्च यथायथम् अवगमाय पुराणानां नितरां महत्त्वमस्ति । पुराणानि विहाय न क्वचिदन्यत्र विपुलेऽपि वाङ्मये प्राचीनसंस्कृतेः सविस्तरं वर्णनम् उपलभ्यते । अतएव वायुपुराणे तन्महत्त्वम् उद्घोष्यते यत् चतुर्वेदविदपि पुराणज्ञानविहीनो न विचक्षणपदवीम् आरोढुं शक्नोति । उक्तम् च यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः । न चेत् पुराणं स विद्यात् नैव स स्याद् विचक्षणः ॥ ( वायुपुराण ) पुराणानां धर्मार्थकाममोक्षात्मक-चतुर्वर्ग-साधनाद् वेदत्वं प्रतिपाद्यते । पुराणं पञ्चमो वेद इत्याद्रियते । उक्तम् च भागवते इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ सर्वजनहिताय सर्वजनबोधाय च प्रसादगुणोपेतायाः पद्धत्याः समाश्रयेण पूराणानां महत्त्वं प्रतिपदम् आलक्ष्यते । आबालवृद्धं पुराणानां प्रियत्वं न कस्यचिद् विपश्चितो विप्रतिपत्तेविषयः । कथाख्यानाश्रयेण निगूढतत्त्वनिरूपणं सरलतया तदभिव्यक्तिश्च पुराणानां महत्त्वम् एधयति । पुराणानां तादृशी मनोहरा शैली भावाभिव्यक्ति-प्रक्रिया च यथा ज्ञानलव-दुर्विदग्धोऽपि मानवो विविधविषयावगाहि ज्ञानं सरलतया अवाप्नोति । पुराणेषु क्वचित् काव्यच्छटा, क्वचित् प्रकृतिवर्णनम् , क्वचित् तीर्थादिवर्णनम्, क्वचित् सृष्टि-स्थिति-प्रलयवर्णनम्, क्वचिद् भावोत्कर्षः, क्वचिद् ज्ञानस्योदयः, क्वचित् तत्त्वार्थचिन्ता, क्वचित् कर्तव्योद्बोधनम्, क्वचित् ज्ञानमीमांसा च ऐन्द्रधनुषीम् आभां विस्तारयति । पुराणानां तादृशं महत्त्वम् यथा 'भिन्नरुचिहि लोकः' स्वरुचिम् अनुसृत्य प्रवृत्तोऽपि स्वेष्टं प्रतिगृह्णाति । विदुषे तत्त्वज्ञानविषयाः, बालिशाय शृङ्गाररसरुचिराणि आख्यानानि, नीतिज्ञाय नीतितत्त्वानि, राज्ञे राजकर्माणि, व्यवहारिणे अर्थागमसाधनानि, अध्यात्महशे ब्रह्मतत्त्वमीमांसा, वनिताभ्यो भक्तिमार्गः, जिज्ञासवे भूगोल-ऐतिह्यादि-सम्बद्धा विषयाः, यथायथं तच्चित्तावर्जकत्वेन प्रथन्ते । इतिहासपुराणाम्यां वेदं समुपद्व्हयेत्--महाभारतकृता वेदार्थस्य विशदी Page #49 -------------------------------------------------------------------------- ________________ २ संस्कृतनिबन्धशतकम् करणं पुराणानां महत्त्वरूपेण प्रतिपाद्यते। वेदेषु यानि तत्त्वानि यत्र तत्र वर्ण्यन्ते तेषां विशदीकरणं पुराणेषु आख्यानरूपेण प्राप्यते । वेदार्थविशदीकरणेन पुराणानि वेदार्थावगमे साहाय्यम् आचरन्ति । पुराणानां धार्मिक महत्त्वं कस्य न विपश्चितो विदितम् । पुराणानि भारतीय-संस्कृतेः सनातनधर्मस्य च प्राणभूतानि सन्ति । एतेषामपि श्रुतितुल्यं प्रामाण्यं गृह्यते । विष्णु-शिवादि-देवानाम् उपासनापद्धतेः सविस्तरो बोधः पुराणैरेव संजायते। __ ऐतिह्यदृष्ट्याऽपि पुराणानाम् अतुलं महत्त्वम् । भारतीयैतिह्यस्य अज्ञात इतिहासो राजानं परीक्षितम् आरभ्य पद्मनन्दं यावत् पुराणेष्वेवोपलभ्यते । विष्णुपुराणे मौर्यवंशावलिः, मत्स्यपुराणे आन्ध्रवंशावलिः, वायुपुराणे गुप्तवंशावलिः च साम्प्रतं पुरातत्त्वविद्धिः प्रामाण्यरूपेण उररी क्रियते । पुराणेष प्राप्या आभीर-शक-यवन-तुषार-हूणादि-राजवंशानां वंशावली ऐतिह्यविदां कृते बहुमूल्यस्वरूपा। पुराणानां भौगोलिकमपि महत्त्वं वर्तते । एषु चतुर्तीपाया वसुमत्याः, सप्तद्वीपाया वसुमत्याः, १८ द्वीपानाम्, १४ भुवनानाम्, क्षीरसागरादीनां वर्णनम्, भूविभाजनम्, तीर्थानाम्, सागराणाम्, सरिताम्, गिरीणाम्, भौगोलिकमहत्त्वभाजाम् अन्येषां च स्थानानां यत्र तत्र वर्णनं भूगोल-खगोलविदां कृते विशिष्टं महत्त्वम् आधत्ते । पुराणानां सामाजिकमपि महत्त्वम् अवर्णनीयम् । पुराणेषु वर्णाश्रमव्यवस्थाम् आश्रित्य गुणानां कर्मणां च वर्णनम्, विविधसंस्काराणां विवरणम्, पारिवारिक-संबन्धस्य विस्तरशो विवेचनम्, गुरुशिष्यसंबन्धस्य वैशिष्टयेन समपस्थापनम, राजधर्मादिवर्णनं च तेषां समाजशास्त्रीयं महत्त्वम् उपस्थापयति । पुराणेषु विविधा विद्या यथास्थानं वर्ण्यन्ते । क्वचिद् व्याकरणम्, क्वचित् छन्दः, क्वचिद् ज्योतिषम्, क्वचिद् धर्मशास्त्रम्, क्वचिद् आयुर्वेदः, क्वचिद् शरीरविज्ञानादिकं च तेषां शास्त्रीयं वैज्ञानिकं च महत्त्वं समर्थयन्ते । पुराणेषु अग्निपुराणं विविधशास्त्रीयज्ञान-समन्वितत्वाद् विश्वकोषः स्वीक्रियते। एवं पुराणानां महत्त्वं सर्वथा प्रसिध्यति । उक्तं च नारदीयपुराणे वेदार्थादधिकं मन्ये पुराणार्थ वरानने । वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः॥ ( ना० पु०, २-२४-१७ ). Page #50 -------------------------------------------------------------------------- ________________ १० विद्यावतां भागवते परीक्षा (श्रीमद्भागवत-समीक्षा) भागवतस्य स्वरूपम्--श्रीमद्भागवतं नाम श्रीमद्व्यासकृतं प्रथिततमं पुराणम् । एतद् भागवतं नाम परमं ज्योतिः। विद्योतयति चैतद् ज्योतिः सचेतसां चेतांसि, अपहरति मलं मलदूषितानां मलिनात्मनाम्, जागरयति चेतसि अध्यात्मदहनम्, प्रबोधयति विवेकम्, शोधयति स्वान्तम्, रोधयति पापततिम्, अवगमयति दर्शनतत्त्वम्, विगमयति दुर्मतिम् संगमयति च सद्भावसरणिम् । ___ भागवतस्य महत्त्वम्--समग्रेऽपि पुराणसाहित्ये न तथा पावनं मधुरं चेतःप्रसादजननं विवेकालोकप्रसारकं पुराणमन्यद् यथा श्रीमद्भागवतम् । भागवतं हि ज्ञान-विभा-प्रसार-समकालमेव अध्यात्मरति ब्रह्मनिष्ठां भगवद्भक्ति सदाचारसरणिं च प्रस्तवीति इति धर्मार्थकाममोक्षात्मकस्य चतुर्वर्गस्य साधकमपि निर्णीयते । भगवद्भक्तिम् आश्रित्य कथं जीवनस्य त्राणम् अपवर्गावाप्तिश्चेति अत्रोपदिश्यते । भगवद्भक्तिमूलकं कृतं कर्म न बन्धनकारणम् । भगवद्भक्तिजं ज्ञानं दुःखप्रहाणि विधाय आत्मतत्त्वावलोकने ब्रह्मरूपताप्राप्तौ च प्रभवति। श्रीमद्भागवते कथाख्यानादिकम् आश्रित्य क्वचिद् दर्शनम्, क्वचिद् वेदतत्त्वम्, क्वचित् सांख्ययोगसिद्धान्ताः, क्वचिद् वेदान्तराद्धान्ताः, क्वचिद् उपनिषत्-तत्त्वम्, क्वचिद् आत्मज्ञानम्, क्वचिच्च परमा भक्तिः वर्ण्यते । भागवतकर्तुः सर्वविषयावगाहिज्ञानसंपन्नत्वाद्, विविधकलानिष्णातत्वात्, काव्यशास्त्रनदीष्णत्वात्, आख्यानप्रवणत्वात्, ऐतिह्यविदग्धत्वात् तथाविधं मनोज्ञं वचो यथा न केवलं कोविदतल्लजानामेव हृदयान्यावर्जयति, अपि तु तद्वचोमाधुरी अल्पधियामपि मनांसि अपूर्वया संगीतात्मकतया रञ्जयति । __ यथा महाकविना श्रीहर्षेण स्वीये नैषधीयमहाकाव्ये स्वविषये प्रोच्यते'प्राज्ञंमन्यमना हठेन पठिती मास्मिन खलः खेलत'। यथा च विविधविषयावगाहित्वेन नैषधीयकाव्यस्य धीनिकषत्वं स्वीकुर्वद्भिः 'नैषधं विद्वदौषधम्' इति सादरम् उदीयते, तथैव श्रीमद्भागवतविषयेऽपि विदुषामियं सूक्तिः चरितार्था यद्-विद्यावतां भागवते परीक्षा, इति । भागवते प्रतिपदं दर्शनतत्त्वानाम् उपदेशः, शास्त्रीयविषयाणां सुललितया गिरा प्रतिपादनं तस्य महत्त्वं वैशिष्ट्यं वैदुष्यजनकत्वं चापादयति । प्राज्ञंमन्यमना ज्ञानलवदुर्विदग्धो नास्य तत्त्वावगमे प्रभवति । श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः तत्तत्-शास्त्रावगाहेनैव गूढार्थकानां कूटानां च पद्यानाम् अर्थावगमे क्षमः। Page #51 -------------------------------------------------------------------------- ________________ ३४ संस्कृतनिबन्धशतकम् कूटपद्यानि-दिङ्मात्रमिह केचन गूढार्थकाः क्लिष्टार्थकाश्च श्लोकाः प्रस्तूयन्ते । कूटपद्यानि यथा द्वे अस्य बीजे शतमूल स्त्रिनालः, पञ्चस्कन्धः पञ्चरसप्रसूतिः। दशैकशाखो द्विसुपर्णनीड-स्त्रिवल्कलो द्विफलोऽकं प्रविष्टः॥ भाग० ११-१२-२२ अदन्ति चैकं फलमस्य गृध्रा ग्रामेचरा एकमरण्यवासाः। हंसा य एकं बहुरूपमिज्य-र्मायामयं वेद स वेद वेदम् ॥ भाग० ११-१२-२३ क्लिष्टशब्दप्रयोगोऽपि बहुधा संदृश्यते । तद्यथा-(१) मारीचमाशु विशिखेन यथा कमुग्रः । भाग० ९-१०-१० । अत्र 'कमुग्रः' इत्यस्यार्थोऽस्ति कम्दक्षप्रजापतिम्, उग्र:-वीरभद्रः, यथा जघान, तथैव रामो बाणेन मारीचम् अहन् । (२) विश्रवसोऽवमेहम् भाग० ९-१०-१५, अत्र 'अवमेहम्' इत्यस्य कुपुत्रम् इत्यर्थः । ( ३ ) शाद्वलजेमनम्, अजोर्वभिष्टवम्, भाग० १०-१४-६० । अत्र शाद्वलजेमनम्-तृणाच्छन्नभूमौ भोजनम्, अजोर्वभिष्टवम्-ब्रह्मकृता महती स्तुतिः । (४) या दोहनेऽवहनने मथनोपलेप-प्रेझेलनाभरुदितोक्षणमार्जनादौ । भाग० १०-४४-१५ । अत्रत्या क्लिष्टा पदावलि: स्वयमेव क्लिष्टार्थतां व्यनक्ति । दार्शनिका भावाः-दार्शनिकभावोपेतानां श्लोकानां महती संख्या । यथा तं क्लेशकर्मपरिपाकगुणप्रवाहै-रव्याहतानुभवमीश्वरमद्वितीयम् । प्राणादिभिः स्वविभवरुपगूढमन्यो मन्येत सूर्यमिव मेघहिमोपरागैः॥ ___ भाग० १०-८४-३३ अत्र क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः, इति योगसूत्रे (१-२४ ) वर्णितस्य ईश्वरस्य, वेदान्ताभिमत-ब्रह्मणश्च वर्णनम् । . बृहदुपलब्धमेतदवयन्त्यवशेषतया, यत उदयास्तमयौ विकृतेर्मुदि वाविकृतात् । ___ भाग० १०-८७-१५ अत्र सतः सद् जायते, इति सांख्याभिमतस्य वर्णनम् । दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा, महदहमादयोऽण्डमसृजन् यदनुग्रहतः। परुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः, सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ भाग० १०-८७-१७ अत्र सांख्याभिमत-प्रकृतिविकृतेः, अन्नमयादिकोशानां, सदसतः परस्य ब्रह्मणश्च वर्णनम् । Page #52 -------------------------------------------------------------------------- ________________ विद्यावतां भागवते परीक्षा स एव जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्टः ॥ भाग० ११-१२-१७ अत्र उपनिषदि वणितस्य आत्मनो वर्णनम् । यथानलः खेऽनिलबन्धुरूष्मा बलेन दारुष्यभिमथ्यमानः । अणुः प्रजातो हविषा समिध्यते, तथैव मे व्यक्तिरियं हि वाणी ॥ ३५ भाग० ११-१२-१८ अत्र ब्रह्मणः परादिरूपचतुविधाया वाण्याः प्रवर्तनं वह्निदृष्टान्तेन स्फुटीक्रियते । सत्त्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः । सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि ॥ भाग० ११-१३-१ अत्र गुणा बुद्धिधर्मा नात्मन इति सांख्याभिमतं वर्ण्यते । आगमोऽपः प्रजा देशः कालः कर्म च जन्म च । ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः ॥ भाग० ११-१३-४ अत्र दशतत्त्वानां गुणबुद्धिहेतुत्वं प्रदर्श्यते । वेणुसंघर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् । एवं गुणव्यत्ययजो देहः शाम्यति तत्क्रियः ॥ भाग० ११-१३-७ अत्र 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ' ( गीता ४ : ३७ ) इति समर्थ्यते । स्मारयति चैतत् पद्यम् अश्वघोषकृतं पद्यद्वयम् - ' दीपो यथा निर्वृतिमभ्युपेतो — स्नेहक्षयात् केवलमेति शान्तिम्' । ' एवं कृतीनिर्वृत्तिमभ्युपेतो नैवावनि गच्छति नान्तरिक्षम् । दिशं न कांचिद् विदिशं न कांचित् क्लेशक्षयात् केवलमेति शान्तिम्' ।। सौन्दर० १९ - २८, २९ usat गुणक्षोभकृतो विकारः प्रधानमूलान्महतः प्रसूतः । अहं त्रिवृन्मोहविकल्प हेतु र्वैकारिकस्तामस ऐन्द्रियश्च ॥ भाग० ११-२२-३२ अत्र सांख्य- वेदान्तोभय-सिद्धान्तानां वर्णनम् । न यत्र वाचो न मनो व सत्त्वं तमो रजो वा महदादयोऽमी । न प्राण बुद्धीन्द्रियदेवता वा, न संनिवेशः खलु लोककल्पः ॥ भाग० १२-४-२० न स्वप्नजाग्रन्न च तत् सुषुप्तं, न खं जलं भूरनिलोऽग्निरर्कः । संप्रवच्छ्रन्यवद प्रतक्यं, तन्मूलभूतं पदमामनन्ति ॥ भाग० १२-४-२१ अत्र श्लोकद्वये सांख्याभिमतम् अव्यक्ताया मूलप्रकृतेः वर्णनम् । आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः । सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ॥ भाग० १०-४७-३१ Page #53 -------------------------------------------------------------------------- ________________ ३६ संस्कृत निबन्धशतकम् अत्र वेदान्ताभिमत-मायावृत्तिसिद्धान्तस्य वर्णनम् । यस्येरिता सांख्यमयी दृढेह नौ-यया मुमुक्षुस्तरते दुरत्ययम् ॥ भाग० ९-८-१४ अत्र सांख्यशास्त्रस्य दृढनौकारूपेण प्रशंसनम् । प्रशान्तमायागुणकर्मलिङ्ग-मनामरूपं सदसद्विमुक्तम् । ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् ॥ भाग० ९-८-२५ अत्र वेदान्ताभिमतस्य त्रिगुणातीतस्य ब्रह्मणो वर्णनम् । एवं विवेचनेन भागवतस्य गुणगौरवं भावोत्कर्षत्वं च नितरां प्रतीयते । सत्यमिदं वचनम् — श्रीमद्भागवतं पुराणममलं यद् वैष्णवानां प्रियं यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते । तत्र ज्ञान - विराग-भक्तिसहितं नैष्कर्म्यमाविष्कृतं तच्छृण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥ Page #54 -------------------------------------------------------------------------- ________________ . ११. भारतीयदर्शनानां महत्त्वं वैशिष्ट्यं च ___ दर्शन-शब्दार्थः--प्रेक्षणार्थकाद् दृश् धातोः ( दृशिर् प्रेक्षणे ) ल्युट्-प्रत्यये कृते दर्शन-शब्दो निष्पद्यते । किं नाम दर्शनम् ? दृश्यते अनेन इति दर्शनम् । येन साधनेन इद विश्वम्, इदं वस्तुजातम्, ब्रह्म, जीवात्मा, प्रकृतिश्च, याथातथ्येन दृश्यते निरीक्ष्यते परीक्ष्यते समीक्ष्यते विविच्यते च तद् दर्शनम् । अतः समग्रमपि आध्यात्मिकम् आधिभौतिकं च विवेचनं दर्शन-शब्दान्तर्गतं भवति । किं ब्रह्म ? तस्य किं स्वरूपम् ? क ईश्वरः ? के तस्य प्राप्तेरुपायाः ? अस्मिन् जगति किं शाश्वतं तत्त्वम् ? इयं सृष्टि: कुत आबभूव ? जीवात्मनः किं स्वरूपम् ? कः पुनर्जायते ? किं लिङ्गशरीरम् ? जीवस्य कुत उद्भूतिः ? कि तस्य लक्ष्यम् ? कथं मोक्षावाप्तिः ? आत्मा चेतनोऽचेतनो वा ? कः सृष्टेः कर्ता ? कि जीवनस्य कर्तव्यम् ? कश्च जीवनस्य साधिष्ठः पन्थाः ? इत्यादयोऽनुयोगा यत्र सुसूक्ष्मेण रूपेण विविच्यन्ते तद् दर्शनम् । सूक्ष्मेक्षिकया तत्त्वार्थदर्शनमेव दर्शनम् इत्यवगन्तव्यम् । यथोच्यते: केनेषितं पतति प्रेषितं मनः, केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति, चक्षुःश्रोत्रं क उ देवो युनक्ति । (केन उप० १-१) भारतीयदर्शनानां वर्गीकरणम्-भारतीयदर्शनानि स्थूलरूपेण द्विधा विभज्यन्ते-आस्तिकदर्शनानि, नास्तिकदर्शनानि च । यानि दर्शनानि वेदानां प्रामाण्यम् उरीकुर्वन्ति, तानि आस्तिकदर्शनानीति व्यवह्रियन्ते । यानि च वेदानां प्रामाण्यं नोररीकुर्वते तानि नास्तिकदर्शनानि । तत्र न्याय-वैशेषिकसांख्य-योग-मीमांसा-वेदान्ताख्यानि षड्दर्शनानि आस्तिकदर्शनानि अभिधीयन्ते । चार्वाक-जैन-बौद्धदर्शनानि च नास्तिकदर्शनानि निर्दिश्यन्ते । विभाजनं चैतद् वेदानां प्रामाण्याप्रामाण्यमलकमेवेति सम्यग अवधारणीयम् ।। भारतीयदर्शनानां महत्त्वम्-मोदावहम् एतद् यद् निखिलेऽपि भुवने पाश्चात्त्याः पौरस्त्याश्च विपश्चितो भारतीयदर्शनानां मुक्तकण्ठेन एकस्वरेण च महत्त्वं स्वीकुर्वते । सत्यपि मतभेदे, सत्यपि राष्ट्रीयपक्षपाते, सत्यपि स्वोत्कर्षविचारे च भारतीयदर्शनानां महत्त्व-विषये न कस्यापि विदुषो विप्रतिपत्तिः । विश्ववाङ्मये भारतीयदर्शनानि ज्ञान-प्रभा-भास्वरेण चिन्तनेन, स्व-पर-पक्षालोचन-निपुणेन वैदुष्येण, तत्त्वार्थग्रहणकप्रवणेन विवेकेन, अधृष्येण धीप्रकर्षण, संकीर्णतादोषानवलिप्तेन विवेचनेन, पूर्वग्रहरहितेनं विश्लेषणेन, मनोज्ञया विवेचनशैल्या, हृद्यया भावाभिव्यक्त्या, रुचिरया पदावल्या च तरणिवत् तेजःसमुच्चयेन चकासति । भारतीयदर्शनानां वैशिष्ट्यम्-भारतीयदर्शनानां चिन्तनपद्धतिरेव Page #55 -------------------------------------------------------------------------- ________________ ३८ संस्कृतनिबन्धशतकम् पाश्चात्त्यदर्शनेभ्यो भिन्ना। पाश्चात्त्यदर्शनेषु दर्शननाम् उद्भवविषये विविधा वादाः प्रस्तूयन्ते, तद्यथा-आश्चर्यजन्यत्वम्, सन्देहमूलकत्वम्, मानव-व्यवहाराध्ययनमूलकत्वम्, ज्ञानानुरागमूलकत्वं वा। परं भारतीयदर्शनानां मूलम् आश्चर्यादिकं नास्ति । तस्य मूलं त्रिविधदुःखात्यन्तनिवृत्तिरस्ति । त्रिविधदुःखात्यन्तनिवृत्तिश्च अध्यात्मज्ञानेन आध्यात्मिकप्रवृत्त्या वा भवतीति भारतीयविज्ञानां संमतम् । दुःखत्रयाभिघातात् जिज्ञासा तदपघातके हेतौ। दृष्टे साऽपार्था चेत् नैकान्तात्यन्ततोऽभावात् ॥ ( सांख्यकारिका १) सांख्यानुसारं च 'व्यक्ताव्यक्तज्ञविज्ञानाद्' दुःखात्यन्तनिवृत्तिः संजायते । (१) अध्यात्मभावना-प्राधान्यम्-भारतीयदर्शनेषु अध्यात्म-भावना अनुस्यूता ओता प्रोता च । आध्यात्मिकी भावनां परिहाय दर्शनानां स्थितिरेव न संभाव्यते । किम् आत्मतत्त्वम् ? कथं च तदवाप्तिः ? इति सर्वेषामेव दर्शनानां प्रमुखः चिन्तनविषयः । आत्मज्ञानम्, आत्मसाक्षात्कारः ब्रह्मणा तादात्म्यानुभूतिः, तन्मूलकं च सर्वज्ञत्वम्, इत्यादयो विषया दर्शनानां विवेच्यत्वेनोपतिष्ठन्ते। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः। आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्व विदितम् । (बृहदा०२-४-५) (२) धर्मानुबन्धित्वम्-पाश्चात्त्यदर्शनेषु धर्मदर्शनयोर्वैयधिकरण्यम्, न तु सामानाधिकरण्यम्, स्वीक्रियते । तत्र धर्मदर्शनयोः पन्थानौ विभिन्नौ, अनपेक्षित्वं चेतरेतरयोः । भारतीयदर्शनेषु तयोः सामानाधिकरण्यं परस्परापेक्षित्वं चाङ्गीक्रियते । यदेव दर्शनेन विविच्यते, तदेव धर्मेण व्यवह्रियते । एकत्र धर्मतत्त्वसमीक्षा, अपरत्र धर्मतत्त्वव्यवहतिः । दर्शने चिन्तनं मुख्यम्, धर्मे च कर्मनिर्धारणम् । एवं परस्परानुबद्धे धर्मदर्शने भोगापवर्गयोः सोपानरूपे स्तः । एतदेव कणादेन पतञ्जलिना चोद्घोष्यतेः यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । ( वैशेषिक० ) भोगापवर्गाथं दृश्यम् । ( योगदर्शन २-१८) (३) वेदानां प्रामाण्यम्-भारतीयदर्शनेषु षड् आस्तिकदर्शनानि वेदानां प्रामाण्यं स्वीकुर्वते । जैन-बौद्धदर्शनयोरपि वेदानां प्रामाण्यं रूपान्तरेण व्यवहारबुद्धया वा स्वीक्रियते एव । केवलं चार्वाकदर्शनं वेदानाम् अप्रामाण्यं प्रस्तौतितराम् । (४) दुःखत्रयविनाशनम्-भारतीयदर्शनेषु आध्यात्मिक-आधिदैविकआधिभौतिकेति त्रिविधदुःखानाम् आत्यन्तिकवारणाय दर्शनानां जनिरभूत् । एतदेव च दर्शनानां लक्ष्यम् । एतच्च पतञ्जलिना प्रकार-चतुष्टयेन स्फुटी Page #56 -------------------------------------------------------------------------- ________________ भारतीयदर्शनानां महत्त्वं वैशिष्ट्यं च । क्रियते:-( क ) हेयम्-दुःखं हेयं त्याज्यं वा । (ख ) हेयहेतुः-किमिति दुःखानि हेयानि ? (ग) हानम्-दुःखानां शाश्वतिकोऽभावः । (घ) हानोपायः-दुःखप्रणाशस्य के उपायाः ? एवं विविच्य दुःखप्रणाशोपाया दर्शनैः प्रस्तूयन्ते ।। (५) कर्मफलस्यानिवार्यत्वम्-कृतं क्रियमाणं करिष्यमाणं च कर्म फलभाग् भवति । कृतकर्मणा विपाकरूपेण विविधयोनिषु उच्चावचकुलादिषु च जन्म भवति । 'अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्' इति भारतीयदर्शनानां मतम् । अतः कर्मविशुद्धौ आचारशुद्धौ च बलम् आधीयते तज्जैः । (६) पुनर्जन्मनः स्वीकरणम्-चार्वाकव्यतिरिक्तानि भारतीयदर्शननानि कर्मफलानुसारं मानवस्य पुनर्जन्म स्वीकुर्वन्ति ।। ____ जातस्य हि ध्रवो मृत्युर्धवं जन्म मृतस्य च । (गीता २-२७) (७) मानवजीवनॉन्वयित्वम्-भारतीयदर्शनानि आचारमीमांसायां मानवस्य कर्तव्याकर्तव्यानां विशदं विवेचनं प्रस्तुवन्ति । किं कर्तव्यम् ? किम् अकर्तव्यम् ? कथम् अभ्युदयः ? कथम् अवनतिः ? मानवजीवनस्य समस्यानां कथं निरोधः प्रतिकारो वा विधेयः इत्यादयो, जोवनसंबद्धा अनुयोगा दर्शनैः समाधीयन्ते । (८) चारित्रिकोन्नतेमहत्त्वम्-भारतीयदर्शनेषु चारित्रिकोन्नतौ महद् बलम् आधीयते । आस्तिकानि नास्तिकानि चोभयान्यपि दर्शनानि चारित्रिकी विशुद्धिम् उन्नतिं च जीवनस्यावश्यकर्तव्यत्वेन उपन्यस्यन्ति । 'संभावितस्य चाकीर्तिमरणादतिरिच्यते' ( गीता २-३४) ।। (९) अज्ञानस्य बन्धनकारणत्वम्-जीवोऽज्ञानवशगो भूत्वा बन्धनम् आपद्यते । स भूयो भूयो जायते म्रियते च । अज्ञाननाशम् अन्तरेण जन्म-मृत्युबन्धनाद् न हि मुच्यते जीवः । (१०) मोक्षस्य जीवनलक्ष्यत्वम्-मोक्षो मुक्तिनिर्वाणं वा जीवनस्य परमं लक्ष्यम् । मोक्षमधिगत्यैव जीवः स्वजीवनस्य चरमम् उद्देश्यं विन्दति । ज्ञानाग्निना सर्वकर्मणां विनाशे आत्मसाक्षात्कारे च मोक्षावाप्तिः संजायते । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा। (गीता ४-३७) भिद्यते हदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ( वेदान्तसार ) (११) स्वतन्त्रास्तित्वम्-पाश्चात्त्यदर्शनानि राजनीति-धर्मशास्त्रसमाजशास्त्र-आचारशास्त्रादीनाम् अङ्गरूपेण समुद्भूतानि वर्तन्ते, परं भारतीयदर्शनानां समुदयो वैदिककालाद् आरभ्य स्वतन्त्रचिन्तनरूपेणाभवत् । अतोऽस्य स्वतन्त्रम् अस्तित्वं विद्यते । मुण्डकोपनिषदि ब्रह्मविद्या सर्वविद्याऽऽधारत्वेन परिगण्यते । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम् अथर्वाय ज्येष्ठपुत्राय प्राह । ( मु० १-१) Page #57 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् . (१२) कालाविच्छिन्नत्वम्-भारतीयदर्शनानि वैदिककालाद् आरभ्य अद्यावधि अविच्छिन्नरूपेण प्रवहन्ति । सेयं दर्शनधारा पुण्यसलिलाया भागीरथ्या धारेवाविच्छिन्ना भारते विराजते। पाश्चात्त्यदर्शनानाम् ईसवीयसंवत्सरात् सप्तमशताब्दीपूर्वं प्रसृताऽपि धारा काले काले विच्छेदमाप, पुनरुद्भूता च । (१३) विचार-स्वातन्त्र्यम-भारतीयदर्शनेषु विचारस्वातन्त्र्यं प्रतिपदम् उपलभ्यते । खण्डनं मण्डनं वा स्यात्, हेयम् उपादेयं वा स्यात्, विरुद्धम् अविरुद्धं वा स्यात्, यदि युक्तियुक्तं विचारपूर्ण वा किंचिद् उपस्थाप्यते तद् विदुषां विचारपथम् आरोहति । न पूर्वग्रहमात्रेण किंचित् तिरस्क्रियते । ( १४ ) व्यापकम् ईक्षणम्-सत्यान्वेषणं दर्शनानां लक्ष्यम् । अतो न भारतीयदर्शनेषु संकुचिता दृष्टिरुपलभ्यते । अस्वीकार्यमपि परपक्षं सयुक्तिकं समुपस्थाप्य युक्तिप्रमाणपुरःसरं तन्निराकरणं क्रियते । (१५) अनुभूतिमूलकत्वम्-भारतीयदर्शनानि स्वानुभूतिजन्यानि विद्यन्ते । सर्वत्रैवानुभूते: प्राधान्यं वरीवति । 'आत्मानं विद्धि' इत्याश्रित्य स्वानुभूतीनां प्रकाशनं दर्शनेषूपलभ्यते । (१६ ) विवेचन-प्राधान्यम्-भारतीयदर्शनेषु विवेचनात्मकतायाः प्राधान्यं लक्ष्यते । यदेव किंचित् प्रतिपाद्यं स्यात् तत् सयुक्तिकं सप्रमाणं परीक्ष्यैव हेयम् उपादेयं वा जायते, न प्रतिज्ञामात्रेण । अत एव भारतीयदर्शनानि दर्शन-जगति रत्नवद् बहुमूल्यानि आकल्पन्ते । (१७) समाजोत्थापन-भावना-भारतीयदर्शनेषु समाजस्य संस्कृतेश्च समुत्थापनस्य महती कामना दृश्यते । दर्शनेषु तथाविधानां तत्त्वानां समवायः स्याद् येन सामाजिकी सांस्कृतिको च समुन्नतिः संभाव्येत । अतएवानेके दर्शन- . काराः समाजसुधारकरूपेण प्रथिताः सन्ति । ( १८ ) समन्वयभावना संश्लेषणात्मकत्वं च-भारतीयदर्शनेषु समन्वयभावना प्रमुखा वर्तते । विविधानि दर्शनानि एकस्यैव पादपस्य विविधशाखारूपेण परिगण्यन्ते, तत्र समन्वयश्चावलोक्यते। दर्शनेषु विविधविज्ञानानाम् एकत्रावस्थापनस्य समीकरणस्य च प्रयासो निरीक्ष्यते । ' एवं भारतीयदर्शनानि विवेचनगाम्भीर्येण, आलोचनाचातुर्येण, गूढार्थनिरीक्षणेन, संवेदनशीलानुभूतिप्रकर्षेण, सत्यान्वेषणानुरागित्वेन, तत्त्वार्थग्रहणप्रवणेक्षणेन, समन्वयभावनया, मनःस्थित्यनुशीलनेन, अतीतानुरागित्वेन, अध्यात्माभिमुख्येन, पुरुषार्थचतुष्टयसाधकत्वेन, जोवनोन्नायकत्वेन, दुःखत्रयविनाशपूर्वक-ब्रह्मसाक्षात्कारकरणत्वेन समेषामपि सुधियां समाति समधिगच्छन्ति । . Page #58 -------------------------------------------------------------------------- ________________ १२. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ' (कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः) गीताया महत्त्वम्-विदितमेवेदं तथ्यं समेषामपि विपश्चितां यद् भगवद्गीतेयं प्रस्तवीति कर्मयोगस्य राद्धान्तम् । जीवने कर्मयोगस्य कावश्यकता इत्यत्र सन्ति बहवो वादाः। केचन कर्मणो महत्त्वं स्वीकुर्वन्ति, केचन च ज्ञानस्य महत्त्वम् उद्घोषयन्तः कर्म हीनमिति प्रतिपादयन्ति । यदि याथातथ्यतो विविच्यते तहि सुकरम् एतद् वक्तुं यद् जीवने कर्म विहाय ज्ञानमपि दुरासदम् । मानवजीवने कर्मैव तारकम्, साधकम्, प्रत्यहवारकम्, दुःखनिरोधकम्, अर्थाधिगमसाधनम्, पापनिवारकम्, आधिव्याधिविनाशकं चेति । यत्र यत्र कर्म तत्र तत्र सुखम्, कर्मणः सुखाधिगमहेतुत्वात्, यथा रामादिजीवने। यत्र यत्र काभावः तत्र तत्र दुःखावसादः, अकर्मणो दुःखमूलत्वात्, श्वपाकादिजीवने दारिद्रयादिदर्शनात् । __ जीवनस्योद्देश्यम्--किं जीवनमिति विविच्यते चेत् तर्हि सुकरम् एतद् वक्तुं यद् जीवनं पुरुषार्थसाधनम् । धर्मार्थकाममोक्षा इति पुरुषार्थचतुष्टम् । धर्मार्थं कामार्थम् अर्थोपार्जनार्थं मोक्षावाप्तये च सर्वत्रैव कर्मण आवश्यकता प्रतिपदम् अनुभूयते । कर्मणैव हि भूभृतो यतयो महर्षयश्च स्वार्थसाधने सक्षमाः । अगृहीतकर्मयोगवैजयन्तीकाः, अनाश्रितपुरुषार्थायुधाः, अनवाप्तधैर्यशौर्यगुणगौरवाः, दैवाश्रयैकप्रवणाः, स्वापैकहेतयः, नहि जीवने अल्पीयसीमपि सिद्धि समासादयितुं प्रभवन्ति । ये हि बद्धपरिकराः, पुरुषार्थं कहेतयः, लक्ष्यैकचित्ताः, 'कार्य वा साधयेयं शरीरं वा पातयेयम्' इति मन्त्रोच्चारदीक्षिताः, त एव विजयलक्ष्मीपतयः सततवृतसिद्धिवैजयन्तीकाः भुवने चकासति । अतएव भगवता श्रीकृष्णेन भगवद्गीतायां सुस्पष्टं स्वीयम् अभिमतं प्रतिपाद्यते यत् कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ गीता २-४७ यदि याथातथ्यतो विविच्यते तहि श्लोकोऽयं यजुर्वेदमूलकमेव । यजुर्वेदे प्रोच्यते यत् कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ यजु० ४०-२ निष्काम-कर्मयोगः कीदृशं कर्म श्रेयोवहम् ? इति जिज्ञासायाम् उत्तरं प्रस्तूयते यद् अनासक्तिभावनयैव क्रियमाणं कर्म लोक-परलोकोभयसुखदमिति । अनासक्तिभावनया कृतं कर्म न च बन्धनहेतुः, न च दुःखसाधनम् । कर्तव्यबुद्ध्या यद् यद् विधीयते तत् सदा सुखावहमेव । कर्माधीनं जीवनम् । अनासक्ति Page #59 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् भावनाया उदयश्च साधीयसी गति साधयति । अतएवानासक्तिभावोदये गीतायास्तादृशो दृढानुरोधः। अनासक्तिभावोदये उभयथापि सुखावाप्तिः । उच्यते च हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ गीता २-३७ सुखदुःखे लाभालाभे समबुद्धित्वमेव योगभावना व्यवह्रियते । तथोच्यते योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनंजय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ गीता २-४२ कर्त्तव्यभावनयाऽनासक्तेन च यत् कर्म क्रियते तत् कर्मकौशलमिति अभ्युपपद्यते । एतदेव परमो योग इत्युच्यते तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् । गीता २-५० . प्राकृतिका गुणाः प्रतिक्षणं मानवं कर्मकरणार्थ प्रेरयन्ति । एतदेवोच्यते नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ गीता ३-५ कर्मयोगम् अनास्थाय जीवननिर्वाहोऽपि दुष्करः, अतः कर्मणोऽनिवार्यत्वं प्रसिध्यति । नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिध्येदकर्मणः॥ गीता ३-८ यः कोपि अनासक्त: कर्मारभते प्रयतते च, स मोक्षभाग् भवति । तस्मादसक्तः सततं कार्य कर्म समाचर। असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः॥ गीता ३-१९ कर्मणैव यतयो मुनयोऽनासक्तधियश्च जीवने साफल्यं लेभिरे । जनहितसाधनायापि कर्मणोऽनिवार्यत्वं सिध्यति । उक्तं च कर्मणैव हि संसिद्धिमास्थिता जनकादयः। लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥ गीता ३-२० .. महायोगी दिव्यमानवोऽपि श्रीकृष्णः कर्मणो महत्त्वं प्रतिपादयन्नाह यद् यद्यहं न कर्म कुर्यां तहि लोके मानवा न कर्म विधास्यन्ति एवं संकरस्य कारणं भविष्यामि। उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम। संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ गीता ३-२४ । अतः सर्वस्यापि जनस्य कर्तव्यं यत् स कर्मणि प्रवर्तेत । मुमुक्षुभिरपि कृतमेतत् । Page #60 -------------------------------------------------------------------------- ________________ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् । गीता ४-१५ । अनासक्तः कर्म कुर्वन् अकर्तेव सदा दुःखविमुक्तो मोक्षभाक् च भवति । त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किंचित् करोति सः । गीता ४-२० प्रवृत्ति-निवृत्तिमार्गयोः कतरः पन्थाः साधीयानिति जिज्ञासायां श्रीकृष्णः स्वमतम् उपस्थापयति यद् निवृत्तिमार्गात् प्रवृत्तिमार्गः श्रेयान् । संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥ गीता ५-२ एवं सिध्यतितरां यत् कर्मयोग एव साधीयान् सुकरः सुखावाप्तिसाधकश्चेति । Page #61 -------------------------------------------------------------------------- ________________ १३. नास्ति सांख्यसमं ज्ञानम् ( सांख्याभिमत-तत्त्वमीमांसा ) व्यक्ताव्यक्तज्ञविज्ञानाद् दुःखदावाग्निनाशनम् । मनोज्ञं कपिलोपज्ञं, सांख्यं संख्यावतां सुहृत् ॥ ( कपिलस्य ) सांख्य-शब्दार्थः-सम्-सम्यक्, ख्यातिः-विवेकज्ञानम्, एतदेव सम्यग्विज्ञानं सांख्यशब्देनाभिधीयते। 'प्रकृति-पुरुषान्यताख्यातिः' प्रकृति-पुरुषयोर्भेददर्शनं सांख्याभिमतम् इत्येवाश्रित्य दर्शनस्यैतस्य कृते सांख्यशब्दः प्रयुज्यते । भागवते ( ३-३५) इदं दर्शनं 'तत्त्व-संख्यानम्' उदीर्यते । महाभारते तत्त्वगणनाम् आश्रित्येदं दर्शनं सांख्यम् इत्यभिधीयते । तथा चोक्तं महाभारते संख्यां प्रकुर्वते चैव प्रकृति च प्रचक्षते।। तत्त्वानि च चतुर्विशत् तेन सांख्याः प्रकीर्तिताः॥ अत्र तत्त्वानां संख्या गणना वा प्रस्तूयते, अतः सांख्यम् इति । सांख्याचार्याः-सांख्यदर्शनं नितरां प्राचीनं दर्शनम् । उपनिषत्स्वपि दर्शनस्यास्या राद्धान्ता यत्र तत्रावलोक्यन्ते । दर्शनस्यैतस्य प्रणेता आदिविद्वान् कपिलो वर्तते । 'आदिविद्वान्' इति विशेषणेन सम्यग् एतदवधार्यते यत् कपिल: प्राचीनतमः तत्त्वज्ञो बभूव । स ग्रन्यरत्नद्वयस्य प्रणेताङ्गीक्रियते-तत्त्वसमासस्य सांख्यसूत्रस्य च। कपिलस्य कालविषये विविधा विप्रतिपत्तिः। सांख्यसूत्रस्य च समयनिर्धारणे न विदुषाम् ऐकमत्यम् । कपिलस्य शिष्य आसुरि: बभूव । न तत्कृतो ग्रन्थः साम्प्रतम् उपलभ्यते । आसुरि-शिष्यः पञ्चशिखः 'षष्टितन्त्र'-ग्रन्थस्य प्रणेतेति विपश्चिद्धिः स्वीक्रियते । ग्रन्थेऽस्मिन् षष्टिसहस्रपरिमिताः श्लोका आसन् इति बुधैरभ्युपपद्यते । साम्प्रतम् उपलभ्यमानेषु ग्रन्थेषु ईश्वरकृष्ण-कृता 'सांख्यकारिका' प्राचीनतमा विद्यते । अत्र सप्तति-कारकासु सर्वमपि सांख्यसिद्धान्तजातं संक्षिप्य प्रतिपादितं वर्तते । समयोऽस्य ईसवीयशताब्द्याः प्रथमः शतकोऽभ्युपपद्यते । ग्रन्थस्यास्य प्रामाण्यं लोकप्रियतां चाश्रित्य शंकराचार्योऽपि सांख्यमतप्रतिपादनार्थं सांख्यकारिकामेव उद्धरति । अस्य ग्रन्थस्य व्याख्यानभूताः सप्त टीकाः सन्ति । तत्रापि वाचस्पतिमिश्रकृता 'सांख्यतत्त्वकौमुदी'-नाम्नी टीका प्रथिततमा। परकालीनेषु सांख्याचार्येषु विन्ध्यवासिनो विज्ञानभिक्षोश्च नामनी विशेषत उल्लेख्ये स्तः। विज्ञानभिक्षुराचार्यः सांख्यदर्शनस्य पुनरुद्धारको गण्यते । अयं सांख्यसूत्रे सांख्यप्रवचनभाष्यं प्रणिनाय। सोऽयं सांख्यस्य निरीश्वरत्वं प्रत्याख्याय सेश्वरत्वं साधु प्रत्यस्थापयत् । . सांख्यस्य प्राचीनत्वम्-उपनिषदाम् अध्ययनेन सांख्यस्य प्राचीनत्वम् आलक्ष्यते । श्वेताश्वतर-मैत्रायणी-कठोपनिषत्सु च सांख्यराद्धान्ता विकीर्णाः Page #62 -------------------------------------------------------------------------- ________________ नास्ति सांख्यसमं ज्ञानम् प्राप्यन्ते । योगेन सहैव सांख्यस्योल्लेख उपलभ्यते । 'तत्कारणं सांख्ययोगाधिगम्यम्' ( श्वेता०६-१३) । 'अजामेकां लोहित-शुक्ल-कृष्णाम्०' (श्वेता० ४-५) इत्यत्र सांख्याभिमत-गुणत्रयस्य प्रतिपादनं प्राप्यते । 'मनसस्तु परा बुद्धिबुद्धेरात्मा महान् परः । महतः परमव्यक्तम् अव्यक्तात् पुरुषः परः' ( कठ० १.३. १०-११) इत्यत्र प्रतिपादितः क्रमः सांख्यराद्धान्तेऽपि स्वीक्रियते । मैत्रायण्युपनिषदि तन्मात्रा-त्रिगुण-प्रकृति-पुरुष-विवेकादि-सिद्धान्तानां वर्णनम् आप्यते । अतोऽवगम्यते सांख्यसिद्धान्तानां प्रत्नत्वम् । सांख्यतत्त्वमीमांसा-सांख्यदर्शनानुसारं पुरुष-प्रकृति-नामकं तत्त्वद्वयमेव नित्यतत्त्वरूपेण स्वीक्रियते । यदि प्रकृति-विकृत्यादीनामपि संग्रहो विधीयते तर्हि तत्त्वानां संख्या पञ्चविंशतिः ( २५ ) भवति । एषां तत्त्वानां चतुर्धा विभागो विधीयतेः-(१) प्रकृतिः–कारणमात्रमेव, न तु कस्यचिद् वस्तुनः कार्यम् । यथा-मूलप्रकृतिः । इयमेव प्रधानम्, अव्यक्तम् इति चोच्यते । ( २ ) विकृतिः यत् तत्त्वं केवलं कार्यरूपं भवति, न तु कस्यापि कारणरूपम् । ईदृशानां तत्त्वानां संख्या षोडश (१६) वर्तते । (३) प्रकृति-विकृतिः-कानिचित् तत्त्वानि उभयविधानि भवन्ति-कार्यरूपाणि कारणरूपाणि च । एषां संख्या सप्त (७) वर्तते । ( ४ ) न प्रकृतिर्न विकृतिः-न कारणं न च कार्यम् । यथापुरुषः । अत एवोच्यते सांख्यकारिकायाम् मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ (३) पञ्चविंशतितत्त्वानां विवरणमेवं प्रस्तूयतेः स्वरूपम् संख्या विवरणम् (१) प्रकृतिः १ मूलप्रकृतिः, प्रधानम्, अव्यक्तं वा । (२) विकृतिः ५ ज्ञानेन्द्रियाणि, ५ कर्मेन्द्रियाणि, १ मनः । ५ महाभूतानि च । (३) प्रकृति-विकृतिः ७ महत् तत्त्वम्, अहंकारः, ५ तन्मात्रा। (४) न प्रकृतिर्न विकृतिः १ पुरुषः।। सृष्टिक्रमः-प्रकृतिपुरुषयोः संयोगात् सृष्टिर्जायते । प्रकृतिर्जडः पुरुषश्च निष्क्रियः, अतः पुरुषस्य कैवल्यार्थं प्रकृतेश्च दर्शनार्थं पङ्ग्वन्धवदुभयोः संयोगः स्वीक्रियते । ततश्च स्पष्ट्युत्पत्तिर्भवति । पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ (सांख्यकारिका २१) सृष्टेः प्राग् गुणत्रयं साम्यावस्थायाम् अवतिष्ठते । सति च पुरुष-प्रकृतिसंयोगे गुणेषु क्षोभः संजायते। गुणक्षोभे च रजोगुणे प्रवृत्तिनिमित्तकं चाञ्चल्यम् उत्पद्यते । ततश्च सृष्टयुत्पत्तिक्रमः प्रवर्तते । प्रकृतेर्महत्-तत्त्वस्योत्पत्तिर्भवति । Page #63 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् महत एव नामान्तरं बुद्धिरप्यस्ति । बुद्धिरेव कर्तव्याकर्तव्यं व्यवच्छिनत्ति, ज्ञात-ज्ञेयं विनिश्चिनोति, स्वम् अपरं च प्रकाशयति । महतोऽहंकारस्योद्भवः । अहंबुद्धिरेव 'अहं कर्ता' 'इदं मम' इत्यादि-स्वरूपां मतिं जनयति । सात्त्विकाद् अहंकारात् पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनश्चेति एकादशको गणो जायते । तामसाद् अहंकाराच्च शब्द-स्पर्श-रूप-रस-गन्धाख्यानि पञ्च-तन्मात्राणि प्रादुर्भवन्ति । एभ्यः पञ्च-तन्मात्रेभ्यः क्रमशः आकाश-वायु-अग्नि-जल-पृथ्वीनामकानि पञ्चमहाभूतानि समुद्भवन्ति । उक्तं च प्रकृतेमहांस्ततोऽहंकारस्तस्माद् गणश्च षोडशकः। तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ ( सां० का० २२) कार्यकारण-सिद्धान्तः-सांख्यस्य कार्य-कारण-सिद्धान्तोऽनुपमः। किं कार्यम्, किं कारणम् इति विप्रतिपत्तौ सांख्याभिमतं यत् कार्य-कारणयोर्न तात्त्विको भेदः । कार्यस्याव्यक्तावस्थैव कारणम्, कारणस्य च व्यक्तावस्थैव कार्यम् इति । तद्यथा-घटो मृद्रूपेण कारणम्, मृच्च घटरूपेण परिणतं कार्यम् इति । अभावाद् भावोत्पत्तिर्न संभाव्यते, न च भावस्य विनाशः । एतदेव गीतायां प्रकारान्तरेण निर्दिश्यते नासतो विद्यते भावो नाभावो विद्यते सतः॥ (गीता २-१६) सांख्यानामेष एव राद्धान्तः 'सत्कार्यवादः' 'परिणामवादः' 'विकारवादः' इत्यादिनामभिः व्यवह्रियते । स्वाभिमत-संपुष्टौ सांख्याचार्यैः युक्ति-पञ्चकं प्रस्तूयते । असदकरणादुपादानग्रहणात् सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ( सांख्यकारिका ९) असदकरणात्-असद् वस्तु केनापि प्रकारेण सत् कर्तुं न शक्यते । उपादानग्रहणात्-प्रत्येकवस्तुलाभाय तदुपादानकारणमेव गृह्यते । यथा-पटलाभाय तन्तवः, दधिलाभाय दुग्धं वा। सर्वसंभवात्-नहि सर्वस्माद् वस्तुनः सर्वम् वस्तु उपलभ्यते । शक्तस्य शक्यकरणात्-समर्थात् कारणादेव तद्विधकार्योपलब्धिर्भवति । कारणभावाच्त्र-कार्यकारणयोरैक्यं तात्त्विकम् । अव्यक्तावस्थायां तदेव कारणम्, व्यक्तावस्थायां च तत् कार्यमिति । एवं सांख्यैः सत्कार्यवादः प्रस्तूयते । प्रकृतिर्गुणत्रयं च सर्वस्यास्य जगतो मूलकारणं मूलप्रकृतिः प्रकृति वर्तते । प्रकृतिश्च त्रिगुणात्मिका । सत्त्वं रजः तमश्चेति गुणत्रयम् । सत्त्वं सुखात्मकम्, रजो दुःखात्मकम्, तमश्च मोहात्मकम् । स्वरूपदृष्ट्या सत्त्वं लघु प्रकाशकं चास्ते, रजः प्रवर्तकं चञ्चलं च, तमस्तु गुरु आवरकं च । यथा दीपे तैलं वर्तिका ज्योतिश्च विरुद्धगुणवन्ति सन्त्यपि परस्परोपयोगितां दधति, तथैव विरुद्धगुणभाज़ोऽपि गुणाः परस्परसहकारित्वेन कार्य निष्पादयन्ति, उक्तं च Page #64 -------------------------------------------------------------------------- ________________ ४७ नास्ति सांख्यसमं ज्ञानम् सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः।। 'गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ ( सां० का० १३) प्रमाणानिः-सांख्याचार्यैः प्रमाणत्रयम् उरीक्रियते-प्रत्यक्षम्, अनुमानं शब्दश्चेति । इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानं प्रत्यक्षम् । तच्च द्विविधम्-निर्वि- . कल्पकं सविकल्पकं चेति । व्याप्य-व्यापक-ज्ञानपूर्वकम् अनुमानम् । अन्वयमुखेन प्रवृत्तम् अनुमानं 'वीतम्' । तच्च द्विविधम् पूर्ववत्, सामान्यतोदृष्टं च । व्यतिरेकमुखेन प्रवृत्तम् अनुमानम् 'अवीतम्'। तच्च 'शेषवत्' । आप्तवचनं च शब्दः । उपमान-अर्थापत्ति-अभावादि-प्रमाणानां प्रमाणत्वं नाङ्गीक्रियते सांख्यैः । तथा च प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकम् आप्तश्रुतिराप्तवचनं तु ॥ (सां०का०५) पुरुषः--पुरुषस्त्रिगुणातीतः, विवेको, विषयो, विशेषः चेतनः, अप्रसवधर्मी च । चैतन्यरूपः सः । सोऽविकारी, कूटस्थः, नित्यः, सर्वव्यापकश्च । स जगतः साक्षिमात्रः कैवल्यसंपन्नो मध्यस्थो द्रष्टा अकर्ता च । पुरुष-सिद्धयै युक्तिपञ्चकम् उपस्थाप्यते सांख्यैः-प्राकृतिकपदार्थसमूहस्य परार्थत्वात्, त्रैगुण्यभिन्नत्वात्, अधिष्ठानत्वात्, प्रकृतेः भोक्तृत्वात्, कैवल्यार्थं प्रवृत्तेश्च ।। संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृभावात कैवल्यार्थं प्रवृत्तेश्च ॥ ( सा० का० १७) सांख्यैः प्रतिपुरुषं भिन्नः पुरुषः 'जीवात्मेति' स्वीक्रियते। अतः पुरुषबहुत्वं स्वीक्रियते तैः । जन्मनिधनेन्द्रियाणां प्रतिपुरुषभेददर्शनात्, सर्वेषाम् एककाल-प्रवृत्त्यभावात्, सत्त्वादिगुणानां भेददर्शनाच्च पुरुष-बहुत्वं मन्यते सांख्यैः । जननमरणकरणानां प्रति नियमादयुगपत्प्रवृत्तेश्च । पुरुष-बहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ ( सां० का० १८ ) - ईश्वरः-ईश्वरासिद्धेः, प्रमाणाभावान्न तत् सिद्धिः, संबन्धाभावान्नानुमानम् । ( सांख्यसूत्र १-९२, ५-१०, ५-११), इति सांख्यसूत्रानुसारं सांख्यस्य निरीश्वरत्वं साध्यते । आचार्यों विज्ञानभिक्षुः सांख्यस्य सेश्वरत्वं साधयति । तत्संनिधानादधिष्ठातृत्वं मणिवत् ( सां० सूत्र १-९६ ) ईश्वरस्य संनिधिमात्रेण प्रकृतौ चैतन्यं व्यापारश्च, यथा चुम्बकसांनिध्येन लौहे । ____ अपवर्गः-पुरुषः स्वतोऽसंगो मुक्तश्च, अविवेकेन तस्य प्रकृतिसंयोगः, बन्धनं च। विवेकेन दुःखनिवृत्तिः । 'द्वयोरेकतरस्य वा औदासीन्यमपवर्गः' पुरुषस्य प्रकृति-पार्थक्यं स्वरूपावस्थानं वा अपवर्गः । मुक्तिद्विविधा-जीवन्मुक्तिविदेहमुक्तिश्च । तत्त्वानां सूक्ष्मातिसूक्ष्मविवेचनादेव सांख्यस्य सर्वदर्शनातिशायित्वम् अभ्युपपद्यते । Page #65 -------------------------------------------------------------------------- ________________ १४. एकं सांख्यं च योगं च यः पश्यति स पश्यति (सांख्ययोगयोः साम्यं वैषम्यं च ) श्रीमद्भगवद्गीतायां श्रीकृष्णेन प्रतिपाद्यते यत् सांख्ययोगौ न पृथक्त्वेन वर्तेते, यतोहि द्वयोरेकमुद्देश्यम्, एका पद्धतिः, कर्तव्यमीमांसा एकरूपेण च तत्त्वमीमांसा। केचन दार्शनिकाः सांख्ययोगयोर्भेदं मन्वते । तेऽतत्त्वज्ञा इत्येवं भगवता कृष्णेन ते धर्ण्यन्ते। यदि यथार्थतो विविच्यते तहि दृश्यते यल्लोके द्विविधा मानवा वर्तन्ते । एके ज्ञानयोगिनोऽपरे कर्मयोगिनश्च । ये बुद्धिजीविनस्ते ज्ञानयोगं प्रशंसन्ति, तं मार्गमेवानुसरन्ति च । ते निवृत्तिमार्गम् अनुसृत्य ब्रह्मतत्त्वं जिज्ञासन्ति । ये कर्मजीविनः सन्ति ते कर्मयोगं प्रशंसन्ति । अतएव गीतायां द्वितीयेऽध्याये उभयविधस्य योगस्य वर्णनम् अवाप्यते । सांख्यसंमतस्य ज्ञानयोगस्य वर्णनं क्रियते यत् सुखदुःखे समे कृत्वा लाभालाभौ जयाजयो । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ गीता० २-३८ ततश्च वर्ण्यते यत् सांख्यानुसारं पूर्वमुक्तम् । साम्प्रतं कर्मयोगो वर्ण्यतेएषा तेऽभिहिता सांख्ये बुद्धिोंगे त्विमां शृणु। बुद्धचा युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ गीता० २-३९ सांख्ययोगयोः एकोद्देश्यत्वम्-सांख्ययोगयोः . एकमुद्देश्यम्-दुःखप्रणाशेन ब्रह्मसाक्षात्कारो मोक्षाधिगमश्च । द्वयोरपि दर्शनयोरेतस्यैव स्वरूपं पद्धतिः विवरणं च विशदीक्रियन्ते । एकमपि मार्गम् आस्थितो जनो ब्रह्मप्राप्तिरूपं फलम् अश्नुते । अतएव भगवता कृष्णेन प्रतिपाद्यते यत् सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोविन्दते फलम् ॥ गीता० ५-४ । ये विपश्चितः सांख्ययोगयोः अपृथक्त्वम् अवधारयन्ति त एव निश्चप्रचं दर्शनतत्त्वज्ञाः । ये द्वयोर्भेदं निश्चिन्वते ते अतत्त्वज्ञाः । अतएवोच्यते यत्सांख्यैः प्राप्यते स्थानं तद् योगैरपि गम्यते। एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥ गीता० ५-५ तत्त्वमीमांसा-तत्त्वमीमांसादृष्टया द्वयोरपि दर्शनयोरैक्यं समवलोक्यते । सांख्यानुसारं प्रमाणत्रयम्-प्रत्यक्षानुमानागमाः। योगदर्शनेऽपि एतत् प्रमाणत्रयम् अङ्गीक्रियते । प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थ दृश्यम् । योगदर्शन २-१८ Page #66 -------------------------------------------------------------------------- ________________ एकं सांख्यं च योगं च यः पश्यति ० अस्मिन् सूत्रे सत्त्वं रजस्तमश्चेति गुणत्रयम्, एकादशेन्द्रियाणि, भूतानि, सांख्याभिमतानि स्वीक्रियते । विशेषाविशेष लिङ्गमात्रालिङ्गानि गुणपर्वाणि । योग० २ - १९ अत्र प्रकृतेर्मंहत्तत्त्वस्य तन्मात्राणाम् एकादशेन्द्रियाणां पञ्चभूतानां च वर्णनं प्राप्यते । ४९ पञ्च द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः । योग० २ - २० अत्र साक्षिरूपस्य पुरुषस्य वर्णनं वर्तते । तदर्थ एव दृश्यस्यात्मा । योग० २ - २१ अत्र पुरुषस्य भोक्तृत्वं प्रकृतेश्च भोग्यत्वं स्वीक्रियते । स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ योग० २-२३ अत्र स्वरूपोलब्ध्यै पुरुष - प्रकृत्योः संयोगो वर्ण्यते । दृश्यस्योपलब्धिर्भोगः, द्रष्टुः पुरुषस्य स्वरूपोपलब्धिः अपवर्गः । तस्य हेतुरविद्या | योग० २ - २४ अविद्यैव पुरुषप्रकृत्योरभेदं संस्थापयति । तत्त्वज्ञानेन तयोः स्वरूपज्ञाने भेदे चावधारिते प्रधान - पुरुषान्यताख्यातिर्भवति । तदैव च मोक्षाधिगमः । सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च । योग० ३ - ४९ सांख्याभिमतानि २५ तत्त्वानि योगेऽपि स्वीक्रियन्ते । विवेकज्ञानमेव मुक्तिसाधनम्, एतदेवोभयत्र मन्यते । द्वयोरपि मतेन पुरुषस्य स्वातन्त्र्यं स्वीक्रियते । पुरुषः शुद्ध-बुद्ध - मुक्त - स्वभावो मन्यते । सांख्यसूत्रे 'ईश्वरासिद्धेः ' ( सां० सूत्र १ - ९२ ) इत्याश्रित्य सांख्यस्य निरीश्वरत्वं योगस्य च सेश्वरत्व - मिति वचनं भ्रान्तिमूलकमेव । सांख्ये उपादानकारणरूपेण निमित्तकारणरूपेण चेश्वरस्यासिद्धिः प्रतिपाद्यते । योगेऽपि निमित्तकारणरूपेण न स स्वीक्रियते । तत्संनिधानादधिष्ठातृत्वं मणिवत् । सां० सू० १-९६ सूत्रेऽस्मिन् स्फुटं प्रतिपाद्यते यद् ईश्वरो मणिवत् स्वाधिष्ठानमात्रेण जगत् प्रकाशयति, जगतोऽधिष्ठाता च । अतः सांख्यस्य निरीश्वरत्वकथनं भ्रान्तिमूलकमेव । ईश्वरस्य साक्षित्वादिकं श्वेताश्वतरोपनिषद्यपि विशदं प्रतिपाद्यते । एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ श्वेता० ६-११ तत्रैव स्फुटं प्रतिपाद्यते यत् स ईश्वरः सांख्य-योगयोर्ज्ञानेन ज्ञायते । एवम् उभयोरपि दर्शनयोः सेश्वरत्वं सिध्यति । ४ Page #67 -------------------------------------------------------------------------- ________________ - संस्कृतनिबन्धशतकम् नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः॥ श्वेता०६-१३ सांख्ययोगयोन पारमार्थिको भेदः । व्यक्ताव्यक्तज्ञ-विज्ञानस्य यत् सैद्धान्तिकं रूपं सांख्ये प्राप्यते, तस्यैव व्यावहारिक रूपं योगे प्राप्यते । एकस्यैव तत्त्वज्ञानस्य सांख्यदर्शनं सिद्धान्तपक्षः, योगदर्शनं च व्यावहारिकः पक्षः। एवम् उभयेऽपि परस्पर-संबद्धे, अन्योन्यपूरके, एकलक्ष्यप्रवणे च स्तः । सांख्यस्योत्कर्षत्वं निरीक्ष्यैव महाभारते भागवतपुराणे च सांख्यदर्शनं स्तूयते ज्ञानं महद यद्धि महत्सु राजन् वेदेषु सांख्येषु तथैव योगे। यच्चापि दृष्टं विविधं पुराणे, सांख्यागतं तन्निखिलं नरेन्द्र ॥ __ महा० शान्तिपर्व यस्येरिता सांख्यमयी दृढेह नौर्यया मुमुक्षुस्तरते दुरत्ययम् ॥ भागवत० ९-८-१४ महाभारतानुसारं योगे पुराणादिषु च यज्ज्ञानं प्राप्यते तत् सांख्यादागतं ज्ञेयम् । भागवतानुसारं च सांख्यपद्धतिर्मोक्षाधिगमाय दृढा नौकेति । आचार्यमाठरोऽपि माठरवृत्तौ कपिलं स्तुवन्नाह कपिलाय नमस्तस्मै येनाविद्योदधौ जगति मग्ने। ___ कारुण्यात् सांख्यमयी नौरिह विहिता प्रतरणाय ॥ माठर-वृत्ति द्वयोरपि दर्शनयोर्बाह्यार्थस्य स्वतन्त्रसत्ता स्वीक्रियते । द्वे अपि दर्शने जगतो वास्तविकतां स्वीकुरुतः । गीतायां सांख्ययोगयोरेकरूपतां स्वीकुर्वता उच्यते लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥ गीता ३-३ एवं सांख्ययोगयोः साम्यं लक्ष्यते । द्वयोर्यद् वैषम्यं तन्न सिद्धान्तमूलम्, अपि तु प्रयोगमूलं प्रक्रियारूपं च । सांख्ये बुद्धियोगः योगे कर्मयोगः, एकत्र ज्ञानमार्गोऽपरत्र कर्ममार्गः, एकत्र तत्त्वचिन्तनेन मोक्षोऽपरत्र समाधिप्रयोगेण, एकत्र बुद्धिशुद्धिरपरत्र कायादिशुद्धिपूर्वम् चित्तवृत्तिनिरोधः, एकत्र मानसः श्रमोऽन्यत्र शारीरः श्रम इत्येवं वैषम्यमपि लक्ष्यते । परम् एकस्यैव तत्त्वदर्शनस्य पक्षान्तराश्रयणेन द्वयोर्दर्शनयोः सृष्टिः । एवं सिध्यति एकं सांख्यं च योगं च यः पश्यति स पश्यति । Page #68 -------------------------------------------------------------------------- ________________ १५. नास्ति योगसमं बलम् ( योग - तत्त्वमीमांसा ) - योगस्य स्वरूपम् — ‘योगश्चित्तवृत्तिनिरोधः' ( योग० १-२ ) । चित्तवृत्तीनां निरोधेनैव योगस्य संसिद्धिः । अवस्थायामस्यां जीवः स्वरूपम् अधितिष्ठति । चित्तस्य पञ्च भूमयः - ' क्षिप्तं मूढं विक्षिप्तम् एकाग्रं निरुद्धमिति चित्तभूमयः' ( व्यासभाष्य १ - १ ) । तत्र क्षिप्तं मूढं विक्षिप्तमिति भूमित्रयं योगानुपकारि । एकाग्रे चित्ते बहिर्वृत्तीनां निरोधेन संप्रज्ञातः समाधिर भीष्यते । निरुद्धे चेतसि सर्वासां वृत्तीनां संस्काराणां च निरोधेन असंप्रज्ञातः समाधिः सिध्यति । चित्तवृत्तयः - कास्ताः चित्तवृत्तय इति जिज्ञासायां पतञ्जलिर्ब्रूतेवृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । योग० १-५ प्रमाण - विपर्यय-विकल्प-निद्रा-स्मृतयः । योग० १-६ :-प्रमाण पञ्चापि वृत्तयः क्लिष्टा अक्लिष्टाश्च । क्लेशहेतुकाः क्लिष्टाः, ख्याति - विषया गुणाधिकार- विरोधिन्यश्च अक्लिष्टाः । पञ्च वृत्तय सन्तिः - विपर्यय-विकल्प-निद्रा-स्मृति - नामधेया: । ( १ ) तत्र प्रमाणानि वीणि- प्रत्यक्षअनुमान - आगम ( शब्द ) - नामकानि । ( २ ) विपर्ययो मिथ्याज्ञानम् अविद्या वा । सेयम् अविद्या पञ्चविधा - अविद्याऽस्मिता - -राग-द्वेषाभिनिवेशेति पञ्चक्लेशसमायुक्ता । एते एव पञ्च क्लेशाः - तमस् - मोह-महामोह - तामिस्र - अन्धतामिस्रा इति कथ्यन्ते । ( ३ ) 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्प : ' (१-९ ), यथा- राहोः शिरः, शश-शृङ्गम्, चैतन्यं पुरुषस्य स्वरूपम् इति वा । ( ४ ) ' अभाव प्रत्ययालम्बना वृत्तिर्निद्रा' ( १-१० ) अभावबोधस्वरूपा तमोमूला च वृत्तिनिद्रा । (५) 'अनुभूत विषयासम्प्रमोषः स्मृतिः' ( १ - ११ ) अनुभूतविषयानुरूपा वृत्तिः स्मृतिरित्युच्यते । वृत्तिभिः संस्काराः क्रियन्ते, संस्कारैश्च वृत्तय इति वृत्तिसंस्कारयोश्चक्रम् अनिशं परिवर्तते । वृत्तयश्चित्ते क्षयावस्थां संप्राप्ताः संस्काररूपेणावतिष्ठन्ते । वृत्तीनां निरोधे संस्काराणामपि निरोधो जायते । सर्वा अप्येता वृत्तयो निरोद्धव्याः । आसां निरोधे संप्रज्ञातोऽसंप्रज्ञातो वा समाधिर्निष्पद्यते । द्विविधो योगः - संप्रज्ञातः असम्प्रज्ञातश्च । यश्चित्तस्य एकाग्रतावस्थायां सद्भूतमर्थं प्रकाशयति, क्लेशान् शमयति, कर्मबन्धनानि शिथिलयति, निरोधावस्थाम् अभिमुखं करोति, स संप्रज्ञातो नाम योगः । संप्रज्ञातः समाधिः सबीज: समाधिरयुच्यते, अत्र बीजस्यावलम्बनस्य वा सद्भावात् । संप्रज्ञातो योगश्चतुविधो भवति-वितर्कानुगतः, विचारानुगतः, आनन्दानुगतः, अस्मितानुगतश्चेति । सर्ववृत्तीनां निरोधे असम्प्रज्ञातः समाधिः । अयमेव निर्बीजः समाधिरप्युच्यते, अत्र बोजस्यावलम्बनस्य वा असद्भावात् । असंप्रज्ञातः समाधिर्द्विधाभवप्रत्ययः, उपायप्रत्ययश्चेति । ज्ञानोन्मेषाभावेन विदेहानां प्रकृतिलीनानां च Page #69 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् . भवप्रत्ययः समाधिः । 'भवप्रत्ययो विदेहप्रकृतिलयानाम्' ( १-१९)। 'श्रद्धा-वीर्य . स्मृति-समाधि-प्रज्ञापूर्वक इतरेषाम्' (१-२०), श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-सम वेतानाम् उपायप्रत्ययः समाधिः। उपायप्रत्यये प्रज्ञाया उदयात् संस्काराणां . दाहाच्च व्युत्थानाशङ्का न संभवति । उपायप्रत्यय एव वास्तविकः समाधिः । पञ्च क्लेशाः-क्लेशापगमेनैव योगमार्ग-प्रसूतिः । क्लेशा विघ्नस्वरूपाः । 'अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः' (२-३ ) । अस्मितादिक्लेशचतुष्टयस्य मूलम् अविद्यैव । 'अनित्याशुचिदुःखानात्मसु नित्य-शुचि-सुखात्मख्यातिरविद्या' ( योग० २-५ )। अनित्ये नित्यबुद्धिः, अशुचौ शुचिबुद्धिः, दुःखे सुखबुद्धिः, अनात्मनि आत्मबुद्धिश्च अविद्यैव । 'दृग्दर्शनशक्त्योरेकात्मतैवास्मिता' (२-६)। दृग्दर्शनशक्त्योः पुरुष-बुद्धयोः एकात्मतारूपेण ज्ञानम् अस्मिता । 'सुखानुशयी रागः' (२-७), सुखजनकेषु वस्तुषु तृष्णा राग इति । 'दुःखानुशायी द्वेषः' (२-८), दुःखदेषु वस्तुषु क्रोध परिजिहीर्षा वा द्वेष इति । मृत्युभीतिः अभिनिवेश इति । एषां प्रणाशेनैव योगाभिरुचिस्तत्साफल्यं च । योगाङ्गानि-योगाङ्गानि समाधिम् अधिजिगांसूनां कर्तव्यमीमांसा बोधयन्ति । योगसाफल्याय कायस्य मनस इन्द्रियाणां च शुद्धिरभीष्टा । तदर्थ साधनाष्टकं योगसूत्रे प्रतिपाद्यते । एतद् योगाङ्गनाम्ना व्यवह्रियते । यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि । योग०२-२९ (१) यमाः–'अहिंसा-सत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' (२-३०), अहिंसादिपञ्चकं यम-नाम्ना व्यवह्रियते । अहिंसा-सर्वभूतानाम् अनभिद्रोहः । सत्यम्-वाङ्मनसयोः एकरूपता । यथादृष्टश्रुतस्य तद्रूपेणाभिव्यक्तिः । अस्तेयम्चौर्याभावः, परद्रव्यस्य अहरणं वा। ब्रह्मचर्यम्-जितेन्द्रियता, इन्द्रियवशीकरणं च ।अपरिग्रहः-भौतिकविषयाणां परिहारः । यमा ह्येते देशकालाद्यनविच्छिन्नाः सार्वभौमा महाव्रत मन्यन्ते । 'जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महाव्रतम्' (२-३१) (२) नियमाः--'शौच-संतोष-तपः-स्वाध्याययेश्वरप्रणिधानानि नियमाः ( २-३२ ) । तत्र शौचं-बाह्याभ्यन्तर-शुद्धिः । सन्तोष:-यथाप्राप्तेन सन्तुष्टिः । तप:-सुखदुःख-शोकहर्षादिद्वन्द्वानां सहनम् । स्वाध्यायः-अध्यात्मपराणां शास्त्रीयानां च ग्रन्थानाम् अध्ययनं प्रणवस्य जपो वा। ईश्वरप्रणिधानं-ईश्वरचिन्तनम् ईश्वरार्पणं च ।। (३) आसनम्-'स्थिरसुखमासनम्' (२-४६ ) स्थिरतया दीर्घकालं यावत् सुखेन निषदनम् आसनमिति । पद्मासन-सिद्धासन-शोर्षासनादीनि योगा. सनान्यत्र संगृह्यन्ते । योगासनैः कायरोगचिकित्सापि संजायते । Page #70 -------------------------------------------------------------------------- ________________ नास्ति योगसमं बलम् . (४) प्राणायामः-तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ( २-४९ )। बाह्यस्य वायोराचमनं श्वासः, अन्तर्गतवायोनिःसारणं च प्रश्वासः, तयोर्गतिविच्छेदः प्राणायामः स च चतुर्विधः-पूरकः-गृहीतश्वासस्य अन्तनिरोधः । रेचक:-अन्तर्गतप्रश्वासस्य बहिनिरोधः । बाह्यकुम्भक:-बहिनिरुद्धस्य वायोर्बहिरेव यावच्छक्यं निरोधः । आभ्यन्तरकुम्भक:अन्तनिरुद्धस्य वायोरन्तरेव यावच्छक्यं निरोधः । प्राणयामेन शरीरमलप्रक्षयः शरीरशुद्धि रोग्यं च । भस्त्रिकया यथा धातुमलं संशोध्यते तथैव शरीरमलं प्राणायामेन शोध्यते । उक्तं च मनुना दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः। तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ मनु०६-११ ( ५ ) प्रत्याहारः-'स्वविषयासंप्रयोगे चित्तस्य स्वानुकार इवेन्द्रियाणां प्रत्याहारः' ( २-५४ ) । इन्द्रियाणां स्वविषयेभ्यो निवृत्तिः अन्तर्मुखी वृत्तिश्च प्रत्याहार इत्यभिधीयते । एतस्माद् इन्द्रियाणां वशित्वम् उपपद्यते । यमादीनि पञ्च योगाङ्गानि बहिरङ्गसाधनानि मन्यन्ते, धारणा-ध्यान-समाधयश्चेति त्रयोऽन्तरङ्गसाधनानीति । (६) धारणा-'देशबन्धश्चित्तस्य धारणा' ( ३-१)। हृत्कमले नासिकाग्रे, भ्रूमध्ये, अन्यत्र वा कस्मिंश्चित् निर्दिष्टे स्थाने चित्तस्यैकाग्रता धारणेति व्यवह्रियते । धारणया मनसो निग्रहः, एकाग्रतया विषयैक्ये मनसोऽभिरुचिश्च प्रवर्तते । (७) ध्यानम्--'तत्र प्रत्ययकतानता ध्यानम्' ( ३-२) । एकाग्रीकृते चित्ते ध्येयस्य वस्तुनः एकाकाररूपेण प्रवाहो ध्यानमित्युच्यते । एकस्यैव वस्तुनः ऐकाग्र्येण चेतसा चिन्तनं तल्लीनत्वं च ध्यानमित्यनेन संसूच्यते । (८) समाधिः--'तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः' ( ३-३ )। सम्यग् आधीयतें एकाग्रीक्रियते विक्षेपान् परित्यज्य मनो यत्र स समाधिः । यदा ध्यानं ध्येयाकाररूपं स्वरूपशन्यमिव वा भवति तदा समाधिरित्युच्यते । समाध्यवस्थायां ध्यान-ध्यातृ-ध्येयानाम् एकरूपता संपद्यते । धारणा-ध्यान-समाधयः त्रयमेतत् 'संयमः' इत्युच्यते । 'त्रयमेकत्र संयमः' ( ३-४ ) । 'तज्जयात् प्रज्ञालोकः' ( ३-५) संयमस्य वशीकरणेन विवेकख्यातेः तत्त्वज्ञानस्य वा समुदयः संजायते । एवम् अष्टाङ्गयोगसाधनेन साधकः स्वचित्तवृत्तिनिरोधाद् ऐकान्तिकम् आत्यन्तिकं च सुखं विन्दति मोक्षम् चाधिगच्छति । अतएव पतञ्जलेस्तत्त्वज्ञतां प्रशंसयन्नाह कविः योगेन चित्तस्य पदेन वाचां, मलं शरीरस्य च वैद्यकेन । योऽपाकरोत् तं प्रवरं मुनीनां, पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ .' Page #71 -------------------------------------------------------------------------- ________________ १६. ब्रह्म सत्यं जगन्मिथ्या ( सर्व खल्विदं ब्रह्म) ब्रह्मणः स्वरूपम्-आधिव्याधिपरिपीडितो जराजन्म-मरणादिदुःख-दावाग्निदग्धः, क्लेशायासविषण्णः, अज्ञानान्धतमसनिमीलितनयनः, भौतिक-विषयायासितान्तरो जीव आनन्दावाप्तये मोक्षाधिगमाय त्रिविधतापविनाशाय मोहापहाराय च जगच्छरण्यं शुद्ध-बुद्ध-मुक्त-स्वभावं जगदीश्वरम् आश्रयते । जगदीश्वरो वेदान्तमतेन ब्रह्मेत्याख्यायते । तस्य ब्रह्मणः स्वरूपम् उपनिषत्सु बहुधा प्रतिपाद्यते । माण्डूक्योपनिषदि तत्स्वरूपं निगद्यते यत् एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् । ६ । नान्तःप्रजं न बहिःप्रज्ञं नोभयतःप्रज्ञं अदृष्टमव्यवहार्यमग्राह्यम्" एकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विजेयः॥माण्डूक्योपनिषद् । ७ स परमात्मा अद्वितीयः सर्वव्यापकः सर्वान्तर्यामी साक्षो चैतन्यस्वरूपो निर्गणश्चेति । न तत्समश्चाभ्यधिकश्च कश्चन । अस्य शक्तिरपूर्वा विविधगणमयी च । स एव ऊर्णनाभ इव मायया सकलं जगत् सृजत्यवति संहरति च । उक्तं च एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता निर्गुणो निष्क्रियश्च ॥ - श्वेता०६-११ न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ श्वेता० ६-८ यस्तूर्णनाभ इव तन्तुभिः प्रधानजैः स्वभावतः।। देव एकः स्वमावृणोति स नो दधातु ब्रह्माव्ययम् ॥ श्वेता० ६-१० तस्यैव तेजसा निखिलं जगद् द्योतते । स एव प्रकाशानामपि प्रकाशः, तेजसां तेजश्च । सूर्यचन्द्रतारकादयो न तस्य प्रकाशने प्रभवः । अग्न्यादीनां तु का कथा। न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनु भाति सवं तस्य भासा सर्वमिदं विभाति ॥ श्वेता०६-१४ स एवैको विश्वरूपः सर्वदेवमयश्चेति बहुधा वर्ण्यते । उक्तं च Page #72 -------------------------------------------------------------------------- ________________ ब्रह्म सत्यं जगन्मिथ्या ५५ अग्निर्यथैको भुवनं प्रविष्टो रूपं रू प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ कठ० २-५-९ तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः। तदेव शुक्रं तद्ब्रह्म तदापस्तत् प्रजापतिः॥ श्वेता०४-२ ब्रह्म सत्यम्-किं सत्यं किम् असत्यं मिथ्या वा, इति जिज्ञासायाम् आचार्यः श्रीशंकरोऽभिधत्ते यद्-'यद् रूपेण यन्निश्चितं तद् रूपं न व्यभिचरति तत् सत्यम्'। अर्थात् यद् वस्तु शाश्वतिकं परिवर्तनरहितम् अविनश्वरं च तत् सत्यम्, अतोऽन्यद् असत्यं मिथ्या वा । एवं चिन्तनेन सिध्यति यद् जगद् असत्यं जगतः परिवर्तनशीलत्वात् । ब्रह्म च सत्यं शाश्वतिकम् अपरिवर्तनशीलम्, अतः तस्य सत्यता न केनापि रूपेणाक्षेप्तुं शक्या। वेदान्तदर्शने ब्रह्म निर्विकल्पं निरुपाधि निर्विकारं चेति उररीक्रियते । तद् ब्रह्म द्विविधं निर्गुणं सगुणं च । निर्गुणं ब्रह्म परमार्थदृष्टया सच्चिदानन्दस्वरूपम् । तदेव जगतः प्रकाशकम् । तत्सत्तयैव सूर्यचन्द्रादिकं प्रकाशते । अज्ञानोपाध्यवच्छिन्नं ब्रह्म सगुणरूपताम् आपद्यते । तदेव नामरूपादिभेदेन नानादेवतारूपताम् आसादयति । तथा च कठोपनिषदि स्वीक्रियते एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च । कठ० २-५-१० एकं रूपं बहुधा यः करोति । कठ० २-५-१२ तस्य ब्रह्मणोऽविद्योपाध्यवच्छिन्नं कारणशरीरं समष्टिरूपेण 'ईश्वरः' व्यष्टिरूपेण च 'प्राज्ञः' जीवो वा मन्यते । तस्यैव ज्ञानेन सर्व विज्ञायते । तदेव जगति ओतं प्रोतं च । ब्रह्मकत्वज्ञाने च न मोहो न शोकः । न च तदन्यद् वस्त्वन्तरम् । एतदेव श्रुतिषु बहुधा प्रतिपाद्यते ___ 'ईशावास्यमिदं सर्वम्' ( ईश० १), 'ऐतदात्म्यमिदं सर्वम्, 'यस्मिन् विज्ञाते सर्व विज्ञातं भवति', 'स आत्मा तत्त्वमसि श्वेतकेतो' ( छान्दोग्य०), 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' (ईश० ७), मृत्योः स मृत्युमाप्नोति य इह नानेन पश्यति'।। जगन्मिथ्या-वेदान्तनुसारं जगन्मिथ्येति मन्यते । विषयेऽस्मिन् बढ्यो विप्रतिपत्तयो वर्तन्ते । वेदान्तानुसारं मायायाः शक्तिद्वयम्-आवरणविक्षेपनामकम् । आवरण-शक्तिब्रह्मणः शुद्धस्वरूपम् आवृणोति । विक्षेपशक्तिश्च तत्र आकाशादिप्रपञ्चं सृजति । विशदीकृतं चैतद् दृग्दृश्यविवेके: शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् । विक्षेपशक्तिलिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् ॥ अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः। आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ॥ दृग्दृश्यश्लोक १३, १५ Page #73 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् मायैव अविद्या-अज्ञान-अध्यास-अध्यारोप-विवर्तादिशब्दैव्य॑वह्रियते । अज्ञानोपाध्यवच्छिन्नं स्थूलं शरीरं व्यष्टिरूपं सद् विश्वं जगद् वा भवति । तत्त्वदशा चिन्तनेन परिवर्तनशीलत्वाद् विनाशित्वाच्च जगद् मिथ्येत्युच्यते । वेदान्तानुसारं त्रिविधा सत्ता स्वीक्रियते-प्रातिभासिकी, व्यावहारिकी, पारमार्थिकी च । प्रातिभासिकी सत्ता किंचित्कालावस्थायिनी, पश्चात् प्रतिबाधिता च । यथा-रज्जौ सर्पबुद्धिः, शुक्तौ रजतबुद्धिश्च । व्यावहारिकी सत्ता जगद्-व्यवहारप्रधाना। नामरूपात्मकं जगद् व्यवहारदृष्टयैव सत्यम्, परमार्थदृष्ट्या असत्यं मिथ्या वा। जगद् विपरिणामि नश्वरं परिवर्तनर्मि अशाश्वतं चेति अवधार्य असत्यं मिथ्या वेत्युच्यते, न तु लौकिकज्ञाननिर्मलताऽऽपादनाय । पारमार्थिकी सत्ता सा या न क्वचिद् व्यापद्यते विहन्यते वा। यत् तत्त्वतोऽक्षरं शाश्वतं वा तदेव पारमार्थिकं सत्यम् । एवं ब्रह्मैव केवलं पारमार्थिकी सत्ता। तात्त्विकदृष्ट्यैव जगन्मिथ्येति वेदान्तविदाम् अभिमतम् । व्यवहारदृष्टया तु तदनुभूतिर्न निर्मूला। जीवो ब्रह्मैव नापरः--अज्ञानोपाध्यवच्छिन्नं व्यष्टिरूपं सत् कारणशरीरं प्राज्ञो जीवो वेत्याख्यायते । समष्टेरीश्वरस्य व्यष्टिरूपो जीवः । सर्वज्ञत्वाल्पज्ञत्वादिभेदेन ब्रह्मजीवात्मनो दः । आत्मतत्त्वरूपेण चैतन्यरूपेण च तयोरभेदः । अतएव 'तत् त्वमसि' इति महावाक्येन जीव-ब्रह्मणोरैक्यं प्रतिपाद्यते । सर्वज्ञत्वाल्पज्ञत्वादिभेदवारणेन तयोरैकात्म्यम् । एकस्यैव तत्त्वस्य समष्टि-व्यष्टिरूपेण नामान्तरं ब्रह्मजीवात्मानौ इति । ब्रह्मसाक्षात्कारे द्वयोरैक्यस्यानुभूतेः 'तत् त्वमसि' इति संगच्छते । अत्र भागलक्षणाया जहदजहल्लक्षणाया वा स्वीकरणाद् ब्रह्मजीवयोरेकत्वं साध्यते । सुरेश्वराचार्यो नैष्कर्म्यसिद्धौ एतदेव प्रतिपादयतिः सामानाधिकरण्यं च विशेषणविशेष्यता। लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनाम् ॥ नैष्कर्म्यसिद्धि ३-३ पञ्चदश्यां विद्यारण्यः 'तत्त्वमसि' इत्यस्य महावाक्यस्य अखण्डैकरसत्वमेव वाक्याथं विवणते । उक्तं च संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः। अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः॥ पञ्चदशी ७-७५ एवं सुकरम् एतद् अभिधातुं यद्ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः॥ Page #74 -------------------------------------------------------------------------- ________________ १७. वाक्यं रसात्मकं काव्यम् ( काव्य-लक्षणम् ) भावानुभूतिमद् वाक्यं रसवद् ध्वनिसंगतम् । गुणालंकारसंजुष्टं काव्यं रम्यार्थद्योतकम् ॥ ( कपिलस्य ) काव्यस्योद्देश्यम् :–असारेऽस्मिन् संसारे दुःख- दावाग्नि- दग्धस्य आधिव्याधि- प्रपीडितस्य पापादिविषण्णस्य मायामोह - भ्रान्तचेतसो मानववृन्दस्य मनःसन्तापनिवारणाय चेतः प्रसादाय सुखावाप्तये च विद्वद्धौरेयाः तत्त्वज्ञाः काव्यशास्त्रनामकं रत्नं वाङ्मयमहोदधेः सारभूतम् उददीधरन् । रत्नमेतत् चतुर्वर्गावाप्तिसाधनं ब्रह्मानन्दसहोदरं रसम् आस्वाद्यतया जनयद् गौरवम् अलभत । काव्यं हि यशसेऽर्थलाभाय व्यवहारज्ञानाय पापविनाशाय परमानन्दलाभाय कान्तासंमित-कर्तव्योपदेशाय च प्रशस्यते । उक्तं च मम्मटेन— काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः पर- निर्वृतये कान्तासंमिततयोपदेशयुजे ॥ ( काव्य० १-२ ) काव्यं हि नवरसरुचिरत्वाद् नियतिकृतनियमरहितत्वाद् आह्लादजनकत्वाद् अनन्यपरतन्त्रत्वाद् ब्रह्मकृतां सृष्टिमपि अतिशेते । एतदेव विशदीक्रियते मम्मटेन नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ का० १-१ काव्यलक्षणम् - किं तावत् काव्यमिति विचारचर्चायाम् अनेकानि काव्यलक्षणानि दृष्टिपथम् अवतरन्ति । परमद्यावधि नैकमपि लक्षणं निर्दुष्टं सर्वसंमतं वा । भरतस्य नाट्यशास्त्रे प्राचीनतमं लक्षणम् उपलभ्यते— मृदु-ललित पदाढ्यं गूढशब्दार्थ हीनं जनपदसुखबोध्यं युक्तिमन्नृत्ययोग्यम् । बहुकृतरसमागं सन्धि-सन्धान-युक्तं भवति जगति योग्यं नाटकं प्रेक्षकाणाम् ॥ नाट्यशास्त्र अत्र मुख्यतो दृश्यकाव्यमेव परिभाष्यते । अग्निपुराणे सर्वप्रथमं काव्यलक्षणं निर्दिश्यते -- संक्षेपाद् वाक्यमिष्टार्थव्यवच्छिन्ना पदावली । काव्यं स्फुरदलंकारं गुणवद् दोषवजितम् ॥ अग्निपुराण ३३७-६०७ अत्र काव्यस्य पञ्च तत्त्वानि स्वीक्रियते — इष्टार्थः, संक्षिप्तं वाक्यम्, अलं काराः, गुणाः, दोषाश्चेति । एतेन काव्यस्य बाह्यरूपरेखा स्फुटीभवति । Page #75 -------------------------------------------------------------------------- ________________ ५८ संस्कृतनिबन्धशतकम् पण्डितराज जगन्नाथं विहाय प्रायः सर्वैरपि पूर्वाचार्यैः काव्यलक्षणे शब्दार्थयोः द्वयोरपि संकलनं विधीयते । प्राचीनाचार्यो भामहः काव्यालंकारे काव्यलक्षणम् अभिधत्तेः शब्दार्थों सहितौ काव्यम् । काव्यालंकार १-१६ वामनादिभिरपि शब्दार्थयोः काव्यत्वं स्वीक्रियते । तद् यथाकाव्यशब्दोऽयं गुणालंकारसंस्कृतयोः शब्दार्थयोर्वर्त्तते । ( वामन १-१) शब्दार्थो काव्यम् । (रुद्रट-काव्यालंकार २-१) अदोषौ सगुणौ सालंकारौ च शब्दार्थों काव्यम् । ( हेमचन्द्र ) शब्दार्थों निर्दोषौ सगुणौ प्रायः सालंकारौ च काव्यम् । ( वाग्भट ) गुणालंकार-सहितौ शब्दार्थों दोषवजितौ । ( विद्यानाथ प्रतापरुद्र ) शब्दार्थों वपुरस्य तत्र विबुधैरात्माभ्यधायि ध्वनिः । (विद्याधर एकावली) शब्दार्थयोः समन्वयः काव्यमिति । अर्थानुकूलं शब्दप्रयोगः, शब्दानुरूपं चार्थ इति अत्राभिमतम् । आचार्यो दण्डी भामहस्य 'शब्दार्थों' इति विशदयन् आह शरीरं तावदिष्टार्थ-व्यवच्छिन्ना पदावली । काव्यादर्श १-१० अत्र शब्दार्थयोः समन्वयेन काव्यस्य शरीरमेव निर्धार्यते। अतएव आनन्दवर्धनाचार्यः 'शब्दार्थशरीरं तावत् काव्यम्' इति व्याहरन् शब्दार्थयोः पृथक् काव्यस्य आत्मानं मनुते । काव्यस्य शरीरज्ञानेऽपि तत्र 'कः आत्मा' इति न निश्चप्रचं ज्ञायते। काव्यस्य आत्मा-परवर्तिभिराचार्यैः 'कः काव्यस्य आत्मा' इति गवेषयद्भिर्बहुधा स प्रस्तूयते । वामनः 'रीतिरात्मा काव्यस्य' इति निगदन् रीतिमेव काव्यात्मरूपेण स्वीकरोति । रीतिशब्देन शैली भाषासौन्दर्य सालंकृतित्वं चाभीष्यते । वामनेनोच्यते : काव्यशब्दोऽयं गुणालंकारसस्कृतयोः शब्दार्थयोर्वर्तते, भक्त्या तु शब्दार्थमात्रवचनो गृह्यते । उद्भटोऽपि गुणालंकारयोः समरूपेण काव्ये स्थिति स्वीकरोति । रुद्रट: 'शब्दार्थों काव्यम्' इति अभिदधत् काव्ये शब्दार्थयोर्महत्त्वं निर्दिशति । आनन्दवर्धनाचार्यः 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व:०' ( ध्वन्यालोक १-१ ) इति ब्याहरन् ध्वनिमेव काव्यस्यात्मरूपेण प्रतिपाद्यते । राजशेखरः काव्यमीमांसायां काव्यपुरुष साङ्गोपाङ्गं प्रस्तौति । शब्दार्थो ते शरीरम्, संस्कृतं मुखम्, प्राकृतं बाहुः,...रस आत्मा, रोमाणि छन्दांसि, अनुप्रासोपमादयश्च त्वामलंकुर्वन्ति । ( काव्यमीमांसा, पृष्ठ १३-१४) Page #76 -------------------------------------------------------------------------- ________________ वाक्यं रसात्मकं काव्यम् ५९ अत्र 'रस आत्मा' इत्यनेन काव्ये रसस्य आत्मत्वम् ऊरीकरोति । आचार्यः कुन्तकः 'वक्रोक्ति: काव्यजीवितम्' इति साधयति । उच्यते च तेन शब्दार्थो सहितौ वक्र-कविव्यापारशालिनि। बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि ॥ वक्रोक्ति० १-७ क्षेमेन्द्रश्च औचित्यविचारचर्चायाम् 'औचित्यं काव्यजीवितम्' इति साधयति उक्तं च तेन काव्यस्यालमलंकारैः किं मिथ्यागुणितैर्गुणैः। यस्य जीवितमौचित्यं विचिन्त्यापि न दृश्यते ॥ अलंकारास्त्वलंकारा गुणा एव गणाः सदा। औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् ॥ औचित्य० ४-५ मम्मटः--काव्यशास्त्र मुख्यत्वेन आचार्यमम्मटस्य लक्षणं स्वीक्रियते उध्रियते प्रस्तूयते च तददोषौ शब्दार्थों सगुणावनलंकृती पुनः क्वापि । काव्यप्रकाश १-४ लक्षणमेतत् काव्यस्य स्वरूपं सर्वाङ्गत्वेन व्यवस्थापयति । अतएव काव्यशास्त्रज्ञैर्लक्षणमेतद् बाहुल्येन स्वीक्रियते । अत्र पूर्वाचार्यैः स्वीकृतं शब्दार्थयोमहत्त्वं पूर्ववद् उपस्थाप्यते । काव्ये प्रसादादिगुणानां महत्त्वमत्र स्वीक्रियते । काव्ये उत्कटदोषाभावेऽपि विशेषतोऽवधानं दत्तम् । 'अनलंकृती पूनः क्वापि' इत्यनेनालंकाराणां गौणत्वं प्रतिपाद्यते । तदभावेऽपि न काव्यत्वक्षतिः । आचार्यो मम्मट:इदमुत्तममतिशायिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः। (काव्य० १-४) इत्यनेन ध्वनेमहत्त्वमप्युपपाद्यते । आचार्यों हेमचन्द्रोऽपि काव्यानुशासने प्रकारान्तरेण मम्मटाभिमतं काव्यलक्षणमेव निर्दिशति । __ अदोषौ सगुणौ सालंकारौ च शब्दार्थों काव्यम् । काव्यानु० विश्वनाथ:-आचार्य-विश्वनाथस्य काव्यलक्षणं प्रायो विद्वद्भिः प्रशस्यते . वाक्यं रसात्मकं काव्यम्। सा० दर्पण, १-३ 'रस एवात्मा साररूपतया जीवनाधायको यस्य । तेन विना तस्य काव्यत्वाभावस्य प्रतिपादितत्वात् । 'रस्यते इति रसः' इति व्युत्पत्तियोगाद् भावतदाभासादयोऽपि गृह्यन्ते ।' ( विश्वनाथ ) । अत्र ध्वनिकारैः प्रतिपादितो रसध्वनिरेव काव्यत्वेन स्वीक्रियते । अग्निपुराणेऽपि रसस्य महत्त्वं प्राप्यते-'वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र Page #77 -------------------------------------------------------------------------- ________________ संस्कृत निबन्धशतकम् जीवितम्' । भरतेनाप्युच्यते - ' नहि रसाद् ऋते कश्चिदर्थः प्रवर्तते' । एवं विचार्यते चेत् तर्हि ज्ञायते यद् विश्वनाथेन पूर्वाचार्यैः अङ्गीकृतं काव्यस्य रसात्मकत्वं स्फुटं प्रतिपादितम् । तैत्तिरीयोपनिषद 'रसो वै स:' ( तै० २-७ ) इति ब्रह्म सरूपेण प्रतिपाद्यते, तत्प्राप्तिसाधनत्वेन काव्यमपि रसात्मकमिष्यते । ' रस्ते आस्वाद्यते इति रसः' इति लक्षणयन् आचार्यो भरतः काव्यम् आस्वादयं मनुते । एवमपि विश्वनाथकृतं लक्षणम् उचितं प्रतिभाति । जगन्नाथः – रसगङ्गाधरकर्तुः पण्डितराज जगन्नाथस्यापि काव्यलक्षणं बहुसंमतम् आदरास्पदं च ६० रमणीयार्थप्रतिपादकः शब्दः काव्यम् । रसगङ्गाधर, पृ० ४ अत्राभिव्यक्तेः प्राधान्यम्, स्फुटं सुन्दरं सहृदयग्राहि च वर्णनं काव्यस्य मुख्यता स्वीक्रियते । जगन्नाथो रमणीयार्थप्रतिपादकं शब्दमेव काव्यं मनुते, न चार्थम् । 'तस्माद् वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्द - निष्ठतेवोचिता' ( रस० पृ० ५ ) इति व्याहरता तेन शब्दस्यैव काव्यत्वं प्रतिपाद्यते । तस्य टीकाकारो नागेशभट्टः शब्दार्थयोः काव्यत्वं साधयन् मम्मटं समर्थयति — 'तेनानुपहसनीय काव्यत्वलक्षणं प्रकाशोक्तम् निर्बाधम्' इति । काव्यलक्षणविषये संस्कृतज्ञानां नैकमत्यम् । केचन मम्मटं केचन विश्वनाथं केचन च जगन्नाथं साधिष्ठं मन्यन्ते । सर्वविषयावगाहित्वेन मम्मटलक्षणं साधिष्ठम्, सुगमार्थतया रसस्य मुख्यत्वेन च विश्वनाथः, अभिव्यक्तेः कलापक्षस्य कल्पनापक्षस्य चोद्भावनया जगन्नाथः सर्वातिशायी । जगन्नाथ-लक्षणं पाश्चात्त्यकाव्य-तत्त्वज्ञैः साम्यं भजते । कल्पनानुभूतिजन्य - विचाराणां मधुराभिव्यक्ति-कलैव कवितेति साधिष्ठा व्याख्या । तद्यथा Poetry is the art of expressing in melodious words, thoughts which are the creations of imagination and feelings. ( Chamber's Dictionary ) Page #78 -------------------------------------------------------------------------- ________________ १८. वक्रोक्तिः काव्यजीवितम् ___ (काव्यं हि वक्रोक्तिप्रधानम् ) वक्रोक्तेः ऐतिह्यम्-वक्रोक्तिसंप्रदायस्योद्भवो ध्वनिसंप्रदायमूलक एव । आनन्दवर्धनाचार्यप्रतिपादितेन ध्वनिसिद्धान्तेन नैराश्यम् आप्ता अलंकारवादिनः अलंकारेषु काव्यस्य मूलतत्त्वम् अन्वेषयन्तो वक्रोक्ति समासादयन् । संप्रदायस्यास्य प्रतिष्ठापकः कुन्तकाचार्यः । तद्विरचितं वक्रोक्तिजीवितं विषयेऽस्मिन प्रामाणिको ग्रन्थः । _वक्रोक्तिसिद्धान्तस्यास्य उद्भव आचार्यभामहेन प्रारभते । स चालंकारे समग्रमपि काव्यवैशिष्ट्यं संगृह्णाति । सर्वत्रापि अतिशयोक्तेः प्राधान्यं निरीक्ष्यते। ध्वनिवादेऽपि अतिशयोक्तिमूलक एव ध्वनिः। वक्रोक्तो अपि अतिशयोक्तेरनिवार्यत्वम् । एतदेव प्रतिपादयता भामहेनोच्यते : सैषा सर्वत्र वक्रोक्तिरनयाऽर्थो विभाव्यते। यत्नोऽस्यां कविना कार्यः कोऽलंकारोऽनया विना ॥ काव्या० २-८५ भामहोऽतिशयोक्ति वक्रोक्तिं च पर्यायत्वेन गणयति । अत्र सैषा अतिशयोक्तिरेव वक्रोक्तिरित्यर्थः, अनयैव अर्थस्याभिव्यक्तिर्भवति । अतिशयोक्तिमूलैव वक्रोक्तिः । भामहाभिमतेन वक्रोक्तिः सर्वालंकाररूपा। सर्वेषाम् अलंकाराणां मूलमेतत् । अनयैव अर्थाभिव्यक्तिः । वक्रोक्तिरेव काव्यत्वं संपादयति । सैषा सर्वालंकाररूपा। वक्रोक्तिः काव्ये समस्त-सौन्दर्याधायिका। एवं भामहाभिमतेन वक्रोक्तिः काव्यस्यात्मा। वक्रोक्तिशब्दप्रयोगो बाणेन परिहासजल्पिते, अमरुकविना च क्रीडालापे क्रियते । आचार्यो दण्डी काव्यं द्विधा विभजति-स्वभावोक्ति: वक्रोक्तिश्च । ___ श्लेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियम् । द्विधा भिन्नं स्वभावोक्ति-वक्रोक्तिश्चेति वाङ्मयम् ॥ काव्या० दण्डी काव्यशोभाकरान् सर्वान् धर्मान् अलंकारान्तर्गतं विधत्ते । दण्डिना व्याख्याताः सर्वेऽपि अलंकारा वक्रोक्तेरन्तर्भूताः ।। काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते । काव्यादर्श यच्च सन्ध्यङ्ग-वृत्त्यङ्ग-लक्षणाद्यागमान्तरे। व्यावर्णितमिदं चेष्टम् अलंकारतयैव नः॥ काव्यादर्श कुन्तको भामहेन दण्डिना च प्रेरणाम् अवाप्य स्वभावोक्तावपि वक्रोक्तेदर्शनं कुरुते । वक्रोक्तेः क्षेत्रं च यावद्वर्ण्यविषयं विस्तारयति । कुन्तकानुसारं काव्यशोभाकराः सर्वेऽपि धर्मा वक्रोक्तिजन्या एव । एवं स्फुटं ज्ञायते यत् कुन्तको वक्रोक्तमहत्त्वं प्रभावं चमत्कृतिं च अलंकारवादिभ्य एवागृह्णात् । Page #79 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् आनन्दवर्धनोऽपि वक्रोक्तिं समर्थयन् इव प्रतिभाति । तन्मतानुसारं 'काव्यस्यात्मा ध्वनिः' । काव्यस्य कला-भाव-पक्षयोर्ध्वनिना वक्रता संपाद्यते । अतिशयोक्तिः काव्यस्य सौन्दर्य विशदयति । सर्वेऽप्यलंकारा अतिशयोक्तो वक्रोक्तो वा समाश्रिताः । कवि-प्रतिभा-जन्या अतिशयोक्ति: अलंकारेष्वत्यधिक सौन्दर्य वर्धयति । अतिशयोक्त्या वक्रोक्त्या वा हीना अलंकारा अलंकारमात्रमेव । आनन्दवर्धनस्यातिशयोक्तिः भामह-दण्डिनोर्वक्रोक्त्या अभिन्ना। अतएव ध्वन्यालोके तेनोच्यते ___ 'अतिशयोक्तिगर्भता सर्वालंकारेषु शक्यक्रिया । कृतैव च सा महाकविभिः कामपि काव्यच्छवि पुष्यति । तत्रातिशयोक्तिर्यम् अलंकारम् अधितिष्ठति कविप्रतिभावशात् तस्य चारुत्वातिशययोगोऽन्यस्य तु अलंकारमात्रतैवेति ।..." सैव सर्वालंकाररूपा ।' ध्वन्यालोक ३-३७ टीका अतिशयोक्तिहीनं वक्रोक्तिहीनं वा काव्यम् अवरकाव्यत्वेन गण्यते । एतस्मात् कारणाद् अतिशयोक्तिः सर्वालंकारमूला मन्यते । आनन्दवर्धनाचार्य-मतेन अतिशयोक्तेः अलंकारान्तरः सांकयं वाच्यत्वेन व्यङ्ग्यत्वेन च भवति । वाच्यरूपेण सा सर्वेषाम् अर्थालंकाराणां जननी । व्यङ्गयरूपेण च संयुक्ता सा ध्वनिरूपेण गुणीभूत-व्यङ्ग्यरूपेण च विपरिणमते । 'तस्याश्चालंकारान्तरसंकीर्णत्वं कदाचिद् वाच्यत्वेन, कदाचिद् व्यङ्गयत्वेन ।' ध्वन्यालोक ३-३७ टीका 'अतिशयोक्तेस्तु सर्वालंकारविषयोऽपि संभवति' ( ध्व० ३-३७ ) इति वदता आनन्दवर्धनेन वक्रोक्तेरपि सर्वालंकार-विषयत्वम् उपपाद्यते । कुन्तकसमकालीनो भोजराजोऽपि वक्रोक्तिम् उपास्ते । वक्रोक्तिमूलकं काव्यलक्षणम् उपपादयता तेनोच्यते यद् वक्रं वचः शास्त्रे लोके च वच एव तत् । वक्रं यदर्थवादादौ तस्य काव्यमिति स्मृतिः॥ शृङ्गारप्रकाश भोजराजः सरस्वतीकण्ठाभरणे वाङ्मयं त्रिधा विभजति–वक्रोक्तिः, रसोक्तिः, स्वभावोक्तिश्च । तत्र रसोक्तः प्राधान्यं वर्ण्यते । कुन्तको रसोक्तौ वक्रोक्तौ च नान्तरं मनुते । वक्रोक्तेः स्वरूपम्-कुन्तको वक्रोक्तेः स्वरूपं प्रतिपादयन् आह उभावतावलंकार्यों तयोः पुनरलंकृतिः।। वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते ॥ वक्रोक्ति० १-१० वक्रोक्रिर्वचोभङ्गिमा एव । एष वचोभङ्गिमा एव उक्तौ शोभाम् आदधाति । उक्तो चमत्कृतेश्चारुतायाश्च संपादनं वक्रोक्तरेव संभाव्यते। अतः वक्रोक्तिः काव्यजीवितम् । वक्रोक्तिहीनं काव्यं निर्जीवमेव । उक्तेर्वैचित्र्यं चम Page #80 -------------------------------------------------------------------------- ________________ वक्रोक्तिः काव्यजीवितम् त्कृतिर्वा वक्रोक्तिः । सैषा विशेषता काव्यप्रतिभामूलैव । यत्र कस्मिश्चिद् वर्ण्यविषये तस्य कस्यचिद् धर्मस्य गुणस्य वाऽतिशयेनोक्तिः वैचित्र्येण विच्छित्त्या वा प्रतिपाद्यते तत्र वक्रोक्तिः । काव्यलक्षणेऽपि वक्रोक्तेरनिवार्यत्वं कुन्तकेन प्रतिपाद्यतेशब्दार्थों सहितौ वक्र-कविव्यापारशालिनि । बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि ॥ वक्रोक्ति० १-७ कुन्तकः काव्यत्वं शब्दार्थोभयनिष्ठं मनुते । न केवलं शब्दे न चाप्यर्थे । यथा प्रतितिलं तैलं तद्वत् शब्दार्थयोरपि काव्यत्वं प्रतितिष्ठति । तस्माद् द्वयोरपि प्रतितिलमिव तैलं तदविदाह्लादकारित्वं वर्तते, न पुनरेकस्मिन् । ( कुन्तक) आचार्यकुन्तको वक्रोक्ति षोढा विभजतिवर्णविन्यासवक्रत्वं पदपूर्वार्धवक्रता। वक्रतायाः परोऽप्यस्ति प्रकारः प्रत्ययाश्रयः॥ वक्रोक्ति०१-१९ वाक्यस्य वक्रभावोऽन्यो भिद्यते यः सहस्रधा। यत्रालंकारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति ॥ १-२० वक्रभावः प्रकरणे प्रबन्धे वाऽस्ति यादृशः। उच्यते सहजाहार्य-सौकुमार्य-मनोहरः॥ १-२१ ते षड् भेदाः सन्ति-वर्णविन्यासवक्रता, पदपूर्वार्धवक्रता, पदपरार्धवक्रता, वाक्य-वक्रता, प्रकरणवक्रता, प्रबन्धवक्रता चेति । तेन प्रत्येकस्य भेदस्यानेके भेदा वर्णिताः । पूर्वोक्तविभाजनेन ज्ञायते यद् वक्रोक्तेविस्तारो वर्णादारभ्य प्रबन्धं यावद् वर्तते । एतदन्तर्गतमेव भाषा, प्रकृतिवर्णनम्, चरित्रचित्रणम्, कथासंयोजनम्, ऐतिहासिक-तथ्यसंकलनम्, वस्तुवर्णनम्, अलंकारविधानम्, रसप्रयोगः, काव्यसन्देशादिकं च तथा सूत्ररूपेणोपलभ्यते येन परवर्तिन्याः साहित्यिकसमीक्षायाः सरणिः प्रशस्ता भवति । यथा तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते। रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ वक्रोक्ति० २-९ श्लोकोऽयं वक्रोक्तिजीविते ध्वन्यालोके चावाप्यते । आनन्दवर्धनोऽत्र अर्थान्तरसंक्रमित-वाच्यध्वनिम् अङ्गीकरोति, कुन्तकश्चात्र रूढि-वैचित्र्यवक्रतां प्रतिपद्यते । क्रियावैचित्र्यवक्रतायां कुन्तको ध्वन्यालोकस्य मङ्गलाचरणम् उपस्थापयति । स्वेच्छाकेसरिणः स्वच्छ-स्वच्छायायासितेन्दवः। त्रायन्तां वो मधुरिपोः प्रपन्नातिच्छिदो नखाः॥ ध्वन्या० १-१ एवं कुन्तकेन 'वक्रोक्तिः काव्यजीवितम्' इति साधु विवियते। . Page #81 -------------------------------------------------------------------------- ________________ १९. रीतिरात्मा काव्यस्य का नाम रीतिः ?-रीतिशब्देन किम् अभिप्रेतम्, एतस्मिन् विषये बहवो वादाः प्रवर्तन्ते । रीतिमार्गप्रवर्तको वामन आह- . विशिष्टा पदरचना रीतिः। विशेषो गुणात्मा ॥ काव्यालंकारसूत्र २-७, ८ ___ अत्र पदरचनायां वैशिष्ट्यं रीतिरित्यभिप्रेतम् । सरस्वतीकण्ठाभरणे श्रीभोजराजो रीतेयुत्पत्त्यात्मिकां परिभाषां निर्दिशति । रीतिर्गिः पन्था वा वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः। रोङ्गताविति धातोः सा व्युत्पत्त्या रीतिरुच्यते ॥ सर० सरस्वतीकण्ठाभरण-टीकाकारो रामसिंहो विषयं विशदयन् आह 'गुणवत्पदरचना रीतिः । गुणाः श्लेषादयः । रियन्ते परम्परया गच्छन्त्यनयेति करणसाधनोऽयं रीतिशब्दो मार्गपर्यायः इत्यर्थः ।' आचार्यो विद्याधर:-'रसोचितशब्दार्थनिबन्धं रीतिः' इति परिभाषते । शिङ्गभपाल:-'पदविन्यासभङ्गी रीतिः' इति रीतिं लक्षयति । आचार्यविश्वनाथस्य लक्षणं प्रथिततरम् पदसंघटना रोतिरङ्गसंस्थाविशेषवत् । उपकी रसादीनाम् ॥ सा० दर्पण ९-१ अत्र विश्वनाथः शब्दार्थशरीरस्य काव्यस्य आत्मभूतानां रसादीनाम् उपकी पदसंघटनां रीतिरिति लक्षयति ।। रीतिशब्दो मार्गपर्याय इत्युक्तपूर्वम् । रीतिशब्दस्य पन्थाः पद्धतिः प्रणाली शैली इत्यादयः शब्दाः पर्यायवाचिनः । अद्यत्वेन शैली ( Style ) शब्देन यदभिमतं तत् पुरा रीतिशब्देनाभिप्रेतम् आसीत् । रोतेः स्वरूपम्-विशिष्टा भणितिभङ्गी पदसंघटना वा, कविप्रतिभाजन्या, व्युत्पत्तिलभ्या, अभ्याससिद्धा, वाच्य-वाचक-सौन्दर्येण लावण्याभिवर्धकेनौचित्येन चानुप्राणिता, गुणाश्रया, रसं भावं वाऽभिव्यञ्जयन्ती रीतिरिति । विदग्धभणितिभङ्गोरूपेणेयं चकास्ति । रीतिः शब्दार्थोभयनिष्ठान् गणान् धारयति । इयं न केवलं गुणालंकारादिभिरेव संबद्धा, अपि तु ध्वनि-वक्रोक्तिऔचित्य-रसादिभिरपि संगता। रीतिर्न केवलं काव्यस्य शरीरं पुष्णाति, अपि तु रसादीनाम् उपकर्तृत्वात् शरीरिणम् आत्मानमपि पोषयति । काव्यविदो रोति चमत्कतिशब्देनाभिदधति । अभिनवगुप्तः चमत्कृति वक्रोक्ति बन्धं गुम्फादिशब्दं रीतेः पर्याय मनुते। Page #82 -------------------------------------------------------------------------- ________________ रीतिरात्मा काव्यस्य रीतेरुपयोगिता-नहि इतिवृत्तमात्रनिर्वाहेण कवेरात्मपदलाभः। चमस्कृति वैशिष्टयं रम्यत्वं च आसादयितुं रीतिरनिर्वाया । भणितिभङ्गी एव कवेर्वैशिष्ट्यं साधयति । रीतिः कलात्मिक्याः प्रवृत्तेर्मूलम् । किंचिद् वैशिष्ट्यम् अनाश्रित्य न कवेः कवित्वपदलाभः । अतो नीलकण्ठदीक्षितेन प्रोच्यते : सत्यर्थे सत्सु शब्देषु. सति चाक्षरडम्बरे। शोभते यं विना नोक्तिः स पन्था इति घुष्यते ॥ नीलकण्ठ० रमणीयाऽभिव्यक्तिः काव्यम् । रमणीयत्वं च काव्ये चमत्कृतिम् आदधाति । रमणीयत्वस्य मूलं च रीतिः। रीतेरुद्देश्यमस्ति-सौन्दर्यस्य सृष्टिः, रसानुगुणं पदसंयोजनम् ।। रोतेर्भेदाः-बाणेन हर्षचरिते प्रादेशिकं वैशिष्ट्यम् अनुसृत्य उदीच्यादिकवीनां वैलक्षण्यं प्रोच्यते श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकम् । उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडम्बरः॥ हर्ष०१-७ अत्र चतुर्विधायाः शैल्याः स्वरूपं प्राप्यते । भामहो रीतिद्वयम् उल्लिखति-'गौडीयमपि साधीयो वैदर्भमपि नान्यथा ।' दण्डी प्रादेशिकं वैशिष्ट्यम् अनाश्रित्य गुणमूलकं रीतिविभाजनं कुरुते । श्लेषादि-दश-गुण-विशिष्टा वैदर्भी, तद् विपरीता च गौडी। श्लेषः प्रसादः समता माधुयं सुकुमारता। अर्थव्यक्तिरुदारत्वमोजः-कान्तिसमाधयः॥ इति वैदर्भमार्गस्य प्राणा दशगुणाः स्मृताः। एषां विपर्ययः प्रायो दृश्यते गौडवर्त्मनि ॥ काव्यादर्श वामनो रीतिं त्रेधा विभजति–वैदर्भी गौडी पाञ्चाली चेति । सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति ॥ काव्या० २-९ स वैदर्भीमेवं लक्षणयति समग्रगुणा वैदर्भी। काव्यालंकारसूत्र २-११ वामनेन श्लोकद्वयं वैदर्भीरीतिसन्दर्भे उध्रियते अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता। विपञ्चीस्वर-सौभाग्या वैदर्भी रीतिरिष्यते ॥ सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तन्न विना येन परिस्रवति वाङ्मधु ॥ वैदर्भीम् अनाश्रित्य न वाचि माधुर्यं प्रवर्तते । गौड़ी पाञ्चालीं च लक्षयति Page #83 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् ओजःकान्तिमती गौडीया ॥ काव्या० २-१२ माधुर्यसौकुमार्योपपन्ना पाञ्चाली । काव्या० २-१३ रुद्रटो चतुर्विधाया रीतेविभाजनं समासमूलकं विदधाति-वृत्तेरसमासा या वैदर्भीरीतिरेकैव । द्वित्रिपदा पाञ्चाली, लाटीया पञ्च सप्त वा यावत् । शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ।' ( काव्यालंकार ) । स रसानुगुणं चैषां प्रयोगं समर्थयति-शृङ्गारे करुणे च वैदर्भी-पाञ्चाल्यो, रौद्र-भयानक अद्भुतादीनां वर्णने लाटी गौडी च । ____ भोजराजः षड्विधां रीति प्रतिपादयति-वैदर्भी, गौडी, पाञ्चाली, आवन्तिका, लाटीया, मागधी चेति । राजशेखरोऽपि तथैव मनुते । कुन्तको गुणानाश्रित्य त्रेधा रीतिं विभजते-सुकुमारः विचित्रो मध्यमश्च । संप्रति तत्र ये मार्गाः कविप्रस्थानहेतवः। सुकुमारो विचित्रश्च मध्यमश्चोभयात्मकः वक्रोक्ति० विश्वनाथः साहित्यदर्पणे रीतिं चतुर्धा विभजति सा पुनः स्याच्चतुर्विधा। वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा ॥ सा० द०९-१, २ विश्वनाथानुसारम् एतासां लक्षणं प्रस्तूयते माधर्यव्यञ्जकैर्वर्णं रचना ललितात्मिका। अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते ॥ सा० ९-२, ३ ओजःप्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः।. समासबहला गौडी। सा० ९-३ वणः शेषैः पुनर्द्वयोः। समस्तपञ्चषपदो बन्धः पाञ्चालिका मतः। सा० ९-४ लाटी तु रीतिर्वैदर्भीपाञ्चाल्योरन्तरे स्थिता ॥ सा० ९-५ अन्ये त्वाहुःगौडी डम्बरबद्धा स्याद वैदर्भी ललितक्रमा। पाञ्चाली मिश्रभावेन, लाटी तु मृदुभिः पदैः॥ एवं विज्ञायते यत् काव्ये रोतेरस्ति महन्महत्त्वम् । रीतिरहितं काव्यं काणत्वादिदोषयुक्तं शरीरमिव प्रतिभाति । अतः साधूच्यते वामनेन रीतिरात्मा काव्यस्य ( काव्यालंकारसूत्र २-६ )। Page #84 -------------------------------------------------------------------------- ________________ २०. काव्यस्यात्मा ध्वनिः (ध्वनि-सिद्धान्तः) । को ध्वनिः-ध्वनिशब्दो बहुधा निरुच्यते । निर्वचनानुसारं चास्य बहवोऽर्था गृह्यन्ते । पञ्चधा निर्वचनेन पञ्चापि ध्वनिसंबद्धा अर्था गृह्यन्ते । तद्यथा(१) ध्वनति यः स व्यञ्जकः शब्दो ध्वनिः। (२) ध्वनति, ध्वनयति वा यः स व्यञ्जकोऽर्थः ध्वनिः। ( ३ ) ध्वन्यते इति ध्वनिः । यद् ध्वन्यते इत्यनेन रसालंकारवस्तुरूपं व्यङ्ग्यार्थत्रयम् उपतिष्ठते । (४) ध्वन्यते अनेनेति ध्वनिः, इत्यनेन व्यञ्जनादिशक्तीनां ग्रहणम् । (५) ध्वन्यतेऽस्मिन्निति ध्वनिः, इत्यनेन व्यङ्ग्यार्थप्रधानं काव्यमपि संगृह्यते । एवं ध्वनिशब्देन व्यञ्जकशब्दस्य, व्यञ्जकार्थस्य, व्यङ्ग्यार्थस्य, व्यञ्जनाव्यापारस्य, व्यङ्ग्यप्रधानकाव्यस्य च ग्रहणं संजायते । ध्वनेः स्वरूपम्-वाच्यार्थापेक्षया व्यङ्ग्येऽर्थे मुख्ये सति ध्वनिरिति कथ्यते । तथाविधं च काव्यं सर्वोत्कृष्टं मन्यते । इदमुत्तममतिशायिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः। ( काव्यप्रकाश १-४) वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम् । सा० दर्पण ४-१ आनन्दवर्धनाचार्यो ध्वनि लक्षयतियत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ । व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः॥ ध्वन्यालोक १-१३ यत्र शब्दार्थो स्वार्थं गौणरूपेणोपस्थाप्य व्यङ्ग्यमर्थम् अभिव्यञ्जयतः, तदा ध्वनिः । तथाविधं काव्यं ध्वनिः ध्वनिकाव्यं वा निगद्यते । शब्दार्थयोरेकस्य व्यञ्जकत्वे तदन्यस्य सहकारित्वं प्रतिपद्यते । शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः। एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ सा० दर्पण २-१८ वाच्यार्थातिरिक्तः को ध्वनिः व्यङ्ग्योऽर्थो वेति जिज्ञासायां ध्वनिकारेण स्फूटीक्रियते यत् कामिनीलावण्यमिव यत् प्रसिद्धातिरिक्तम् अन्यदेव किंचित् प्रतीयते वाच्यातिरिक्त व्यङ्ग्यरूपं स ध्वनिः । प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत् तत् प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥ ध्वन्या० १-४ Page #85 -------------------------------------------------------------------------- ________________ संस्कृत निबन्धशतकम् एतदाश्रित्येव लावण्यलक्षणमपि प्रस्तूयते यत्मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । संलक्ष्यते यदङ्गेषु तल्लावण्यमिहोच्यते ॥ इयं व्यङ्ग्यार्थबोधनक्षमतैव प्रतिभावैशिष्टयेन महाकवीनां यशः प्रसारयति । व्यङ्ग्यार्थाभिव्यक्तिरेव महाकवित्वस्य निकष: । अतो ध्वनिकृतोच्यतेसरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् । अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभा विशेषम् ॥ ध्वन्या० १-६ ६८ व्यङ्ग्यार्थस्य तथा वैशिष्ट्यं यथैष नीरसं सरसम्, असुन्दरं सुन्दरम् अमधुरं मधुरं जनयति । ध्वनिसिद्धान्तस्य स्थापना व्याकरणं, विशेषतो भर्तृहरिकृतं वाक्यपदीयम्, आश्रित्य वर्तते । वाक्यपदीये नादस्फोटयोः स्वरूपं निरूप्यतेयः संयोगविभागाभ्यां करणैरुपजन्यते । स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः ॥ वाक्य ० १ - १०३ तत्रोच्चारणावयवानां संयोगेन विभागेन च यः शब्द उत्पद्यते स स्फोटः, अन्ये च शब्दजाः शब्दा ध्वनिशब्दवाच्याः । घण्टानादादिषु अनुरणनरूपः शब्दो यथा, तथैव शब्दजी व्यङ्ग्योऽर्थो ध्वनिरित्युच्यते । स्फोटनादयोः व्यङ्ग्यव्यञ्जकसंबन्धो मन्यते, तथैव काव्येऽपि ध्वनेर्व्यञ्जकत्वं प्रतीयमानस्यार्थस्य च व्यङ्ग्यत्वं सिध्यति । ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा । व्यङ्ग्यव्यञ्जकभावेन तथैव स्फोटनादयोः ॥ वाक्य ० १-९८ नाहितबीजायां बुद्ध अन्त्यवर्णश्रवणेन समं शब्दस्य रूपमवधार्यते ॥ ध्वनिरेव शब्दस्वरूपं प्रकाशयति । नादैराहितबीजायामन्त्येन ध्वनिना सह । आवृत्त परिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ वाक्य० १-८५ प्रत्ययैरनुपाख्येये ग्रहणानुगुणैस्तथा । ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥ वाक्य० १-८४ स्फोटव्यञ्जका वर्णा ध्वनिनाम्ना व्यवह्रियन्ते, एवं व्यञ्जकशब्दार्थयोः ध्वनित्वं सिध्यति । लोचनकृता अभिनवगुप्तेन ध्वनेः पञ्चस्वरूपार्थं व्याकरणस्य ऋणित्वं स्वीक्रियते । अतएव आनन्दवर्धनाचार्येण मम्मटेन च वैयाकरणप्रशंसायाम् उच्यते— ‘प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरणमूलत्वात् सर्वविद्यानाम् । ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति ।' ध्वन्यालोक १-१३ Page #86 -------------------------------------------------------------------------- ________________ काव्यस्यात्मा ध्वनिः 'बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः।' काव्यप्रकाश १-४ । ध्वनिरात्मा काव्यस्य--अभिधा-लक्षणा-व्यापारानन्तरं व्यञ्जनावृत्तिः स्वीक्रियते । व्यञ्जनायाः प्राधान्येन काव्ये कल्पनायाश्चिन्तनस्यानुभूत्यादितत्त्वानां च समावेशोऽभूत् । कल्पनाया अभावे लक्षणाया व्यञ्जनाया वा प्रवृत्तिर्न प्रसरति । नानुभूति विना भावावेशः, भावावेशमन्तरेण न लक्षणा व्यञ्जना वोद्भवति । व्यञ्जना-शक्ति: काव्ये प्रभविष्णुतां रमणीयतां रागात्मकतां च सन्निवेशयति । तदैव काव्ये रमणीयत्वं जायते । क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः। शिशु० ४-१७ तादृशी रमणीयता काव्ये व्यञ्जनाशक्ते: ध्वनेर्वा संजायते । यथा रमणीशरीरे लावण्यम्, मेघे विद्युत्, चन्द्रमसि ज्योत्स्ना, उषसि ज्योतिर्वाऽन्तनिहिता, तथैव काव्ये ध्वनेरधिष्ठानम् । ध्वनितत्त्वं न काव्यस्यावयवरूपम्, अपि तु अवयविरूपेण आत्मरूपेण वा प्रतितिष्ठति । काव्यशास्त्रे अभिधा लक्षणा व्यञ्जना चेति तिस्रो वृत्तयः स्वीक्रियन्ते । अभिधा वाच्यार्थप्रधाना, लक्षणा लक्ष्यार्थप्रधाना, व्यञ्जना व्यङ्ग्यार्थप्रधाना च । व्यञ्जनाशक्तेः स्वीकरणे ये दोषा विविधैः शास्त्र रुद्भाविताः, ते दोषा आनन्दवर्धनेन ध्वन्यालोके मम्मटेन च काव्यप्रकाशे निरस्ताः । उक्तं च यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते । फले शब्दैकगम्येऽत्र व्यञ्जनानापरा क्रिया ॥ काव्यप्रकाश २-१४ नाभिधा समयाभावात्, हेत्वभावान्न लक्षणा । काव्य० २-१५ विरतास्वभिधाद्यासु ययार्थो बोध्यते परः। सा वृत्तिय॑ञ्जना नाम शब्दस्यादिकस्य च ॥ सा० दर्पण २-१२, १३ व्यञ्जना द्विविधा-शाब्दी आर्थी च । तत्र शाब्दी द्वेधा-अभिधामूला लक्षणामूला च । आर्थी व्यञ्जना च वक्तृ-बोद्धव्यादीनां वैशिष्ट्याद् अन्यदर्थ बोधयति । . ध्वनेर्भेदाः-ध्वनेर्मुख्यतया द्वौ भेदी स्त:-(१) लक्षणामूलो ध्वनिः, अविवक्षितवाच्यध्वनिर्वा । (२) अभिधामूलो ध्वनिः, विवक्षितान्यपरवाच्यध्वनिर्वा। लक्षणामूले ध्वनौ वाच्यार्थस्य विवक्षा प्रयोजनं वा न भवति । व्यङ्ग्यार्थो लक्ष्यार्थम् आश्रित्यावतिष्ठते । अस्यापि द्वौ भेदौ-अर्थान्तरसंक्रमितवाच्यध्वनिः, अत्यन्ततिरस्कृत-वाच्यध्वनिश्च । अर्थान्तरसंक्रमिते वाच्यार्थ: स्वार्थ बोधयन्नपि अर्थान्तरं संक्रांमति । अत्यन्ततिरस्कृते वाच्यध्वनी च वाच्यार्थः सर्वथा तिरस्क्रियते । लक्षणामूलश्चैष ध्वनिः । अभिधामूले विवक्षितान्यपरवाच्ये ध्वनौ वा व्यङ्ग्यार्थो वाच्यार्थम् Page #87 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् आश्रयते । अस्यापि द्वौ भेदौ-संलक्ष्यक्रम-व्यङ्ग्यध्वनिः, असंलक्ष्यक्रम-व्यङ्ग्यध्वनिश्च । संलक्ष्यक्रमे व्यङ्ग्यध्वनौ व्यङ्ग्यार्थ-प्रकाशस्य पौर्वापर्यक्रमो लक्ष्यते । असंलक्ष्यक्रमे व्यङ्ग्यध्वनौ च शतपत्रभेदनन्यायेन पौर्वापर्यं न लक्ष्यते । तत्र सत्यपि पौर्वापर्ये योगपद्यात् न तत्र क्रमज्ञानम् । द्वयोरप्येतयोर्भेदयोरनेके भेदा वर्ण्यन्ते। गुणीभूतव्यङ्ग्ये वाच्यार्थापेक्षया व्यङ्ग्यार्थस्य नाधिकं महत्त्वम् । जगन्नाथमतेन गुणीभूतव्यङ्ग्यं काव्यमपि उत्तमकाव्यान्तर्गतं स्वीकरणीयम् । अस्य अगूढ-अपराङ्गव्यङ्ग्यादिभेदेन अष्टौ भेदाः । काव्यं त्रिविधम्-ध्वनिवादिमतेन काव्यं त्रेधा विभज्यते-उत्तमं मध्यमम् अवरं ( अधमं ) चेति । व्यङ्ग्यार्थस्य प्राधान्ये काव्यमुत्तमम् । 'वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम्' ( सा० द० ४-१ )। उत्तमकाव्यस्यापि भेदत्रयम्-रसध्वनिः, अलंकारध्वनिः, वस्तुध्वनिश्च । तत्र रसध्वनिः सर्वोत्तमः । गुणीभूतव्यङ्ग्यं काव्यं मध्यमम् । 'अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम्' ( काव्य० १-५ ) । अत्र व्यङ्ग्यार्थस्य सत्त्वेऽपि वाच्यार्थापेक्षया तस्य गौणत्वं भवति । अधमकाव्ये अवरकाव्ये वा शब्दचित्रादिकम् अलंकारप्रदर्शनादिकं च भवति । अत्र रसाभावादस्याधमत्वम् । 'शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्', काव्य० १-५ )। ध्वनिवादस्य महत्त्वस्य कारणं यदत्र सर्वेषामपि काव्यमूलतत्त्वानां रसालंकार-वक्रोक्त्यादीनां समावेशो भवति । अत्र रीतिवादवद् न केवलं पाण्डित्यप्रदर्शनम्, अपि तु चित्ताह्लादकत्वं चेतोविकासकत्वं च भवति । ध्वनिवादस्य रमणीयत्वं शब्दमूलकम् अर्थमूलकं शब्दार्थोभयमूलकं च । ध्वनिः काव्ये ललनालावण्यवद् अपूर्वं रम्यत्वं प्रतीयमानमर्थं च द्योतयति । खण्डन-मण्डनादिभिः पुष्टः सर्वमान्योऽयं काव्यसिद्धान्तः । नैतादृशः काव्यसिद्धान्तो भुवनेऽन्यत्रावलोक्यते । अतएवैतस्येयत् महत्त्वम् । ध्वनेरेतस्य असंख्यभेद-प्रभेदत्वात् काव्यस्य सूक्ष्मातिसूक्ष्माः सर्वा अपि विशेषता आत्मसात् करोति । एवं सिध्यति यद् काव्यस्य। Page #88 -------------------------------------------------------------------------- ________________ २१. विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः ( रससिद्धान्तः। रसो वै सः) रसस्य स्वरूपम्-काव्यं हि आनन्दानुभूतिसाधनम् । आनन्दानुभतिश्च रसास्वादमूला । रसास्वादनादेव आनन्दावाप्तिः । अतएव काव्यप्रयोजने मम्मटो 'सद्यः परनिर्वतये' इति व्याचष्टे सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादसमुद्गतं विगलितवेद्यान्तरम् आनन्दम् । काव्य० १-२ विश्वनाथः साहित्यदर्पणे रसस्वरूपं प्रतिपादयति यद् रसो ब्रह्मास्वादसहोदर: वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः। स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः॥ सा० द० ३-२,३॥ रसस्य आस्वाद्यत्वम् अनुभूतिविषयत्वं च मम्मटेन वर्ण्यते : 'पानकरसन्यायेन चळमाणः, हृदयमिव प्रविशन्, अन्यत्सर्वमिव तिरोदधत्, ब्रह्मास्वादमिवानुभावयन्, अलौकिकचमत्कारकारी शृङ्गारादिको रसः' काव्यप्रकाश उल्लास ४। तैत्तिरीयोपनिषदि 'रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति' ( तै० २-७ ) इत्यत्र ब्रह्मणो रसरूपत्वं तदवाप्तौ च आनन्दोपलब्धिर्वर्ण्यते । नाट्यशास्त्रे भरतेन निर्दिश्यते:___ 'रस इति कः पदार्थः ? उच्यते-आस्वाद्यमानत्वात् । कथमास्वाद्यते रसः ? यथा हि नानाव्यञ्जन-संस्कृतमन्नं भुञ्जाना रसानास्वादयन्ति सुमनसः पुरुषा हर्षादींश्चाधिगच्छन्ति, तथा नानाभावाभिनयव्यञ्जितान् वागङ्गसत्त्वोपेतान् स्थायिभावान् आस्वादयन्ति सुमनसः प्रेक्षका हर्षादींश्चाधिगच्छन्ति ।' -नाट्य० अ०६ यथा नानाव्यञ्जनमिश्रम् अन्नं भुञ्जाना रसान् आस्वादयन्ति, तथैव नानाभावाभिव्यञ्जितान् स्थायिभावान् सहृदया आस्वादयन्ति, हर्ष चानुभवन्ति । रसभावयोश्च परस्परं पोषकत्वम् । न भावहीनो रसः, न च रसहीनो भावः । एवं द्वावपि परस्परं भावयतः। ( नाट्यशास्त्र ६-३७ ) । रसः सर्वेषां भावानां मूलम्, यथा बीजं वृक्षपुष्पादेः । ( नाट्य० ६-३९) भरतेन नाट्यशास्त्रे उच्यते-'नहि रसाद् ऋते कश्चिदर्थः प्रवर्तते' ( नाट्य० ६-३२ ) । कथं रसनिष्पत्तिरिति जिज्ञासायां तेनोच्यते Page #89 -------------------------------------------------------------------------- ________________ ७२ संस्कृतनिबन्धशतकम् विभावानुभावव्यभिचारिसंयोगाद रसनिष्पत्तिः। अत्र विभावाः कारणानि, अनुभावाः कार्याणि, व्यभिचारिणश्च सहकारिणः, एषां संयोगाद् रसस्य निष्पत्तिः । उक्तं च मम्मटेन कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादेः स्थायिनो लोके तानि चेन्नाटयकाव्ययोः॥ विभावा अनुभावास्तत कथ्यन्ते व्यभिचारिणः। व्यक्तः स तैविभावाद्यैः स्थायी भावो रसः स्मृतः॥ काव्य० ४-२७-२८ अत्र संयोगशब्दं निष्पत्तिशब्दं चाश्रित्य विविधा वादाः प्रादुरभवन् । प्राधान्येन चत्वारो वादा विविधदर्शनविद्भिः प्रतिपादिताः। तत्र ( १ ) भट्टलोल्लटेन मीमांसादर्शनम् आश्रित्य 'उत्पत्तिवादः', (२) शकेन न्यायदर्शनमाश्रित्य 'अनुमितिवादः', (३) भट्टनायकेन सांख्यदर्शनमाश्रित्य 'भुक्तिवादः', (४) अभिनवगुप्तेन च वेदान्तदर्शनमाश्रित्य 'अभिव्यक्तिवादः' प्रस्ताविताः । (१) भट्टलोल्लटस्य रसोत्पत्तिवादः-भट्टलोल्लटो वादस्यास्य प्रवर्तकः । तन्मतानुसारं विभावानाम् अनुभावानां व्यभिचारिभावानां च संयोगेन रसस्य उत्पत्तिर्भवति । तत्र विभावैर्ललनादिभिः आलम्बनोद्दीपनकारणः रत्यादिरूपः स्थायिभावो जायते । अनुभावैः कटाक्षादिभिः कार्यैः प्रतीतियोग्यः क्रियते । व्यभिचारिभिनिर्वेदादिभिः पोष्यते । स च रसो मुख्यतया अनुकार्ये रामादौ वर्तते । तद्रूपानुकरणात् नटेऽपि स रसः प्रतीयते । अत्र संयोगशब्दस्य निष्पत्तिशब्दस्य च अर्थत्रयं गृह्यते । (१) विभावैः सह स्थायिभावानाम् उत्पाद्य-उत्पादकभावः संबन्धः, तेन रसस्य निष्पत्तिः उत्पत्तिरित्यर्थः । (२) अनुभावैः सह स्थायिभावानां गम्य-गमक-संबन्धः, तेन रसस्य निष्पत्तिः प्रतीतिरित्यर्थः। ( ३ ) व्यभिचारिभावैः सह स्थायिभावानां प्रोष्य-पोषकभावः संबन्धः, तेन रसस्य निष्पत्तिः पृष्टिरित्यर्थः । रसो मुख्यतया अनुकार्ये रामादावेव भवति । नटे तु केवलं तद्रूपानुसंधानाद् रसप्रतीतिः । नटादीनां वेशभूषादिभिः दर्शकानां तथाविधं रसाप्लुतत्वं यवा नटेऽपि तेषां रामादिबुद्धिः । एतादृशो भ्रम एवानन्दानुभूतेः कारणम् । एतन्मतानुसारं रसास्वादः अनुकार्याणां रामादीनामेव, दर्शकानां रसानुभूतिः नटादीनां माध्यमेन संजायते । तेषां रसानुभूतिः गौणी परानुभूतिमूला च । भट्टलोल्लटो मीमांसादर्शनमाश्रयते। तन्मतानुसारं विषये एव रसोत्पादनस्य क्षमता। अत्र रसो वाच्यः, न तु व्यङ्ग्यः, अतो मतमिदम् उत्पत्तिवादः तात्पर्यवादः, आरोपवादो वा कथ्यते । यथा मीमांसामते यजमानः पुरोहितादि-माध्यमेन यज्ञस्य फलम् अवाप्नोति, तथैव दर्शकानां रसप्रतीतिः अभिनेतृणां माध्यमेन संजायते । Page #90 -------------------------------------------------------------------------- ________________ ७३ विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः अस्मिन् मते केचन दोषाः समापतन्ति-(१) रसानुभूतिर्मुख्यतया अनुकार्ये, गौणरूपेण च नटे वर्तते। सामाजिकानां दर्शकानां वा कथं रसानुभूतिरिति न स्फुटीक्रियते । (२) अनुकार्ये रामादौ रसः, तेषां जगत्यभावेन तन्निमित्तकेनाभिनयेन अभिनेतृषु अपि कथं रसोत्पत्तिः ? ( ३ ) प्रेक्षकेषु रसप्रतीतिरेव रसानुभूतिः, अथवा तेषु स्वाभाविको हार्दिकी चानुभूतिः ? एतेषां दोषाणां निराकरणं नात्र क्रियते। (२) शकुकस्य अनुमितिवाद :-शङकुको न्यायसंमतम् अनुमितिवादं प्रस्तौति । तत्र 'चित्रतुरगन्यायेन' यथा अवास्तविकेऽश्वे वास्तविकाश्वबुद्धिः, तथैव सामाजिकैः अभिनेतृषु रामादिबुद्धिम् आरोप्य अभिनयादिकौशलहेतुत्वाद् रसानुभूतिः क्रियते । अत्र सामाजिकेषु विद्यमानया वासनया अनुमितिसाहाय्येन रसानुभूतिः । सामाजिकाः चित्रतुरगन्यायेन अभिनेतृषु अनुकार्यरामादिरूपताग्रहणाद् रसानुभूतिम् अनुमाय स्ववासनया तत्र रसानुभूति कुर्वन्ति । अत्र सम्यग-मिथ्या-संशय-सादृश्य-प्रतीतिभ्यो विलक्षणया 'चित्रतुरगन्यायेन' रामोऽयमिति प्रतिपत्त्या सामाजिकानां वासनया रसानुभूतिः । अत्र अनुमानेन रसानुभूतिर्जायते । __अत्र संयोगाद् इत्यस्य गम्य-गमकभावसंबन्धाद् इत्यर्थः । रसनिष्पत्तिरित्यस्य च रसानुमितिरित्यर्थः । तन्मूला च रसानुभूतिः।। अस्मिन् वादेऽपि केचन दोषा आपतन्ति । (१) अस्मिन् मतेऽनुमानेन रसानुभूतिः । किं पर्वते धूमदर्शनेन अग्ने: अनुमाने कृतेऽपि अग्नेः उष्णताsनुमानेन प्राप्तुं शक्यते ? एवम् अनुकर्तृषु नटादिषु रसानुभूतेरनुमानेऽपि कथं तन्निमित्ता प्रेक्षकाणां रसानुभूतिः ? एषा रसानुभूतिः नानुमितिमूला, अपि तु स्वानुभूतिमूला । (२) अनुमानं बुद्धेविषयः, न त्वनुभूतेः । ( ३ ) रसानुभूतिः प्रत्यक्षा स्वानुभूतिमूला च । न साऽनुमानेन साध्या। ___(३) भट्टनायकस्य भुक्तिवादः--भट्टनायको रसं नानुमेयं मन्यते, अपि तु भोज्यं मन्यते । तन्मते संयोगस्याभिप्रायो भोज्यभोजकभावोऽस्ति, निष्पत्तेः तात्पर्य च 'भुक्ति:' वर्तते । रसानुभूतिप्रक्रियाया अवस्थात्रयम्-अभिधा, भावकत्वं भोजकत्वं च । तत्र अभिधया शब्दार्थेऽवगते भावकत्वव्यापारेण विभावादीनां साधारणीकरणं भवति । साधारणीकरणेन व्यक्तिवैशिष्टयादेः अभावो भवति, अतो विभावादेः निर्वैयक्तिकत्वं भवति । ततश्च भोजकत्वव्यापारेण रजस्तमसोः क्षये सत्त्वोद्रेकाद् रसो भुज्यते आस्वाद्यते इत्यर्थः । स च रसो ब्रह्मास्वादसहोदरः । ___भट्टनायकस्य मतेऽपि केचन दोषा उपस्थाप्यन्ते-(१) भट्टनायको ध्वनिवादविरोधी आचार्यः। सभावकत्व-भोजकत्व-व्यापारयोः कल्पनां प्रस्तौति । द्वावेतो व्यापारी नानुभवसिद्धौ। (२) अत्र स्थायिभावस्य भोगः स्वोक्रियते । Page #91 -------------------------------------------------------------------------- ________________ ७४ संस्कृतनिबन्धशतकम् स स्थायिभावः किं रामादिगतः, नटादिगतः, आहोस्वित् सामाजिकगतः । एतत् नावविशदीक्रियते। भोजकत्व-व्यापाराश्रयेण तस्य मतं 'भक्तिवादः' इत्येवं गह्यते । भट्टनायकेन या साधारणीकरण-प्रक्रिया प्रस्तुता, सा सर्वमान्या, सर्वाभिनन्दिता च । भट्टनायकस्य काव्यशास्त्रे एतदपूर्वं योगदानं वर्तते । एतन्मतं सांख्यसिद्धान्तानुयायि । यथा सांख्ये सुखदुःखादयोऽन्तःकरणधर्माः, न त्वात्मनः । परन्तु अन्तःकरणसंबद्धत्वाद् पुरुषेऽपि सुखदुःखादीनाम् औपाधिकी प्रतीतिः । तथैव प्रेक्षकेषु अविद्यमानोऽपि रसः औपाधिकरूपेण भुज्यते । (४) अभिनवगुप्तस्य अभिव्यक्तिवादः-अभिनवगुप्तो भट्टनायकाभिमतं भावकत्व-भोजकत्व-व्यापारद्वयं निषिध्य अभिव्यञ्जनावादं प्रतिष्ठापयति । स च 'रसनिष्पत्तिः' इत्यस्य रसाभिव्यक्तिः इत्यर्थं स्वीकुरुते । एतन्मतं च आचार्यभरतस्य मतेनापि संगच्छते । अभिनवगुप्तो भावकत्व-भोजकत्व-व्यापारद्वयम् अशास्त्रीयं मनुते । 'आस्वाद्यत्वाद रसः' इति भोजकत्वं रसस्वभाव एव । 'काव्यार्थान् भावयन्ति इति भावाः', एवं भावकत्वमपि भावानां वैशिष्टयमेव । अतो भावकत्व-भोजकत्व द्वयम् अग्राह्यम् । स रसं व्यङ्ग्यं मनुते। रसो व्यञ्जनया सहृदयं प्रभावयति । रसास्वादश्च सहृदयानामेव । अत्र संयोगशब्देन व्यङ्ग्य-व्यञ्जकसंबन्धो गृह्यते । स्थायिभावो व्यङ्ग्यः, विभावादयश्च व्यञ्जकाः। व्यञ्जनाया विभावनव्यापारेण विभावानां स्थायिभावानां च साधारणीकरणं भवति । एवं रामाद्यनुकार्याणां भावा वैशिष्ट्यविरहिता: सन्तः सहृदयानां हृत्स्थ-वासनारूपभावान् उद्बोधयन्ति । तन्मतानुसारम् 'न ह्येतत् चित्तवृत्तिवासनाशून्यः कश्चित् प्राणी भवति' । वासनैषा सुप्तावस्थायां विद्यमाना अभिनयादिभिः काव्यार्थे प्रकाशिते जागति । यथा मृद्गन्धो जलसेचनेन प्रादुर्भवति, तथैव वासनाया अपि उदयः । साधारणोकरणेन सहृदयस्य वासना-संवादो भवति, सुषुप्तश्च स्थायिभावो निर्वैयक्तिकरूपेणाभिव्यक्तः सन् आनन्दास्वादं कारयति, एष एव रसास्वादः । अस्मिन् आस्वादे एव रसस्य स्थितिः । संविविश्रान्तिजन्य एष आनन्दः । अत्र चैतन्यं विश्रान्ति-स्थितौ संतिष्ठते। रसानुभूतिरियं सामान्यानुभूतिभिन्नत्वाद् उदात्तत्वात् सर्वजनवेद्यत्वाच्च अलौकिकी कथ्यते । अत्र संबन्धविशेषस्य परिहारः । रसोऽयं सहृदयसंवेद्यः । मतमिदं शैवाद्वैतवादम् आनन्दवादं वा आश्रित्य प्रवर्तते । तत्र चेतनायाः पूर्ण विश्रान्तेः स्थितिः स्वीक्रियते । ____ अभिनवगुप्तस्य मतमिदं दर्शनमूलत्वात् मनोवैज्ञानिकचिन्तनपरत्वाद् यथार्थभावेन रसविश्लेषणाच्च अद्यत्वेऽपि सर्वेरेव काव्यतत्त्वज्ञैः गृह्यते स्वीक्रियते प्रशस्यते च । Page #92 -------------------------------------------------------------------------- ________________ २२. वैदर्भो ललितकमा | ( समग्रगुणा वैदर्भो ) नाम का रीतिः ?-रीतिर्नाम काव्ये सौन्दर्याधायिनी, विशिष्टगुणसमवेता, शब्दार्थोभय-रम्यत्वाधायिका, चमत्कृतिप्राणा, गुणाश्रया, विदग्धभणितिभङ्गीरूपा, रसादीनाम् उपकी, विशिष्टा पदसंघटना। रीतिर्नाम मार्गपर्यायः । पद्धतिः शैली इत्यादयस्तदर्थबोधकाः पर्यायशब्दाः । काव्ये प्राधान्येन रमणीयत्वम् आकाक्ष्यते । रमणीयत्व च कलात्मिक्या वचोभङ्ग्यैव संभवति । प्रत्येकस्य कवेविशिष्टा भावाभिव्यञ्जनप्रणाली। सैषा विशेषता तस्य समग्रकाव्यावगाहिनी । तयैव विशेषतया कवेरात्मा स्वरूपं च निर्धार्यते । रमणीयाभिव्यक्तिः काव्यम् । रमणीयत्वं काव्ये चमत्कृतिकारि । रमणीयत्वस्य मूलं रीतिः । रीते-. लक्ष्यमस्ति-सौन्दर्यस्य सृष्टि:, रसानुगुणं पदसंयोजनं च । . वैदर्भी रीतिः-सर्वप्रथमं बाणस्योक्तौ 'उत्प्रेक्षा दाक्षिणात्येषु' (हर्षचरित १-७) दाक्षिणात्यशैलीनाम्ना वैदाः संकेतो लक्ष्यते । भामहानुसारं रीतिद्वयम्-वैदर्भी गौडी चेति । तदनन्तरं दण्डी प्रादेशिकं वैशिष्ट्यम् अनादृत्य गुणमूलकं रीतिविभाजनं विधत्ते । श्लेषादिदशगुणविशिष्टा वैदर्भी । श्लेषः प्रसादः समता माधुर्य सुकुमारता। अर्थव्यक्तिरुदारत्वमोजः-कान्तिसमाधयः॥ इति वैदर्भमार्गस्य प्राणा दशगुणाः स्मृताः । काव्यादर्श वामनो रीतिं त्रेधा विभजति सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति । काव्या० २-९ विशिष्टप्रदेशीयकविभिस्तथाविधशैल्याः समाश्रयेण वैदर्भादिकं नामाश्रीयते । उक्तं च-विदर्भादिषु दृष्टत्वात् तत्समाख्या। काव्या० २-१० । स्फुटमुच्यते वामनेन यद्-'विदर्भ-गौड-पाञ्चालेषु तत्रत्यैः कविभिर्यथास्वरूपम् उपलब्धत्वात् तत्समाख्या। न पुनर्देशैः किञ्चिद् उपक्रियते काव्या-- नाम्' । ( काव्या० २-१०) वैदर्भी-रीतेर्लक्षणम्-वामनः वैदर्भी लक्षयति___ समग्रगुणा वैदर्भो । काव्या० २-११ ओजःप्रसादादि-पूर्वोक्तदशगुणैरुपेता वैदर्भी नाम रीतिः । वैदर्भीरीतिविषयकं श्लोकद्वयं तेनोल्लिख्यते अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता। विपञ्चीस्वरसौभाग्या वैदर्भो रीतिरिष्यते ॥ या दोषादिभिरस्पृष्टा, समग्रगुणसंपन्ना, वीणास्वरमनोहारिणी च सा वैदर्भी रीतिः । अन्ये च कवयो वैदर्भीमेवं स्तुवन्ति । Page #93 -------------------------------------------------------------------------- ________________ ७६ संस्कृतनिबन्धशतकम् सति वक्तरि सत्यर्थे सति शब्दानुशासने । __ अस्ति तन्न विना येन परिस्रवति वाङ्मधु ॥ वैदर्भीरीत्यास्तथा महत्त्वं यथा शब्दार्थादिवैशिष्ट्ये सत्यपि वैदर्भी-रीति विना न वाङ्मध स्रवति, न च रम्यत्वं जायते । वामनेन वैदर्भीरीत्या उदाहरणं शाकुन्तलात् प्रस्तूयते गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धं कुरुतां वराहततिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ शाकु० २-६ वामनानुसारं तिसृणां रीतीनां वैदर्येव ग्राह्या गुणसाकल्यात् । उक्तं च–'तासां पूर्वा ( वैदर्भी ) ग्राह्या गुणसाकल्यात् । न पुनरितरे स्तोकगुणत्वात् ।' ( काव्या० २-१४, १५)। रुद्रटो वैदर्भीमेवं प्रस्तौति असमस्तैकसमस्ता दशभिर्गुणैश्च वेदर्भो । वर्गद्वितीयबहला स्वल्पप्राणाक्षरा च सुविधेया। काव्या० रुद्रटः शृङ्गार-करुणरसयोर्वेदाः प्रयोगं शंसति । राजशेखरो विदर्भप्रान्ते काव्यपुरुषस्य साहित्यवध्वाश्च गान्धर्व विवाहमुल्लिख्य वैदर्भीरीत्याः सर्वोत्कृष्टत्वं साधयति । भोजराजः षट्सु रीतिषु वैदर्भीमपि उल्लिखति । तेन वैदर्भीरीत्या गुणा उच्यन्ते-असमासा, श्लेषादिनवगुणगुम्फिता, सानुप्रासा, श्रुतिमधुरा, अतिसुकुमारबन्धा च । विश्वनाथस्तल्लक्षणं निर्दिशति माधुर्यव्यञ्जकैर्वर्णं रचना ललितात्मिका। अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते ॥ सा० दर्पण ९-२ अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः। जनयन्ति मुहुर्यनामन्तःसन्तापसंततिम् ॥ तदुदाहरणं च तेन प्रस्तूयते कालिदासो वैदर्भीरीत्याः सर्वमान्यः सर्वश्रेष्ठश्च कविः । तस्य काव्ये वाङ्मधु क्षरति । तथा तस्य काव्ये माधुयं सहृदयाह्लादकत्वं च यथा सर्वैरपि “कविः कालिदासः' इति स स्तूयते । तस्य वचोमाधुर्यं दिङमात्रम् उदाह्रियते सरसिजमनुविद्धं शैवलेनापि रम्यं ___ मलिनमपि हिमांशोलक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्केनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ शाकु० १-२० एवं समग्रगुणत्वात् ललितक्रमत्वाच्च वैदर्भी प्रेष्ठा । Page #94 -------------------------------------------------------------------------- ________________ २३. शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते रोतेर्लक्षणम्-'रीङ्गताविति धातोः सा व्युत्पत्त्या रीतिरुच्यते' एवं सरस्वतीकण्ठाभरणे श्रीभोजराजो रीतेयुत्पत्तिमूलकम् अर्थ बोधयन् मार्गः पन्था वा इत्यर्थ बोधयति । तस्य टीकाकृद् रामसिंहोऽपि 'रीतिशब्दो मार्ग-- पर्यायः' इति रीतिं परिभाषते । आचार्यविद्याधरो 'रसोचितशब्दार्थनिबन्धनं रीतिः' इति रीति परिभाषते । आचार्यविश्वनाथो रीति लक्षयति पदसंघटना रीतिरङ्गसंस्थाविशेषवत् । उपको रसादीनाम् । सा० दर्पण ९-१ रीतिशब्दः शैलीपर्यायः । रीतिविशिष्टा भणितिभङ्गी पदसंघटना वा। सा रसं भावं वाऽभिव्यनक्ति । रीत्यैव काव्ये चमत्कृतिर्वैशिष्टयं रम्यत्वं वा संलक्ष्यते । रीतिरेव कवेः कलात्मिकी प्रवृत्ति द्योतयति । रीतिर्वचोभङ्गोरूपेण कवेः-वचः, पद्धतिम्, भावाभिव्यञ्जनसरणिम्, लोकाराधनक्षमतां च द्योत-- यति । रीतिर्बाह्यस्वरूप-प्रकाशनेन समं कवेरन्तश्चिन्तनमपि प्रकटयति । पाञ्चालीरीतेर्लक्षणम्--बाणेन सर्वप्रथमम्-'प्रतीच्येष्वर्थमात्रकम्' ( हर्षचरित १-७) इति व्याहरता पाञ्चालीरीत्याः संकेतः क्रियते । वामनो रोति त्रेधा विभजति सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति । काव्यालंकार २-९ तत्तत्प्रदेशदृष्टत्वात् पाञ्चाल्यादिनामोत्पत्तिः । उक्तं च विदर्भादिष दुष्टत्वात ततसमाख्या। काव्या० २-१० वामनः पाञ्चालीं लक्षयति माधुर्यसौकुमार्योपपन्ना पाञ्चाली। काव्या० २-१३ यत्र माधुर्यं सौकुमार्य च गुणौ भवतस्तत्र पाञ्चाली रीतिरिष्यते । लक्षणान्तरम् उद्धरता तेनोच्यते अश्लिष्टश्लथभावां तां पूरणच्छायया श्रिताम् । मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः॥ यत्र गाढत्वाभावः, समासबाहुल्याभावः, मधुरत्वं सुकुमारता च, तत्र पञ्चााली रीतिः । वामनेन तदुदाहरणं प्रस्तूयते ग्रामेऽस्मिन् पथिकाय नैव वसतिः पान्थाऽधुना दीयते रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्तो युवा। तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत् कृतं येनाद्यापि करङ्कदण्डपतनाशडी जनस्तिष्ठति ॥ Page #95 -------------------------------------------------------------------------- ________________ ७८ संस्कृतनिबन्धशतकम् रुद्रटः समासमूलकं रीतेविभाजनं कुरुते । तन्मतानुसारं 'द्वित्रिपदा 'पाञ्चाली' ( काव्यालंकार ) । शृङ्गार-करुण-रसयोवर्णने सा प्रशस्यते वैदर्भीपाञ्चाल्यौ प्रेयसि करुणे । ( काव्यालंकार ) कर्पूरमञ्जर्या मङ्गलाचरणे राजशेखरः पाञ्चालीमपि स्तौति । स रीतित्रयमेव स्वीकरोति । तत्र सरस्वत्या निवासं मनुते वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः।। आसु च साक्षानिवसति सरस्वती तेन लक्ष्यन्ते । काव्यमीमांसा भोजराजोऽपि षड्विधरोतिवर्णने पाञ्चालीमपि उल्लिखति । तन्मतानुसारं पाञ्चाली-लक्षणं वर्तते समस्तपञ्चषपदामोजःकान्ति-समन्विताम् । मधुरां सुकुमारां च पाञ्चाली कवयो विदुः॥ तन्मतानुसारम् अनतिदीर्घसमासयुक्ता, ओजःकान्तिगुणयुक्ता, मधुरा, सुकुमारा च रीतिः पाञ्चाली इति । विश्वनाथः साहित्यदर्पणे रीतिचतुष्टयस्य वर्णने पाञ्चाली लक्षयति वर्णैः शेषः पुनर्द्वयोः। समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥ सा९ द० ९-४ तन्मतानुसारं प्रसादगुणव्यञ्जकैवर्णैर्युक्ताः पञ्चषपदसमासयुक्ता पाञ्चाली। तदुदाहरणं तेन माघस्य माधुर्यसौकुमार्यगुणसंपृक्त: श्लोकः प्रस्तूयते मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया। मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे। पाञ्चालीरीत्याः प्रथिततमः कविणिः । तेन कादम्बर्यां वैदर्भीगौडीरीत्योः समन्वयेन या ललितपदक्रमा शैली आश्रीयते, सा सर्वजनहृद्या मनोरमा च । तत्र क्वचित् प्रसादगुणच्छटा, क्वचिद् माधुर्यम्, क्वचिद् ओजोगुणस्यापि संमिश्रणम् । एवं बाणस्य शैली सर्वजनाह्लादकारिणी सर्वकविग्राह्या च संवृत्ता। यथा ( क ) न परिचयं रक्षति । नाधिजनमीक्षते । न रूपमालोकयते । न कुलक्रममनुवर्तते । न शोलं पश्यति । न वैदग्ध्यं गणयति ॥ ( कादम्बरी)। ( ख ) क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन, नवयौवनेन पदम् । ( कादम्बरी) । एवं शब्दार्थयोः समभावेन गुम्फनेन पाञ्चालीरीतेर्वैशिष्टयं सिध्यति । . Page #96 -------------------------------------------------------------------------- ________________ २४. काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते । (अलंकार-संप्रदायः) अलंकारस्य महत्त्वम्-अलंकरोतीति अलंकारः, अलंक्रियतेऽनेनेति वा अलंकारः । उभयथापि अलंकरणसाधनम् अलंकार इति अभीष्यते । अलंकाराणामपि काव्ये महन्महत्त्वम् । 'न कान्तमपि निभूषं विभाति वनिताननम् । गणगौरवसम्पन्नाऽपि वनिता यथा सालङ्कारैव शोभते, न तथाऽलंकारविहीना। एवमेव शब्दार्थयोः सौन्दर्याधायकं तत्त्वम् अलंकारः। अलकारः शब्दार्थयोन केवलं सौन्दर्यमेव समेधयति, अपि तु तत्र चमत्कृतिमपि आदधाति । सैव चमत्कृतिः क्वचिद् उपमादिरूपेण, क्वचिद् अतिशयोक्त्या, क्वचिद् वक्रोक्त्या, क्वचिच्च केवलं शब्दसाम्यमूलकेन अनुप्रासेन द्योत्यते । यद्यपि काव्यात्मरूपेण नास्य महत्त्वम्, तथापि शब्दार्थशरीरस्य बाह्यसौन्दर्यवर्धनेन समं रसादीनपि पोषयति । अलंकारस्य तादृशं महत्त्वं यथा शरीरेऽलंकाराणां वस्त्रादीनां वा । यथा सकलगुणसमन्वितोऽपि मानवो निर्वसनो न शोभते, अलंकाररहिता नारी यथा न शोभते, तथैवालंकारहीनं काव्यम् । उद्घोष्यते चैतत् अलंकाररहिता विधवैव सरस्वती । अग्निपुराण यदपि सुजाति सुलच्छना सुबरन सरस सुवृत्त । भूषन बिन न बिराजई कबिता बनिता मित्त ॥ अलंकार-लक्षणम्-अलंकारतत्त्वज्ञ आचार्यो दण्डी काव्यादर्श अलंकारं लक्षयति __ काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते ॥ काव्यादर्श २-१ वामनः-'सौन्दर्यमलंकारः' ( काव्यालंकारसूत्र १-२) इति अभिदधत् काव्यशास्त्रगतं सर्वमपि सौन्दर्यम् अलंकारशब्देन परिगृह्णाति । ‘स दोषगुणालंकार-हानादानाभ्याम्' ( काव्या० १-३) दोषाणां परित्यागात् गुणानाम् अलंकाराणां चोपादानेन काव्ये सौन्दर्यरूपोऽलंकारो जायते । मम्मटोऽलंकारं लक्षयतिउपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥काव्य० ८-६७ । विश्वनाथश्चालंकारं लक्षयति शब्दार्थयोरस्थिरा ये धर्माः शोभातिशायिनः।। रसादीनुपकुर्वन्तोऽलंकारास्तेऽङ्गदादिवत् ॥ सा० द० १०-१ अलंकारा अङ्गदादिवत् शब्दार्थयोः शोभावर्धकाः, रसादीनां चोपकर्तारः । प्रसादादिगुणवत् अलंकारा न अपरिहार्याः, अतएवैते अस्थिरा धर्मा उच्यन्ते । Page #97 -------------------------------------------------------------------------- ________________ संस्कृत निबन्धशतकम् अलंकाराणां काव्ये स्थानम् - विषयेऽस्मिन् विविधा विप्रतिपत्तिः । रीतिवादिनोऽलंकारवादिनश्च काव्येऽलंकारस्य स्थितिम् अनिवार्यां मन्यन्ते । वामनो भणति - ८० काव्यशोभायाः कर्तारो धर्मा गुणाः । काव्या० ३-१ तदतिशयहेतवस्त्वलंकाराः ॥ काव्या० ३ - २ गुणाः काव्यशोभाजनकाः, अलंकारास्तु तदतिशयसम्पादनसाधनाः । एवम् अलंकाराणां महत्त्वं जायते । ध्वनिवादिन आनन्दवर्धन-मम्मटादयोऽलंकाराणां महत्त्वं न स्वीकुर्वते । यथा चोक्तं काव्यलक्षणे मम्मटेन तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि । काव्या० १-४ अत्र 'अनलंकृती पुनः क्वापि' इत्यनेन सूच्यते यद् अलंकाराभावेऽपि न काव्ये कापि क्षतिः । मम्मट-लक्षणे व्यङ्गयं कुर्वन् चन्द्रालोककारो जयदेवोऽभिधत्ते - यद् अलंकाररहितस्य काव्यस्य कल्पना तथैव हास्यास्पदा यथा उष्णत्वगुणरहितस्य वह्नेः। उक्तं च तेन— अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती । असौ न मन्यते कस्माद् अनुष्णमनलं कृती ॥ चन्द्रालोक १-८ जयदेवः प्रसिद्धया कवेः प्रौढिवशेन वा शब्दार्थयोर्मनोहरं संनिवेशम् अलंकारं स्वीकरोति, यथा हारादीनां मनोहरत्वेनाधानम् । सोऽलंकारं काव्यस्यानिवार्यधर्मत्वेनाङ्गीकरोति । शब्दार्थयोः प्रसिद्धया वा कवेः प्रौढिवशेन वा । हारादिवदलंकारः सन्निवेशो मनोहरः ॥ चन्द्रालोक ५-१ अलंकाराणां विकासः -- अलंकाराणां सर्वप्रथमम् उल्लेखो भरतकृते नाट्यशास्त्रे प्राप्यते । तत्र यमक उपमा-रूपक - दीपकानीति चत्वारोऽलंकारा निर्दिश्यन्ते । अग्निपुराणे १५ अलंकाराः, वामनकृते काव्यालंकारसूत्रे ३३ अलंकाराः, दण्डिकृते काव्यादर्शे ३५ अलंकाराः, भामहकृते काव्यालंकारे ३९ अलंकाराः, उद्भटकृते काव्यालंकारसारसंग्रहे ४१ अलंकाराः, रुद्रटकृते काव्यालंकारे ५२ अलंकाराः, मम्मटकृते काव्यप्रकाशे ६७ अलंकाराः, विश्वनाथकृते साहित्यदर्पणे ८४ अलंकाराः, जयदेवकृते चन्द्रालोके १०० अलंकाराः, अप्पयदीक्षितकृते कुवलयानन्दे १२४ अलंकाराः पण्डितराज जगन्नाथकृते रसगङ्गाघरे १८० अलंकारा विविच्यन्ते । एवं क्रमशोऽलंकाराणां वृद्धिर्लक्ष्यते । , अलंकाराणां वर्गीकरणम् - अलंकार सर्वस्वस्य निर्मात्रा रुय्यकेण सर्वेऽप्यलंकाराः सप्तभागेषु विभाजिताः । तदाधारमेव परवर्तिभिरपि काव्यशास्त्रज्ञैः सप्तधा विभाजनं क्रियते । Page #98 -------------------------------------------------------------------------- ________________ काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते ८१ (१) सादृश्यमूलका अलंकाराः-उपमा, उपमेयोपमा, अनन्वयादयः सादृश्यमूलकाः चतुर्धा विभज्यन्ते-भेदाभेदप्रधानाः, आरोपमूलकाभेदप्रधानाः, अध्यवसायमूलकाभेदप्रधानाः, गम्यौपम्यमूलकाश्च । (२) विरोधमूलका वैषम्यमूलका वा अलंकारा:-असंगतिः, विषमः, विरोधाभासः, विशेषोक्तिः, समादयः । (३) क्रममूलकाः शृंखलाबन्धमूलका वा अलंकाराः-कारणमाला, एकावली, मालादीपकम्, सारादयः । ( ४ ) न्यायमूलका अलंकाराः-एते त्रिधा विभज्यन्ते–तर्कन्यायमूलकाः, वाक्यन्यायमूलकाः, लोकन्यायमूलकाश्च । काव्यलिङ्गम्, अनुमानम्, यथासंख्यम्, प्रतीपम्, तद्गुणादयः । (५) कारण-कार्य-संबन्धमूलका अलंकाराः-विभावना, हेतूत्प्रेक्षा, अतिशयोक्त्यादयः । (६ ) निषेधमूलकाः-अपह नुतिः, व्यतिरेकः, विनोक्त्यादयः । (७) गूढार्थप्रतीतिमूलकाः-पर्यायोक्तिः, समासोक्तिः, व्याजस्तुतिः, व्याजनिन्दा, मुद्रादयः । शब्दार्थदृष्ट्या अलंकारास्त्रिधा विभज्यन्ते-शब्दालंकाराः, अर्थालंकाराः, उभयालंकाराश्च । तत्र शब्दालंकारा अनुप्रासादयः । अर्थालंकारा उपमारूपकोत्प्रेक्षादयः । उभयालंकारे श्लेषो गृह्यते, शब्दालंकारत्वाद् अर्थालंकारत्वाच्च। __ शब्दालंकारार्थालंकारयोर्भेदः तावनिरूप्यते यद्-शब्दपरिवर्तनासहत्वे शब्दालंकारः, शब्दपरिवर्तनसहत्वे चार्थालंकारः । शब्दालंकारे शब्दपरिवर्तनेनालंकारक्षतिः, अर्थालंकारे तु शब्दपरिवर्त्तने सत्यपि नालंकारहानिः । ___एवं विज्ञायते यत् काव्येऽलंकाराणां तदेव महत्त्व यज्जीवने वस्त्रादीनाम् आभूषणानां च । यथा चोक्तं केनापि वासः प्रधानं खलु योग्यताया वासोविहीनं विजहाति लक्ष्मीः। पीताम्बरं वीक्ष्य ददौ तनूजा, दिगम्बरं वीक्ष्य विषं समुद्रः॥ सालंकृतस्य निरलंकृतस्य च काव्यस्य तथाविधम् एव वैषम्यम् । गुणालंकृतिसम्पन्नैव कृतिः सुधीभिरास्वाद्यते, विबुधजनवन्द्यतां चोपयाति । वचोभङ्गी, चमत्कृतिः, वक्रोक्तिः, अनुप्रासप्रभा च ऐन्द्रधनुषीमाभां काव्ये संनिदधाति । एतादृशं काव्यं कस्य न सचेतसश्चेतो मोहयति । अतः साधूच्यते ___ काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते। Page #99 -------------------------------------------------------------------------- ________________ २५. सत्यं शिवं सुन्दरम् सत्यं तत्त्वार्थसंपुष्टं शिवं लोकहितार्थकृत् । सुन्दरं हृदयनाहि काव्यं काव्यजुषां प्रियम् ॥ ( कपिलस्य ) वाक्यस्य मूलं प्रचलनं च–'सत्यं शिवं सुन्दरम्' इत्येतद् वाक्यं यद्यपि न वेदादिमूलकम्, तथापि भारतीयसंस्कृतेः आनुरूप्यं दधद् विदेशीयमपि वाक्यं स्वीयमिव स्वीक्रियते । एतस्य वाक्यस्य मूलं गवेषितं चेत् तहि एतस्य मूलं युनानदेशजस्य प्रसिद्धदार्शनिकस्य विख्याततत्त्वज्ञस्य प्लेटोमहाभागस्य काव्यादिविषये निदिते वाक्य एव समुपलभ्यते । 'The True, the Good, the Beautiful.' ( Plato ) अत्र तेन काव्यादिषु सत्यस्य शिवस्य सौन्दर्यस्य च समाहारो विहितः । 'सत्यं शिवं सुन्दरम्' इत्येतद् वाक्यं सर्वप्रथम भारतवर्षे ब्रह्मसमाजसंस्थापकेन श्रीराजाराममोहनरायमहाभागेन स्वकीये ब्रह्मसमाजे प्रवर्तितम् । ततश्च बङ्गदेशीयवाङ्मयमाध्यमेन हिन्दी-साहित्येऽपि प्रचलितम् ।। एतद्भावस्य भारतीयत्वम्-वाक्यमेतद् यद्यपि न भारतीयं तथापि काव्यादीनाम् उद्देश्यत्वेन ते भावा यत्र तत्र स्वीक्रियन्ते प्रथन्ते च । 'रसो वै सः। रसं ह्येवायं लब्ध्वानन्दी भवति' (तै० उप० २-७) इति तैत्तिरीयोपनिषदि प्रोच्यते । यत्र यत्र रसत्वं तत्र तत्र माधुयं सौन्दर्य चाभीष्यते । मम्मटेन काव्यप्रकाशे काव्यप्रयोजनत्वेनाभिधीयते काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये। सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ काव्य० १-२ इत्यत्र 'शिवतरक्षतये' इत्यनेन शिवस्य, 'सद्यः परनिर्वृतये' 'कान्ता संमिततयोपदेशयुजे' इति पदद्वयेन माधुर्यस्य सौन्दर्यस्य च समन्वयो लक्ष्यते । 'हितं मनोहारि च दुर्लभं वचः' ( किराता० १-४ ) इत्यत्र भारविकविना शिवस्य सुन्दरस्य च सामञ्जस्यं समर्थ्यते । 'साहित्य-संगीत-कलाविहीनः साक्षात् पशुः पुच्छाविषाणहीनः' इत्यत्रापि साहित्येन सत्यस्य, संगीतेन माधुर्यस्य शिवस्य च, कलाशब्देन सौन्दर्यस्य च समन्वयोऽभीष्यते । साहित्य-शब्द-व्युत्पत्तौ 'हितेन सहितं सहितम्, सहितस्य भावः साहित्यम्' हितशब्देन शिवस्यापि संकलनं साहित्येऽभिधीयते । काव्यस्य रसानुभतेर्ब्रह्मानन्द-सहोदरत्वेन माधुर्यसमन्वितत्वम् आनन्दात्मकत्वं च स्वोक्रियते । 'सत्यं ब्रूयात् प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम्' इत्यत्र सत्यस्य शिवस्य च समाहारोऽपेक्ष्यते। Page #100 -------------------------------------------------------------------------- ________________ सत्यं शिवं सुन्दरम् उत्तररामचरिते भवभूतिः सूनृतां वाचं स्तोतितमाम् - कामं दुग्धे विप्रकर्षत्यलक्ष्मी कोति सूते दुर्हृदो निष्प्रलाति । शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ ८३ उत्तर० ५-३० 'प्रियं च सत्यं च वचो हि सूनृतम्' इति सूनृतशब्दे सत्यस्य सुन्दरस्य च ग्रहणम् । ‘मातरं मङ्गलानाम्' इत्यनेन शिवस्य च ग्रहणम् । एवं ' सूनृत ' - शब्दे 'सत्यं शिवं सुन्दरम्' इत्यस्य मूलं प्राप्यते । बृहदारण्यकोपनिषदि सैषा वाग् ब्रह्मरूपेण स्तूयते वाग्वै सम्राट् परमं ब्रह्म । बृहदा० ४-१-२ सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म । बृहदा० ५-४-१ माण्डूक्योपनिषदि ब्रह्म 'शान्तं शिवम् अद्वैतम् ( मा० ७ ) इत्येवंरूपेण प्रतिपाद्यते । ब्रह्म शिवं गृह्यते । काव्यं च ब्रह्म-प्राप्तिसाधनत्वाद् ब्रह्मगतगुणानां ग्राहकं स्यात् । अतः काव्ये शिवत्वस्य संकलनम् अनिवार्यम् । ब्रह्मणः 'सच्चिदानन्द'-नामन्यपि सत्यस्य शिवत्वरूपज्ञानस्य आनन्दस्य च ग्रहणं क्रियते । केचन सरस्वत्याः स्वरूपे ज्ञानप्रतीकेन पुस्तकेन सत्यस्य, हंसेन नीरक्षीर-विवेकरूप-शिवत्वस्य, वीणया कमलेन च सौन्दर्यस्योपादानं मन्वते । केचनाचार्याः सत्ये शिवस्य, शिवे सौन्दर्यस्य च दर्शनं विदधति । साहित्ये 'सत्यं शिवं सुन्दरम्' त्रयमेतत् समन्वितम् अपेक्ष्यते । एतेषाम् एकतमस्याप्यभावे काव्यत्वहानि: । 'सत्यं शिवं सुन्दरम्' इत्यत्र उत्तरोत्तरम् उत्कर्षोऽङ्गीक्रियते । काव्ये सत्यात् शिवस्य, शिवाच्च सौन्दर्यस्य महत्त्वम् अभीष्टम् । सत्यम् - किं नाम सत्यम् ? काव्ये सत्यशब्देन न दार्शनिकं वैज्ञानिकं वा सत्यम् अपेक्ष्यते। वैज्ञानिकं सत्यं विश्लेषणप्रधानं सौन्दर्यानुभूति - विरहितं च । दार्शनिकं सत्यं तु केवलं बुद्धिं प्रभावयति, न तु तद् हृदयस्पर्श मन:प्रसादजनयितृ भावोद्बोधनक्षमं च । काव्ये सत्यशब्देन स्वानुभूतिजन्यं कल्पनालंकृतं हृदयस्पर्शि च सत्यं गृह्यते । तदेतत् सत्यं हृदयम् आह्लादयति, बुद्धिं विकासयति, चेतः प्रसादयति, अनुभूति विशदयति, सद्भावान् विस्तारयति, प्रसुप्ताः चित्तवृत्तीरुद्बोध्य विकासाभिमुखं विधत्ते । कविसंमतं सत्यं रम्यतरं नैसर्गिकम् अनुभूतिप्रधानं च भवति । कविसंमतं सत्यं न सौन्दर्य - व्यक्तिरिक्तम्, तत्रानुभूतेः कल्पनायाश्चाश्रयणेन सौन्दर्यसंजुष्टं शिवात्मकं च सत्यम् अभीष्यते । कल्पनामूलके सत्येऽपि अनुभूतेः प्राधान्यात् न सत्यत्वं भिद्यते । I Page #101 -------------------------------------------------------------------------- ________________ संस्कृत निबन्धशतकम् - शिवम् — 'शिवम्' इत्यस्य किं स्वरूपम् ? ' शिवम् प्राधान्येन धर्मशास्त्रादीनां सामाजिकशास्त्राणां च विषयः । परहितनिरतत्वं परार्थसाधनत्वं लोककल्याणजनकत्वं च, न केवलं व्यष्टेः अपि तु समष्टेरपि, शिवशब्देनाभीष्यते । शिवत्वेन जगद्धितकराः, आचारादिपरिष्कारकाः, नैतिकभावसंपोषकाश्च भावा गृह्यन्ते । काव्ये तथाविधभावानाम् उपादेयत्वमनिवार्यम् । अर्थाद् एतदपि आपद्यते यत् लोकस्य अहितकराः, आचारविचारसंदूषकाश्च भावाः काव्ये परिया: परिहार्याश्च । शिवत्वम् आदर्शान्वयि यथार्थावगाहि नीतितत्त्वप्रवणं च । यतो हि यत्र यत्र शिवत्वं तत्र तत्र आदर्शान्वयित्वम् । कविः आदर्शान्वयि शिवत्वेऽपि सत्यस्य सौन्दर्यस्य च समाहारम् अपेक्षते । कविः सौन्दर्यप्रवणत्वात् कुरूपेऽपि सुरूपत्वम्, अशिवेऽपि शिवत्वम्, अमङ्गलेऽपि मङ्गलत्वम्, नीरसेऽपि सरसत्वं संचारयति । ८४ सुन्दरम् — किं नाम सुन्दरं सौन्दर्यं वा ? बाह्यं सौन्दर्यं लोचन युगलेन आभ्यन्तरं च सौन्दर्यं हृदयेन गृह्यते । काव्ये 'सुन्दरम्' इत्यनेन रम्यत्वं मनोज्ञत्वं हृद्यत्वं चाभीष्यते । किं नाम मधुरत्वं रम्यत्वं वा ? इति जिज्ञासासां माघेन निरूप्यते क्षणे क्षणे यन्त्रवतामुपैति, तदेव रूपं रमणीयतायाः । शिशु० ४-१७ एतदेव च काव्ये लावण्य-शब्देन प्रतिपाद्यते । लावण्यस्य लक्षणम् — मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । संलक्ष्यते यदङ्गेषु तल्लावण्यमिहोच्यते ॥ तथाविधं लावण्यं रम्यत्वं च काव्येऽपि अपेक्ष्यते । काव्यं हि रसात्मकम् । रसात्मकत्वादत्र त्रयाणामपि तत्त्वनां समाहारोऽभीष्टः । सत्यं शिवात्मकं स्यात्, शिवं च सौन्दर्यसंवीतं स्यात् । एवं तत्त्वत्रयस्यैतस्य समवायेन काव्यत्वं संपाद्यते । गुणत्रयसमन्वितं च काव्यं निर्दुष्टं सत् लोकाराधनक्षमम् । गुणत्रयसंपुष्टश्च कविः रससिद्धोऽजरोमरश्च संजायते । उक्तं च जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरामरणजं भयम् ॥ Page #102 -------------------------------------------------------------------------- ________________ २६. एको रसः करुण एव कारुण्यं जगतो मूलं काव्यमूलं निसर्गतः। करुणार्द्रस्य स्वान्तस्य रससिद्धिरनुत्तमा ॥ ( कपिलस्य ) करुणस्य स्वरूपम्-किं नाम जीवितम् ? जीवितं हि पञ्चषदिनानां सुखानुभूतिः, भूयसां च वासराणां दुःखानुभूतिः । जीवने सुखदुःखयोः, हर्षशोकयोः, स्नेहरोषयोः, मित्रत्वशत्रुत्वयोः, रागविरागयोः, संभोगविप्रलम्भयोः, जनिनाशयोः समन्वयो दरीदृश्यते । नहि सुख-व्यतिरिक्तं दुःखम्, सुखं च दुःखव्यतिरिक्तम् । चक्रवद् द्वयोः परिवर्तनवृत्तित्वम् । 'चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च।' जगतः स्वरूपं विविच्यते चेत् तर्हि तस्य विनश्वरत्वं क्षणभङ्गरत्वं शून्यत्वम् असारत्वं च प्रतिपदं प्रेक्ष्यते । जीवनस्य क्षणभङ्गुरत्वं निरीक्ष्यैव शोको ग्लानिर्नैराश्यम् औदासीन्यं च प्रवर्तन्ते । जीवने सुखदुःखयोः, हर्षशोकयोश्च उच्चावचत्वं न्यूनत्वाधिक्यं च परीक्ष्यते चेत् तर्हि दुःखस्य शोकस्य च भूयस्त्वं परिलक्ष्यते । जगतो नश्वरतां प्रेक्ष्य तत्त्वज्ञैः तदसारताप्रतिपादनात् निवृत्तिमार्गः प्रस्तावितः । जीवनं शोकबहुलम्, इष्टनाश-अनिष्टप्राप्त्यादिप्रसंगात् । करुणस्य वैविध्यम्-करुणरसे शोक एव स्थायिभावत्वेनाश्रीयते । करुणो हि रसः चित्तद्रवताम् आपाद्य लोकहृदयेन साधारणीकरणं विदधाति । करुणरस एव क्वचिद् दयाभावेन, क्वचित् सहानुभूतिरूपेण, क्वचित् समवेदनातत्त्वेन समन्वितं सद् नानारूपत्वं वैविध्यं चाप्नोति । स एव दम्पत्योरेकतरस्य निधने करुणरसत्वं प्राप्नोति, दम्पत्योरेकतरस्य वियोगमात्रे विप्रलम्भशृङ्गारत्वम् आपद्यते। मातापुत्रयोः, मातापुत्र्योः, भ्रातृदुहित्रोः, स्वस्रोः, सख्योः, इष्टयोर्वा वियोगे नानाभावभेदेन वैविध्यम् ऋच्छन् नानारसत्वम् आसादयति । दुःखमूलके सुखे, विप्रलम्भमूलके संभोगे, शोकमूलके हर्षे, परदुःखकातरताजन्य-सहानुभूती, इष्टनाशान्तरजातसन्ततौ वात्सल्ये, विनष्टेष्टजनापत्ये वीरत्वे, वियोगदुःखान्तरसंजातसंयोगे संभोगशृंङ्गारत्वे च कारुण्यस्यैव प्राधान्यम् । करुणमूलत्वाच्चैतेषां भावानां करुणरसजन्यत्वं प्रतिपाद्यते । एवमेव सर्वेऽपि रसाः करुणरसे निबद्धाः। करुणमूलत्वम् उद्वीक्ष्यैव सर्वेषां रसानां भवभूतिना उद्घोष्यते यत् एको, रसः करुण एव निमित्तभेदाद् भिन्नः पृथक् पृथगिव श्रयते विवर्तान् । आवर्त-बुबुद-तरङ्गमयान् विकारान् अम्भो यथा सलिलमेव हि तत् समस्तम् ॥ उत्तर० ३-४७ . Page #103 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् भवभतेरभिमतं सर्वेषां रसानां करुणमूलत्वम् । करुणरसादेव सर्वेषां रसानाम् आविर्भावः । यथा सलिलमेकमेव सद् भ्रम्यादिरूपेण नानाभेदान् आपद्यते, तथैव करुणो रसोऽपि वैविध्यं प्रतिपद्यते । स एव क्वचित् करुणरसः, क्वचिद् विप्रलम्भशृङ्गारः, क्वचिच्च रसान्तरम् । ___ करुणरसात् काव्योत्पत्तिः--करुणरसे चित्तद्रवीभावः । स एव काव्यस्य मूलम् । नान्तरेण चित्तद्रवत्वं तात्त्विको सात्त्विकी अनुभूतिः । नैसर्गिक चित्तद्रवत्वमेव करुणभावावेगे काव्यम् आविर्भावयति । अतएव काव्यस्योत्पत्तिरपि करुणमूलैव उद्गीर्यते । क्रौञ्चद्वन्द्ववियोगजन्यं कारुण्यम् आश्रित्यैव महाकवेर्वाल्मीके: प्रथमा काव्याभिव्यक्ति: मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ रामा० १-२-१५ एतदेवाश्रित्य ध्वन्यालोककारेण आनन्दवर्धनेनोच्यतेकाव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा। क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः॥ध्वन्या० १-५ आनन्दवर्धनेन रामायणस्य करुणरसान्वितत्वं करुणरसप्राधान्यं च स्फूटमुद्घोष्यते । वाल्मीकिना आद्यन्तं करुणरसस्य निर्वाहोऽपि व्यधायि । 'रामायणे हि करुणो रसः स्वयमादिकविना सूत्रितः 'शोकः श्लोकत्वमागतः' इत्येवंवादिना । नियंढश्च स एव सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता।' ध्वन्या० ५-५ टीका हिन्दीभाषायामपि सुमित्रानन्दनपन्तमहाभागेनैष एवाभिप्रायो विन्यस्त:वियोगी होगा पहला कवि, आह से उपजा होगा गान । उमड़कर आँखों से चुपचाप, बही होगी कविता अनजान ॥ रसानाम् उत्कर्षापकर्षत्वं विवेचिते सति स्फुटमेतद् अवगम्यते यत् करुणरसो यथा प्रभविष्णुः हृदयद्रावी मार्मिकश्च, न तथा रसान्तरम् । करुणे स्वानुभूतिः स्वाभाविक्या रीत्या प्रकाश्यते । यथा नैसर्गिकः प्रवाहः, सरसत्वं मधुरत्वं चेतः-प्रसादजनकत्वं करुणरसे उपलभ्यते, न तथाऽन्यत्र । संभोगशृङ्गारवर्णने न तथा वैशिष्ट्यं माधुर्यं च, यथा विप्रलम्भे । अतएव शृङ्गारेऽपि विप्रलम्भस्य महत्त्वम् उदीर्यते ___न विना विप्रलम्भेन संभोगः पुष्टिमश्नुते । माधुर्यं करुणरसे विप्रलम्भशृङ्गारे शान्तरसे च वैशिष्ट्यं भजते । अत. एवोच्यते मम्मटेन नविन Page #104 -------------------------------------------------------------------------- ________________ एको रसः करुण एव आह्लादकत्वं माधुर्य शृङ्गारे द्रुतिकारणम् । करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ॥ काव्य० ८-६८, ६९ आंग्लभाषायाः कविवरेण शैली ( P. B. Shelley ) महाभागेनापि एतदेव निगद्यते Our sweetest songs are those That tell of saddest thought'. ( Skylark) उत्तररामचरिते करुणरसः-महाकविना भवभूतिना उत्तररामचरिते स्वीयः सिद्धान्तोऽयं करुणरसमूलकानां विविधरसानां निदर्शनैः संपोष्यते । ' सीतावियोगविषण्णस्य रामभद्रस्य करुणरसमूलकं विप्रलम्भशृङ्गारं वर्णयति अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि। जनस्थाने शून्ये विकलकरणैरार्यचरितै रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ उत्तर० १-२८ सीतावियोग-सन्तप्तो रामः करुणरसस्वरूप एवाभूत् अनिभिन्नो गभीरत्वादन्तर्गुढघनव्यथः। पुटपाकप्रतीकाशो रामस्य करुणो रसः॥ उत्तर० ३-१ . सीताया अपि तादृश्येवावस्था। सापि करुणस्य मूर्तिः, शरीरिणी विरहव्यथेव च प्रतिभाति करुणस्य मूतिरथवा शरीरिणी विरहव्यथेव वनमेति जानको ॥ उत्तर० ३-४ करुणरसमूलं वात्सल्यं यथा रामकृत-लवालिङ्गन-वर्णनेपरिणतकठोर-पुष्करगर्भच्छदपीनमसृण-सुकुमारः। नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः॥ उत्तर० ६-१३ करुणमूलको रौद्ररसो यथा रामकृतसीतापरित्यागसन्तप्तस्य जनकस्योक्ती एतद् वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा ॥ उत्तर० ४-२५ तत्रैव करुणमूलकस्य शान्तरसस्य च वर्णनम् । यथा१. विस्तृतविवेचनार्थ द्रष्टव्यम्-लेखकसंपादित-'उत्तररामचरितस्य' भूमिकाभागः, पृ० ९८-१०१। Page #105 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् शान्तं वा रघुनन्दने तदुभयं तत्पुत्रभाण्डं हि मे भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः॥ उत्तर० ४-२५ करुणरसमूलस्य वीररसस्य वर्णनं यथाज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र मुद्भरिघोर-घनघर्घर-घोषमेतत् । ग्रासप्रसक्तहसदन्तकवक्तयन्त्र जृम्भा-विडम्बि विकटोदरमस्तु चापम् ॥ उत्तर०४-२९ . चन्द्रकेतु-लवयोर्युद्धवर्णने करुणरसमूलको वीररसो वर्ण्यते । एवं सिध्यति यत् काव्यस्य मूलं करुणरसे एव निबद्धम् । कारुण्याप्लुतचेतसः सरसभावावगाहित्वात् कल्पनाप्रवणत्वाद् अनुभूतिसंजुष्टत्वाच्च सहृदयत्वं सहानुभूतिसमन्वितत्वं च । यत्र सहृदयत्वं सहानुभूतिः कल्पना मार्मिकानुभूतिश्च तत्र काव्यत्वम् । तथाविधैव कृतिः सहृदयाह्लादकारिणी विद्वज्जनमनोज्ञा लोकमनस्तोषिणी च । एतद् विचार्यव भवभूतिना प्रोच्यते एको रसः करुण एव। Page #106 -------------------------------------------------------------------------- ________________ २७. शब्दशक्तयः अस्ति शब्देषु शक्तिः । तया शक्त्यैव शब्दः स्वाभीष्टमर्थं द्योतयति । यदि शब्देषु शक्तिर्न स्यात् तहि कृतेऽपि घोरे प्रयत्नेऽर्थबोधो न स्यात् । अतएव भर्तृहरिणा प्रोच्यते विषयत्वमनापन्नैः शब्दै र्थः प्रकाश्यते। न सत्तयैव तेऽर्थानामगृहीताः प्रकाशकाः ॥ वाक्य०१-५६ विषयत्वं प्राप्ता एव शब्दा अर्थबोधनक्षमाः। एतदेव महाभाष्ये निर्दिश्यते शब्द उपलब्धोऽथं प्रत्याययति न सत्तामात्रेण । महा० १-१-६८ शब्दशक्तिप्रकाशिकायां जगदीशः प्रतिपादयतिवाक्यभावमनाप्तस्य सार्थकस्यावबोधतः। सम्पद्यते शाब्दबोधो न तन्मात्रस्य बोधतः॥ शब्द० श्लोक १२ का नाम शक्तिरिति जिज्ञासायां नागेशेनोच्यते शब्दार्थयोस्तादात्म्यमेव शक्तिः । उद्योत, महा० आ० १ वाक्यपदीयेऽर्थाभिव्यक्ती प्राणस्य बुद्धश्च महत्त्वं प्रतिपाद्यते यद् द्वयोः । साहाय्येन शब्दशक्तिविवर्तते । सा च भेदं प्राप्नोति तस्य प्राणे च या शक्तिर्या च बुद्धौ व्यवस्थिता। विवर्तमाना स्थानेषु सैषा भेदं प्रपद्यते ॥ वाक्य० १-११८ शब्दः प्राणाधिष्ठानो बुद्धयधिष्ठानश्च । द्वाभ्यां प्राणबुद्धिशक्तिभ्याम् अभिव्यक्तोऽथं प्रत्याययति । हरिवृषभ, वाक्य० १-११८ __गदाधारभट्टो व्युत्पत्तिवादे गङ्गेशश्च तत्त्वचिन्तामणी शब्दखण्डे शक्ति विस्तरेण विवेचयतः । वृत्तेः शक्तेर्वा लक्षणं तत्र क्रियते–'इदं पदमिममर्थ बोधयेत्', 'अस्मात् शब्दादयमर्थो बोद्धव्यः' एवं प्रकारः संकेतः शक्तिः । नागेशः पदपदार्थयोः संबन्धविशेषं शक्ति मनुते । सा च वाच्य-वाचकरूपा शक्तिः । पद-पदार्थयोरभेदज्ञानेन शक्तिग्रहः। पदगतशक्ति संकेतो बोधयति । अतः संकेतः शक्तिर्मन्यते । शक्तिरेवार्थबोधनसाधिका। शक्तिग्रहश्च वाक्येन भवति । वाक्यलक्षणं विश्वनाथेनोच्यते वाक्यं स्याद् योग्यताकांक्षासत्तियुक्तः पदोच्चयः । सा० द० २-१ (१) योग्यता, परस्परसंबन्धक्षमतारूपा, (२) आकांक्षा, श्रोतुजिज्ञासारूपा, (३) आत्तिः बुद्धेरविच्छेदः, एतद्गुणत्रययुक्तः पदसमूहो वाक्यम् । एवं योग्यताकांक्षासत्तियुक्तानां पदानां समूहो वाक्यम् । पदं च तेन लक्ष्यते Page #107 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः । सा० द० २-२ शब्दार्थयोः स्वरूपं विवेचयता मम्मटेन प्रतिपाद्यते यत् शब्दः त्रिविध:स्याद् वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा॥ वाच्यादयस्तदर्थाः स्युः । काव्य० २-६ शब्दस्त्रिधा–वाचको लक्षको व्यञ्जकश्चेति । तेषामर्थोऽपि त्रिविधःवाच्यो लक्ष्यो व्यङ्ग्यश्चेति । शब्दस्य तिस्रः शक्तयः-अभिधा, लक्षणा, व्यञ्जना चेति । वाचकेन शब्देन वाच्योऽर्थोऽभिधाशक्त्या बोध्यते । लक्षकेन शब्देन लक्ष्योऽर्थो लक्षणाशक्त्या बोध्यते । व्यञ्जकेन शब्देन व्यङ्ग्योऽर्थो व्यञ्जनाशक्त्या व्यज्यते । एवं काव्यशास्त्रज्ञैः तिस्रः शक्तयो मन्यन्ते। वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः। . व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्त्रः शब्दस्य शक्तयः॥ सा०द० २-३ अभिधा-अभिधाशक्तिः साक्षात् संकेतितमर्थं बोधयति । स च संकेतः जातो गुणे क्रियायां यदृच्छाशब्देषु च गृह्यते । उक्तं च महाभाष्ये 'चतुष्टयी शब्दानां प्रवृत्तिः, जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाश्चेति ।' महाभाष्य आ० २ ___ अभिधाशक्तिरपि त्रिविधा-रूढ़िः, यौगिको योगरूढिश्च । केचन शब्दा रूढाः, केचन यौगिकाः, केचन च योगरूढाः । 'शक्तिस्त्रिधा-रूढिर्योगो योगरूढिश्च ।' मंजूषा पृ० १०६ लक्षणा–लक्षणाशक्तेर्लक्षणमुच्यते विश्वनाथेनमुख्यार्थबाधे तद्युक्तो ययाऽन्योऽर्थः प्रतीयते। रूढः प्रयोजनाद् वासौ लक्षणा शक्तिरपिता ॥ सा० द० २-५ । लक्षणायां तत्त्वत्रयम् आवश्यकम्-(१) मुख्यार्थस्य बाधः स्यात्, (२) मुख्यार्थसंबद्धोऽर्थः स्वीक्रियेत, (३) रूढिः प्रयोजनविशेषो वा तत्र कारणं स्यात् । यथा-कर्मणि कुशलः, कलिङ्गः साहसिको वा रूढेरुदाहरणम् । अत्र कुशलशब्दो दक्षे, कलिङ्गशब्दश्च कलिङ्गदेशजे रूढः । गङ्गायां घोषः इत्यत्र प्रयोजनवती लक्षणा । अत्र गङ्गाशब्दः स्वार्थं जलप्रवाहरूपम् अथं परित्यज्य गङ्गातीरं बोधयति । सा च लक्षणा द्विविधा-उपादानलक्षणा, लक्षण-लक्षणा च । यत्र स्वार्थसिद्धये पराक्षेपो भवति, आत्मनश्चापि उपादानं भवति, तत्रोपादानलक्षणा । 'इयमेव 'अजहत्स्वार्था' इत्यपि उच्यते । रूढी उपादानलक्षणा यथा-श्वेतो धावति । अत्र श्वेतशब्दः श्वेतगुणत्वविशिष्टम् अश्वं बोधयति । अत्र रूढिः कारणम् । प्रयोजनवती उपादानलक्षणा यथा—कुन्ताः प्रविशन्ति, यष्टयः प्रविशन्ति । Page #108 -------------------------------------------------------------------------- ________________ शब्दशक्तयः अत्र कुन्तादिशब्देन कुन्तादिधारिणः पुरुषा लक्ष्यन्ते । अत्र स्वार्थग्रहणाद् उपादानलक्षणा । कुन्तादिशब्दर्भयजनकत्वादिकं प्रयोजनम्, तेन प्रयोजनवती। यत्र स्वकोयोऽर्थः सर्वथा त्यज्यते, तत्र लक्षणलक्षणा । अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये। उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ॥ सा० द० २-७ इयमेव जहत्स्वार्थाऽप्युच्यते । यथा उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । विदधदीदृशमेव सदा सखे सुखितमास्व ततः शरदां शतम् ॥सा० द० अपकारिणं प्रति उपकारादिप्रतिपादनात् मुख्यार्थबाधः, अपकारातिशयादिरूपो विपरीतोऽर्थोऽत्र गृह्यते । एवं चतुर्विधलक्षणाया अपि द्वौ भेदौ-सारोपा, साध्यवसाना च । यत्र विषयोऽनिगीर्णोऽन्येन सह तादात्म्यं स्थापति, तत्र सारोपा लक्षणा । यत्र च विषयो निगीर्णः तादात्म्यरूपो वा विषयिणा भवति तत्र साध्यवसाना लक्षणा। यथा-गौर्वाहीकः । अत्र वाहीकदेशस्थपुरुषे गोत्वं पशुत्वं मूर्खत्वं वा लक्ष्यते । अत्र पुरुषे गोत्वारोपात् सारोपा लक्षणा। इयमेव रूपकालंकारस्य बीजम् । यत्र विषयो विषयिणा निगीर्यते एकात्मतां वा गच्छति, तत्र साध्यवसाना लक्षणा । यथा--गौरयम्, गौर्जल्पति वा । अत्र गोशब्देन वाहीकदेशस्थः पुरुषो लक्ष्यते । तस्य अनुल्लेखात् साध्यवसाना लक्षणा।। एवम् अष्टभेदाया लक्षणायाः पुनर्ती भेदी-शुद्धा, गौणी च । यत्र सादृश्यभिन्नकारणेन लक्षणा, सा शुद्धा । या च सादृश्यमलाः सा गौणो। यथा-आयुघृतम्, श्वेतो धावति, कर्मणि कुशल:, कुन्ताः प्रविशन्ति, इत्यत्र सादृश्येतरसबन्धमूला लक्षणा, अतः शुद्धा । यत्र च सादृश्यमूला सा गौणी। यथा-पुरुषः सिंहः, गौर्वाहोकः, गौर्जल्पति, तैलानि हेमन्ते सुखानि, राजा गौडेन्द्रं कण्टकं शोधयति, अत्र सादृश्यमूलत्वाद् गौणी लक्षणा । एतासां विस्तरेण विश्वनाथेन. लक्षणाया अशीतिभेदाः प्रतिपादिता: तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः। पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ॥ सा० द० २-११, १२ व्यञ्जना-अभिधालक्षणाशक्त्योः कार्येऽवसिते, यया अन्योऽर्थो बोध्यते सा वृत्तिय॑ञ्जना नाम । व्यञ्जना निगूढमर्थं बोधयति । यथा-गङ्गायां घोषः, इत्यत्र लक्षणया गङ्गातीरबोधः, शीतत्वपावनत्वादिरूपोऽर्थो नाभिधया न च लक्षणयाऽवगन्तुं पार्यते । तं गूढमथं व्यञ्जनाशक्तिरेव बोधयति । Page #109 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् व्यञ्जनाशक्तिद्विविधा — अभिधामूला, लक्षणामूला च । यत्रानेकार्थः शब्दः संयोगवियोगादिकारणेन एकत्रार्थे नियन्त्रिते सति अन्यमर्थं बोधयति सा अभिधामूला व्यञ्जना । यथा— ९२ भद्रात्मनो दुरधिरोहतनोविशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ अत्र श्लेषाश्रयेण राज- स्तुतिरूपार्थे बोधिते हस्तिरूपोऽन्योऽर्थोऽपि व्यञ्जनया बोध्यते । यत्र लक्ष्यार्थंमादाय तदन्यत् किञ्चिद् बोध्यते सा लक्षणामूला व्यञ्जना । यथा गङ्गायां घोषः, इत्यत्र लक्ष्यार्थातिरिक्तः शीतत्वपावनत्वातिशयादिरर्थो बोध्यते । व्यञ्जना द्विविधा – शाब्दी आर्थी च । यत्र शब्दमूला सा शाब्दी, यत्रार्थ - मूला सा आर्थी । शाब्द्या व्यञ्जनाया उदाहरणम् – गङ्गायां घोषः । आर्थी च वक्तृबोद्धव्यादीनां वैशिष्टयेन अन्यमर्थं बोधयति । यथा कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः । केलीवनीयमपि वञ्जुलकुञ्जमञ्ज दूरे पतिः कथय किं करणीयमद्य ॥ अत्र 'दूरे पति : ० ' इत्यादिना प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद् व्यज्यते । निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दृति बान्धवजनस्थाज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ इत्यत्र ‘वापीं स्नातुम्०' इत्यादिना तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया व्यज्यते । मम्मटो व्यङ्ग्यमूलां व्यञ्जनामपि स्वीकरोति । सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते ॥ काव्य० २-७ व्यङ्ग्यमूला व्यञ्जना यथा पश्य निश्चलनिष्पन्दा बिसिनोपत्रे राजते बलाका । निर्मल मरकतभाजन - परिस्थिता शंखशुक्तिरिव ॥ निर्जनत्वाद् एतद् संकेतस्थानमिति कयाचित् कंचित् प्रति उच्यते । एवं शब्दशक्तिर्विपश्चिद्भिः साधु निरूप्यते । Page #110 -------------------------------------------------------------------------- ________________ २८. कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् । (नाटकेषु शकुन्तला )१ | कालिदासस्य कृतयः-महाकवेः कालिदासस्य सप्तैव कृतयः प्राधान्येन स्वीक्रियन्ते । ( क ) नाट्यग्रन्था:-१. अभिज्ञानशाकुन्तलम्, २. विक्रमोर्वशीयम्, ३. मालविकाग्निमित्रम् । (ख ) काव्यद्वयम्-४. रघुवंशम्, ५. कुमारसंभवम् । ( ग ) गीतिकाव्यद्वयम्-६. मेघदूतम्, ७. ऋतुसंहारम् । शाकुन्तलस्य महत्त्वम्-पूर्वोक्तासु कृतिषु शाकुन्तलमेव कवेः प्रतिभायाः परिपाकेन, रचनाकौशलेन, भावसौष्ठवेन, भाषामाधुर्येण, सरसाभिव्यक्त्या, सालंकृतपदावल्या, प्रकृतिचित्रणपाटवेन, रसपरिपाकेन, नीरसकथानके सरसतासंपादनेन, मूलकथापरिवर्तने वैशारद्येन, करुणादिरससंचारेण च सर्वातिशायीति तदेव कालिदासस्य सर्वस्वत्वेनो ष्यते । अतएव निगद्यते केनापि काव्येषु नाटकं रम्यं, नाटकेषु शकुन्तला। तत्रापि च चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ॥ कालिदासस्य नाट्यकलाकौशलम्-तस्य नाट्यकलाकौशले प्राधान्येनैते विशेषाः संलक्ष्यन्ते-घटनासंयोजने सौष्ठवम्, वर्णनानां सार्थकता, स्वाभाविकता ध्वन्यात्मकता च, चरित्रचित्रणे वैयक्तिकत्वम्, रसानुगुणकवित्वाधानम्, रसपरिपाकश्चेति । घटनासयोजने सौष्ठवं यथा-द्वितीयेऽङके आश्रमं प्रवेष्टुकामे सति दुष्यन्ते ऋषिकुमारद्वयस्य नपाह्वानाथं प्रवेशः । पञ्चमे हंसपदिकागोतम्, षष्ठेऽङ्गलोयकोपलब्धिः, सप्तमे पुत्रदर्शनं शकुन्तलावाप्तिश्च । वर्णनानां स्वाभाविकत्वं यथा-प्रथमेऽके मृगप्लुतिवर्णनम्, द्वितीये भूभृद्विदूषकसंलापः, चतुर्थे शकुन्तला-विप्रयोग-वर्णनम्, पञ्चमे शकुन्तला-प्रत्याख्यानम्, षष्ठे शकुन्तलावियोगविषण्णस्य राज्ञो मनोवैज्ञानिकं वर्णनम्, सप्तमेऽपत्यक्रोडावर्णनं च । वर्णनानां ध्वन्यात्मकता यथा-'दिवसाः परिणामरमणीयाः' (शा० १-३) इत्यनेन नाटकस्य सुखावसायित्वं सूच्यते। सूत्रधारकथनम्–'अस्मिन् क्षणे विस्मृतं खलु मया' ( अंक १ ) इत्यनेन नाटके विस्मरणस्य महत्त्वं द्योत्यते । जीवने सुखदुःखयोः क्रमानुपातित्वं सूर्यचन्द्रमसोः उदयास्तमयेन साधु संपोष्यतेयात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतोऽरुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद् व्यसनोदयाम्यां लोको नियम्यत इवात्मदशान्तरेषु ॥ (४-२) चरित्रचित्रणे वैयक्तिकता यथा-ऋषित्रये कण्वः साधुप्रकृतिर्दान्तो १. विस्तृतविबरणार्थ लेखकसंपादित-शाकुन्तलस्य भूमिकाभागो द्रष्टव्यः । पृ० ५४-१०० Page #111 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् मृदुहृदयः शकुन्तलायां पितृवद्वत्सलश्च, मारीचो वीतरागोऽचिन्त्यशक्तिसंयुक्तश्च, दुर्वासा रोषप्रकृतिः परापकृतिपरश्च । रसपरिपाकः-रसनिरूपणेऽपि महती विदग्धताऽवाप्यते । बीभत्सरसं विहाय प्रायः सर्वेऽपि रसा यथायथं विन्यस्ताः । शृङ्गाररसः सर्वातिशायी । शृङ्गारस्य पक्षद्वयं संभोगविप्रलम्भात्मकं साम्येनात्र अवतिष्ठते । शकुन्तलाम् उद्वीक्ष्य नृपोक्तिर्यथा सरसिजनमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोलक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ शा० १-२० शकुन्तलागा लावण्यं व्रततिव्याजेनोपस्थाप्यते । यथाअधरः किसलयरागः कोमलविटपानुकारिणौ बाहू। कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥ शा० १-२१ शकुन्तलायाः सौन्दर्य सर्वपरिभावि। कृतसुकृतपरिपाकेनैव सा सुलभा, अन्यथा तु,दुरासदैव। . अनाघ्रातं पुष्पं किसलयमलूनं कररहै रनाविद्धं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्यांनां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ शा० २-१० शकुन्तलायाः शृङ्गारदशां साधु विवृणोति अभिमुखे मयि संहृतमीक्षितं, हसितमन्यनिमित्तकृतोदयम् । विनयवारितवृत्तिरतस्तया, न विवृतो मदनो न च संवृतः॥ शा० २-११ शकन्तलायाः प्रत्याख्याने राज्ञोविरहावस्थापि साधूपस्थाप्यतेप्रत्यादिष्टविशेषमण्डनविधिमिप्रकोष्ठापितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः। चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः । __संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥ शा०६-६ शकुन्तलाप्रस्थानकाले उपस्थितवियोगविषण्णस्य पशुपक्षि-वनस्पत्यादेरपि समवस्थावर्णनं हृदयद्रावि कारुण्यकारि च उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः। अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः॥ शा० ४-१२ Page #112 -------------------------------------------------------------------------- ________________ कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् मारीचाश्रमगतमुनिप्रकाण्डस्य तपस्तपस्यतो वर्णनम् अद्भुतरसावस्था पकम् । यथा वल्मीकार्धनिमग्न मूर्तिरुरसा सन्दष्टसर्पत्वचा कण्ठे असंव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं जीर्णलताप्रतानवलयेनात्यर्थ संपीडितः । यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥ शा० ७-११ काव्य सौन्दर्यम् — काव्यसौन्दर्यदृशा परीक्षितं चेत् शाकुन्तलं सर्वमेव शोभातिशायि । चतुर्थेऽङ्के श्लोकचतुष्टयं तु सर्वमनोभिरामम् । तत्र अन्तः प्रकृतेर्बाह्यप्रकृत्या समन्वयो वयते । पतिवियोगविषण्णा शकुन्तला, चन्द्रवियोगप्रपीडिता कुमुदिनी च नितरां साम्यं धत्त:-- अन्तर्हिते शशिनि सैव कुमुद्वती मे दृष्टि न नन्दयति संस्मरणीयशोभा । इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥ शा० ४-३ शकुन्तलां प्रेक्ष्य राज्ञो रम्या भावाभिव्यक्तिर्यथाइदं किलाव्याजमनोहरं वस्तपःक्षमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ॥ शा० १-१८ मनोभावानां कथमिव मनोवैज्ञानिकं मनोज्ञं रूपमाविष्क्रियते । अन्त:करणवृत्तीनां प्रामाण्यमुपस्थापयता तेन वर्ण्यते— Comm असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करण प्रवृत्तयः ॥ ९.५ शा० १-२२ प्रसादगुणः - कालिदासो वैदर्भी रीतिं वृणुते । अतस्तस्य शैल्यां माधुर्यं लालित्यम् अलंकारसमवेतत्वं प्रसादत्वं समासाल्पत्वं च प्रतिपदं समीक्ष्यते । प्रसादस्य मनोहारिणी भा भासतेऽविच्छेदेन । यथा— अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् । लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् ॥ शा० ३-११ माधुर्यम् — शाकुन्तले माधुर्यस्य मनोज्ञा सुषमाऽपि चित्ताह्लादकत्वेन वरीवर्ति । यथा - कि शीतलैः क्लमविनोदिभिरार्द्रवातान् संचारयामि नलिनीदलतालवृन्तैः । Page #113 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् अङ्के निधाय करभोर यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥ शा० ३-१८ ओजोगुणः-यद्यप्योजोगुणो न शाकुन्तले प्राचुर्येण, तथापि केचन सन्दर्भा ओजोगुणस्याविर्भावकाः । यथा सैन्यसंत्रस्तकरिणो वर्णनम्तीव्राघातप्रतिहततरुस्कन्धलग्नकदन्तः . पादाकृष्ट-व्रततिवलयासङ्गसंजातपाशः। मूर्ती विघ्नस्तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः॥ शा० १-३३ वर्णननैपुण्यम्-कालिदासः प्रकृतिवर्णने, मनोभाववर्णने, विविधरसवर्णने चासाधारणं वेशारा प्रकटयति । यथा-अश्वगतिवर्णनम्, त्रस्तमगवर्णनम्, कामपीडित-दुष्यन्त-शकुन्तलयोः कामदशावर्णनम्, पतिकूलं गच्छन्त्याः शकुन्तलायाः कारुण्यपूर्ण वर्णनम्, दुष्यन्तशाङ्गरवयोर्विवादस्य वर्णनम्, शकुन्तलाप्रत्याख्यानविषण्णस्य दुष्यन्तस्य मनोदशावर्णनम्, मारीचाश्रमवर्णनं च तस्य प्रतिभाया नवनवोन्मेषशालित्वं सूचयति । स्वर्गाश्रमवर्णनं यथाप्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने । तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया। ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत् काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी॥ शा०७-१२ कामपीडितायाः शकुन्तलाया वर्णनं यथाक्षामक्षामकपोलमाननमरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डरा। शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ शा० ३-७ नाटकेषु शकुन्तला-'काव्येषु नाटकं रम्यम्' इति विवेचितमन्यत्र । नाटकेष्वपि शाकुन्तलमेव सर्वातिशायि । अत्र कविकुलशिरोमणेः कालिदासस्य प्रतिभायाश्चरमोत्कर्षो लक्ष्यते । नाट्यकलादृष्टया, काव्यसौन्दर्यदृष्ट्या, शैलीदृष्टया, रसपरिपाकदृष्ट्या, मनोभावादिसूक्ष्माध्ययनदृष्ट्या, प्रसादादिगुणदृष्टया, अभिनेयत्वदृष्टया, सहृदयहृदयाह्लादकत्वदृष्टया वा यथाकथमपि निरीक्ष्यते परीक्ष्यते समीक्ष्यते वा, सर्वथैव शाकुन्तलस्य सर्वजनाह्लादकत्वम् अवलोक्यते । अतएवोच्यते श्रीकृष्णेन Page #114 -------------------------------------------------------------------------- ________________ कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् अस्पृष्टदोषा नलिनीव हृष्टा, हारावलीव प्रथिता गुणौघैः। प्रियाङ्कपालीव प्रकामहृद्या, न कालिदासादपरस्य वाणी ॥ श्रीकृष्णः तत्रापि च चतुर्थोऽङ्कः-शाकुन्तलेऽपि चतुर्थोऽङ्कः सर्वोत्कृष्टत्वेन परिगण्यते । यद्यप्यकेष्वन्येषु भावमाधुर्य नाट्यकौशलं च परिलक्ष्यते, तथापि । चतुर्थेऽके यथा सौष्ठवेन हृदयावर्जकत्वेन करुणरसनिष्यन्दः, मनोभावाभिव्यक्तिप्रवणेन सरसेन भावोद्वेगेन यथा सरसत्वम्, रसानुगुणभाषाश्रयेण यथा माधुर्यम्, रचनाकौशलेन काम्यत्वम्, हार्दिकानुभूतिप्रकाशनेन सौन्दर्यम्, अन्तःप्रकृतिबाह्यप्रकृत्योः समन्वयेन रुचिरत्वम्, पतिकुलाभिमुखप्रस्थातुकामायाः पुत्र्या भावविह्वलत्वम्, पुत्रीवियोगजन्यदुःखार्तस्य पितुर्मार्मिकं चित्रणम्, न तथान्यत्र । एते विशेषाः चतुर्थाङ्कस्य सर्वातिशायित्वं प्रतिपादयन्ति । तत्र श्लोकचतुष्टयम्-भावगाम्भीर्येण सरसत्वापादनेन मार्मिकानुभूतिचित्रणेन कर्तव्योद्बोधनेन प्रकृतितादात्म्यादिगुणेन च चतुर्थेऽङ्के श्लोकचतुष्टयं माहात्म्यं लभते । ते च सन्ति(१) यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितवाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः पोड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैनवैः॥ ___शा० ४-६ (२) शुश्रूषस्व गुरुन् कुरु प्रियसखोवृत्ति सपत्नीजने भर्तुविप्रकृतापि रोषणतया मा स्म प्रतीपं गमः। भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥ शा०४-१८ ( ३ ) पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् । ... आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ शा०४-९ ( ४ ) अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्ति च ताम् । सामान्यप्रतिपत्तिपूर्वकमिदं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद् वाच्यं वधूबन्धुभिः॥ शा०४-१७ एवं विज्ञायते यत् शाकुन्तलं कालिदासस्य सर्वस्वम् । Page #115 -------------------------------------------------------------------------- ________________ २९. उपमा कालिदासस्य ( क इह रघुकारे न रमते) कालिदासस्य कवित्वम्-कविताकामिनीकान्तः कालिदासः कस्य ना. वर्जयति चेतः सचेतसः। तस्य काव्यसौन्दर्य प्रेक्षं प्रेक्षं प्रशंसन्ति सहृदयाः सुधियस्तस्य कलाकौशलम् । तस्य सूक्तयः सुधासिक्ता मञ्जर्य इव चेतोहराः सन्ति | अत उच्यते बाणभट्टेन हर्षचरिते–'निर्गतासु न वा कस्य कालिदासस्य सक्तिष । प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते' (हर्ष० १-१६)। कालिदासोऽतिशेते सर्वानपि महाकवीन् औपम्ये । अतः साधूच्यते-'उपमा कालिदासस्य ।' उपमायाः स्वरूपम्-का नामोपमा ? कथं चैषा उपकर्वी काव्यस्य ? विश्वनाथानुसारम्-'साम्यं वाच्यमवैधम्यं वाक्यैक्य उपमा द्वयोः' (सा० दर्पण १०-१४) । वस्तुद्वयस्य वैधयं विहाय साम्यमानं चेद् उच्यते एकस्मिन् वाक्ये तहि सा उपमा । उपमैषा सौदामिनीव विद्योतते विपुले वाङमये । काव्यशरीरे समादधाति महती मञ्जलताम् । कालिदासस्य उपमाप्रयोगेऽपूर्व वैशारद्यम् । तस्य उपमासु न केवलं रम्यता, यथार्थता, पूर्णता, विविधता च, अपि तु सर्वत्रैव लिङ्गसाम्यम् औचित्यं च। लिङ्गसाम्यस्य औचित्यस्य च समाश्रयेण काचिदपूर्वा संपद्यते चारुता तस्योपमासु । शतशः सन्ति उपमाप्रयोगस्थलानि तस्य काव्यादिषु । रघुवंशे तूपमाप्रयोगः सर्वातिशायी । दीपशिखा-कालिदासः-उपमाप्रयोगे चातुर्येणैव स 'दीपशिखाकालिदासः' इति प्रसिद्धिमवाप । पतिवरा इन्दुमती दीपशिखेव व्यराजत । सा यं यं नरेन्द्रम् उज्झितवती, स स विवर्णवदनो विषण्णश्चाभवत् संचारिणी दीपशिखेव रात्रौ, यं यं व्यतीयाय पतिवरा सा। नरेन्द्रमार्गाट्ट इव प्रपेदे, विवर्णभावं स स भूमिपालः॥ रघु० ६-६७ उपमा कालिदासस्य-कालिदासस्य कृतिषु शतशः सन्त्युपमा प्रयोगस्थलानि । रघुवंशे तूपमाप्रयोगः सर्वाधिक्यं भजते । कालिदासीया उपमाश्चतुर्धा विभाजयितुं शक्यन्ते-(१) शास्त्रीयाः, (२) मूर्तस्यामूर्ततत्त्वेन साम्यम्, ( ३ ) प्रकृति-संबद्धाः, ( ४ ) विविधविषयसंबद्धाः । वर्गीकरणस्यास्यानेके उपभेदाः। ते स्थानाभावादत्र नोपस्थाप्यन्ते । (१) शास्त्रीया उपमाः-शास्त्रीया उपमास्तावत् पूर्व प्रस्तूयन्ते । शास्त्रीया उपमा अनेकविधा:-वेद-दर्शन-यज्ञ-विद्या-व्याकरण-राजनीतिज्योतिषादि-विषयभेदेन । ( क ) वेदविषयकाः, यथा१. विस्तृत विवेचनार्थं द्रष्टव्यम्-लेखककृता-प्रौढ-रचनानुवादकौमुदी, पृष्ठ ३१३-३१६ Page #116 -------------------------------------------------------------------------- ________________ उपमा कालिदासस्य आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव । रघु० १-११ मनुस्तथैव नृपाणामग्रिमोऽभूद् यथा मन्त्राणामोंकारः । सुदक्षिणा नन्दिन्या मार्गं तथैवान्वगच्छद् यथा स्मृतिः श्रुतेरर्थम् — तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया । मार्ग मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥ रघु० २-२ ( ख ) दर्शनविषयका : - यथा बुद्धेः कारणम् अव्यक्तं मूलप्रकृतिर्वा, तथा सरयूनद्याः कारणं मानसं सरः । ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति । रघु० १३ - ६० दिलीपस्य कृतिविशेषाः प्राक्तनाः संस्कारा इव फलानुमेया आसन् फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ रघु० १-२० गम्भीराया नद्या पयो निर्मलं मानसमिव वर्तते, मेघश्च तत्र छायात्मेव प्रतिबिम्बितो भविता ९९ गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने । छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ॥ मेघ० १ - ४३ (ग) यज्ञविषयका :- नृपो दुष्यन्तः शकुन्तलाऽपत्यं भरतश्च त्रयमेतत् क्रमशो विधि: श्रद्धा वित्तं चेति त्रयाणां समन्वयो वर्तते —- दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् । श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥ शाकुन्तल ७ - २९ शकुन्तलाऽनुरूपं भर्तारं तथैव प्राप्ता यथा धूमाकुललोचनस्य यजमानस्य वह्नावाहुतिः । दिष्ट्या धूमाकुलित दृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । ( शाकु० अंक ४ ) ( घं) विद्याविषयकाः - विद्या यथाऽभ्यासेन चकास्ति तथा नन्दिनी सेवया प्रसादनीया । विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥ रघु० १-८८ दुष्यन्तपरिणीता शकुन्तला सुशिष्यप्रदत्ता विद्येवाशोचनीयाऽभूत् । सुशिष्यपरिदत्ता विद्येवाशोचनीयाऽसि संवृत्ता । शाकु० अंक ४ (ङ) व्याकरणविषयकाः - अपवादनियमो यथोत्सगं बाधते तथैव शत्रुघ्नो लवणासुरं बबाधे । अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः ॥ रघु० १५-७ अध्ययनार्थकाद् 'इङ्' धातोः पूर्वम् 'अधि' उपसर्गो यथा शोभाकृद् व्यर्थश्च तथा शत्रुघ्नेन समं सेना पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् ॥ रघु० १५-९ Page #117 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् (च) राजनीतिविषयकाः-प्रभावशक्तिमन्त्रशक्तिरुत्साहशक्तिश्चेति त्रयं यथा अक्षयमर्थ सूते तथा सुदक्षिणा पुत्रं रघुम् असूत । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्यमक्षयम्। रघु० ३-१३ सीता लवकुशौ तथैवाजनयद् यथा क्षितिः संपन्नौ कोशदण्डाविव सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः ॥ रघु० १५ -१३ । (छ ) ज्योतिषविषयकाः-यथा चन्द्रग्रहणानन्तरं रोहिणी शशिनम् उपैति तथैव शकुन्तला दुष्यन्तमुपगता।। उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ शाकु०७-२२ (२) मूर्तस्यामूर्ततत्त्वेन साम्यम-कालिदासः प्रायशो मूर्तस्य मूर्ततत्त्वेन साम्यं प्रदर्शयति । क्वचिच्च मूर्तस्य अमूर्ततत्त्वेन, सजीवस्य निर्जीवेन, भावपदार्थस्य अभावपदार्थेन औपम्यं प्रतिपादयति । यथा-दिलीपः क्षात्रधर्मवद् बभौ–'आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः' ( रघु० १-१३) । स नन्दिन्या धवलं क्षीरं यशसोपमिमीते-शुभ्रं यशो मूर्तमिवातितृष्णः' ( रघु० २-६९ )। दिलीपस्य रथं मनोरथेनोपमिमीते-'ययावनुद्घातसुखेन मार्ग स्वेनेव पूर्णेन मनोरथेन' ( रघु० २-७२ )। रामादयश्चत्वारोऽपि भ्रातरश्चतुर्वर्गस्यावताररूपेण बभुः । 'धर्मार्थकाममोक्षाणाम् अवतार इवाङ्गवान्' ( रघु० १०-८४ ) । क्वचित् निर्जीवस्यापि सजीवेन सहौपम्यं लक्ष्यते-सिप्रावातः चाटुकारो जन इव स्त्रीणां खेदं हरति-'यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः, सिप्रावातः प्रियतम इव प्रार्थनाचाटकारः' । मेघ० १-३१)। स पार्वतीपरमेश्वरौ वागर्थाविव स्तौति । 'वागर्थाविव संपृक्ती वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतोपरमेश्वरौ ।' रघु० १-१ (३) प्रकृतिसंबद्धाः-कामदेवविनाशविषण्णा रतिः वायुवेगाहतदीपस्य धूमावृतवतिकेव विषादनिमग्ना संजाता। शोकाकुलस्य जनस्य अतीव मनोहरं मनोवैज्ञानिक विश्लेषणमिदम् । कालिदासस्य प्रथिततमासूपमासु एकतमैषा । सौन्दर्यमेतस्या विवेच्यम् गत एव न ते निवर्तते, स सखा दीप इवानिलाहतः। अहमस्य दशेव पश्य माम, अविषह्यव्यसनेन धूमिताम्॥ कुमार० ४-३० एकाऽन्या हृद्या कल्पनामलोपमा प्रस्तूयते । अत्र राज्ञो दिलीपस्य राश्याः सुदक्षिणायाश्चान्तरे वर्तमाना कामधेनुसुता नन्दिनी तथैवाशोभत यथा दिवस-रात्र्योर्मध्ये सन्ध्या । यथा सन्ध्याया महत्त्वं तथैव नन्दिन्या महत्त्वमत्राभिव्यज्यते पुरस्कृता वर्त्मनि पार्थिवेन, प्रत्युद्गता पार्थिवधर्मपत्या। तदन्तरे सा विरराज धेनुदिनक्षपामध्यगतेव सन्ध्या ॥ रघु० २-२० Page #118 -------------------------------------------------------------------------- ________________ उपमा कालिदासस्य एकतो विश्व सुन्दरीसंकाशा गौरवर्णा गौरी, अपरतश्च वीतरागोऽवधूतो व्रती पिनाकी । विश्वसुन्दरीगौरीवदनदर्शनसंजातक्षोभो हरस्तथैव व्याक्षिप्तमना मनागभूद् यथा विधुदर्शनेन जलनिधिः हरस्तु किंचित् परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ १०१ कुमार० ३-६७ मगधेश्वरं परन्तपनामानं नृपं नक्षत्रादिमध्ये चन्द्रमिव मन्यते - कामं नृपाः सन्तु सहस्रशोऽन्ये, राजन्वती माहुरनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ रघु० ६ - २२ सीतापरित्यागविषण्णो रामोऽश्रुपूर्णनेत्रः पौषचन्द्र इव व्यराजत" बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः । रघु० १४-८४ शकुन्तलायाः कमनीयं कलेवरं लतामनुचकार । कविकल्पनाऽत्र रम्या — अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू 1 कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ शाकु० १-२१ शोकविह्वला यक्षपत्नी विधुकलेवालक्ष्यत - 'प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः' ( मेघ० २ - २९ ) । कण्वस्याशीर्वादो यत् शकुन्तला सूर्यमिव तेजस्विनं सुतं प्रसूयेत - ' तनयमचिरात् प्राचीवार्कं प्रसूय च पावनम्' ( शाकु० ४- १९ ) । कण्वमुनि प्राप्ता शकुन्तला अर्कवृक्षोपरि पतितं कुसुममिवास्त'अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ' ( शाकु० २-८ ) । राजा दुष्यन्तः शकुन्तलां पुष्पमिव, रत्नमिव, मधुवच्च गणयति अनाघ्रातं पुष्पं किसलयमलूनं कररुहै नाविद्धं रत्नं मधु नवमनास्वादितरसम् ॥ शाकु० २ - १० (४) विविधविषयसंबद्धा: - सिंहप्रभावाद् इषु-प्रयोगे विफलीकृतो दिलीप: शिवशक्त्या निश्चलीकृत इन्द्र इव रराज । 'जडीकृत स्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणि:' ( रघु० २- ४२ ) । इन्द्रधनुः संपर्केण मेघस्य सैव शोभा भविता वा मयूरपक्षेण गोपवेषस्य विष्णोः । ' येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते, बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ' ( मेघ० १ - १५ ) । कालिदासः कवियशोलाभार्थिनम् आत्मानम् उद्बाहु वामनम् इव मनुते । 'प्रांशुलभ्ये फले लोभाद् उद्वाहुरिव वामनः' ( रघु० १ - ३ ) । कैलासेऽलका नगरी प्रासादसंगता मेघावृता च तथैवातितरां रोचते यथा मुक्ताग्रथितम् अलकं दधाना काचित् कामिनी या वः काले वहति सलिलोद्गार मुच्चैविमाना मुक्ताजालप्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ मेघ० १- ६३ Page #119 -------------------------------------------------------------------------- ________________ १०२ संस्कृतनिबन्धशतकम् .. साम्यमूलका अलंकाराः कालिदासो न केवलम् उपमाया एव प्रयोगे निष्णातोऽपि तु साम्यमूलकेषु रूपकोत्प्रेक्षातिशयोक्त्यादिषु अलंकारेषु तथैव दाक्ष्यं धत्ते । यधुपमाया व्यापकोऽर्थो गृह्येत तर्हि एषामप्यलंकाराणां संग्रहोऽत्र संभाव्यते । 'उपमा कालिदासस्य' इत्यत्र तात्त्विकदृष्टया व्यापकोऽर्थोऽभिप्रेतः । एवं चोत्प्रेक्षादीनामत्र समाहारः। यथा-'ध्रुवं स नीलोत्पलपत्रधारया, शमीलतां छेत्तमषिय॑वस्यति' (शाकू०१-१८) शकुन्तलायाः तपःसाधनं कमलपत्रेण शमोलताछेदनमिवास्ते । अत्रोत्प्रेक्षाया उपमामूलकत्वम् । शकुन्तला विद्युद्वदास्ते । न प्रभातरलं ज्योतिरुदेति वसुधातलात्' ( शाकु० १-२६ ), अत्राप्रस्तुतप्रशंसाया उपमामूलकत्वम् । संगमवर्णने मालोत्प्रेक्षाया उपमामूलकत्वम् यथा-'क्वचिच्च कृष्णोरगभूषणेव, भस्माङ्गरागा तनुरीश्वरस्य' ( रघु० १३-५७) पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः। लतावधूभ्यस्तरवोऽप्यवापुविनम्रशाखाभुजबन्धनानि ॥ कु० ३-३९ लता वधूवद् व्यवहरन्ति । अत्रौपमामूलकं रूपकम् । क इह रघुकारे न रमते-कस्याभिरूपस्य रघुवंशं न प्रियम् । रघुवंशं वस्तुतः कालिदासस्य कवित्वपरिपाकस्य चरमोत्कर्षः । कालिदासस्य प्रतिभाया यादृशः परिष्कारो वैशारा वैशद्यं च रघुवंशे निरीक्ष्यते न तथाऽन्यत्र । 'कलासीमा काव्यम्' काव्येषु च रघुवंशम् । अत्र न केवलम् उपमाया एव प्राधान्यम्, अपि तु अन्येषामपि शब्दालंकाराणाम् अर्थालंकाराणां च विनिवेशो यथायथं विधीयते । रसदृष्ट्या, भावदृष्टया, भाषादृष्टया, कथासंयोजन-सौष्ठवदृष्टया, चरित्रचित्रणदृष्टया, रुचिरसंलापदृष्ट्या, अन्यया वा कयाचिद् दृष्ट्या परीक्ष्यते समीक्ष्यते चेत् तहि रघुवंशं सर्वेषामपि विपश्चितां हृदयावर्जकत्वेन सरसत्वेन मनोज्ञत्वेन भावाभिव्यञ्जनदक्षत्वेन च प्रीतिपात्रं स्तुतिपात्रं श्रद्धास्पदं चास्ते । अत एवोच्यते-कालिदास एवैकः कविः । 'कविः कालिदासः ।' Page #120 -------------------------------------------------------------------------- ________________ ३०. भारवेरर्थगौरवम् ( नारिकेलफल - संमितं वचो भारवेः ) अर्थदीधितिसंदीप्ता, विज्ञपद्म विकासिनी । ज्ञानालोकसदादर्शा, भा रवेरिव भारवेः ॥ ( कपिलस्य ) भारवेर्वृत्तम् — महाकविर्भारविः ईसवीयाब्दस्य षष्ठ्यां शताब्द्यां जनिमवाति ६३४ ईसवीये लिखितेन 'ऐहोल' - ( Aihole ) शिलालेखेन निर्विवादं निर्णीयते । उदीर्यते च तत्र रविकीर्तिना - येनायोजि नवेऽश्म स्थिरमर्थविधौ विवेकिना जिनवेश्म | स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥ अवन्तिसुन्दरीकथामाश्रित्य दाक्षिणात्योऽयमिति विपश्चिद्भिः स्वीक्रियते । स चायं पुलकेशिद्वितीयस्यानुजस्य विष्णुवर्धनस्य सभापण्डितोऽभूत् । तस्य कृतिरेकैव 'किरातार्जुनीयम्' इति समधिगम्यते । समुपलब्धमनेनानुपमं यशः स्वकीयेन अर्थभारभरितेन किरातार्जुनीय - महाकाव्येन । किरातार्जुनीयस्य वैशिष्ट्यम् -- किरातार्जुनीयमदो गुणत्रय-समन्वित - त्वाद् भाषासौष्ठवाद् भावागाम्भीर्याद् रसान्वितत्वाद् अलंकारालंकृतत्वात् कल्पनाप्रचुरत्वात् सायासरचनानैपुण्याद् विद्वज्जनकण्ठहारत्वम् अगात् । कृतिरियं तस्यार्थगौरवसम्पन्नेति दर्श दर्श विपश्चिद्भिः 'भारवेर्थगौरवम्' इति साह्लादमुद्गीर्यते । महाकाव्यस्यैतस्य टीकाकृत् श्रीमल्लिनाथः काव्यमेतद् नारिकेलफलेनोपमिमीते, बहिः अर्थंगाम्भीर्यमूलकक्लिष्टत्वाद् अन्तश्च सरसार्थवत्त्वाद् रसाप्लुतत्वम् । उक्तं च नारिकेलफलसंमितं वचो भारवेः सपदि तद् विभज्यते । स्वादयन्तु रसगर्भनिर्भरं सारमस्य रसिका यथेप्सितम् ॥ मल्लिनाथः काव्यमेतद् बृहत्त्रय्यामन्यतमं गण्यते । ग्रन्थद्वयं चान्यद् वर्तते - माघविरचितं शिशुपालवधम्, श्रीहर्षप्रणीतं नैषधीयचरितं च । समग्रेऽपि संस्कृतवाङ्मये नैतादृशम् ओजोगुणसमन्वितं काव्यान्तरम् । अष्टादशात्र सर्गाः । किरातवेषधारिणा शिवेन सहार्जुनस्य संगरोऽत्र वर्ण्यते । वीररसोऽत्र प्रधानः, रसाश्चान्ये गौणाः । श्री - समन्वितं काव्यमेतदिति संसूचनाय 'श्री' शब्देन महाकाव्यमारभते, प्रतिसर्गान्ते च 'लक्ष्मी' शब्दं प्रयुङ्क्ते । 1 'दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु' ( कि० १.४६ ) इत्यनेन भारवेस्तरणिवत् काव्याकाशे भासमानत्वं ज्योतिर्वलयितत्वं च व्यज्यते । निराशासन्त्रस्तस्वान्ते प्रकाशकिरण प्रकाशनेन व्यपगमयति मोहतिमिरम् । 'पुरुषस्तावदेवासो यावन्मानान्न हीयते ( कि० ११-६१ ) । ' जन्मिनो मानहीनस्य तृणस्य च समा गतिः' ( कि० ११-५९ ) । Page #121 -------------------------------------------------------------------------- ________________ १०४ संस्कृतनिबन्धशतकम् भारवेः अभिनवशैलीसंस्थापकत्वम्-भारविः संस्कृतवाङ्मये अभिनवायाः शैल्याः प्रवर्तकः । काव्ये किस् अर्थगौरवमेव स्यात्, भाषालावण्यं वा, भावगाम्भीर्य वा, सरसा परिष्कृता पदावली वा, प्रौढो बन्धो वेति प्रतिपुरुषं रुचिवैचित्र्यात् नेक: साधीयान् अध्वा । एतदेव विव्रियमाणेन तेन रुचिभेदोऽभिधीयते स्तुवन्ति गुरुमभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः। इति स्थितायां प्रतिपूरुषं रुचौ, सुदुर्लभाः सर्वमनोरमा गिरः ॥ कि० १४-५ इति विप्रतिपत्तौ कतमा सरणिरास्थेयेति विवेचयता तेन स्वाभिमतम् उपस्थाप्यते यत् काव्ये प्रसाद-माधुर्यगुणसंयोजनेन पदानां विशदत्वम्, अर्थगौरवसमन्वितत्वं, पुनरुक्तिदोषाभावः, वर्णनानां क्रमबद्धत्वम् अनिवार्यम् । एवं स गुणालंकाररसभावानां समन्वयम् ईहते-- स्फुटता न पदैरपाकृता, न च न स्वीकृतमर्थगौरवम् । रचिता पृथगर्थता गिरां, न च सामर्थ्यमपोहितं क्वचित् ॥ कि० २-२७ 'शक्तिनिपुणता....."काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे' ( काव्य० १-३ ) इति मम्मटोक्तिमनुसृत्य शक्ति नैपुण्यम् अभ्यासं चान्तरेण न काव्यत्वं सिद्धयति । भारविस्तत्र प्राकृत-पुण्यकर्मणां परिपाकेनैव प्रसन्नगम्भीरपदायाः सरस्वत्या उद्भवं प्रतिपादयति । पुण्यपारिपाकेनैव श्रुतिमधुरा वाग् उदेति-- विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥ कि० १४-३ न केवलम् अगाधपाण्डित्यमेव काव्यत्वजनकम्, अपि तु निरन्तराभ्यासेन उत्कटसाधनया च गम्भीरार्थस्य सरलया शैल्याऽभिव्यक्तिः संभाव्यते । साधनयैव स्वाभीष्टभावाभिव्यक्ति:-- भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये। नयन्ति तेष्वप्युपपन्ननैपुणा गभीरमथं कतिचित् प्रकाशताम् ॥ कि० १४-४ काव्यासौन्दर्यम्--काव्ये विस्तारमपास्य अर्थगौरवसमन्वितस्य संक्षिप्तस्य वाक्यजातस्य प्रयोगस्तथैव सुखदः परिणामसुखश्च, यथाऽल्पस्य महाप्रभावस्य भेषजस्य प्रयोगो महाव्याधिनिराकरणेन सुखावहः । तादृश्येव वचोयुक्ति: काव्ये साधीयसी-- परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् । अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥ कि० २-४ भारवेः काव्यसौन्दर्यम् उद्वीक्ष्यैवास्य 'आतपत्र-भारविः' इत्युपनाम संजातम् । वात्ययोद्गतः पद्मरागो वियति सवर्ण-आतपत्र-लक्ष्मी धत्ते । सवर्णछत्रस्य व्योम्नि कल्पनैव कविम् ‘आतपत्रम्' आपादयति । Page #122 -------------------------------------------------------------------------- ________________ १०५ भारवेरर्थगौरवम् उत्फुल्लस्थलनलिनीवनादमुष्मा दुद्भूतः सरसिजसंभवः परागः। वात्याभिवियति विवर्तितः समन्ता दाधत्ते कनकमयातपत्रलक्ष्मीम् ॥ कि० ५-३९ जलक्रीडावर्णने संभोगशृङ्गारस्य रुचिरं चित्रमुपन्यस्यति । पत्या कामविह्वलायाः कामिन्या हस्ते गृहीते आर्द्रमेखलैव वस्त्रनिरोधेन सखीवद् लज्जारक्षणं चकार विहस्य पाणौ विधृते धृताम्भसि, प्रियेण वध्वा मदनाचेतसः। सखीव काञ्ची पयसा घनीकृता, बभार वीतोच्चयबन्धमंशुकम् ॥ कि० ८-५१ अर्जुनस्य शराः किमिति समुद्रवीचिवद् असंख्यतामुपयान्ति, किमत्र देवानां परोक्षं साहाय्यम्, कारणान्तरं वा ? उत्प्रेक्षामाधुर्यमत्र द्रष्टव्यम् । हृता गुणैरस्य भयेन वा मुनेस्तिरोहिताः स्वित् प्रहरन्ति देवताः। कथं न्वमी संततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः॥ कि० १४-६१ भाषासौष्ठवम्-भारवर्भाषायां लालित्यस्य माधुर्यस्य प्रौढत्वस्य च समीचीनः समन्वयो लक्ष्यते। भावानुकूलाया शब्दावल्या विनियोगस्तस्य प्रमुखं वैशिष्टयम् । शब्दालंकाराणाम् अर्थालंकाराणां च प्रतिपदमुपन्यासः सचेतसां चेतांसि नितरामावर्जयति । तपस्यार्थ प्रस्थातुकामस्यार्जुनस्य कथमिव संगीतात्मकं वर्णनम् ? अकृत्रिमप्रेमरसाभिरामं रामापितं दृष्टिविलोभि दृष्टम् ।। मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः॥ कि० ३-३७ एकाक्षरात्मकः श्लोकोऽयं तस्य वाग्वैभवं द्योतयति न नोननुन्नो मुन्नोनो नाना नानानना ननु । नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ कि० १५-१४ सर्वतोभद्रविरचनं तस्य श्रमजयित्वं सूचयति देवाकानिनि कावादे वाहिकास्वस्वकाहि वा। काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ कि०१५-२५ अर्थचतुष्टयसमन्वितस्य महायमकस्य प्रयोगो यथाविकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः। विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः॥ कि० १५-५० भावगाम्भीर्यम्-महाकवि रविविविधविद्यापारदृश्वा अनेकशास्त्रनिष्णातश्च । तस्य वैदिकसाहित्ये, दर्शनेषु, धर्मशास्त्रेषु, राजनीतिशास्त्रे, कामशास्त्रे, पुराणेषु, काव्य-अलंकार-नाट्यशास्त्रेषु अस्खलिता गतिः । अतएव Page #123 -------------------------------------------------------------------------- ________________ १०६ संस्कृतनिबन्धशतकम् तस्य काव्यार्थज्ञानाय अनेकशास्त्रावगाहि ज्ञानमपेक्ष्यते । आगमो दीप इवार्थदर्शने कृत्याकृत्यविवेचने च प्रभवति मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥ कि० २-३३ सार्थकेषु शब्देषु भावा इव पार्थशरेषु जयो विनिश्चित: संस्कारवत्त्वाद् रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु । जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥ कि० १७-६ विवेकानुगतः पराक्रमः सिद्धिसाधने क्षमः, इत्येतद् एकावल्यलंकारमाश्रित्य समर्थ्यते शुचि भूषयति श्रुतं वपुःप्रशमस्तस्य भवत्यलंक्रिया। प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥ कि० २-३२ अर्थगौरवम्-किरातार्जुनीये शतशः सूक्तिमुक्तानां विनिवेशो भारवेर्गुणगौरवं व्यनक्ति । तस्य विविधशास्त्रावगाहिनी नवनवोन्मेषशालिनी च प्रज्ञा सततम् अभिनवम् अर्थं प्रसूते । विद्युद्वद् विद्योतमानास्तस्य सूक्तयः तमःप्रसरमलिनेऽपि चेतसि प्रखरांशुवद् ज्ञानज्योतिः प्रसारयन्ति । प्रतिपदम् अर्थगाम्भीर्यावेक्षणादेव 'भारवेरर्थगौरवम्' इति सामोदमुद्घोष्यते। अविमृश्यकारित्वस्य दोषस्तेनोद्भाव्यते सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः॥ कि० २-३० मृदुत्वतीक्ष्णतयोः समन्वयेनैव लोके विजयश्रीलाभ:समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् । अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ॥ कि० २-३८ भौतिकविषयाणां दुःखोदकत्वं नश्वरत्वं च कथं साधूपस्थाप्यते शरदम्बुधरच्छायागत्वों यौवनश्रियः। आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ कि० ११-१२ शौर्यस्य कोपस्य च समन्वयेनैव लोकजयित्वं संभाव्यते-- अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः। अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः॥ कि० १-३३ 'शठे शाठ्यं समाचरेत्' इति नीतिर्न जातु विस्मरणीयाव्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । कि० १-३० तेन गुणार्जनस्य महत्त्वं बहुधा प्रतिपाद्यते-'सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम्' ( कि० ११-११), 'गुरुतां नयन्ति हि गुणा न संहतिः' ( कि० १२-१०), 'गुणाः प्रियत्वेऽधिकृता न संस्तवः' (कि० ४-२५ ), Page #124 -------------------------------------------------------------------------- ________________ भारवेरर्थगौरवम् १०७ स्वावलम्बनेनैव सततं समुन्नतिः 'विनिपातनिवर्तनक्षम, मतमालम्बनमात्मपौरुषम्' (कि० २-१३ )। .. राजनीतिविषयकाः शतशः सूक्तयोऽत्रोपलभ्यन्ते–'प्रकर्षतन्त्रा हि रणे जयश्रीः' ( ३-१७ ), 'परमं लाभमरातिभङ्गमाहुः' (कि० १३-१२), अधिकबलवता विरोधो नोचितः 'प्रार्थनाधिकबले विपत्फला' (कि० १३-६१), नीतेराश्रयणेनैव लोकप्रियत्वम् 'नयहीनादपरज्यते जनः' (कि० २-४९), नृपसचिवयोः ऐकमत्यं सर्वसिद्धिकरम् 'सदाऽनुक्लेषु हि कुर्वते रति, नृपेष्वमात्येषु च सर्वसंपदः' ( कि० १-५ ) । यथा च–'हितं मनोहारि च दुर्लभं वचः' ( १-४), 'सुदुर्लभाः सर्वमनोरमा गिरः' ( १४-५), 'वसन्ति हि प्रेम्णि गुणा न वस्तुनि' ( ८-३७), 'वरं विरोधोऽपि समं महात्मभिः' (१-८), 'ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः (२-२०), 'न रम्यमाहार्यमपेक्षते गुणम्' (४-२३ ), 'कामाः कष्टा हि शत्रवः' ( ११-३५ ), 'गुणगृह्या वचने विपश्चितः' ( २-५ ), 'भवन्ति गोमायुसखा न दन्तिनः' ( १४-२२)। एवं भारवेः प्रतिपदं भावसौष्ठवम् अर्थगाम्भीर्यं च संलक्ष्यते । Page #125 -------------------------------------------------------------------------- ________________ ३१. दण्डिनः पदलालित्यम् ( १. कविर्दण्डी कविर्दण्डी कविर्दण्डो न संशयः । २. त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ) निर्दण्डोऽपि यो दण्डी यतिर्दशकुमारकृत् । काव्यादर्शो निरादर्शः सुन्दरीं श्रयते मुनिः ॥ १ ॥ सकषायोsपि यो दण्डी नाम्ना दण्डी न चेतसा । विरक्तो योऽविरक्तोऽपि यतिसंज्ञो यतिच्युतः ॥ २ ॥ ( कपिलस्य ) दण्डिनो जीवनवृत्तं कृतित्वं च - महाकवेर्दण्डिनो जीवनकालविषये सन्ति बहवो विप्रतिपत्तयः । समासतः पक्षद्वयं मुख्यत्वेनाङ्गीक्रियते । केचन ईसवीयाब्दस्य षष्ठशताब्द्या अन्तिमे चरणेऽस्य जनिमुररीकुर्वन्ति, अन्ये च सप्तमशताब्द्या उत्तरार्धे । राजशेखरेण कविरसौ प्रबन्धत्रयस्य प्रणेतेति प्रतिपाद्यते । विषयेऽस्मिन्नपि प्रचुरो विवादः । काव्यादर्शो दशकुमारचरितं चेति ग्रन्थद्वयं तु सर्वैरेव स्वीक्रियते दण्डिनः कृतित्वेन । अवन्तिसुन्दरीकथेति खण्डश उपलब्धा कृतिस्तृतीयेति मन्यते मनीषिभिः कैश्चित् । दण्डिनः संस्कृतसाहित्ये स्थानम् - दशकुमारचरितमाश्रित्येव अस्य महती महनीयतेति नात्र विप्रतिपत्तिविदुषाम् । गद्यकाव्यस्यैतस्य गौरवं पदलालित्यं च प्रेक्षं प्रेक्षं प्रेक्षावतां प्राप्यन्ते प्रभूतानि प्रचुरप्रशस्तिपूर्णानि पद्यानि । यथा— "कविर्दण्डी कविर्दण्डी कविर्दण्डी न संशयः" इत्यादीनि । केचन वाल्मीके - र्व्यासस्य चानन्तरं दण्डिनमेव महाकवित्वेन आकलयन्ति । “जाते जगति वाल्मीक कविरित्यभिधाऽभवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ।” मथुराविजयमहाकाव्यस्य रचयित्री गङ्गादेवी ( १३८० ई० ) तु दण्डिनो वाचं सरस्वत्या मणिदर्पणमेव मनुते । 'आचार्य दण्डिनो वाचामाचान्तामृतसम्पदाम् । विकासो वेधसः पत्न्या विलासमणिदर्पणम् ।' दण्डिनः पदलालित्यम् – किं नाम पदलालित्यम् ? कथं चैतेन काव्यस्य महत्त्वमभिवर्धते ? सुप्तिङन्तं पदमिति, सुबन्तं तिङन्तं वा पदमित्यभिधीयते । - ललितस्य भावो लालित्यं माधुर्यमिति । यत्र पदेषु वाक्येषु शब्दसंघटनायां माधुर्यं श्रुतिसुखदत्वं वा समुपलभ्यते, तत्र पदलालित्यमिति मन्यते । पद- लालित्यं शब्दसौष्ठवं चावर्जयति सचेतसां चेतांसीति गुणोऽयं गरिमाणं तनुते काव्यस्य । दशकुमारचरिते दृश्यते गुणस्यैतस्य गौरवम् । तच्चेह समासतो व्याचिख्यासितम् । मृद्वीका रस-भारभरितेव भारती दण्डिन आचार्यस्य । सुधीभिरास्वादनीयं समीक्षणीयं चैतस्या माधुर्यम् । राजहंसस्येव राज्ञो राजहंसस्य सुषमां समव Page #126 -------------------------------------------------------------------------- ________________ दण्डिनः पदलालित्यम् १०९. लोकयन्तु सन्तः। "अनवरतयागदक्षिणारक्षितशिष्टविशिष्टविद्यासंभारभासुरभूसुरनिकरः,.... 'राजहंसो नाम घनदर्पकन्दर्पसौन्दर्यसोदर्यहृद्यनिरवद्यरूपो भूपो बभूव" (पूर्वपीठिका उच्छ्वास १) । राजहंसस्य महिषी वसुमती ललना-- कुलललामभूताऽभूत् । “तस्य वसुमती नाम सुमती लीलावतो कुलशेखरमणी रमणो बभूव" ( पूर्वपीठिका उच्छ्वास १ )। ___मालवेश्वरस्य प्रस्थानवर्णनं कुर्वताऽभिधीयते तेन-'मालवनाथोऽप्यनेकानेकपयूथसनाथो विग्रहः सविग्रह इव साग्रहोऽभिमुखीभूय भूयो निर्जगाम" ( पूर्वपो० उ० १ ) राजहंसश्च मालवराजचमं स्वसैन्यसहितोऽवारुणत् । 'राजहंसस्तु प्रशस्तवीतदैन्यसैन्यसमेतस्तीव्रगत्या निर्गत्याधिकरुषं द्विषं रुरोध" (पूर्वपी० उ० १ )। विजयार्थं प्रस्थातुकामानां कुमाराणां यमकालंकारालंकृतं वर्णनमदो दण्डिनो वाग्वैभवमेवाविर्भावयति । "कुमारा माराभिरामा रामाद्यपौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेन यानेनाभ्युदयाशंसं राजानमकार्षः" (पूर्वपी० उ०२)। ऐन्द्रजालिककृतेन्द्रजालप्रदर्शनरूपेण फणिनां वर्णनमेतत्-'तदनु विषमं विषमुल्बणं वमन्तः फणालंकरणा रत्नराजिनीराजित राजमन्दिराभोगा भोगिनो भयं जनयन्तो निश्चेरुः' (पूर्वपी० उ० ५)। कविर्दण्डी कविर्दण्डी कविर्दण्डी न संशयः-दण्डिनो भावभाषामाधुर्यं रचनाकौशलं मनोभावाभिव्यञ्जनदक्षत्वं रसप्रवणत्वं सालंकृतत्वं च निरीक्ष्य विपश्चित्तल्लजैः दण्डी एव कविपदमहतीति 'कविर्दण्डी' इति सादरम् उद्घोष्यते । निदर्शनरूपेण केचन सन्दर्भाः प्रस्तूयन्ते । आस्तरणमधिशयानाया राजकन्याया वर्णनमेतद् दण्डिनः सूक्ष्मेक्षिकया ईक्षणं वर्णनवैदग्ध्यं चाविष्करोति । 'अवगाह्य कन्यान्तःपुरं प्रज्वलत्सु मणिप्रदीपेषु..... कुसुमलवच्छरितपर्यन्ते पर्यङ्कतले...'ईषद्विवृतमधुरगुल्मसंधि, आभुग्नश्रोणिमण्डलम्, अतिश्लिष्टचीनांशुकोत्तरीयम्, अनतिवलिततनुतरोदरम्, अर्धलक्ष्याधरकर्णपाशनिभृतकुण्डलम्, आमीलितलोचनेन्दीवरम्, अविभ्रान्तभ्रूपताकम्... 'चिरविलसनखेदनिश्चलां शरदम्भोधरोत्सङ्गशायिनीमिव सौदामिनी राजकन्यामपश्यत्' ( उत्तर पी० उ० २)। राज्ञो धर्मवर्धनस्य दुहितरमुपवर्णयति । 'तस्य दुहिता प्रत्यादेश इव श्रियः, प्राणा इव कुसुमधन्वनः, सौकुमार्य-विडम्बितनवमालिका, नवमालिका नाम कन्यका' ( उ० पी० उ० ५ ) । गिरिवरं च वर्णयन्नाह–अहो रमणीयोऽयं पर्वतनितम्बभागः, कान्ततरेयं गन्धपाषाणवत्युपत्यका, शिशिरमिदमिन्दीवरारविन्दमकरन्द-बिन्दु-चन्द्रकोत्तरं गोत्रवारि, रम्योऽयमनेकवर्ण-कुसुममञ्जरीभरस्तरुवनाभोगः।' Page #127 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् उत्तरपीठिकायां समग्रः सप्तमोच्छ्वास ओष्ठ्यवर्णरहितः । एतादृशं निबन्धनमपूर्वमदृष्टचरं च विशालेऽपि विश्ववाङ्मये । ओष्ठयवर्णपरिहारेऽपि न परिहीयतेऽत्र शब्दसौष्ठवं पदलालित्यं च । यथा - 'आर्य, कदर्यस्यास्य कदर्थनान कदाचिन्निद्रायाति नेत्रे' । “सखे सैषा सज्जनाचरिता सरणिः, यदणीयसि कारणेऽनणीयानादरः संदृश्यते' | 'असत्येन नास्यास्यं संसृज्यते' । 'चिरं चरितार्था दीक्षा' । 'न तस्य शक्यं शक्तेरियत्ताज्ञानम्' । 'दिष्टया दृष्टेष्टसिद्धिः । इह जगति हिन निरीह देहिनं श्रियः संश्रयन्ते । श्रेयांसि च सकलान्यनलसानां हस्ते सन्निहितानि' । ' असिद्धिरेषा सिद्धि:, यदसन्निधिरिहार्याणाम् । कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याजयति । न च निषेधनीया गरीयसां गिर:' । ' तच्छरीरं छिद्रे निधाय नीरान्निरयासिषम्' । 'दृश्यतां शक्तिरार्षी, यत्तस्य यतेरजेयस्येन्द्रियाणां संस्कारेण नीरजसा नीरजसान्निध्यशालिनि सरसि सरसिजदलसंनिकाशच्छायस्याधिकतर दर्शनीयस्याकारान्तरस्य सिद्धिरासीत्' । 'बहुश्रुते विश्रुते विकचराजीव- सदृशं दृशं चिक्षेप देवो राजवाहन:' ( उत्तर पी० उ०७ ) । 1 पदमाधुर्यम् - यथा—' न मां स्निग्धं पश्यति, न स्मितपूर्वं भाषते, न रहस्यानि विवृणोति न हस्ते स्पृशति न व्यसनेष्वनुकम्पते, नोत्सवेषु अनुगृह्णाति · । मृगयालाभांश्च निर्दिशति । शाकुन्तले द्वितीयाङ्के वर्णितेन मृगयालाभेन साम्यमेतद् भजते । 'यथा मृगया द्योपकारिकी, न तथान्यत् मेदोऽपकर्षादङ्गानां स्थैर्यं कार्कश्यातिलाघवादोनि, शीतोष्णवातवर्षक्षुत्पिपासासहत्वम्, सत्त्वानामवस्थान्तरेषु चित्तचेष्टितज्ञानम्' ( उत्तर पी० उ० ८ ) । एवं संलक्ष्यते दण्डिनः कृतौ शब्दयोजनसौष्ठवमनुप्रासमाधुर्यं यमकयोजनं वर्णनवैशद्यम् ओष्ठयवर्णपरिहाराचितं रम्यं वर्णनम्, उक्तिप्रत्युक्तिप्रशस्तं पदे पदे पदलालित्यम् । सर्वमदस्तस्य कृतौ कमनीयतामादधाति । यो दण्डिप्रबन्धाश्च ० १ - राजशेखरेण शार्ङ्गधरपद्धतौ पद्यमिदं 'प्रस्तूयते यत् ११० योऽग्नयस्त्रयो देवास्त्रयो वेदास्त्रयो गुणाः । त्रयोदण्डिप्रबन्धाश्चषु लोकेषु विश्रुताः ॥ अत्र ‘त्रयो दण्डिप्रबन्धाश्च' इत्याश्रित्य सुधीभिः दण्डिनो ग्रन्थत्रयस्यान्वेषणम् आरब्धम् । दण्डिनः कृतित्वेन ग्रन्थषट्कं मन्यते – १. दशकुमारचरितम्, २. काव्यादर्शः, ३. अवन्तिसुन्दरीकथा, ४. छन्दोविचितिः, ५. कलापरिच्छेदः, ६. द्विसन्धानकाव्यम् । १. विस्तृत विचेनार्थं द्रष्टव्यम् — लेखककृत - संस्कृत साहित्य का समीक्षात्मक इतिहास, पृष्ठ ४६६-४७१ । Page #128 -------------------------------------------------------------------------- ________________ दण्डिनः पदलालित्यम् १११ दण्डिनो ग्रन्थद्वयम्-दशकुमारचरितं काव्यादर्शश्च प्राप्यते । दशकुमारचरितं काव्यादर्शश्च तद्विरचिते इति नात्र संशीतिः। केचन 'अवन्तिसुन्दरीकथा' इति ग्रन्थं तृतीयं मन्यन्ते, परं डा० कीथमहोदयस्य मतमत्र समीचीनं प्रतिभाति यत् शैल्या भिन्नत्वाद् अप्रामाणिकत्वाच्च नेयं दण्डिनः कृतिः, अपितु कस्यचिदन्यस्य लेखकस्य कृतिः । काव्यादर्श छन्दोविचितिः, कलापरिच्छेदश्चेति ग्रन्थद्वयं तस्य कृतित्वेन निर्दिश्यते, परं ग्रन्थद्वयमेतत् छन्दःकलाविषयकं लघुकायं परिशिष्टरूपात्मकं प्रतीयते । तस्य 'द्विसन्धानकाव्यम्' अद्यावधि अप्राप्यम् । तदुपलब्धौ तस्य प्रामाण्यं वक्तुं सुकरम् । एवं तस्य ग्रन्थद्वयमेव प्राप्यम् । तृतीयं चानुसन्धेयम् । Page #129 -------------------------------------------------------------------------- ________________ ३२. माघे सन्ति त्रयो गुणाः माघस्य कवित्वम्-महाकविर्माघः सुरगवी-काव्याकाशे विद्योतमानं स्वप्रभानिरस्तान्य-तेजः प्रसरम् अनुपमं नक्षत्रम् । तस्यापूर्वा कान्तिः समग्रमपि वाङ्मयं रोचयतितमाम् । तस्य विविधशास्त्रावगाहिनी सूक्ष्मेक्षिका प्रतिभा सुसूक्ष्ममपि तथ्यम् आत्मसात्कृत्वा पुरः स्फुरदिव प्रस्तौति । कविरयं न केवलं काव्यशास्त्रस्यैव पारदृश्वा, अपि तु व्याकरणशास्त्रस्य, राजनीतेः, अर्थशास्त्रस्य, धर्मशास्त्रस्य, कामशास्त्रस्य, दर्शनानाम्, ज्योतिषस्य, संगीतस्य, पाकशास्त्रस्य, हस्तिविद्यायाः, अश्वशास्त्रस्य, पुराणादीनां च सारविदनुपमो मनीषी । अस्य चमत्कृतिकरं पाण्डित्यं प्रेक्षं प्रेक्षं प्रेक्षावन्तोऽस्य कवित्वं प्रशंसन्ति । माघस्य गौरवम्-केचन माघस्य कवित्वं तथाऽऽह्लादकरं मन्यते यत्ते तदर्थं स्वजीवनसमर्पणमपि सुन्दरं मन्यन्ते । अतएव साधूच्यते-'मेघे माघे गतं वयः' अर्थात् मेघदूतस्य शिशुपालवधस्य चानुशीलने आयुर्व्यतीतम् । काव्येऽस्मिन् तस्य विशालं शब्दकोशमुवीक्ष्य केनापि निगद्यते-'नवसर्गगते माघे नवशब्दो न विद्यते' अर्थात् शिशुपालवधस्य नवसर्गाणां समाप्तौ न नवीनः शब्दोऽवशिष्यते। तेन नवसर्गेषु तथा नवनवाः शब्दाः प्रयुक्ताः, तथा तत्र शब्दकोष-राशिरुपलभ्यते । तस्य काव्ये प्रतिपदं पद-लालित्यं माधुर्यम् च प्रेक्ष्य विपश्चिद्भिरुदाह्रियते—'काव्येषु माघः' इति । अनर्घराघवनाटककतो मुरारेः पाण्डित्यपरिपूर्ण नाटकं प्रेक्ष्य केनाप्यभिधीयते यद् मुरारिजिज्ञासितश्चेद् माघे मन आधेयम्, 'मुरारिपदचिन्ता चेत् तदा माघे रतिं कुरु'। भारवि सर्वतोभावेन भावावल्याऽतिशयानं माघं प्रेक्ष्य केनापि निगद्यते-तावद् भा भारवे ति यावन्माघस्य नोदयः'।। माघस्य कृतित्वम्--कवरेतस्य गौरवाधायक ग्रन्थरत्नम् एकमेव 'शिशुपालवध'-नामकम् उपलभ्यते । अस्मिन् महाकाव्ये विंशतिः सर्गाः, १६४५ श्लोकाश्च विद्यन्ते । १५ सर्गे क्षेपकाः श्लोकाः ३४, ग्रन्थान्ते च कविवंशवर्णनश्लोकाः ५, तेषामपि समाहारे श्लोकसंख्या १६८४ भवति । __ माघस्य वैशिष्टयम्-विपश्चिद्भिः महाकवेः कालिदासस्य कतिषु उपमानां प्राधान्यम्, भारवेः कृतौ किरातार्जुनीये अर्थगौरवस्य वैशिष्टयम्, दण्डिनः कृतौ दशकुमारचरिते पदलालित्यम्, माघस्य च कृतौ शिशुपालवधे त्रयाणामपि पूर्वोक्तानां गुणानां समन्वयं समीक्ष्य साह्लादम् उद्घोष्यते यद्-. ___ उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः॥ एतदत्रावधेयं यद् माघो यद्यपि त्रयाणामपि गुणानां स्वकाव्ये समाहारं विधत्ते, तत्र तत्र च वैशिष्ट्यं सौन्दर्य माधुर्यं चापि धत्ते, तथापि नोपमाप्रयोगे Page #130 -------------------------------------------------------------------------- ________________ माघे सन्ति त्रयो गुणाः ११३ स कालिदासम् अतिशेते, अर्थंगौरवे च भारविम् । पदलालित्ये नूनं स दण्डिनम् अतिशेते । तस्य पदमाधुर्यं सर्वातिशायि । माघः त्रयाणामपि गुणानां संकलने नितरां साफल्यम् अवापेत्येवं तस्य महत्त्वम् । तस्य च तादृशं प्रावीण्यं यथा नानाविधवर्णने तस्याप्रतिहता प्रतिभा । माघस्य शैली - महाकवेर्माघस्य भावपक्षापेक्षया कलापक्षः प्रशस्यतरः । यद्यपि भावपक्षस्यापि मनोज्ञत्वं माधुयं हृद्यत्वं च पदे पदेऽवलोक्यते तथापि नात्र कस्यापि सुधियो विप्रतिपत्तिः यन्माघः कलापक्षाश्रयणे कवीन् अन्यान् अतिशेते । क्वचिद् अलंकार प्रयोगाः, विशेषतश्चित्रालंकारप्रयोगाः क्वचिद् व्याकरण- नैपुण्य-प्रदर्शनम् क्वचिद् छन्दोरचना- दक्षतोपयोगः क्वचिद् यमकाद्यलंकाराणां प्रयोगबाहुल्यम्, क्वचित् कोमल-कान्त - पदावल्याः संधानम्, क्वचित् शास्त्रीय-पाटव- प्रदर्शनम्, तस्य कलात्मिक्या रुचेः परिचायकानि सन्ति । महाकविभर विस्तस्य आदर्शरूपोऽभूत् । तस्य सरणिमनुसृत्य सोऽपि कलात्मकपाण्डित्य-प्रदर्शने कृतमतिरभूत् । भारवेः स्वोत्कर्षं साधयितुं स तदीयां सरणिम् अनुसृत्य तत्रोत्कर्षम् अवाप । कलापक्षाश्रयणे स न केवलं भारविमेव, अपि तु महाकवि भट्टिमपि अतिक्रामति । , माघस्योपमा - वैशिष्टयम् - माघे सुरुचिपूर्णाः शतश उपमाः समुपलभ्यन्ते । तत्र क्वचित् शास्त्रीयं ज्ञानम्, क्वचित् काव्यगौरवम् क्वचिद् नीतिशास्त्रतत्त्वम् क्वचिच्च विविधविद्याविशारदत्वं तस्य गरिमाणं प्रथयति । संगीतशास्त्रस्य काव्यशास्त्रस्य च महत्त्वं वैचित्र्यं चोपमया प्रकटयति यद् वाङ्मये कतिपये एव वर्णाः सन्ति, संगीतशास्त्रे च सप्त स्वराः, परं तेषामुपादानेन कथमिव वैचित्र्यजनकं शास्त्रम् उदेति वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव । अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ शिशु० २- ७२ भाग्यपुरुषकारयोर्द्वयोरपि परस्परापेक्षित्वम् अनिवार्यत्वेनाङ्गीकरणं च तथैवावश्यकं यथा सत्कवये शब्दार्थयोर्द्वयोरपि संग्रहः । उपमया साध्विद विशदयति सः -- " नालम्बते दैष्टिकतां न निषीदति पौरुषे । शब्दार्थी सत्कविरिव द्वयं विद्वानपेक्षते ॥ शि० २-८६ उपमाप्रयोगे काव्यशास्त्रीयं ज्ञानं संपुष्णता तेनोच्यते यद् यथा संचारिभावाः स्थायिभावं पोषयन्ति, तथैव विजिगीषु नृपमन्ये सहायका:स्थायिनोऽर्थे प्रवर्तन्ते भावाः संचारिणो यथा । रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ शि० २-८७ नीतिशास्त्रविदग्धतां विशदयता तेनोच्यते यद् यथा स्वक्षेमकामेन वृद्धि प्राप्नुवन् रोगो नोपेक्ष्यः, तथैव एधमानोऽरातिरपि नोपेक्षामर्हति- ረ Page #131 -------------------------------------------------------------------------- ________________ संस्कृत निबन्धशतकम् उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ शि० २- १० स्वकवित्वस्य कल्पनामनोज्ञत्वस्य च संकलनं विदधता तेनोच्यते यद् यथा स्वल्पवयस्का बाला मातरम् अन्वेति तथैव प्रातःकालिकी सन्ध्या रजनिम् अनुगच्छति - अनुपतति विरावैः पत्रिणां व्याहरन्ती । रजनिमचिरजाता पूर्वसन्ध्या सुतेव ॥ शि० ११ - ४० उपमा प्रयोगे शास्त्रीयस्य पाण्डित्यस्यापि अपूर्वः समन्वयो दृश्यते । सांख्यदर्शनानुसारं पुरुष उदासीनोऽकर्ता च परं बुद्धिकृतकर्मणां फलभाग् भवति, तथैव साक्षिमात्रोऽपि कृष्ण: सेनाकृतविजयस्य फलभोक्ता भविष्यति - विजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् । फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥ शि० २-५९ ११४ उपमाप्रयोगे मनोज्ञायाः कल्पनाया अपि सदुपयोगः प्रशस्यः । कृष्णं दिदृक्षमाणायाः कस्याश्चिद् रमण्या गवाक्षगतं वदनकमलम् उदयाद्रिकन्दरास्थितसुधांशुमण्डलमिव व्यराजत अधिरुक्म मन्दिर गवाक्ष मुल्लसत् सुदृशो रराज मुजद्दिदृक्षया । वदनारविन्दमुदयाद्रिकन्दराविवरोदर स्थितमिवेन्दुमण्डलम् ॥ शि० १३-३५ नारदश्रीकृष्णयोः सितासिते कान्ती तथैवारोचयतां यथा रात्रौ पत्रान्तरगोचराः सुधांशोर्मरीचयः - रथाङ्गपाणेः पटलेन रोचिषाम् ऋषित्विषः संवलिता विरेजिरे । चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ॥ शि० १-२१ माघस्यार्थगौरवम्--माघेऽर्थगौरवान्वितानां श्लोकानां महती परम्परा । यद्यप्यर्थगौरवं पदे पदे प्रेक्ष्यते, तथापि द्वितीयः सर्गः सर्वातिशायी । तत्र प्रतिपदम् अर्थगौरवं दृग्गोचरताम् उपयाति । कतिपये एव श्लोका उदाहरणार्थम् अत्र प्रस्तूयन्ते । अत्रापि तस्य विविधशास्त्रज्ञता, कल्पनाकाम्यत्वम्, भावोत्कर्षः, सूक्ष्मेक्षणदक्षता, नीतिज्ञता, व्यवहारपाटवम्, लोकाराधनक्षमत्वं च समीक्ष्यते । तस्य कतिपयानि हृद्यानि पद्यानि सुभाषितरूपेण प्रयुज्यन्ते । कृष्ण एव रक्षोनिकरं विनाशयितुं क्षमो यथा भास्करस्तमोनिचयम्— ऋते रवेः क्षालयितुं क्षमेत कः, क्षपातमस्काण्डमलीमसं नभः । शि० १-३८ मनस्विता जीवनोन्नायिका । मानहीनस्य जीवनं तृणमिव तुच्छम् । अनेकशो मनस्वितायाः स्वाभिमानस्य च गुणगौरवं वर्ण्यते कविना - Page #132 -------------------------------------------------------------------------- ________________ माघे सन्ति त्रयो गुणाः पादाहतं यदुत्थाय मूर्धानम् अधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद् वरं रजः ॥ शि० २-४६ सदाभिमानैकधना हि मानिनः ॥ शिशु० १-६७ स्वीयं दर्शनशास्त्रवैदग्ध्यं प्रकटयता तेन दार्शनिकभावानुबद्धा बहवः श्लोका उपन्यस्ताः तद्यथा ११५ सतीव योषित् प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि । शि० १-७२ श्रीकृष्णवर्णने सांख्योक्तपुरुषवर्णनं तेन प्रस्तूयते यद् उदासितारं निगृहीतमानसँगृहीतमध्यात्मदृशा कथंचन । बर्हिविकारं प्रकृतेः पृथग् विदुः पुरातनं त्वां पुरुषं पुराविदः ॥ शि० १ - ३३ रामणीयकस्य लक्षणं तस्य बुद्धिवैशारद्यं सूचयति - क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः । शि० ४ - १७ अर्थगौरववन्तोऽन्ये केचन श्लोका दिङ्मात्रम् उदाह्रियन्ते । तद्यथा— सर्वेषां स्वार्थसिद्धिरेवाभीष्टा । 'सर्वः स्वार्थं समीहते' ( २-६५ ) । सुकविः स्वीये काव्ये गुणत्रयमेवाश्रयते । ' नैकमोजः प्रसादो वा रसभावविदः कवेः ' ( २-८३ ) । सामसहितैव दण्डनीतिः साधीयसी । 'मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते' (२-८५ )। सत्काव्येऽर्थगौरवाधानम् अनिवार्यम् । 'अनुज्झितार्थ - संबन्धः प्रबन्धो दुरुदाहर:' ( २-७३ ) | महान्तो महद्भिरेव विवदन्ते, नाधमैः । 'अनुहुंकुरुते घनध्वनि नहि गोमायुरुतानि केसरी' ( १६-२५ ) । अरातिकृता तिरस्क्रिया दुःसहा । 'परिभवोऽरिभवो हि सुदुःसहः ' ( ६-४५ ) । कट्वपि भेषजं गदहारि । ‘अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम्' ( १९-८९ ) । सन्तः सतामेव गृहाणि अनुगृह्णन्ति । 'गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः' ( १ - १४ ) | कवयो महीपाश्चार्थमेव चिन्तयन्ति । ' कवय इव महोपाश्चिन्तयन्त्यर्थजातम्' ( ११-६ ) । स्त्रीणां रोदनं बलम् । 'रुदितमुदितमस्त्रं योषितां विग्रहेषु' ( ११ - ३५ ) | दैवदुर्विपाको दुर्निवारः । 'हतविलिसितानां ही विचित्रो विपाकः ' ( ११-६४ ) । माघस्य पदलालित्यम् - माघे पदलालित्यं पदे पदे प्राप्यते । पदसौकुमार्यम्, वर्ण- माधुर्यम्, भाषायाः संगीतात्मकत्वम्, भावानुसारि भाषाश्रयणम्, भाषायाम् आरोहावरोहक्रमश्च पदलालित्यं समेधयति । भाषायाः संगीतात्म कत्वं यथा— मधुरया मधुबोधित माधवी - मधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुन्मद- ध्वनिभृता निभृताक्षरमुज्जगे ॥ ( ६-२० ) यमकालंकारालंकृतभाषाश्रयणेन माधुर्यम् । यथा नवपलाशपलाशवनं पुरः, स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत् स सुरभि सुरभि सुमनोभरैः ॥ ( ६-२ ) Page #133 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् भावानुसारि भाषाश्रयणेन सौकुमार्यम् । यथावदनसौरभलोभपरिभ्रमद्-भ्रमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखला- कलकलोऽलकलोल दृशाऽन्यया ॥ ( ६-१४ ) अन्ये च पदलालित्यवन्तः श्लोका दिङ्मात्रम् उदाह्रियन्ते । यथा— 'अचूचुरच्चन्द्रमसोऽभिरामताम् ' (१ - १६), 'न रौहिणेयो न च रोहिणीशः ' ( ३-६० ), 'प्रभावनीके तनवै जयन्तीः प्रभावनी केतनवैजयन्ती:' ( ६–६९), 'विकचकमलगन्धैरन्धयन् भृङ्गमालाः, सुरभितमकरन्दं मन्दमावाति वातः' ( ११–१९ ) । ११६ एवं गुणत्रयेऽपि महनीयत्वं माघस्य प्रशस्यम् । Page #134 -------------------------------------------------------------------------- ________________ ३३. नैषधं विद्वदौषधम् ( १. उदिते नैषधे काव्ये, क्व माघः क्व च भारविः, २. नैषधे पदलालित्यम् ) श्रीहर्षस्य जीवनवृत्तं काव्य-कृतित्वं च-महाकवेरेतस्य जनकः श्रीहीरो जननी मामल्लदेवी च । तथा हि-'श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं, श्रीहीरः सुषवे जितेन्द्रियचयं मामल्लदेवी च यम् ।' (नैषध०१-१४५ ) । कान्यकुब्जेश्वरस्य जयचन्द्रस्याश्रयमाशिश्रियत् कविरयम्, तदादृतिमविन्दत च । 'ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरात्' ( नैषध० २२-१५३ ) । अतोऽस्य जनिकालो द्वादशशताब्द्या उत्तरार्धोऽङ्गीक्रियते । श्रीहर्षो महाकविमहायोगी च। उभयत्रापि चरमोत्कर्षं लेभे । 'यः साक्षात्कुरुते समाधिषु परं ब्रह्म प्रमोदार्णवम् । यत्काव्यं मधुवर्षि' ( नै० २२-१५३ ) । सर्गान्तश्लोकेषु ग्रन्थाष्टकस्यान्यस्य नामग्राहं गृह्यते तेन । तत्र चाद्वैतवेदान्तप्रतिपादकः खण्डनखण्डखाद्यमेवैको ग्रन्थः साम्प्रतमुपलभ्यतेऽन्ये च लुप्तप्राया एव । सायासमेतत् तस्य महाकाव्यं, ग्रन्थयश्चात्र विन्यस्तास्तेन महता श्रमेण । अतः श्रमसाध्य एव महाकाव्यस्यैतस्यार्थावगमोऽपि-- ग्रन्थग्रन्थिरिह क्वचित् क्वचिदपि न्यासि प्रयत्नान्मया, प्राज्ञंमन्यमना हठेन पठिती माऽस्मिन् खलः खेलतु । श्रद्धाराद्धगुरुश्लश्रीकृतदृढग्रन्थिः समासादयत्वेतत्काव्यरसोमिमज्जनसुखव्यासज्जनं सज्जनः ॥ (नै० २२-१५२) रमणीलावण्यं हरति चेतः सचेतसो यून एव, न तु किशोराणाम् । तथैव श्रीहर्षकृतिः सुधीभिरेवास्वादनीया, न तु प्राशंमन्यैः -- यथा यूनस्तद्वत् परमरमणीयापि रमणी, कुमाराणामन्तःकरणहरणं नैव कुरुते । मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः, किमस्या नाम स्यादरसपुरुषानादरभरैः॥ ( नै० २२-१५०) बृहत्त्रयो–श्रीश्रीहर्षमहाकवेः कृतिर्नैषधचरितं कस्य न कृतिनो मानसमावर्जयति । बृहत्त्रय्यामन्यतमैषा कृतिः। भारवेः किरातार्जुनीयं, माघस्य शिशुपालवधं, श्रीहर्षस्य नैषधचरितं चेति त्रयमेतद् बृहत्त्रय्यां गण्यते । उत्तरोत्तरमेषामुत्कर्षश्चोररोक्रियते । एतद्भावात्मकमेवैतदुद्गीर्यते--'तावद् भा भारवेर्भाति, यावन्माघस्य नोदयः। उदिते नैषधे काव्ये क्व माघः क्व च भारविः ॥' ___ श्रीहर्षस्य पाण्डित्यम्-श्रीहर्षो महाकविर्महादार्शनिको महावैयाकरणश्चेत्यादिविविधविरुद्धगुणगणसमन्वयादतिशेते सर्वानन्यान् महाकवीन् पाण्डित्यप्रदर्शने वाग्वैभवे रुचिररचनायां भावाभिव्यक्ती साधशब्दसंकलने विद्यावैशारद्ये वक्रोक्तिव्यवहारे च। अनुपमवैदुष्यवैभवाविर्भावात् पाण्डित्यपुटपरिपाकप्रतीकाशः Page #135 -------------------------------------------------------------------------- ________________ ११८ संस्कृतनिबन्धशतकम् प्रतीयते प्रबन्धोऽस्य । नैकशास्त्रनिष्णातस्यानुपहता गतिरत्रेति 'नैषधं विद्वदौषधम्' इति साह्लादमुद्घोष्यते यशोऽस्य सुधीभिः । प्रतिपदं पदलालित्यावेक्षणात् 'नैषधे पदलालित्यम्' इत्यभिधीयते । नैषधे पदलालित्यम्-नैषधे पदलालित्यं प्रतिपदं प्रेक्ष्यते । क्वचित् प्रसादः,क्वचिन्माधुर्यम्, क्वचिच्च ओजोगुणो लक्ष्यते । प्रसाद-माधुर्यगुणाभ्यां सह पदलालित्यं विचित्रामाभां प्रदर्शयति । काव्यस्य लयात्मकत्वं संगीतात्मकत्वं च श्रुतिसुखदत्वेन सममेव सहृदयहृदयावर्जकत्वेनोपतिष्ठते । नैषधे पदलालित्यप्राधान्यमवलोक्य विपश्चिद्भिः 'नैषधे पदलालित्यम्' इति साह्लादम् उद्घोष्यते। कतिपयानि निदर्शनान्यत्र प्रस्तूयन्तेअधारि पद्धेषु तदघ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे । तदास्यदास्येऽपि गतोऽधिकारिता न शारदः पाविकशर्वरीश्वरः ॥ नैषध० १-२० अहो अहोभिर्महिमा हिमागमेऽ प्यभिप्रपेदे प्रति तां स्मरादिताम् । तपर्तुपूर्तावपि मेदसां भरा विभावरीभिबिभरांबभूविरे ॥नैषध० १-४१ सकलया कलया किल दंष्ट्रया समवधाय यमाय विनिर्मितः॥ नैषध० ४-७२ नलिनं मलिनं विवृण्वती, पृषतीमस्पृशती तदीक्षणे । अपि खञ्जनमञ्जनाञ्चिते विदधाते रुचिगर्वदुविधम् ॥ नै० २-२३ श्लोकेष्वेषु क्वचिदनुप्रासः क्वचिद् यमकं सौन्दर्याधायकम् । क्वचित् सौकुमार्यमेव पदानां श्रुतिसुखदत्वहेतुः । यथा धन्यासि वैदर्भि गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥ नै० ३-११६ सपीतेः संप्रीतेरजनि रजनीशः परिषदा। परीतस्ताराणां दिनमणिमणिग्रावमणिकः ॥ नैषध० २२-१४४ यथा यूनस्तद्वत् परमरमणीयाऽपि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते । मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्यादरसपरुषानादरभरैः॥ नै० २२-१५० नैषधं विद्वदौषधम् –विविधविद्यापारदृश्वा श्रीहर्षः । नैषधे स्वव्युत्पत्तिप्रदर्शनोपक्रमे स प्रतिपदं क्लिष्टत्वं दुरूहत्वं चोपपादयति । विविधशास्त्रीयसिद्धान्तवर्णनात्, श्लिष्ट-क्लिष्ट-पद-प्रयोगात्, बहुज्ञता-प्रदर्शनाच्च स्वकाव्ये Page #136 -------------------------------------------------------------------------- ________________ नैषधं विद्वदौषधम् व्युत्पत्तिवारिधि प्रथयति । स श्लिष्टप्रयोगादतिरिक्तं व्याकरण-न्याय-वैशेषिकसांख्य-योग-वेदान्त-मीमांसा-चार्वाक-बौद्ध-जैनादिदर्शनानां दुरूहान् सिद्धान्तान् यत्र-तत्र वर्णयति । विशिष्ट-दर्शनज्ञानमन्तरेण तदर्थावगमो दुष्कर एव । न केवलं पाश्चात्त्यविदुषामेव कृते, अपि तु भारतीयविद्वत्तल्लजानामपि कृते नैषधं दुर्बोधमेव । पाण्डित्यप्रदर्शनस्य दुष्परिणामरूपत्वेन श्रीहर्षस्य कलापक्षः श्रियमश्नुते, भावपक्षश्च दौर्बल्यम् । पाणिनेः 'अपवर्गे तृतीया' (अष्टा० २.३-६) सूत्रे व्यङ्ग्यं कुरुते यद् अपवर्गविषये मोक्षविषये वा तृतीया प्रकृतिः स्त्रीपुंसातिरिक्ता क्लीबप्रकृतिरेवोपयुक्ता उभयो प्रकृतिः कामे सज्जेदिति मनेर्मनः। अपवर्गे तृतीयेति भणतः पाणिनेरपि ॥ नै० १७-७० 'तदत्यन्तविमोक्षोऽपवर्ग:' 'सकलविशेषगुणोच्छेदो मुक्तिः' इति निरानन्दं मोक्षमाश्रित्य व्यङ्ग्यं कुरुते यद् न्यायाभिमतो मोक्षो गोतमस्यैव मूर्खतमस्यैव मतं भवितुमर्हति मुक्तये यः शिलात्वाय, शास्त्रमचे सचेतसाम् । गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः ॥ ने० १७-७५ वैशेषिकदर्शने 'किमिदं तमो भावरूपम् अभावरूपं वा ?' इति विचारे 'भासामभाव एव तमः', 'भाभाव एव तमः' इत्यादिरूपेण तमो विविच्यते । वैशेषिकदर्शनकृत् कणाद एव उलकापरपर्यायः । अतो दर्शनमेतद् औलूकदर्शनं निगद्यते । एतदाश्रित्यैव व्यङ्ग्यं क्रियते यद् उलूक एव तमस्तत्त्वपरीक्षणे क्षमः, तन्मतं च ग्राह्यम् ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे। औलूकमाहुः खलु दर्शनं तत् क्षमंतमस्तत्त्वनिरूपणाय ॥ नै० २२-३५ वेदान्तदर्शनानुसारं मुक्तौ जीवात्मनो ब्रह्मणि विलयेन ब्रह्मैव केवलमवशिष्यते, लोके तु जीवब्रह्मणोर्द्वयोरेव पृथगस्तित्वम् । एतन्मतमाश्रित्यैव व्यङ्ग्यं प्रयुज्यते यन्मूर्ख एव स्वास्तित्वविनाशाय प्रवतिष्यते स्वं च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् । इति स्वोच्छित्ति-मुक्त्युक्ति-वैदग्धी ब्रह्मवादिनाम् ॥ नै० १७-७४ श्रीहर्षोऽन्यदर्शनसिद्धान्तान् अपास्य अद्वैतवादमेव सर्वमान्यत्वेनाश्रयते श्रद्धां दधे निषधराड्विमतौ मतानाम् अद्वैततत्त्व इव सत्यतरेऽपि लोकः ॥ नै० १३-३६ सरस्वत्याः स्वरूपवर्णने एकस्मिन्नेव श्लोके बौद्धदर्शनस्य शाखात्रयसिद्धान्ताः शून्यवाद-विज्ञानवाद-साकारविज्ञानवादाः समुपस्थाप्यन्ते । यथा या सोमसिद्धान्तमयाननेव, शून्यात्मतावादमयोदरेव । विज्ञानसामस्त्यमयान्तरेव, साकारतासिद्धिमयाखिलेव ॥ नै० १०-८८ एवमेव विविधा दर्शनराद्धान्ता इतस्ततः प्रकीर्णा उपलभ्यन्ते । यथा Page #137 -------------------------------------------------------------------------- ________________ १२० संस्कृतनिबन्धशतकम् 'नास्ति जन्यजनकव्यतिभेदः० ( नै० ५-९४ ) इत्यत्र सांख्याभिमतः सत्कार्यवादो विवियते । 'संप्रज्ञातवासिततमः समपादि' ( नै० २१-११८ ) इत्यत्र योगदर्शनप्रतिपादितः संप्रज्ञातसमाधिनिरूयते । 'आदाविव द्वयणुककृत् परमाणुयुग्मम्' ( नै० ३ -१२५ ) इत्यत्र वैशेषिकाभिमतः परमाणुवादः, 'मनोभिरासीदनणुप्रमाणे ' ( नै० ३-३७), 'जनस्य चेतोभिरिवाणिमाङ्कितैः० ( नै० १-५९ ) इत्यत्र मनसोऽणुत्वं प्रतिपाद्यते । विश्वरूपकलनादुपपन्नं तस्य जैमिनिमुनित्वमुदीये। विग्रहं मखभुजामसहिष्णुर्व्यर्थतां मदनि स निनाय ॥ नै० ५-३९ इत्यत्र मीमांसाभिमतं देवानाम् अरूपित्वं मन्त्ररूपित्वं च निर्दिश्यते । 'स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता' ( नै० २-६१ ) इत्यत्र स्वतःप्रामाण्यं वर्ण्यते । 'न्यवेशि रत्नत्रितये' (नै० ९-७१ ) इत्यत्र जैनाभिमतरत्नत्रयस्य वर्णनम् । सप्तदशे सर्गे चार्वाकसिद्धान्तवर्णनम् उपलभ्यते । 'अजस्रसभ्याशमुपेयुषा समं मुदैव देवः कविना बुधेन च' (नै० १-१७ ) इत्यत्र ज्योतिषसिद्धान्तवर्णनं प्राप्यते । । उदिते नैषधे काव्ये०–माघस्य शिशुपालवधे काव्यसौन्दर्य प्रेक्ष्य यथा भारवेर्भा अस्तमेति, तथैव नैषधे श्रीहर्षस्य वैदुष्यं विलोक्य भारविमाघौ द्वावेव निष्प्रभतां धत्तः । श्रीहर्षः कविताकामिनीकान्तो भाषाप्रयोगविदग्धो विविधशास्त्रनिष्णातो रससिद्धः कवीश्वरो वर्तते । तस्य काव्यं प्रतिपदं तस्य व्याकरणविशेषज्ञतां भावगाम्भीर्य पदमाधुर्यं भाषासौष्ठवं रसपरिपाकं च प्रकटयति । अनुपमस्तस्य समग्रेऽपि संस्कृतवाङ्मयेऽधिकारः । गीर्वाणवाणी वाणीश्वरमिव तं सेवते । स भाषां पुत्तलिकामिव नर्तयितुं प्रभवति । तदीहासमकालमेव समुपतिष्ठन्ति रसाः, भावाः, कमनीया पदावली, विविधाश्चालंकाराः । गूढातिगूढभावान्वितानि क्लिष्टानि पद्यानि स यथैव सारल्येन रचयितुमलं तथैव सरलानि सरसानि प्रसादगुणोपेतानि हृद्यानि पद्यानि । तस्य पद्यानि नारिकेलफलोपमानानि सन्ति, बहिः कठोराणि, अन्तः माधुर्योपेतानि च । रसिकैः सहृदयविविधशास्त्रनिष्णातैरेव तत्काव्यगौरवम् अवधारयितुं पार्यते। यथा केचन श्लेषप्रयोगा: 'चेतो नलं कामयते मदीयम्' ( नै० ३-६७ ), श्लेषमूलकमर्थत्रयमस्य । चेतः नलं कामयते, चेतः न लंकाम् अयते, चेतः अनलं कामयते । 'स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः' ( नै० ४-११६ ) इत्यत्र नलद-शब्दो द्वयर्थकः । पञ्चार्थकं पद्यं यथा देवः पतिविदुषि नैष धराजगत्या निर्णीयते न किमु न वियते भवत्या। नायं नलः खलु तवातिमहानलाभो यद्येनमुज्झसि वरः कतरः परस्ते ॥ नै० १३-३४ . Page #138 -------------------------------------------------------------------------- ________________ ३४. कारुण्यं भवभूतिरेव तनुते ( उत्तरे रामचरिते भवभूतिविशिष्यते ) भवभूतेः कवीन्द्रस्य वाणी कामदुधा मता। ब्रह्मानन्दसहोदयां या तनोति मुदं सदा ॥ ( कपिलस्य ) भवभूते|वनवृत्तं नाट्य-कृतित्वं च-श्रीभवभूतिः कान्यकुब्जेश्वरस्य श्रीमतो यशोवर्मण आश्रितो महाकविरित्यत्र सर्वेषां सुधियाम् ऐकमत्यम् । महाकविना बाणेन हर्षचरिते महाकविगणनाप्रसङ्गेनास्याभिधानम् अभ्यधायीतिमहाकवेर्बाणात् पूर्वं जनिकालमस्य नेति निर्णीयते । एवं भवभूतेर्जनिकाल:७०० ईसवीयस्य संनिधौ स्वीक्रियते । विदर्भ ( बरार )-प्रदेशस्थ-पद्मपुर-नगर-वास्तव्योऽयं श्रीकण्ठपदलाञ्छनो भवभूति-नामाऽभवत् । पितामहोऽस्य भट्टगोपालो, जनको नीलकण्ठो, जननी जातुकर्णी, गुरुश्च ज्ञाननिधिर्नाम । नाटक त्रयमस्य समुपलभ्यते-मालतीमाधवम्, महावीरचरितम्, उत्तररामचरितं च । व्याकरण-न्यायमीमांसा-शास्त्रेषु निष्णातत्वादेव 'पद-वाक्य-प्रमाणज्ञः' इत्युपाधि-समलंकृतोऽभूत् । वेदेष्वन्येषु च शास्त्रेष्वस्य अव्याहता गतिः । वाग्देवी तं वश्येव समन्ववर्ततेति तथ्यं स्वयमेवोद्घोष्यते तेन । 'यं ब्रह्माणमियं देवी वाग्वश्येवानुवर्तते' ( उत्तर० १-२) ___भवभूतेः करुणो रसः-करुणरसनिष्यन्दे नातिशेतेऽन्यो महाकविर्महाकविममुम् । करुणरसोद्रेकम् आलोक्यैव कवेरेतस्य कृतिषु कृतिभिः कृतानि कतिपयानि प्रशंसापद्यानि । आर्यासप्तशत्यां श्रीगोवर्धनाचार्यों भवभूतेर्भारती भूधरसुतया गौर्योपमिमीते। एतत्कृतकारुण्ये ग्रावाणोऽपि रुदन्ति, अन्येषां तु का कथा भवभूतेः संबन्धाद् भूधरभूरेव भारती भाति । एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥ आर्या० १-३६ कारुण्ये स कालिदासादप्यतिरिच्यते । अत उच्यते-'उत्तरे रामचरिते भवभूतिविशिष्यते'। एको रसः करुण एव-करुणरसप्रवाहपरीक्षया परीक्ष्यते चेन्नाटकत्रयमस्य तहि उत्तररामचरितमेव सर्वातिशायि । यथाऽत्र करुणरस-निष्यन्दो, न तथाऽन्यत्र । किं कारुण्यम् ? करुणरसस्य प्रवाह एव कारुण्यमिति । इदमत्रावधेयम् । भवभूतिः करुणरसं रसत्वेनैव नातिष्ठतेऽपि तु समेषां रसानां मूलभूतत्वेन १. विशदविवेचनार्थ द्रष्टव्यम् -प्रौढरचना० निबन्धसंख्या ११, लेखककृत-सं० सा० ___ समोक्षात्मक इतिहास, पृष्ठ-४१२-४१५, ४२५ ४२८ Page #139 -------------------------------------------------------------------------- ________________ १२२ संस्कृतनिबन्धशतकम् करुणमेवैकं रसं मनुते । अन्ये रसा अस्यैव विवर्तरूपेण परिणामरूपेण वा परिणमन्ते इति करुण रसस्य महत्त्वम् आतिष्ठते । आह च एको रसः करुण एव निमित्तभेदाद . भिन्नः पृथक् पृथगिव श्रयते विवर्तान् । आवर्तबुबुदतरङ्गमयान् विकारान् ___ अम्भो यथा सलिलमेव हि तत् समग्रम् ॥ उत्तर० ३-४७ कारुण्यं भवभूतिरेव तनुते-संस्कृतवाङ्मये करुणरसवर्णने भवभूतेस्तदेव स्थानं यत् शृङ्गाररसवर्णने कालिदासस्य । नाटककृद्रूपेण द्वयोरेव प्रतिस्पर्धित्वम् । भवभूतौ बहिर्दृष्टयैव साकं सूक्ष्माऽन्तर्दृष्टिरपि लक्ष्यते । मानवीयमनोभावानाम् अन्तःस्थितेश्च यादृक् सुसूक्ष्मं मनोवैज्ञानिक विश्लेषणं भवभूतिना प्रस्तूयते, तदन्यत्र सुदुर्लभम् । जगतो विनश्वरतां प्रेक्षं प्रेक्षं भवभूतेः कारुण्याप्लुता रसधारा प्रसरति । स रामकथाम् , प्राधान्येन सीता-परित्यागम, आश्रित्य स्वीयां भावनां मूर्तरूपेणोपस्थापयति । तस्य वाचि तादृग् वीर्य यथा न केवलं वृक्षवनस्पत्यादयः, अपि तु पर्वत-रोदन-क्षमताऽपि तस्य वाचि दरीदृश्यते । नीरसोऽपि जन उत्तररामचरितम् अधीत्य नूनं बाष्पाकुलेक्षणो भवितेति निश्चप्रचम् । भवभूतौ भावानां कोमलता, हृदयस्पर्शिता, तादात्म्यानुभूतिः, संवेदनशीलत्वं च वरीवर्ति, अतएव 'कारुण्यं भवभूतिरेव तनुते' इति तस्य यशो जेगीयते । दिङ्मात्रमिह केचन मार्मिका भावोद्बोधकाः प्रसङ्गाः प्रस्तूयन्ते । छद्मप्रयोगेण रावणः सीताम् अहरत् । तद्वियोग-विषण्णस्य दाशरथेः स्थितिम् अवधार्य ग्रावाणोऽपि सहजा धीरतां मुञ्चन्ति, वज्रस्यापि मानसं मार्दवं संश्रयतेअथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथय त यथा क्षालितमपि । जनस्थाने शून्ये विकलकरणैरार्यचरितैरपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ . उत्तर० १-२८ सीता-परित्याग-सन्तप्तस्य रामस्य तादृश्येवावस्थाऽवर्तत यथा पुटपाके कस्यचिद् धातोः - अनिभिन्नो गभीरत्वादन्तर्गुढघनव्यथः । पुटपाकप्रतीकाशो रामस्य करुणो रसः॥ उत्तर० ३-१ लोकापवादेन जानकी परित्यज्य रामः कथमपि न धृति विन्दते । स पौरान् उपालम्भयन्नाहन-किल भवतां देव्याः स्थानं गृहेऽभिमतं तत स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता। Page #140 -------------------------------------------------------------------------- ________________ कारुण्यं भवभूतिरेव तनुते १२३ चिरपरिचितास्ते भावास्तथा द्रवयन्ति मा मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते ॥ उत्तर० ३-३२ ।। न केवलमेतदेव । रामपरित्यक्ता सीता क्वचिद् अरण्ये श्वापदैर्भक्षितेति अनुमीयते रामेण । कष्टापन्नायाः सीताया वर्णनं कथमिव मनो द्रावयति अस्तैकहायनकुरङ्गविलोलदृष्टेस्तस्याः परिस्फुरितगभरालसायाः। ज्योत्स्नामयीव मृदुबालमृणालकल्पा क्रव्याभिरङ्गलतिका नियतं विलुप्ता ॥ उत्तर० ३-२८ परित्यक्तायाः शोकसन्तप्तायाः सीतायाः शरीरलावण्यं विलीनम् । सा करुणस्य मूर्तिरिव, शरीरधारिणी विरहव्यथेव, हीना दीना क्षीणा चालक्ष्यते करुणस्य मूतिरथवा शरीरिणी, विरहव्यथेव वनमेति जानकी ॥ उत्तर० ३-४ शोकसन्तप्तचेता मर्मव्यथाहतचेतनो रामो जीवनं निष्फलं कष्टप्रायं दु:खदावाग्निदग्धं च गणयति । प्राणा वज्रकीलवत् तस्य हृदयं रुन्धन्ति दुःखसंवेदनायव रामे चैतन्यमाहितम् । मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि ॥ उत्तर० १-४७ शोको विलापोऽश्रुपातश्च जीवनरक्षासाधनानि, यथा जलाप्लाविततटाकस्य सलिलनिःसारणेनैव सुरक्षा। पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया। शोकक्षोभे च हृदयं प्रलापैरेव धार्यते ॥ उत्तर० ३-२९ सीताहरणचित्रदर्शनेन विषण्णस्य विलपतश्च दाशरथेरवस्थां वर्णयति कविः, बाष्पप्रसरं च मुक्ताहारेणोपमिमीते अयं तावद् बाष्पस्त्रुटित इव मुक्तामणिसरो विसर्पन धाराभिलुंठति धरणी जर्जरकणः। निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति चिरमाध्मातहृदयः ॥ उत्तर० १-२९ शम्बूकप्रसङ्गेन दण्डकारण्यं पञ्चवटीं च प्राप्य जानकीसहवासं स्मारं स्मारं खिद्यतेतमा मनो मानिनो रामस्य । रामोऽभिधत्ते-- चिराद वेगारम्भी प्रसृत इव तीवो. विषरसः कुतश्चित् संवेगात् प्रचल इव शल्यस्य शकलः। व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः पुराभूतः शोको विकलयति मां नूतन इव ॥ उत्तर० २-२६ पञ्चवटीदर्शनेन रामस्य दुःखाग्निरुद्दामं प्रज्वलति, मोहश्च तं सर्वथाऽऽवृणोति Page #141 -------------------------------------------------------------------------- ________________ संस्कृत निबन्धशतकम् अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः । उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ उत्तर० ३-९ रामस्य सन्तापजां स्थिति कथमिव कविः सजीवरूपेण चित्रयति । तस्य हृदयं शोकाद् विदीर्यते, परं न द्विधा छिद्यते; मोहागमेऽपि चैतन्यं नोज्झति; शोको देहं दहति, न च भस्सात् कुरुते; विधिर्मर्मच्छेदनं विधत्ते, जीवितं न तु समापयति १२४ दलति हृदयं शोकोद्वेगाद् द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ उत्तर० ३-३१ रामो जानकीं संबोधयन् स्वीयाम् असह्य वेदनां विशदयति । समग्रं जगद् अन्धतामिस्रं प्रतीयते, मोहश्च निश्चैतन्यं प्रथयति । किं वा शरणम्, का वा गतिः ? हा हा देवि ! स्फुटति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि । सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ् मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ उत्तर० ३-३८ उत्तरे रामचरिते भवभूतिविशिष्यते - महाकविरूपेण कालिदासोऽतिशेते कवीनन्यान्, परं नाटककृद्रूपेण भवभूतिस्तस्य प्रतिस्पर्धी । उत्तररामचरिते तु सकरुणरसप्रवाहे कालिदासादपि अतिरिच्यते । अतएव 'उत्तरे रामचरिते ०' इति सूक्तिमुक्ता प्रसरीसति । उत्तररामचरिते भवभूतेर्नाट्यकलायाः कवित्वस्य च चरमोत्कर्षो लक्ष्यते । द्वयोरेव कविवरयोः किंचिद् साम्यं वैषम्यं चावलोक्यते । साम्यदृशा परीक्षिते सति-द्वावेव सफलौ महाकवी नाटककारौ च; द्वयोरेव भाषा वश-वर्तिनी; स्वाभीष्टरसवर्णने द्वयोः प्रागल्भ्यम्; द्वयोरेव मौलिकत्वं प्रतिभावशिष्टत्वं च; सहृदयहृदयहारिणी विदग्धता | 1 वैषम्यदृशा परीक्षिते सति -- ( १ ) कालिदासकृतिषु प्रसादो माधुर्यं च, समासाभावो दुरूहपदावलीपरित्यागश्च परं भवभूति - कृतिषु ओजोगुणस्य भूयस्त्वं दुरूहपदप्रयोगः समस्ता क्लिष्टा च पदावली प्रतिपदं परिलक्ष्यते । ( २ ) कालिदासः शृङ्गाररसवर्णने चरमोत्कर्षं धत्ते परं भवभूतिः करुण रसप्रवाहे । (३) कालिदासो व्यञ्जनावृत्तिप्रधानः, भवभूतिस्तु अभिधावृत्तिप्रधानः । ( ४ ) कालिदासकृतिषु कल्पनारम्यत्वम्, भवभूतिकृतिषु भावगाम्भीर्यम्; कालिदासे सरसत्वं सरलत्वं च भवभूती ओजस्त्वं प्रौढिश्च; - कालिदासे नैसर्गिकत्वं भवभूती आदर्शरूपत्वं च प्रथते । ( ५ ) कालिदासः Page #142 -------------------------------------------------------------------------- ________________ कारुण्यं भवभूतिरेव तनुते १२५ प्रकृतिवर्णने कोमलं ललितं च पक्षमाश्रयते । भवभूतिश्च प्रचण्डं कठोरं च पक्षं विशदयति । यथा उत्तररामचरिते भयावहवनानाम् ग्रीष्मर्ती मध्याह्नस्य च वर्णनम् । यथा दण्डकवनवर्णनम् निष्कूजस्तिमिताः क्वचित् क्वचिदपि प्रोच्चण्डसत्त्वस्वनाः, स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः॥ उत्तर० २-१६ करुणरसप्रवाहस्तु तथा प्रसरति यथा वर्षौ जलौघः । प्रयत्नवारितोऽपि स प्रवाहः सैकतं सेतुमिव यत्नान् विफलयति । साधूच्यते वेलोल्लोल-क्षुभितकरणोज्जम्भणस्तम्भनार्थ यो यो यत्नः कथमपि समाधीयते तं तमन्तः। भित्त्वा भित्त्वा प्रसरति बलात् कोऽपि चेतोविकारस्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः॥ उत्तर० ३-३६ Page #143 -------------------------------------------------------------------------- ________________ ३५. काव्येषु नाटकं रम्यम् श्रव्यं सहृदयास्वाद्यं नाट्यं दृश्यगुणोन्नतम् ।। हुन्नेत्ररञ्जनात् प्रेयो रसभावविबोधकृत् ॥ ( कपिलस्य ) 'कलासीमा काव्यम'-'प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते' इत्याभाणकम् उद्दिश्य प्रयोजनमूलैव सर्वेषां प्रवृत्तिः । काव्ये नाट्ये च सैव प्रवृत्तिः सुलभा। काव्यादेरध्ययनस्य किं प्रयोजनमिति जिज्ञासितं चेद् रसास्वाद आनन्दानुभूतिर्वा तत्प्रयोजनम् । काव्यं हि सुललितभाषानिबद्धत्वात् कल्पनाप्रचुरत्वाद् मनोभावाभिव्यञ्जकत्वात् प्रसादमाधुर्यादिगुणसमन्वितत्वाद् अलंकारालंकृतत्वाद् रसप्रवाहपरीतत्वात् कलात्मकत्वाच्च सर्वेषामपि सूधियां चेतांसि आवर्जयति । विविधकलाप्रख्यापनाद् रुचिर-गुणालंकारसहितत्वाद् विद्वन्मनोमोहनत्वाच्च ‘कलासीमा काव्यम्' इति सादरम् उद्घोष्यते । यादृशी कल्पनामूला चेतःप्रसादिनी रुचिरा भावाभिव्यक्ति: काव्ये, न तथान्यत्र । अतएव कैश्चिद् निःसंकोचम् उदीर्यते यत् 'मेघे माघे गतं वयः' । तत्र स्वानुभूतेः प्राकाश्येन विविधशास्त्रावगाहिज्ञानेन च सर्वाङ्गीणत्वं जीवनोद्देश्यस्य साफल्यं च । ___ काव्यस्य भेदाः-तच्च काव्यं द्विधा विभज्यते-दृश्यं श्रव्यं च । श्रव्यं काव्यं-काव्य-महाकाव्य-गीतिकाव्यादिभेदेन बहुविधम् । दृश्यं काव्यम् अभिनेयं भवति । तत्र च नटादौ रामादिस्वरूपारोपो भवति । अतो दृश्यं काव्यं 'रूपकम्' इत्युच्यते । उक्तं च विश्वनाथेन दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् । दृश्यं तत्राभिनेयं तदरूपारोपात्तु रूपकम् ॥ सा० दर्पण ६-१ अवस्थानुकृतिर्नाट्यम् । रूपकं तत्समारोपात् ॥ दशरूपक १-७ 'वस्तु नेता रसस्तेषां भेदकः' ( दशरूपक १-११)। धनञ्जयानुसारं नाटके तत्त्वत्रयं प्रमुखम् । तदाश्रितं च नाटकस्य विभाजनम् । अत्र नाटके रसस्य महत्त्वम् उररीक्रियते । रसनिष्पत्त्यै आनन्दोपलब्ध्यै च नाटकानां रचना। नाटकानां रम्यत्वम्-'काव्येषु नाटकं रम्यम्' इति नाटकानां रम्यत्वं जिज्ञासितं चेत् स्वानुभूत्यैव तेषां महत्त्वं स्फुटीभवति । काव्यं श्रव्यम् , अध्ययनाध्यापनादि-द्वारा तस्य तत्त्वार्थबोधः। श्रवणद्वारा तत्र रसनिष्पत्तिः । नाटकेषु तु अभिनयादिप्रदर्शनाद् वेशभूषाद्यलंकरणात् प्राकृतिकदृश्यसंयोजनात् आङ्गिकवाचिकाद्यभिनयसंमिश्रणात् नृत्यगीतलास्यविलासात् न केवलं सचेतसामेव रसास्वादो मनस्तोषश्च, अपि तु आबालवृद्धं शिक्षितानाम् , अशिक्षितानाम् , नराणां नारीणां चानन्दावाप्तिर्मनोरञ्जनं च । सकलेऽपि भुवने नाटयानां प्रसिद्धरेतदेव मूलम् । उक्तं च भरतेन Page #144 -------------------------------------------------------------------------- ________________ १२७ काव्येषु नाटकं रभ्यम् न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला। नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते ॥ नाट्य० १-११७ नाटयस्य महत्त्वं नाट्यशास्त्रे भरतेन सविस्तरं व्याख्यायते । तद्यथा दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् । विश्रान्तिजननं काले नाट्यमेतद् भविष्यति ॥ ना० १-११५ धयं यशस्वमायुष्यं हितं बुद्धिविवर्धनम् । लोकोपदेशजननं नाट्यमेतद् भविष्यति ॥ नाट्य० १-११६ उत्तमाधममध्यमानां सर्वेषामपि नृणां हितोपदेशकारि धृतिदं विनोदजनकम् आनन्दप्रदं चैतद्भविष्यति । उत्तमाधममध्यानां नराणां कर्मसंश्रयम् । हितोपदेशजननं धृतिक्रीडासुखादिकृत् ॥ नाट्य० १-११३ नाटकानां महत्त्वम्-नाटये न कोऽपि भावो विषयो वाऽवशिष्यते । सर्वेऽपि रसा अत्र निबद्धाः । यथास्थानं पुरुषार्थचतुष्टयं चतुवर्गो वाऽत्र संगृह्यते । क्वचिद् धर्मः क्वचित् क्रीडा क्वचिदर्थः क्वचिच्छमः। क्वचिद् हास्य क्वचिद् युद्धं क्वचित् कामः क्वचिद् वधः॥ नाट्य०१-१०८ अत्र लोकवृत्तम् अनुसृत्य नानाभावा विषयाश्चोपस्थाप्यन्ते । नानाभावोपसंपन्नं नानावस्थान्तरात्मकम् । लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ नाट्य० १-११२ अत्र क्वचिद् वैदिकी शिक्षा, क्वचित् ऐतिह्यम्, क्वचिद् आख्यानम्, क्वचिदाचारविचार-शिक्षा, क्वचित् कर्तव्योद्बोधनं च समाविश्यते । वेदविद्येतिहासानाम् आख्यानपरिकल्पनम् ।। विनोदकरणं लोके नाटयमेतद् भविष्यति ॥ ना० १-१२२ श्रुतिस्मृतिसदाचार-परिशेषार्थ-कल्पनम् । विनोदजननं लोके नाटयमेतद् भविष्यति ॥ नाट्य० १-१२३ न केवलमेतदेव, अपि तु नाटयं सर्वेषामपि अभीष्टं साधयति । यस्य यदेवाभीष्टं तस्य तदेव प्रापयति । यस्य यद्विषयिकाऽभिरुचिः स तत्र तद्विषयिकी सामग्रीम् उपलभते । तद्यथा-धर्मनिष्ठानां कृते धर्मचर्चा, विषयिणां कृते विषयोपभोगः, अज्ञानां कृते ज्ञानोपदेशः, सुधियां ज्ञानवर्धनम्, धनिनां विलासः, अर्थाथिनाम् अर्थोपार्जनसाधनम् । सूक्तं भरतेन धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् । निग्रहो दुविनीतानां मत्तानां दमनक्रिया ॥ ना० १-१०९ क्लीबानां धाष्र्यजननम् उत्साहः शूरमानिनाम् । अबुधानां विबोधश्च वैदुष्यं विदुषामपि ॥ नाटय० १-११० Page #145 -------------------------------------------------------------------------- ________________ १२८ संस्कृतनिबन्धशतकम् ईश्वराणां विलासश्च स्थैर्य दुःखादितस्य च । अर्थोपजीविनामों धृतिरुद्विग्नचेतसाम् ॥ नाट्य० १-१११ एतदेवाश्रित्य महाकविना कालिदासेनोच्यते मालिविकाग्निमित्रे देवानामिदमामनन्ति मुनयः शान्तं क्रतुं चाक्षुषं रुद्रणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा। त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम् ॥ माल० १-४ . भारतीया संस्कृतिर्वेदमूला। नाट्यशास्त्रं च वेदमूलम् । अत्र ऋग्वेदात् पाठ्यम्, यजुर्वेदादभिनयः, सामवेदात् संगीतम्, अथर्ववेदाच्च रससामग्री गृह्यते । उक्तं च जग्राह पाठ्यमृग्वेदात् सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ नाट्य० १-१७ सहृदयैरेव रत्यादिवासनाम् आश्रित्य रसास्वादो विधीयते । स्वचेतोगतवासनाश्रयेणैव प्रेक्षकैरपि रसास्वादनं क्रियते । न स्याच्चेद् वासना प्रेक्षकेषु तहि ते जीवन्तोऽपि मृतोपमाः काष्ठपाषाणादिसंकाशाश्च । उच्यते विश्वनाथेन धर्मदत्तेन च न जायते तदास्वादो विना रत्यादिवासनाम् । सा० द० ३-८ सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।। निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसंनिभाः॥धर्मदत्तः उपसंहारः-जीवितमिदं सम-विषमं सुख-दुःखाद्यनुभूतिप्रधानम् । खिन्नचेतोविनोदाय नाटयं प्रेष्ठं साधनम् । नाट्यं विषण्णस्य विषादापहम्, खित्रस्य खेदापनोदनम्, आर्तस्य आतिहरम्, आधिप्रपीडितस्य मानसिकोपचारः, उत्पीडितस्य मार्गप्रदर्शकम्, यथायथं सर्वेषाम् उपकारि च । श्रान्तचित्तविनोदनस्य नान्यः साधीयान् पन्थाः। कानिचिद् नाटकानि उपदेशप्रदानि, कानिचित् शिक्षाप्रदानि, कानिचिद् देशभक्ति-भगवद्भक्ति-समाजसेवा-परोपकारादि-भावसमन्वितानि च प्राप्यन्ते । एवं नाटकानि सर्वजनहृयानि सर्वविधज्ञानप्रदानि सर्वमनस्तोषकाणीत्युत्प्रेक्ष्यैवोद्गीर्यते ... काव्येषु नाटकं रम्यम्। Page #146 -------------------------------------------------------------------------- ________________ ३६. गद्य कवीनां निकषं वदन्ति ( ओजःसमासभूयस्त्वमेतद् गद्यस्य जीवितम् ) गद्यस्य स्वरूपम-काव्यस्य भेदद्वयं स्वीकुर्वता विश्वनाथेन निगद्यते'दृश्य श्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम्' (सा० द० ६-१) । तत्र च श्रव्यकाव्यं पद्य-गद्य-भेदेन द्विधा विभज्यते । 'श्रव्यं श्रोतव्यमानं तत्पद्यगद्यमयं द्विधा' (सा० द० ६-३१३ ), गद्यकाव्यलक्षणं तेनोच्यते-वृत्तबन्धोज्झितं गद्यम्' ( सा० द० ६-३३०)। अग्निपुराणे गद्यलक्षणं निर्दिश्यते-'अपादः पदसन्तानो गद्यं तदपि कथ्यते ।' काव्यादर्शे दण्डी काव्यं त्रेधा विभजते-'गद्यं पद्यं च मिश्रं च तत् विधैव व्यवस्थितम्' ( काव्यादर्श १-११)। गद्यलक्षणं च तेनाभिधीयतेअपाद: पदसन्तानो गद्यम्, ( काव्यादर्श १-२३ )। पाद-विभाजन-रहितः पदसमुच्चयो गद्यमिति । पूर्वमीमांसायां शेषे यजुःशब्द:' ( पूर्व० २-१-३७ ) इति गद्यबन्धे 'यजुः' शब्दः प्रयुक्तः । यजुः शब्दश्च परिभाष्यते 'अनियताक्षरावसानो यजुः' 'गद्यात्मको यजुः' इति च ।। गद्यकाव्येऽपि काव्यलक्षणं सर्वथा प्रस्फुरतीति गद्यबन्धोऽपि काव्यम् उच्यते । 'शब्दार्थों सहितौ काव्यम्' ( भामह १ - १६ ), तददोषौ शब्दार्थों सगुणावनलंकृती पुन: क्वापि ( काव्यप्रकाश १-४), रमणीयार्थप्रतिपादकः शब्दः काव्यम् ( रसगंगाधर ), वाक्यं रसात्मकं काव्यम् ( सा० द०१-३), इत्यादिषु लक्षणेषु रसात्मकत्वं, सगुणत्वम्, रमणीयार्थ-प्रतिपादकत्वं च काव्येऽपेक्ष्यन्ते । एते गणा यथैव पद्यात्मके काव्ये प्राप्यन्ते, तथैव गद्यकाव्येऽपि । रसा भावा गुणा अलंकारादयो यथा पद्यकाव्ये उपलभ्यन्ते, तथैव गद्यकाव्येऽपि । एवमुभयोः साम्यं लक्ष्यते । गद्य कवीनां निकष वदन्ति–सुभाषितेनानेन ज्ञायते यत् पद्यकाव्यापेक्षया गद्यकाव्यविरचनं दुष्करतरम् । पद्यकाव्ये तु कानिचिद् रसभावध्वनिगणालंकारादि-समवेतानि पद्यानि तस्य सौन्दर्य माधुर्यं च समेधयन्ति । काव्ये कल्पनायाः, अनुभूतेः, भणितिभङ्ग्याः , छन्दसां संगीतात्मकतायाश्च समन्वयेन चमत्कृतिः संजायते । परं गद्ये नैतत् संभाव्यते । तत्र प्रतिपदं प्रतिवाक्यं माधुर्य प्रसाद ओजो वाऽपेक्ष्यते । अलंकाराणां संमिश्रणम्, ध्वनेर्वक्रोक्तेर्वा साधूपयोगः, कल्पनायाः समुत्कर्षः, अनुभूतेर्गाम्भीर्यं वा गद्ये प्रतिपदमनिवार्यम् । न स्याच्चेत् चमत्कृति-वैशिष्ट्यं तर्हि गद्यं नीरसभोजनमिव हेयमनुपादेयं च स्यात् । भाववैशिष्ट्यं, कल्पनावैचित्र्यं, प्रौढा प्राञ्जला शैली, सरसं वस्तु, वक्रोक्तिप्रधाना भणितिः, शब्दसौष्ठवम्, भावसौन्दर्यम्, अभिव्यक्तेः रम्यत्वं च गद्यकाव्ये सहृदयाह्लाद-कारित्वं लोकोपसेव्यत्वं च गुणं प्रथयति । एतद् ध्यायं ध्यायं कविभिरिदमुदीर्यते यद्-गद्यं कवीनां निकषं वदन्ति । Page #147 -------------------------------------------------------------------------- ________________ १३० संस्कृतनिबन्धशतकम् गद्य चतुर्विधम्-साहित्यदर्पणे गद्यं चतुर्धा विभज्यते-(१) मुक्तकम्समासरहितम्, ( २ ) वृत्तगन्धि-पद्यांशसमवेतम्, (३ ) उत्कलिकाप्रायम्दीर्घसमासबहलम्, ( ४ ) चूर्णकम्-स्वल्पसमास-समन्वितम् । तथा चोच्यते वृत्तबन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च ॥ ६-३३० भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम् । आद्य समासरहितं वृत्तभागयुतं परम् ॥ ६-३३१ अन्यद् दीर्घसमासाढ्यं तुर्य चाल्पसमासकम् ॥ सा० द० ६-३३२ गद्य द्विविधम्-गद्यं कथा-आख्यायिका-भेदेन द्विधा विभज्यते । अग्निपुराणे, रुद्रटस्य काव्यालंकारे, दण्डिनः काव्यादर्श, विश्वनाथस्य साहित्यदर्पणे, अमरकोशे च भेदद्वयम् एतद् विविच्यते । तदनुसारं कथाया वैशिष्ट्यं वर्तते(१) कथा-कविकल्पिता, कथाया वक्ता नायकः स्वयम् अन्यो वा कश्चन, उच्छ्वासादिविभाजनाभावः, वक्त्रापवक्त्रादिपद्याभाव, भाषा संस्कृतं प्राकृतादिकं वा, स्वचरितवर्णनाद्यभावः । (२) आख्यायिका-ऐतिहासिक-कथासंबद्धा, नायकोऽत्र वक्ता, उच्छ्वासादिषु विभक्ता, वक्त्रापरवक्त्रपद्यसंयुक्ता, संस्कृतनिष्ठा, स्वल्पपद्यान्विता, स्वचरित-परकविचरित्रादिसंयुक्ता च । तत्र 'कादम्बरी' कथाया निदर्शनं 'हर्षचरितम्' चाख्यायिकायाः। भेदद्वयम् अवास्तविकमिति निराक्रियते दण्डिप्रभृतिभिः ।। तत्कथाख्यायिकेत्येका जातिः संज्ञाद्वयांकिता। अत्रैवान्तर्भविष्यन्ति शेषा आख्यानजातयः॥ काव्यादर्श १-२८ गद्यं पञ्चविधम्-अग्निपुराणे गद्यकाव्यं पञ्चधा विभज्यते । समासतस्तद् निरूप्यते (१) कथा-कविवंशवर्णनम्, मुख्यकथासंबद्धाश्चान्ये कथानकाः, परिच्छेदाभावः लम्बकोपयोगश्च । (२) खण्डकथा-कथामध्ये चतुष्पदीश्लोकानां प्रयोगः, विप्रलम्भशृङ्गारस्य करुणरसस्य च मुख्यत्वेन वर्णनम् ।। (३) परिकथा-खण्डकथावत्, कथाख्यायिकाभेदयोरत्र समिश्रणम् । ( ४ ) आख्यायिका-गद्य कविवंशवर्णनम्, कन्याहरण-संग्राम-वियोगादिवर्णनम्, स्वभाव-प्रवृत्त्यादीनां प्रकाशनम्, उच्छ्वासे विभाजनम्, अल्पसमासयुक्तं गद्यम् , क्वचित् पद्यप्रयोगश्च । (५) कथानिका-आदौ भयानकरसः, मध्ये करुणरसः, अन्तेऽद्भुतरसश्च । नोदात्तप्रकृतिः, अपि तु संकीर्णप्रकृतिः । १. कथाख्यायिकयोस्तात्त्विकभेदार्थ द्रष्टव्यम्--ग्रन्थकृता प्रणीतः 'सं० सा० समीक्षा त्मक इतिहासः' पृष्ठ ४६१-४६४ । Page #148 -------------------------------------------------------------------------- ________________ गद्यं कवीनां निकष वदन्ति १३१ कथा एकादशविधा-हेमचन्द्राचार्येण काव्यानुशासनस्याष्टमेऽध्याये सप्तमाष्टमसूत्रयोविवरणे कथाया एकादश भेदा वर्ण्यन्ते-(१) उपाख्यानम्-- कथान्तर्गतोपकथा, (२) आख्यानकम् -परप्रबोधार्थ ग्रन्थिकेन पठितं गीतमभिनीतं वा, (३) निदर्शनम्-पशु-पक्षि-जीवादि-सबद्धम्, (४) प्रवलिकाप्रधानकथाश्रितविवादादिवर्णनं प्राकृते । ( ५ ) मन्थल्लिका-माहाराष्ट्रादिप्राकृताश्रया क्षद्रकथा। (६) मणिकूल्या-अन्ते तत्त्वार्थप्रकाशिका कथा । (७) परिकथा-चतुर्वर्गाश्रिताऽद्भुतकथामूला। (८) खण्डकथा-कथाऽन्तर्गतोपकथा। (९) सकलकथा-सर्वाङ्गपूर्णा कथा । (१०) उपकथा-कथाङ्गाश्रिता प्रसिद्धोपकथा । ( ११) बृहत्कथा-अद्भुतकार्यसिद्धिमूला पैशाचीभाषाश्रया विस्तृता कथा। उपन्यासो नवविधः-प्रणयमूला कथोपन्यासशब्देन व्यवह्रियते । अम्बिकादत्तव्यासेन गद्यकाव्यमीमांसायाम् उपन्यासो नवधा विभज्यते-कथा, कथानिका,. कथनम्, आलापः, आख्यानम्, आख्यायिका, खण्डकथा, परिकथा, संकीर्णं चेति । लक्षणानि प्रायशो हेमचन्द्रकृत-कथाभेदलक्षणवद् अवगन्तव्यानि। .... कथा कथानिका चैव कथनालापको तथा। आख्यानाख्यायिके खण्डकथा परिकथाऽपि च ॥ १-२५ संकीर्णमिति विज्ञेया उपन्यासभिदा नव ॥ गद्यकाव्यमीमांसा १-२६. ओजःसमासभयस्त्वम-आचार्यदण्डिना काव्यादर्श 'ओजःसमासभूयस्त्वम एतद् गद्यस्य जीवितम्' (का० १-८०) इत्यदीर्यते । स गद्य ओजोगुणप्राधान्यं समासबाहुल्यं च तज्जीवितरूपेणाङ्गीकरोति । तस्याभिप्रायोऽयं यद् गद्ये ओजोगुणेनैव स्फूर्तिः शक्तिमत्ता हृद्यत्वं चापद्यते । तत्र समासभूयस्त्वेन चमत्कृतिः कान्तिमत्त्वम् औदार्यं च । यदि गद्ये दृढबन्धः, समासबाहुल्यम्, ओजःप्राधान्यम्, विविधालंकृति-पुष्टत्वं च न स्यात् तर्हि गद्यकाव्यं जीर्ण-भवनमिव विशीर्येत । ओजोगुणस्तस्य सौन्दर्य पुष्णाति, समासभूयस्त्वं च दृढस्तम्भवत् काव्यप्रासादसंरक्षकं बलाधायकं च । समासरहितं गद्यकाव्यं निर्बलं सद् बलीयसा आलोचनामास्तेन प्रपीडितं ध्वंसेत । सुमधुरगद्यबन्धे दण्डी सुबन्धुर्बाणभट्टश्चेति गद्यकवित्रयी प्रथिततमा। समुद्रगुप्तस्य हरिषेण-कृतायां प्रयाग-प्रशस्तौ, रुद्रदाम्नो गिरिनारप्रशस्तौ च ओजःसमासभूयस्त्व-विशिष्टस्य गद्यस्य माधुर्यं संलक्ष्यते। एवं सिध्यति यद् अस्खलितपदरचनया अलंकारादिमाधुर्येण समासादितवैशिष्टयेन च गद्यकाव्यं प्रथते । Page #149 -------------------------------------------------------------------------- ________________ . ३७. बाणोच्छिष्टं जगत्सर्वम् ( क. हृदयवसतिः पञ्चबाणस्तु बाणः; ख. वाणी बाणो बभूव ह; ग. बाणः कवीनामिह चक्रवर्ती, घ. बाणस्तु पञ्चाननः; ङ. कादम्बरीरसज्ञानामाहारोऽपि न रोचते।) - बाणस्य जीवनवृत्तम्-महाकवेर्बाणस्य जनिकालविषये वंशादिविषये च न काचन विप्रतिपत्तिः । हर्षचरितस्यादौ तेन वंशादिविवरणं महता विस्तरेण उपस्थाप्यते । जनकोऽस्य चित्रभानुर्जननी राजदेवी च । सम्राजो हर्षस्य समकालीनत्वात् जनिकालोऽस्य ईसवीयसप्तमशताब्द्या: पूर्वार्धोऽङ्गीक्रियते । हर्षचरितं कादम्बरी चेति ग्रन्थद्वयम् अस्य प्रधानतः कृतित्वेनाङ्गीक्रियते । कृतयोऽन्या विवादविषया एव विदुषाम् ।। बाणस्य कवित्वप्रशस्तिः-निखिलेऽपि संस्कृतवाङमये कविकुलगुरुः कालिदासो यथा रचनाचातुर्येण कल्पनावैचित्र्येण च पद्यबन्धे गरिष्ठो वरिष्ठश्च, तथैव गद्यकाव्यनिबन्धने कविवरो बाणोऽतिशेतेऽन्यान् सर्वानप्यभिरूपान् । पद्यरचनायां केषुचिदेव पद्येषु उक्तिवैचित्र्येण भावगाम्भीर्येण कृतिकौशलेन वाऽपूर्वा छटा संजायतेऽखिलेऽपि काव्ये । परं नैतावतैव संभाव्यते गद्यकाव्येऽपि तादृश्यनुपमा कान्तिः । गद्यकाव्ये तु भूयान् श्रमोऽपेक्ष्यते । पदे पदे वाग्वैचित्र्यमर्थगाम्भीर्यं भाववैभवं कल्पनाकाम्यत्वं च दुर्निवारम् । अत: साधूच्यते'गद्यं कवीनां निकषं वदन्ति ।' गद्यकाव्यबन्धे दण्डी सुबन्धुश्चेति द्वावेतौ बाणेन समं सनामग्राहमुल्लेख्यौ। परं बाणो गरिष्ठो वरिष्ठश्च त्रयाणाम् एतेषां भूयिष्ठया मनोभावाभिव्यक्त्या, साधिष्ठया शैल्या, म्रदिष्ठया मनोहरतया, श्रेष्ठया साधुतया, प्रेष्ठया पदपरिष्कृत्या च । __ अतः सोड्ढलेन "बाणः कवोनामिह चक्रवर्ती" इत्युक्तम् । धर्मदासेन. तरुणीलावण्यमस्य कृतौ दृश्यते । यथा 'रुचिर-स्वरवर्ण-पदा रसभाववती जगन्मनो हरति । सा कि तरुणी ? नहि नहि वाणी बाणस्य मधुरशीलस्य' ॥ गङ्गादेव्या सरस्वतीवीणाध्वनिरेव कृतिष्वस्य निशम्यते । “वीणापाणिपरामष्ट-वीणानिक्वाणहारिणीम् । भावयन्ति कथं वाऽन्ये भट्टबाणस्य भारतीम"। जयदेवो बाणं पञ्चबाणेन कामेनोपमिमीते । “हृदयवसतिः पञ्चबाणस्तु बाणः” । श्रीचन्द्रदेवोऽमुं कविकुञ्जरगण्डभेदकं सिंहं गणयति । "आः सर्वत्रगभीरधीरकविताविन्ध्याटवीचातुरी-संचारी कविकुम्भकुम्भिभिदुरो बाणस्तु पञ्चाननः" । बाणोच्छिष्टं जगत्सर्वम्-बाणस्य वस्तुविवृतौ वर्णने चापूर्वं वैशारा वीक्ष्य मन्त्रमुग्धत्वमनुभवन्ति मनीषिणः । वर्ण्यस्य वस्तुनोऽणुतमामपि विवृतिं न Page #150 -------------------------------------------------------------------------- ________________ बाणोच्छिष्टं जगत्सर्वम् १३३ विजहाति, न किञ्चिदुज्झति परस्मै यत्तेन शक्यं वर्णयितुम् । वर्णनानां व्यापित्वात्, सर्वाङ्गीणत्वात्, सूक्ष्मतमविवरणसमन्वितत्वाच्च 'बाणोच्छिष्टं जगत्सर्वम्” इति भूयो भूयो व्यादिश्यते । एतदेवात्र समासतः समुस्थाप्यते । ___ हर्ष-चरिते कवेवर्णन-चातुरी बहुशोऽवलोक्यते । तेषु मुख्यत उल्लेख्याः प्रसङ्गाः सन्ति-मुमूर्षोर्नृपस्य प्रभाकरवर्धनस्य वर्णनम्, वैधव्य-दुःखपरिहाराय सतीत्वमाश्रयन्त्या यशोवत्या वर्णनम्, सिंहनादस्योपदेशः, दिवाकरमित्रस्य राज्यश्री- सान्त्वनम् । कवेर्गरिमा कमनीयां कादम्बरीमेवाश्रित्याऽवतिष्ठते इत्यत्र नास्ति विप्रतिपत्तिर्विदुषाम् । यत्र तत्र साङ्गोपाङ्गं वर्णनं महता श्रमेण बाणेनोपस्थाप्यते, तेऽत्र प्रसङ्गा नामग्राहं दिङ्मात्रं प्रस्तूयन्ते । तद्यथाशूद्रकवर्णनम्, चाण्डालकन्यावर्णनम्, विन्ध्याटवीवर्णनम्, पम्पासरोवर्णनम्, प्रभातवर्णनम्, शबरसेनापतिवर्णनम्, हारीतवर्णनम्, जाबाल्याश्रमवर्णनम्, जाबालिवर्णनम्, सन्ध्यावर्णनम्, उज्जयिनीवर्णनम्, तारापीडवर्णनम्, इन्द्रायुधवर्णनम्, राजभवनवर्णनम्, अच्छोदसरोवरवर्णनम्, सिद्धायतनवर्णनम्, महाश्वेतावर्णनम्, कादम्बरीवर्णनं च । वाणी बाणो बभूव ह--श्रीगोवर्धनाचार्यस्य सूक्तिरियं सुधियां मोदमावहति यद् वाग्देवी सरस्वत्येव प्रागल्भ्यमधिकम् अवाप्तुं बाणरूपेण जनि लेभे । उक्तं च जाता शिखण्डिनी प्राग् यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमवाप्तुं वाणी बाणो बभूव ह ॥ बाणस्य कृतिद्वयं समीक्ष्यते चेत् तर्हि वाग्देव्या अवतारस्येव बाणस्य कलाकौशलं भाषामाधुर्यं रसप्रवाहश्च प्राप्यते । वर्णनेषु प्रवाहो मनोज्ञत्वं च न क्वचिदपि न्यूनत्वमुपैति । तद्यथा-विलासवत्याः पुत्रहीनताजन्यविषादस्य वर्णनम्, चन्द्रापीडं प्रेक्ष्य विलासिनीनां विलासवर्णनम्, पुण्डरीकमवलोक्य महाश्वेतायाः प्रेमोद्रेकवर्णनम्, चन्द्रापीडं निरीक्ष्य कादम्बर्या मनोभाववर्णनम्, पुण्डरीकनिधने महाश्वेतायाः कपिञ्जलस्य च विलापवर्णनं बाणस्य सूक्ष्मेक्षणं सहृदयत्वं सहानुभूतिप्रवणत्वं च परिचाययति । शुकनासोपदेशे कवेः प्रतिभायाश्चरमोत्कर्षो लक्ष्यते । तत्र कवेर्लेखनी 'भावोद्रे के प्रवहमानेव प्रतीयते । शुकनासोपदेशे साक्षात् प्रतीयते यत्-'वाणी बाणो बभूव ह'। बाणः कवीनामिह चक्रवर्ती-बाणस्य कृतिद्वये प्रतिपदं प्रौढकवित्वदर्शनात् सोड्ढलेन 'बाणः कवीनामिह चक्रवर्ती' इति समर्थ्यते । बाणस्य वर्णनेषु भाव-भाषयोः सामञ्जस्यम्, भावानुकूलभाषाप्रयोगः, अलंकाराणां सुसंयतो विनियोगः, भाषायाम् आरोहावरोही, दीर्घतरसमस्तपदावलीप्रयोगसमनन्तरमेव लघुपदावलीप्रयोगो विशेषतोऽवलोक्यते । Page #151 -------------------------------------------------------------------------- ________________ १३४ संस्कृतनिबन्धशतकम् सर्वत्रैव वर्णने प्राग् विषयस्य साङ्गोपाङ्गनिरूपणम्, ततश्च समासबहुलं वर्णनम्, ततश्च श्लेषमूला उत्प्रेक्षा उपमाश्च, ततश्च विरोधाभासेन परिसंख्यालंकारेण वा समापनम् । श्लेषमूलासु उपमासु, विरोधाभासे, परिसंख्यायां च पाण्डित्यप्रदर्शनेन क्लिष्टत्वं दुर्बोधत्वं च परिलक्ष्यते । क्वचिद् वर्णनेषु तथाविधो विस्तारो यथा कृतेऽपि प्रयासे क्रियापदप्राप्तिः सूदुर्लभा । महाश्वेतादर्शने प्रयुक्तं वाक्यं ६७ पंक्ति-विस्तृतम् । कादम्बरीदर्शने प्रयुक्तं वाक्यं तु विस्तृतं सत् ७२ पंक्तिविशालताम् अभजत् । विशेषणानां विशेषणानि, तदनु तेषामपि विशेषणानि गहनत्वम् आमादयन्ति, यत्र क्रियापदं विलुप्तमिव प्रतिभाति । कथाप्रवाहश्च निरुद्ध इव प्रतीयते । वर्णनान्येतानि सहृदयहृदयावर्जकानि, परं कथाप्रवाहनिरोधः कथात्वं व्याहन्ति । बाणस्तु पञ्चाननः--श्रीचन्द्रदेवो बाणस्तुतिम् आचक्षाणो बाणस्य विन्ध्याटवीरूप-संस्कृतवाङ्मये निर्भीकत्वेन, प्रतिद्वन्द्विकविदर्पदलनेन, सर्वविषयावगाहिज्ञानसंपन्नत्वेन रस-भाव-भाषालंकारप्रयोगवैदग्ध्येन, अर्थगौरवान्वितत्वेन, ध्वन्यात्मकत्वेन च तस्य पञ्चाननत्वं सिंहत्वं वा प्रतिपादयति श्लेषे केचन शब्दगुम्फविषये केचिद् रसे चापरेडलंकारे कतिचित्सदर्थविषये चान्ये कथा-वर्णने । आः सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरी संचारी कवि-कुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः॥ श्रीचन्द्रदेवो विन्ध्याटवीवर्णनमाश्रित्यैव तस्य पञ्चाननत्वं व्याहरति ।। वस्तुतः समग्रमपि तस्य वर्णनं भावगहनं गहनमिव हृदयम् अवगाहते । यथा विन्ध्याटवीवर्णने समासभूयस्त्वस्य ओजोगुणस्य विरोधाभासस्य च संमिश्रणम् उन्मदमातङ्गकपोलस्थलगलितमदसलिलसिक्तेनेव निरन्तरमेलालता-वनेन मदगन्धिनान्धकारिता, प्रेताधिपनगरीव सदासंनिहितमृत्युभोषणा महिषाधिष्ठिता च,...."करसत्त्वापि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम। ऋषेर्जाबालेवर्णने कलायाः कल्पनायाश्च हृद्यं सामञ्जस्य दृश्यते स्थैर्येणाचलानां गाम्भीर्येण सागराणां तेजसा सवितुः, प्रशमेन तुषाररश्मेनिर्मलतयाऽम्बरतलस्य संविभागमिव कुर्वाणम्,' शन्तनुमिव प्रियसत्यव्रतम् ....: पशुपतिमिव भस्मपाण्डुरोमाश्लिष्टशरीरं भगवन्तं जाबालिमपश्यम् । -अच्छोदसरोवरवर्णने सरसोऽच्छत्वमिव भाषायाः स्वच्छत्वमपि प्रेक्ष्यम्- तस्य तरुखण्डस्य मध्यमागे मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः , निर्गमनमार्गमिव सागराणाम्, निस्यन्दमिव दिशाम्, अंशावतारमिव गगनतलस्य, कैलासमिव द्रवतामापन्नम्, चन्द्रातपमिब रसतामुपेत्रम्-हाट्टहासमिब जलीभूतम्,' Page #152 -------------------------------------------------------------------------- ________________ बाणोच्छिष्टं जगत्सर्वम् १३५ मदनध्वजमिव मकराधिष्ठितम् . . अतिमनोहरम् अच्छोदं नाम सरो दृष्टवान् । हृदयवसतिः पञ्चबाणस्तु बाणः-प्रसत्र राघवकारो जयदेवो बाणं कविताकामिनी-मनोमन्दिर-वासिनं साक्षात् कामदेवमेव मनुते । तस्य कविताकामिनी सर्वमनोमोहिनी, सर्वचित्ताकर्षिका च । उच्यते च हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः । केषां नैषा कथय कविता-कामिनी कौतुकाय ॥ बाणो रससिद्धः कवीश्वरः । शृङ्गार रसोऽस्य प्रेष्ठो रसः। स संभोगविप्रलम्भ-पक्षद्वय-वर्णने समरूपेण दक्षः । संभोगशृङ्गारवर्णनापेक्षया विप्रलम्भ वर्णने तस्य लेखनी प्रवाहमधुरा प्रचारचतुरा च । महाश्वेता कादम्बरी च स्वप्रियतमं प्रेक्ष्य कथमिव व्याकुलतां भजतः, कथं प्रेमाङ्करोदयः, कथं विकासः पल्लवितत्वं पुष्पितत्वं चेति एतस्य मनोवैज्ञानिक विश्लेषणं तस्य कवितमत्वं पञ्चबाणत्वं च साधयति । यथा-'अनन्तरं च मेऽन्तर्मदनावकाशमिव दातुमाहितसंताना निरीयुः श्वासमारुतः । साभिलाषं हृदयमाख्यातुमिव स्फुरितमुखमभूत् कुचयुगलम् । स्वेदसलिललवलेखाक्षालितेवागलल्लज्जा"। कादम्बरी __ महाश्वेतावर्णने तस्यां यौवनप्रवेशस्य एकावलीमूलकं वर्णनं कथमिव मनोज्ञताम् उद्वहति 'क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन, नवयौवनेन पदम् । कादम्बरी हर्षचरिते मातुर्यशोवत्या हर्ष प्रत्युक्तिः भावभाषाप्रसादादिगुणैः सर्वथा हृदयं द्रावयति- वत्स, नासि न प्रियो निर्गुणो वा परित्यागार्हो वा। स्तन्येनैव सह त्वया पीतं मे हृदयम्। कुलकलत्रमस्मि चारित्रधना धर्मधवले कुले जाता। वीरजा वीरजाया वीरजननी च मादृशी पराक्र मक्रीता कथमन्यथा कुर्यात् । हर्ष० ___कादम्बरीरसज्ञानाम् आहारोऽपि न रोचते--'शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते' ( सरस्वतीकण्ठाभरण )। बाणः पाञ्चालीरीतेमर्धन्यः कविः । अत्र भाव-भाषयोः सामञ्जस्यमपेक्ष्यते। भावानुकला भाषा, रसानुकूला च भाषा, एवं भाषाया भावस्य च समन्वयेन क्वचित् समासबहुला पदावली, क्वचित् समासरहिता प्रसादमाधुर्यगुणसमवेता सालंकृता च पदपङ्क्तिः । नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः।। विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुर्लभम् ॥ हर्षचरित १-८ इत्यनेन कवेरभीष्टं निर्दिश्यते यत् स स्वीये काव्ये अर्थगौरवं रसपरिपाकम् ओजोगुणयुतं शब्दसंयोजनं चाकाङ्क्षति । अतएव क्वचिद् ओजोगुणः, Page #153 -------------------------------------------------------------------------- ________________ १३६ संस्कृतनिबन्धशतकम् क्वचिद् रसानुकूलं वर्णनम्, क्वचिदर्थगौरवं च परिलक्ष्यते । बाणस्य वर्णनशैली तथा सुमधुरा रसप्रधाना गुणवती यथा एकदा कादम्बरी-पठने प्रवृत्तो मानवः स्वाहारमपि न रोचते। कथायां तथौत्सुक्यं विस्मयत्वं च यथा परिणामजिज्ञासुर्जनो न पाठं निरुन्धे । चन्द्र एव चन्द्रापीड: शूद्रकश्च, पुण्डरीक एव वैशम्पायनः शुकश्च, लक्ष्मी रेव चाण्डालकन्येति को विश्वसितुं पारयति । एतदद्भुतत्वमेव कादम्बर्या रोचकत्वं वर्धयति । केचन हृद्याः प्रसङ्गा अत्रोपस्थाप्यन्ते । वसन्तर्तुवर्णने कोमलकान्तपदावल्याः समन्वयो लक्ष्यः। . कोमलमलयमारतावतारतरङ्गितानङ्गध्वजांशुकेषु........."मधुकरकुलकलङ्ककालीकृतकालेयककुसुमकुड्मलेषु मधुमासदिवसेषु० । कादम्बरी सन्ध्यावर्णने उत्प्रेक्षाणां माधुर्यं यथा क्वापि विहृत्य दिवसावसाने लोहिततारका तपोवनधेनुरिव कपिला परिवर्तमाना सन्ध्या मुनिभिरदृश्यत । अपराम्भसि पतिते दिनकरे....अम्भःसीकरनिकरमिव तारागणम् अम्बरम् अधारयत् । कादम्बरी शुकनासोपदेशे विरोधाभासमूलकं लक्ष्मीस्वभाववर्णनम् । यथा___ उन्नतिमादधानापि नीचस्वभावताम् आविष्करोति । अमृतसहोदरापि कटुकविपाका । विग्रहवत्यपि अप्रत्यक्षदर्शना । पुरुषोत्तमरताऽपि खलजनप्रिया। कादम्बरी . शुकनासोपदेशे प्रसादगुणोपेता पदावली । यथा-- न परिचयं रक्षति । नाभिजनमीक्षते। न रूपमालोकयते। न कुलक्रममनुवर्तते । न शीलं पश्यति । न वैदग्ध्यं गणयति । न श्रुतमाकर्णयति । काद० एवं सिध्यति-बाणोच्छिष्टं जगत्सर्वम् । Page #154 -------------------------------------------------------------------------- ________________ ३८. संस्कृत-साहित्ये गद्यस्य विकासः (गद्य-काव्य-परम्परा) गद्यस्य स्वरूपम्-विश्वनाथेन साहित्यदर्पणे काव्यं द्विधा विभज्यतेदृश्यं श्रव्यं च । दृश्ये नाटकादिकं श्रव्ये काव्यादिकं च । श्रव्यस्यापि भेदद्वयम्पद्यकाव्यं गद्यकाव्यं चेति । तत्र गद्यस्य लक्षण निर्दिश्यते-वृत्तबन्धोज्झितं गद्यम् ( सा० द० ६-३३० ), अर्थाद् यत्र पद्यरचनायाः प्रतिबन्धो न स्यात् तद् गद्यम् । अग्निपुराणे गद्यलक्षणम् उच्यते-'अपादः पदसन्तानो गद्यं तदपि कथ्यते'। दण्डिनापि काव्यादर्श 'अपादः पदसन्तानो गद्यम्' ( काव्यादर्श १-२३) इत्युच्यते। ___गद्यकाव्यस्योत्पत्तिः-गद्यकाव्यस्योत्पत्तिविषये मतत्रयं प्रस्तूयते । (१) गद्यकाव्यस्योत्पत्तिः पद्यकाव्येभ्यो लोककथामाध्यमेन समभवत् । (२) ग्रीकगद्यरचनाभ्यो भारतीयगद्यकाव्योद्भवः । ( ३ ) पद्य-काव्य-समानान्तरम् एव स्वाभाविकक्रमिकविकासेन गद्यकाव्योत्पत्तिः । प्रथममतस्याभिमतमिदं यत् संस्कृतगद्यकाव्यानि मलतः सस्कृतपद्यकाव्योद्भूतानि । पद्यकाव्यशैलीम् अनुसृत्यैव कृत्रिमता, पाण्डित्यप्रदर्शनम्, रसालंकारादि-प्रयोगश्च तत्रोपलभ्यते। द्वितीयं डॉ० पीटर्सन ( Peterson )-प्रभृतिभिः प्रस्तूयते यद् भारतीय-गद्यकाव्यानि ग्रीकगद्यकाव्यानुसरणमूलानि । प्रो० सिल्वां लेवी ( Sylvan Levi ) मतमेतत् खण्डयति यद् ग्रीकगद्यकाव्ये कथासंयोजने बलाधानम्, भारतीयगद्यकाव्येषु तु रसालंकाराणां शैल्याः प्रकृतिवर्णनादीनां च प्राधान्यं लक्ष्यते । एवं द्वयोर्मोलिकभेदेन सर्वथा वैषम्यमिति विज्ञायते । प्रो० लाकोटे ( Lacote ) तु ग्रीकगद्यकाव्ये भारतीयगद्यकाव्यस्य प्रभावं साधयति । अतः सिध्यति यत् संस्कृतगद्यकाव्यस्य ग्रीकगद्यकाव्याद् उद्भवस्य मतं निःसारमेव । सूक्ष्मदृष्ट्या विविच्यते चेत् तृतीय मतं समीचीनतमं प्रतीयते। पद्यकाव्यधारा-समानान्तरमेव गद्यकाव्यधारापि दृग्गोचरतामुपयाति । न केवलं लौकिककाव्येऽपि तु वैदिकवाङ्मयेऽपि ऋग्वेदकालिकपद्यसमकालमेव यजुर्वेदीयम् अथर्ववेदीयं च गद्यम् उपलभ्यते । अतएव महाभाष्ये (४-३-८७ ) वासवदत्तासुमनोत्तरा-भैमरथो-प्रभृतीनाम् आख्यानग्रन्थानाम् उल्लेखः प्राप्यते । महाकवेर्दण्डिनः पूर्वमपि गुणाढयकृता बृहत्कथा, श्रीपालितकृता तरङ्गवती, धनपालकृता तिलकमञ्जरी, रुद्रदाम्नो गिरिनारशिलालेखः, प्रयागस्तम्भे हरिषेणकृता समुद्रगुप्तप्रशस्तिश्चेति गद्यकाव्यपरम्परा गद्यकाव्यस्य नैरन्तर्यम् अविच्छिन्नत्वं च प्रतिपादयति ।' १. विस्तरशो विवेचनाथं द्रष्टव्यम्-लेखककृत-सं० सा० समीक्षात्मक इतिहास, पृष्ठ ४५४-४५६ Page #155 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् गद्यकाव्यस्य विकासः - गद्यकाव्यस्य विकासे सर्वप्रथमं वैदिकगद्यं दृग्गोचरीभवति । 'शेषे यजुः शब्द:' ( पूर्वमीमांसा २-१ - ३७ ) इत्यत्र पद्य - गीतिभिन्नं गद्यं यजुरिति कथ्यते । वैदिकगद्यस्य प्राचीनतमं रूपं शुक्लयजुर्वेदे, कृष्णयजुर्वेदस्य तैत्तिरीय - काठक - - मैत्रायणी -संहितासु प्राप्यते । अथर्ववेदेऽपि प्रचुरो गद्यांशोऽवलोक्यते । सर्वेऽपि ब्राह्मणग्रन्थाः प्रायशो गद्यात्मका एव । तत्रापि ऐतरेय - तैत्तिरीय - शतपथब्राह्मणेषु गद्यांशस्य बाहुल्यं परिलक्ष्यते । 1 १३८ वेदाङ्गसंबद्धाः प्रातिशाख्यग्रन्थाः, श्रोत- गृह्य-धर्म-शुल्वेति चतुविधाः कल्पग्रन्थाः, निरुक्तं च गद्यात्मकसूत्रपद्धत्या निबद्धाः सन्ति । J पुराणानि यद्यपि पद्यांशबहुलानि तथापि महाभारते, विष्णुपुराणे, भागवतपुराणे च प्रचुरो गद्यांश आसाद्यते । भागवतादिषु ललितपदबन्धनम् अलंकारादिसमन्वितं प्रौढम् अनवद्यं च गद्यं प्रेक्ष्यते । वैदिक-सूत्रग्रन्थ परम्परायामेव शास्त्रीयगद्यमपि विकसितम् । भारतीय षड्दर्शनं सूत्रात्मक - गद्यशैल्यामेव विकासमलभत । पाणिनिकृता अष्टाध्यायी सूत्रात्मक गद्यशैल्या आदर्शीभूता । शास्त्रीय भाष्य परम्परायां यास्कप्रणीतं निरुक्तम्, जयन्तभट्टकृता न्यायमञ्जरी, शबरस्वामिकृतं मीमांसाभाष्यम्, शङ्कराचार्यकृतं ब्रह्मसूत्र-शारीरकभाष्यं च प्रथिततमा गद्यग्रन्थाः । पतञ्जलेर्व्याकरण-महाभाष्यं प्रसादगुणाञ्चितशैल्याः समाश्रयेण लोकप्रियतायां चरमोत्कर्षं धत्ते । कौटिलीयम् अर्थशास्त्रमपि शास्त्रीयगद्यनिदर्शनत्वेनाश्रयणीयम् । पतञ्जले महाभाष्ये साहित्यिक गद्य-ग्रन्थानामप्युल्लेख उपलभ्यते । तत्र आख्यायिका - ग्रन्थत्रयं तेनोल्लिख्यते - १. वासवदत्ता, २. सुमनोत्तरा, ३. भैमरथी । ततश्च गुणाढ्य ( ७८ ई० ) - कृता बृहत्कथा बहुचर्चिता, गद्यकाव्योपजीव्यत्वेन चाङ्गीक्रियते । आचार्यदण्डिनः पूर्ववर्तिनः केचन गद्यग्रन्थाः प्राप्यन्ते । तत्रेमे प्राधान्येनोल्लेखमर्हन्ति–आन्ध्रभृत्यनृपाणां संरक्षणे प्रणीतानि गद्यकाव्यानि वर्तन्ते - श्रीपालितकृता तरङ्गवतो, अज्ञातकविकृता मनोवती शातकर्णीहरणं च । धनपालेन तिलकमञ्जर्याम् अभिनन्देन रामचरिते च श्रीपालितकृता तरङ्गवती प्रशस्यते । जल्हणकृत-सूक्तिमुक्तावल्यां कुलशेखरवर्म-कृता आश्चर्यमञ्जरी शीलाभट्टारिकायाश्च पाञ्चालीरीत्यां विलिखिता गद्य-कृतिश्च निर्दिश्येते । बाणेन हर्षचरितभूमिकायां भट्टारहरिचन्द्रस्य गद्यकाव्यं प्रशस्यते । 'भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते' ( हर्ष ० भू० श्लोक १२ ) । केचन शिलालेखादयोऽपि प्राप्यन्ते । महाक्षत्रपस्य रुद्रदाम्नः ( १५० ई० ) Page #156 -------------------------------------------------------------------------- ________________ संस्कृत-साहित्ये गद्यस्य विकासः १३९. गिरिनार - शिलालेखे समासालंकारप्रचुरं गद्यं प्राप्यते । तत्र रुद्रदामा 'स्फुट -- लघु-मधुर-चित्र कान्त शब्दसमयोदारालंकृत-गद्य-पद्य लेखन-निपुणः' उदीर्यते । प्रयागस्तम्भे हरिषेण ( ३५० ई० ) - कृता समुद्रगुप्त - प्रशस्तिः ३५ पंक्तिपरिमिते एकस्मिन्नेव गद्यवाक्ये समाप्यते । यथा— 'तस्य विविधसमरशतावतरणदक्षस्य स्वभुजबलपराक्रमैकबन्धोः महाराजाधिराज श्रीसमुद्रगुप्तस्य सर्वपृथ्वीविजयजनितोदयव्याप्तनिखिलावनितलां कीर्तिम् इतस्त्रिदशपतिभवनगमनावाप्तललितसुखविचरणामाचक्षाण इव भुवो बाहुरयमुच्छ्रितः स्तम्भः ।' हरिषेणकृतं रुचिरं गद्यं बाणस्य समासबहुलाया गद्यशैल्याः पूर्वरूपम् अवगन्तव्यम् । दण्डी - ततश्च गद्यकाव्यस्य स्वर्णयुगः प्रारभते । सर्वप्रथमं दण्डिनो दशकुमारचरितम् सुबन्धोर्वासवदत्ता, बाणस्य हर्षचरितं कादम्बरी चेति गद्यकाव्यस्य रत्नानि समुपलभ्यन्ते । दण्डि - सुबन्धु- बाणभट्टा गद्यकवीनां बृहत्त्रयीरूपेणाभिनन्द्यन्ते । संस्कृत - गद्यकाव्यस्य परिष्कृतं प्राञ्जलं विशदं च रूपं दण्डिनो दशकुमारचरिताद् दृष्टिपथम् उपयाति । दण्डिनो गद्यं सरस्वत्या विलासमणिदर्पणरूपेण मधुराविजय महाकाव्य रचयित्र्या गङ्गादेव्या स्तूयते— आचार्यदण्डिनो बाचामाचान्तामृतसंपदाम् । विकासो वेधसः पत्न्या विलासमणिदर्पणम् ॥ गंगादेवी सुबन्धुः—सुबन्धु-कृत-वासवदत्तायाम् अलंकृता श्लेषबहुला शैली दृग्गोचरतामायाति । 'ओजः समासभूयस्त्वमेतद् गद्यस्य जीवितम्' इति सर्वात्मरूपेण सुबन्धौ उपलभ्यते । कविः स्वकाव्य प्रशंसायामुल्लिखति - प्रत्यक्ष र श्लेषमय -- प्रबन्धविन्यास वैदग्ध्यनिधिर्निबन्धम् ( वासव० भू० १३ ) बाणभट्टः— महाकवेर्बाणभट्टस्य गद्यकाव्यरत्नद्वयम् आसाद्यते - हर्षचरितं कादम्बरी च । तत्रहर्षचरिते 'ओजः समासभूयस्त्वम् ० ' इत्यनुसृत्य दीर्घसमासयुक्ता पदावली पाण्डित्य प्रदर्शनं च प्रतिपदं निरीक्ष्यते । कादम्बरी सरस-मधुर- पदावली-संगता, रुचिरभावाभिरम्या, सरसा सालंकृतिः तरुणीव विदग्धमनोमोहिनी गद्यकाव्यसर्वस्वभूता च । कादम्बर्यां बाणः स्वपाण्डित्यप्रकर्षं सहृदयहृदयाह्लादजननरूपेण विनियुङ्क्ते | सितामधुरं व्यञ्जनमिव सर्वथा सर्वतश्च मधुरात्मिकैव कादम्बरी । अतएवोच्यते - ' कादम्बरीरसज्ञानाम् आहारोऽपि न रोचते' । परवर्तिगद्यकाव्येषु धनपालस्य तिलकमञ्जरी, अम्बिकादत्तव्यासस्य शिवराजविजयः, विश्वेश्वरपाण्डेयस्य मन्दारमञ्जरी, हृषीकेशभट्टाचार्यस्य प्रबन्धमञ्जरी - नामको निबन्धसंग्रहः, पण्डिता क्षमारावकृता कथामुक्तावली, राम-शरण त्रिपाठिकृता कौमुदीकथाकल्लोलिनी च विशेषरूपेणोल्लेख मर्हन्ति । Page #157 -------------------------------------------------------------------------- ________________ ३९. नाटकोत्पत्तिविषयका वादाः ( नाट्योत्पत्ति-समीक्षा) नाट्योत्पत्तिस्तु वेदेभ्य इन्द्रध्वजमहाग्रणीः। पर्वाणि रासलीलाद्याः विकासाङ्गस्वरूपिणः॥ ( कपिलस्य ) नाटकानाम् उत्पत्तिः'-भारतीयनाटकानाम् उत्पत्तिविषये विविधा वादा भारतीयैः पाश्चात्त्यैश्च विद्वद्भिः प्रस्तूयन्ते । एतस्मिन् विषये सर्वप्रथम भारतीया परम्परा विवेचनम् अर्हति । भारतीय-परम्परा-भारतीय-नाट्यशास्त्रस्योत्पत्तिविषये महामुनिना भरतेन स्वीय-नाट्यशास्त्रे उल्लिख्यते यद् देवानां प्रार्थनाम् उररीकृत्य ब्रह्मा चतुर्वेदाङ्गसंभवं सर्ववर्णरुचिकरं पञ्चमं वेदं नाट्यशास्त्रं नाट्यवेदं वा प्रणिनाय । स वेदचतुष्टयाद् नाट्यशास्त्रोपयुक्तं तत्त्वचतुष्टयं जग्राह । ऋग्वेदात् पाठ्यम, सामवेदाद् गीतम्, यजुर्वेदाद् अभिनयम्, अथर्ववेदाच्च रसतत्त्वम् । एवं पञ्चमो वेदोऽयं नाट्यवेदः सर्ववर्णमनोरञ्जकत्वेन प्रादुरभवत् । उक्तं च नाट्यशास्त्रे तस्मात् सृजापरं वेदं पञ्चमं सार्ववणिकम् ॥ ना० शा० १-१२ एवं संकल्प्य भगवान् सर्ववेदाननुस्मरन् । नाट्यवेदं ततश्चक्र चतुर्वेदाङ्गसंभवम् ॥ ना० १-१६ जग्राह पाठ्यमृग्वेदात् सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ ना० १-१७ ऋक्संवाद-सूक्तवादः-वादस्यैतस्य प्रवर्तकाः प्रायशः पाश्चात्त्या 'विपश्चित एव । तत्र मख्याः सन्ति-प्रो० मैक्समूलर ( Max Muller ), प्रो० सिल्वां लेवी ( Sylvan Levi ), प्रो० फॉन श्रोएदर ( von Schroeder , डा० हर्टल ( Hertel )- प्रभृतयः । एषां मतं भारतीयपरम्परया प्रचुरं साम्यं धत्ते । एतन्मतानुसारं संस्कृतनाटकानाम् उत्पत्तिः ऋग्वेदीयसंवादसूक्तेभ्यः समजनि । ऋग्वेदे कानिचित् संवादसूक्तानि उपलभ्यन्ते । तेषाम अभिनयात्मिका व्याख्यापि प्रस्तोतुं शक्या । यथा-इन्द्र-मरुत्-संवादः, विश्वामित्र-नदी-संवाद:, यम-यमी-संवादः, पुरूरवा-उर्वशी-संवादश्चेति । प्रो० ओल्डेनबर्ग ( Oldenberg ), विन्डिश (Windisch ), पिशेल ( Pischel ) - प्रभृतीनां मतमेतद् यत् सूक्तान्येतानि नाटकीयतत्त्वोपेतानि समभूवन् । वीरपूजावादो मृतात्मश्राद्धवादो वा-प्रो० रिजवे ( Ridgeway ) नाटकोत्पत्ति वीरपूजावादेन मृतात्मश्राद्धवादेन वा मनुते । विश्वस्य सर्वासु १. विशद-विवेचनार्थ द्रष्टव्यम्-लेखककृत-संस्कृत साहित्य का समीक्षात्मक इतिहास पृष्ठ २६५-२६९। Page #158 -------------------------------------------------------------------------- ________________ नाटकोत्पत्तिविषयका वादाः १४१ संस्कृतिषु मृतात्मनां स्मृतौ श्रद्धाप्रदर्शनम् अवलोक्यते । यूनानदेशे दुःखान्तनाटकानां विकासो मृतात्मश्रद्धापद्धत्याः संजातः, तद्वद् भारतेऽपि वीरपुरुषेभ्यः श्रद्धाप्रदर्शनप्रक्रियया नाट्योत्पत्ति: संजाता। एतन्मतं न भारतीयैर्न च पाश्चात्त्यैर्विद्वद्भिः स्वीक्रियते । एतन्मतानुसारं यूनानदेशोद्भवानां दुःखान्तानां नाटकानाम् उत्पत्तिवर्णयितुं शक्या, परं भारतीयसुखान्तनाटकानां जन्म एतन्मतानुसारं न शक्यं न च ग्राह्यम् । __ पर्ववादः--पाश्चात्त्यविद्भिर्मतमेतत् प्रस्तूयते यद् यूरोपदेशे मे-पोल ( : 'ay pole )-नामकं पर्व साभिनयम् आयोज्यते । तद्वत् इन्द्रध्वजमहोत्सवोऽपि अभिनयप्रधानोऽभूत् । परस्तादपि पर्वसु अभिनयादीनाम् आयोजनं संलक्ष्यते । एतादृशेभ्य आयोजनेभ्यो नाटकोत्पत्तिरवगन्तव्या। एतन्मतमपि न विद्वद्भिराद्रियते । तत्र नाभिनयादीनां प्राधान्यम्, अपि. तु स्वहर्षोद्भावन-पुरःसरं नृत्यादिकं तत्रायोज्यत । रासलीलावादः--कैश्चिदेतन्मतमपि प्रस्तूयते यत् कृष्णस्य रासलीला, कृष्णोपासना-संबद्धा विविधा रासलीलाश्च नाटकानां मूलत्वेनावगन्तव्याः । एतन्मतमपि मूलरूपेणास्वीकार्यम् । यद्येवं स्वीक्रियते तहि शिव-विष्णरामादि-संबद्धानि नाटकानि न व्याख्यातुं शक्यानि । वैशिकाभिनयवादः ( स्वांगवादः)--प्रो० हिलब्रांड ( Hillebrandt ), प्रो० स्टेन कोनो ( Sten konoN )- प्रभृतीनां मतमेतद् यद् लोकप्रियवैशिकाभिनयेभ्यः 'स्वाँग'-नामकेभ्योऽभिनयेभ्यो नाटकानाम् उत्पत्तिः । वैशिकाभिनया एव रामायण-महाभारतादिकथासंबद्धा नाटकानां मूलरूपाः । एतन्मतमपि न विद्वदभिमतम् । वैशिकाभिनयाः परिष्कृतनाटकानामेव विकृतरूपाः । एते चासभ्यैः अर्धसभ्यैश्च जनैः प्रयुज्यन्ते । पुत्तलिकानत्यवादः-शर्मण्यदेशीयो विद्वान् डा० पिशेल ( Pischel )महोदयः पुत्तलिकानृत्यमेव नाटकस्य मूलरूपं मनुते । पुरा पुत्तलिकानत्यं प्रचलिततमम् अभवत् । संस्कृतनाटकेषु प्रयुक्तौ सूत्रधार-स्थापक-शब्दो एतदेव अभिव्यक्तः । अत्र सूत्रग्रहणं स्थापनं चेति मतमेतत् पोषयतः ।। एतन्मतमपि न सहृदयहृद्यम् । पुलिकानृत्यमपि परिष्कृतनाटकानामेव विकृतं रूपम्, अशिक्षितजनप्रयुक्तं च । एतादृशेन सामान्यनृत्येन रसभावविभूषितानां भारतीयनाटकानाम् उत्पत्तिरिति निष्प्रमाणम् अग्राह्यं चैतत् । छायानाटकवादः--प्रो० ल्यूडर्स ( Luders ), प्रो० स्टेन कोनो ( Sten kono's ) च समर्थयेते यद् छायानाटकेभ्यः ( Shado wplays ) नाटकानाम् उद्भवः । एतन्मतमपि अपुष्टप्रमाणमूलत्वाद् निराधारत्वाच्च न विद्वज्जन Page #159 -------------------------------------------------------------------------- ________________ १४२ संस्कृतनिबन्धशतकम् स्वीकार्यम् । प्राचीनतमे काले छायानाटकानां स्थितिर्न श्रूयते न च ग्रन्थेषूपलभ्यते। यूनानदेशीय-प्रभाववाद:--प्रो० वेबर (weber ), प्रो० विन्डिश ( Windisch )- महोदयौ मतमेतत् समर्थयेते यद् भारतीयनाटकानां जन्म यूनानदेशीयप्रभावमूलकमेव । 'यवनिका' शब्दश्च मूलमेतस्य । एतन्मतमपि न निर्दोषम् । डा० कीथ ( Keith ) महोदयः स्वीये 'संस्कृत नाटक'-ग्रन्थे विषयेऽस्मिन् प्रभूत-विवेचनानन्तरं निष्कर्ष प्रस्तौति यद् भारतीयनाटकेषु यूनानदेशीय-प्रभावावस्थापनं सर्वथा असंगतम् असमीचीनं च । विषयेऽस्मिन् अधोविन्यस्तम् अवधेयम् - (१) यवनिका' शब्दम् आश्रित्य भ्रम एषः। 'यवनिका'-शब्दो यवनदेशागत-वस्त्रनिर्मितावरणं द्योतयति । एतन्मूलको यवनदेश-प्रभावो निराधारः । (२) संस्कृतनाटकानां विभाजनं कार्यविश्लेषणमूलकम, न तु तत्तथा यवनदेशीयनाटकेषु । (३) भारतीयनाटकानि सुखान्तानि, न तू दुःखान्तानि । यूनानदेशीयनाटकानि प्रायशो दुःखान्तानि । (४) संस्कृतनाटकेषु काल-समय-क्रियारूपस्य अन्वितित्रयस्य संकलनत्रयस्य वा ( uuity of time, place and action ) सर्वथा अभावः। यनानदेशीयनाटकेषु अन्वितित्रयम् अनिवार्यरूपेण प्रयुज्यते। (५.) आवरणार्थको 'यवनिका'-शब्दो वस्तुतो 'जवनिका'-शब्दः । जकारादिरयं न तु यकारादिः । ( ६ ) पात्रसंख्यादृष्ट्यापि द्वयोर्महद् वैषम्यम् । (७) भारतीयनाटकेषु अङ्गरक्षिकारूपेण 'यवनीनाम्' उपयोगः। अतस्तन्मूलको यवनदेशप्रभावोऽसंगतः । (८) रङ्गमञ्चदृष्ट्यापि द्वयोर्नाटयशालानिर्माणे महदन्तरम् । विन्डिशमहोदयस्तु स्वीकुरुते यत् प्रेक्षागृहनिर्माणदृष्ट्या द्वयोस्तुलनाऽपि न संभाव्यते । निष्कर्षः-नाटकोत्पत्तिविषयक-विविधवादानां विवेचनेन प्रतीयते यद् नाट्यशास्त्रे भरतमुनिना यन्निर्दिश्यते तत् समीचीनतमम् । भरतो नाट्यवेदं चतुर्वेदाङ्गसंभवं मनुते । वेदचतुष्टय्यां पाठ्यस्य संगीतस्य अभिनयस्य रसानां चोपलब्धिर्भवति । नाटकस्य मूलत्वेन एतदेव तत्त्वचतुष्टयं गण्यते । ऋग्वेदीय-संवादसूक्तानि प्राक्तना अभिनयात्मकाः प्रयोगाः। एतादृशाः प्रयोगा न केवलं यज्ञसंबद्धा एव, अपितु धार्मिकक्रिया-कलापाङ्गभूताः । धार्मिका अभिनया लोकप्रियताहेतोः पर्वोत्सवादीनामपि अङ्गभूताः । एतस्मात् कारणादेव पुरा इन्द्रध्वजमहोत्सवादिषु परस्ताच्च रामलीला-कृष्णलीला-रासलीलादिषु धार्मिकाभिनयानां प्रयोगः। एवं पर्ववादो रासलीलावादश्च संस्कृत-नाट्यविकास-प्रक्रियाया अङ्गत्वेन विज्ञेयौ।। Page #160 -------------------------------------------------------------------------- ________________ ४०. अपारे काव्यसंसारे कविरेव प्रजापतिः ( १. भारती कवेर्जयति, २. इदमेव तत्कवित्वं यद् वाचः सर्वतो दिक्काः, ३. गिरः कवीनां जीवन्ति न कथामात्रमाश्रिताः). कवित्वं जीवनं ज्योतिर्दर्शनं प्रतिभात्मकम् ।। बोद्धृकर्तृत्वशक्तित्वं ज्ञानसारग्रहैकदृक् ॥ ( कपिलस्य ) किं नाम कवित्वम्--कविः क्रान्तदर्शी। यत्र यत्र क्रान्तदर्शित्वं त्तत्र तत्र कवित्वम् । क्रान्तर्शित्वाद् व्यापकज्ञानवत्त्वकारणादेव यजुर्वेद ईशोपनिषदि चेश्वरः कविरिति स्तूयते । 'कविर्मनीषी परिभूः' ( यजु० ४०-८ ) । मुण्डकोपनिषदि सत्यदर्शिनः तत्त्वार्थविदश्च कवय इति निगद्यन्ते ।। तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन् । तानि बहुधा सन्ततानि ॥ (मुण्डक० १-२-१) अत्र 'ऋषयो मन्त्रद्रष्टारः' इत्यर्थमाश्रित्य ऋषयः कवय इत्युच्यन्ते । तैस्तत्त्वदर्शिभिः मन्त्रेषु यानि कर्माणि दृष्टानि, तान्येव वेदत्रय्यां संनिहितानि । एवं संलक्ष्यते यत् तत्त्वार्थदर्शित्वम् ऋषित्वं कवित्वं च परस्परसंबद्धमेव । यत्र दिव्यम् अलौकिकं प्रतिभामूलकं कल्पनाजन्यं वा ज्ञानं संलक्ष्यते, तत्र कवित्वं स्वीक्रियते। अतएव श्रीभट्टतोतेन कविलक्षणं निदिश्यते यत्-तत्त्वदर्शनाद् ऋषिः । ऋषिरेव कविपदम् अलंकतु प्रभवति । यः तत्त्वदर्शने क्षमः, दिव्यज्ञानपरिष्कृतश्च स एव कविः । कविशब्दः 'कवृ वर्णे' धातोः सिध्यति । यः तथ्यवर्णने, वस्तुवर्णने, तत्त्वार्थचित्रणे च प्रभवति स कविः । अतएवादिकवेल्मिीके: तत्त्वार्थदर्शित्वेऽपि न कवित्वपदलाभः, परं यदैव तस्य वागुन्मेषः समभवत्, यदैव च कारुण्यपूर्णा भावावलिः शब्दशरीरम् आश्रित्य तरङ्गिता तरङ्गिणीव तरसा निर्जगाम, वचोभङ्गीमधुरा वर्णनहृद्या च उद्वेलेव भाव-भागीरथी प्रसृता, तदैव स आदिकविपदम् अलंचकार । उक्तं च भट्टतोतेन नानृषिः कविरित्युक्तम् ऋषिश्च किल दर्शनात् । विचित्रभावधर्माश-तत्त्वप्रख्या च दर्शनम् ॥ स तत्त्वदर्शनादेव शास्त्रेष प्रथितः कविः। दर्शनाद् वर्णनाच्चाथ रूढा लोके कविश्रुतिः ॥ । तथाहि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनेः। नोदिता कविता लोके यावज्जाता न वर्णना॥ इदमेव तत्कवित्वं यद् वाचः सर्वतोदिक्का:-कवित्वं हि केवलं वस्तुवर्णनेनैव न साफल्यम् अश्नुते । कवेः कर्म गूढतरं क्लिष्टतरं च । कविः लोकस्य मार्गप्रदर्शकः, आचार्यः, शिक्षकः, नीतितत्त्वोपदेष्टा, व्यवहारज्ञानशिक्षकश्च । Page #161 -------------------------------------------------------------------------- ________________ १४४ संस्कृतनिबन्धशतकम् अतएव कवी विविधविषयनिष्णातत्वस्य, अगाधज्ञानस्य, सहृदयत्वस्य, मनोवैज्ञानिकत्वस्य, अन्तर्दृष्टेश्च समन्वयोऽपेक्ष्यते। विविविषयावगाहिज्ञानेनैव स जीवनस्य सर्वाङ्गीणं विवेचनं विश्लेषणं च प्रस्तोतुं प्रभवति । सर्वाङ्गीणेन व्यापकेन च विवेचनेन कवेः कवित्वपदलाभः। भामहेन काव्यालंकारे कवेः कर्म निर्दिशता प्रोच्यते यत्-सर्वाः कलाः, सर्वा विद्याः काव्यस्याङ्गभूताः । तत्र बाह्यरूपस्य अलंकारादिरूप-कलापक्षाश्रयणेन, अन्तरात्मरूपस्य काव्यात्मतत्त्वस्य रसभावादिविवेचनेन संपुष्टिः संजायते । अतो भामहः कवेर्महतो भारस्योल्लेखं कुर्वन्नाह न स शब्दो न तद वाच्यं न सा विद्या न सा कला। जायते यन्न काव्याङ्गम, अहो भारो महान् कवेः ॥ एमर्सन ( Emerson ) - महादयोऽपि कवेर्वाणी स्तनयित्नुरूपेण विधानरूपेण च स्वीकरोति । Poet's speech i: thunder, his thought is lan, his words are universally intelligible is the plants and animals. -Emersɔ.1. शेली ( Shelley )- महोदयः कवेः कर्म आचारशिक्षकत्वेन समाजपथप्रदर्शकत्वेन चाङ्गीकरोति Poets are not only authors of language and music, but they are the institutɔrs of laws and founders of civil society and inventors of the art of life and the teachers who dray into a certain propinquity with the Beautiful and the True. -Shelley. गिरः कवीनां जीवन्ति०-कवेः कर्म काव्यम्, इत्याश्रित्य न केवलं वस्तुवर्णनेन, कथानकस्य पद्यात्मरूपप्रदानेन, इतिकर्तव्यता सिध्यति । तत्र किमपि मौलिकं तत्त्वम्, मौलिकं दर्शनम्, मौलिक चिन्तनं वाऽपेक्ष्यते, तदैव काव्य-गौरवम् । दर्शनाद् ऋते न ऋषित्वं न च कवित्वम् । उक्तं च'नानषिः कविरित्युक्तम, ऋषिश्च किल दर्शनात्'। जीवनस्य तात्त्विक विवेचनम्, विश्लेषणम्, गम्भीरं मनोवैज्ञानिकं चाध्ययनं काव्येऽनिवार्यम् । एतादृश-गुणसम्पन्न एव कविमूर्धन्यत्वं भजते। कॉलरिज ( coleridge )महोदयोऽपि प्रकृष्टदार्शनिकदृष्टिमन्तरेण न कवित्वमुरीकरोति । No man was ever yet a great poet without being at the same time a profound philosopher.—Coleridge. भारती कवेर्जयति-कवेर्भारती जगत्त्रयलोचनभूता लोकोपकारिणी च, अतएव सा प्रशस्यते । सा घोरे निशीथे ज्ञानज्योतिवलयति, अज्ञानान्ध Page #162 -------------------------------------------------------------------------- ________________ १४५ अपारे काव्यसंसारे कविरेव प्रजापतिः तमसं ध्वंसयति, मनोव्यथाम् अपहरति, शोकानलं शमयति, दुःखसन्तापं च दमयते । अतो रससिद्धानां कवीनां यशःकाये जरामरणजं भयं न लक्ष्यते । जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः। नास्ति येषां यशःकाये जरामरणजं भयम् ॥ कवित्वं न सुकरं कर्म । पूर्वपुण्याजित-संस्कारवशात् प्रतिभासंपन्नत्वम्, तदैव कवित्वम्, कवित्वे च शक्तिमत्त्वम् । अतएवाग्निपुराणे समर्थ्यते नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा। कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ॥ अग्निपुराण ३३७-४ एतस्मात् कारणादेव साहित्यसंगीतकलाविहीनस्य साक्षात् पशुत्वम् अभिधीयते साहित्यसंगीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः। तृणं न खादन्नपि जीवमानस्तद् भागधेयं परमं पशूनाम् ॥ अपारे काव्यसंसारे०-अपारे काव्य-जगति कविरेव प्रजापतिः । स यथैव वस्तुतत्त्वं प्रस्तोतुम् ईहते, तथा प्रस्तोतुं प्रभवति । अतएव मम्मटेन काव्यप्रकाशे विधातुः सृष्टेरपि कविसृष्टेमहत्त्वं प्रतिपाद्यते यत् कवेर्भारती सर्वथा स्वतन्त्रा, आनन्दस्वरूपा, विधिनियमैरनिगडिता, नवरसरुचिरा चेति । नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरा निमितिमादधती भारती कवेर्जयति ॥ काव्य० १-१ सर्वप्रथमम् अग्निपुराणे ( अ० ३३९ ) प्रोच्यते-'अपारे काव्यसंसारे कविरेव प्रजापतिः । यथा वै रोचते विश्वं तथैतत् परिवर्तते ॥' एतस्यैवाभिप्रायम् आदाय ध्वन्यालोके आनन्दवर्धनेनाप्युच्यते यत् कविः स्वेच्छया यद् वस्तु यथा निधित्सति, तथैव निदधाति । शृङ्गारी कविः सर्वं वर्णनं रसमयं विधत्ते, नीरसश्च नीरसम् । स चेतनम् अचेतनवद्, अचेतनं चेतनवच्च वर्णयितुं प्रभवति । 'कर्तुम् अकर्तुम् अन्यथाकर्तुं च यः प्रभवति स प्रभुः' इति लक्षणोक्तदिशा कवेः प्रभुत्वे न संशोतिलेशोऽपि । उक्तं च ध्वन्यालोके अपारे काव्यसंसारे कविरेकः प्रजापतिः। यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ शृङ्गारी चेत् कविः काव्ये जातं रसमयं जगत् । स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ॥ भावानचेतनानपि चेतनवच्चेतनानचेतनवत् । व्यवहारयति यथेष्टं सुकविः काव्ये स्वतन्त्रतया ॥ ध्वन्या०, उद्योत ३ कवेः स्वातन्त्र्यम् उद्वीक्ष्यैव 'निरङ्कुशाः कवयः' इति भण्यते । न केवलं चेतनाचेतनयोधर्मपरिवर्तने एव कविः प्रभवति, अपि तु स मानवं देवम्, देवं १० Page #163 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् च दानवं कर्तु क्षमते। महाकवेर्वाल्मीके: प्रभावेणैव श्रीरामचन्द्रो जगद्वन्द्यतामवाप, लङ्केश्वरो रावणश्च दानवत्वम् । अतो न कवयो जातु कोपनीयाः । ते सर्वत्रापचितिभाजः । उक्तं च बिल्हणेन लडापतेः संकुचितं यशो यद् यत्कोतिपात्रं रघुराजपुत्रः। स सर्व एवादिकवेः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रैः॥ विक्रमांक० सरसाः सहृदया एव कवेः कवित्वं काव्यश्रमं च श्लाघयितुं क्षमाः । अरसिकेषु कवित्वनिवेदनं मोघमेव । उच्यते च कुण्ठत्वमायाति गुणः कवीनां साहित्यविद्याश्रमजितेषु । कुर्यादनार्दैषु किमङ्गनानां केशेषु कृष्णागुरुधपवासः॥ विक्रमांक० अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥. Page #164 -------------------------------------------------------------------------- ________________ ४१. कविकुलगुरुः कालिदासो विलासः ( क. क इह रघुकारे न रमते, ख. मेघे माघे गतं वयः) विलासिनीलासमनोभिरामा, रामार्पितश्रीः श्रितसौकुमार्या । सालंकृतिर्वाग्वनिता विभाति, श्रीकालिदासस्य कलाकलापैः॥ (कपिलस्य) कालिदासस्य कवित्वम्-कविकुलगुरोः कालिदासस्य विषये प्रसन्नराघवे (१-२२) जयदेवभणितिरेषा । कविताकामिनीकान्तः कालिदासो न केवलं संस्कृतवाङ्मयस्य, अपि तु विश्ववाङ्मयस्य, मुकुटालंकारः। तस्य सूक्ष्मक्षिका बाह्यजगतोऽन्तर्जगतश्च तत्त्वजातं साक्षात्कुर्वन्ती सरसपदावल्याम् अनुस्यतां विधत्ते । तस्य कलात्मिका तूलिका नीरसेऽपि सरसताम्, कर्कशेऽपि कोमलताम्, कठोरेऽपि सुकुमारताम्, दुर्बोधेऽपि सुबोधताम् आपादयति । तस्य कलात्मिका रुचिः प्रतिपदं संलक्ष्यते। भाषायाम् असाधारणोऽधिकारस्तस्य काव्यं ध्वन्यात्मकं विधत्ते । भावानाम् अगाधता विविधता च काव्याकाशे ऐन्द्रधनुषीम् आभां संचारयति । तस्य भाषारूपा कालिन्दी, भावरूपा भागीरथी, सालंकृतपदावलीरूपा सरस्वती च संगमस्य महनीयं वैभवम् उपस्थापयति । ___ तस्य शैल्यां भाषासौष्ठवम्, मनोज्ञा भावाभिव्यक्तिः, अलंकाराणां सहजो विन्यासः, बाह्याभ्यन्तरप्रकृतेश्चारुचित्रणम्, रसानां मधुरः परिपाकः, जीवनदर्शनस्य रुचिरा स्थापना, विविधविद्यानिधानत्वम्, मनोभावानां मार्मिकी अनुभूतिश्च मनोज्ञं मणि-काञ्चन-संयोगम् उपस्थापयति । प्रकृत्या सह तादात्म्यानुभूतिस्तस्य काव्यगौरवं समेधयति । तस्य शैल्यां क्वचिद् उपमानां लालित्यम्, क्वचिद् अर्थान्तरन्यासस्य गाम्भीर्यम्, क्वचिद् उत्प्रेक्षाणां गगनचुम्बित्वम्, क्वचित् प्राञ्जलपदावली-सौकुमार्यम्, क्वचित् प्रसादः,क्वचिद् माधुर्यम्, क्वचित् कलाप्राधान्यम्, क्वचिच्च कल्पनाभिरामत्वं दरीदृश्यते । तथ्यनिरूपणप्रवणा हार्दिकभावोज्ज्वला कविता-कामिनी-स्वरूपनिरूपणपरा कालिदास-कृतिः कविताकामिन्या विलासत्वेन गण्यते। कालिदासः स्वकृतिभिः सर्वस्यापि जगतो वन्द्यताम् आपन्नो निर्विवादं स 'कविकुलगुरुः' इति सादरम् उद्घोष्यते। कालिदासस्य काव्येषु कवितावनिताया नैसर्गिक सौन्दर्यम्, अकृत्रिमा सुषमा, मनोरमं चारुत्वं च प्रतिपदं संलक्ष्यते । विविधरसपरिपाकः, प्राधान्येन शृङ्गाररसपरिपाकः, कस्य न कृतिनो भावततिम् उद्बोधयति आविर्भावयति च । प्रेक्ष्यं तावत् शकुन्तलाया अपूर्वम् अलौकिकम् अनाघ्रातम् अनाविद्धं च रम्यत्वम् । अनानातं पुष्पं किसलयमलूनं कररुहै रनाविद्धं रलं मधु नवमनास्वादितरसम् । Page #165 -------------------------------------------------------------------------- ________________ १४८ संस्कृत निबन्धशतकम् अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ शाकु० २-१० निर्गतासु न वा कस्य० - - - कालिदासप्रशस्ति विरचयता बाणेन सत्यमिदम् उच्यते यत् —'निर्गतासु न वा कस्य, कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते' ( हर्ष० श्लोक १६ ), कालिदासस्य सूक्तयो मधुराः सरसा मञ्जर्यं इव सचेतसां चेतांसि हरन्ति । स यं कमपि विषयम् आश्रयते तत्रैव चमत्कृतिं रम्यत्वं च साधयति । सूर्योदयस्य चन्द्रास्तमयस्य च वर्णनं कस्य विपश्चितो न मनो मोहयति । कालचक्रं सुखदुःखपरिवर्तनेन जगद् नियमयति । यात्येकतोऽस्तशिखरं पतिरोषधीना तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां माविष्कृतोऽरुणपुरःसर एकतोऽर्कः । लोको नियम्यत इवात्मदशान्तरेषु ॥ शाकु० ४-२ दुष्यन्त-विहीना शकुन्तला विधुपरिहीणा कुमुदिनीव संतप्तचित्ता । नहि कामिनी इष्टजनवियोगं सोढुम् ईष्टे । अन्तर्हिते शशिनि सैव कुमुद्वती मे दृष्टि न नन्दयति संस्मरणीयशोभा । इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥ शाकु० ४-३ क इह रघुकारे न रमते — कालिदासस्य नाट्यकौशलं यथा शाकुन्तले संलक्ष्स्यते, तथैव तस्य कवित्वपरिपाको रघुवंशमहाकाव्ये निरीक्ष्यते । रघुवंशं हि कालिदासस्य मृद्वीकारसमधुरा, सरसा, सालंकृतिः, रसभावसमुज्ज्वला, उपमाप्रयोगभास्वरा सूर्यवंशज - नृप - गुणानुवाद-द्युतिमती सहृदयहृद्या कृतिः । रघुवंशमेवाश्रित्य 'कविः कालिदासः' इति भण्यते । उदयसुन्दरीकथाकारः सोड्ढलो रघुवंशमाश्रित्य तस्य अमरत्वं विश्वविश्रुतत्वं च प्रतिपादयति । ख्यातः कृती सोऽपि च कालिदासः शुद्धा सुधा स्वादुमती च यस्य । वाणीमिषाच्चण्डमरीचिगोत्र - सिन्धोः परं पारमवाप कीर्तिः ॥ सोड्ढलः रघुवंशे दीपशिखावर्णनेन स दीपशिखात्वम् अवाप । इन्दुमती दीपशिखेव यं यं नृपम् उज्झितवती स स भूमिपालो विषण्णवदनत्वं लेभे । संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे, विवर्णभावं स स भूमिपालः ॥ रघु० ६-६७ Page #166 -------------------------------------------------------------------------- ________________ कविकुलगुरुः कालिदासो विलासः रघुवंशे इन्दुमतीनिधन-विषण्णस्य राज्ञोऽजस्य वर्णनं समस्यापि सचेतसः करुणाद्रवत्वं संचारयति । तद्यथा विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् । अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु॥ रघु० ८-४३ लगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । विषमप्यमृतं क्वचिद् भवेदमृतं वा विषमीश्वरेच्छया ॥ रघु०८-४६ सीता-शोक-सहानुभूतिपराः पशुपक्षिणोऽपि भक्ष्यादित्यागेन स्वसमवेदनां प्रकटयन्ति । नृत्यं मयूराः कुसुमानि भृङ्गा दर्भानुपात्तान् विजहुर्हरिण्यः। तस्याः प्रपन्ने समदुःखभाव-मत्यन्तमासीद् रुदितं वनेऽपि ॥ रघु० १४-६९ कालिदासस्य भाषा भावानुसारिणी रसानुकूला च । वर्ण्यविषयानुरूपा तस्य पदावली। क्वचित् शब्दध्वनिना भावध्वनिः अभिव्यज्यते । पदमाधुर्य संगीतात्मकत्वं लयात्मकत्वं च पदे पदेऽवलोक्यते । शृङ्गाररसवर्णने भाषासौष्ठवं पदलालित्यम् अनुप्रासाद्यलंकारालंकृतत्वं च प्रेक्ष्यते। सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः। मधुकरैरकरोन्मधुलोलुपै-र्बकुलमाकुलमायतपङ्क्तिभिः ॥ रघु० ९-३० मेघे माघे गत वयः-कालिदासकृत-मेघदूतस्य माघकृतशिशुपालवधस्य च मनोज्ञत्वं भावमधुरत्वं वर्णनवेशद्यं शृङ्गाररसपरिपाकं चावलोक्य सरसहृदयो भावुकश्च कविस्तत्रैव रमते । अतएवोच्यते-'मेघे माघे गतं वयः। ___मेघदूते भावानां गरिमा, विचाराणां महिमा, कल्पनायाः कमनीयता, चेतसो विशदता, भाषायाः प्राञ्जलता, अनुभूति-संवेदनशीलत्वम्, पदावल्या मधुरिमा, विप्रलम्भशृङ्गारस्य सात्त्विकता सघनता च, अलंकाराणाम् ऐन्द्रधनुषी प्रभा, मन्दाक्रान्तावृत्तस्य मन्थरगतिः, नवपरिधानाया नववध्वा लावण्यमिव प्रस्तौति । सहृदयहृद्यताहेतोः मेघदूतं निर्विवादं लोकप्रियम् । वैदर्भी रीतिरत्र । अतएवात्र ललितपदविन्यासस्य, कोमलभावस्य, सरसपदावल्याः, प्रसादगुणस्य च समन्वयः प्राप्यते । निर्विन्ध्याया नद्या वर्णनं कथमिव मेघस्य प्रेयसीरूपेणोपस्थाप्यते । वीचिक्षोभस्तनितविहग-श्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः । निविन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ मेघ० १-२९ यक्षश्चित्रापितायाः प्रियायाः पादपद्मयोरात्मानं समर्पयितुकामः, परम् अश्रुधारा तत्रापि प्रत्यवायरूपेण उपतिष्ठते । Page #167 -------------------------------------------------------------------------- ________________ १५० संस्कृतनिबन्धशतकम् त्वामालिख्य प्रणयकुपितां धातुरागः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अनैस्तावन्मुहरुपचितैर्हष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ मेघ० २-४७ प्रियावियोग - विषण्णो यक्षः चेतनाचेतनयोर्मध्ये भेदम् अगणयन् मेघमेव दूतरूपेण प्रियासमीपं प्रहिणोति । 'धूमज्योतिः - सलिलमरुतां संनिपातः क्व मेघ:०' ( मेघ० १-५ ) एवं संलक्ष्यते यत् कालिदास : कविताकामिन्या विलासरूप एव । Page #168 -------------------------------------------------------------------------- ________________ ४२. भासनाटकचक्रम् (१. भासो हासः, २. सूत्रधारकृतारम्भैः "भासो देवकुलैरिव ।) ... भासो हासः सरस्वत्या नाटकैरमृतोपमैः।। नाट्यवाङ्मयव्योमेन्दुः शास्त्रज्योतिर्विभास्वरः। ( कपिलस्य ) . भासस्य नाट्यकृतित्वम्-महाकवेर्भासस्य कृतित्वेन त्रयोदश नाटकरत्नानि समुपलभ्यन्ते । 'भासनाटकचक्रेऽपि छेकैः क्षिप्ते परीक्षितुम् । स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः ।' इति राजशेखरभणितिम् आश्रित्य 'भासनाटकचक्रम् इति तत्कृतनाटकानां नाम व्यवह्रियते । नाटकत्रयोदशस्य परिचयः समासतोऽत्र प्रस्तूयते । (१) प्रतिज्ञायौगन्धरायणम्-अङ्कचतुष्टयमत्र । उदयनस्य वासवदत्तया सह प्रणयः परिणयश्चेह वय॒ते । (२) स्वप्नवासवदत्तम्-अङ्कषट्कमत्र । वासवदत्ताऽग्निदाहेन दग्धेति प्रवादं प्रचार्य यौगन्धरायणप्रयत्नात् पद्मावत्या सहोदयनस्योपयमोऽपहृतराज्यावाप्तिश्च वर्ण्यते । ( ३) ऊरुभङ्गम्नाटकमेतद् एकाङ्कि। पाञ्चाली-परिभव-प्रतिक्रियाएं भीमेन गदायुद्धे दुर्योधनोरुभञ्जनं वस्तु वर्ण्यते । ( ४ ) दूतवाक्यम्-एकाङ्कि नाटकम् । महाभारताहवात् प्राक् पाण्डवाथं दुर्योधनसंसदि श्रीकृष्णस्य दूतत्वेन गमनं प्रयत्नवैफल्यं चात्र वर्ण्यते । (५) पञ्चरात्रम्-अङ्कत्रयमत्र । यज्ञान्ते द्रोणो दक्षिणास्वरूपं पाण्डवेभ्यो राज्याधं ययाचे दुर्योधनम् । पञ्चरात्राभ्यन्तरे पाण्डवानाम् उदन्त उपलभ्यते चेद् राज्याधं दास्यते मयेति दुर्योधनोक्तिः । पञ्चरात्राभ्यन्तरे पाण्डवानां प्राप्तिः, दुर्योधनकृतराज्यार्धप्रदानं च। (६) बालचरितम्-अङ्कपञ्चकमत्र । बालस्य श्रीकृष्णस्य जन्मन आरभ्य कंसवधान्तं चरितमिह वर्ण्यते । (७) दूतघटोत्कचम्-एकाङ्कि नाटकमदः। अभिमन्युनिधनान्तरं श्रीकृष्णप्रेरणया दौत्यमाश्रित्य घटोत्कचस्य धृतराष्ट्रान्तिकं गमनम् । दुर्योधन-कृतस्तस्यावमानः । दुर्योधनोक्तिश्च–'प्रतिवचो दास्यामि ते सायकैः' इति । (८) कर्णभारम्-नाटकमिदम् एकाङ्कि। ब्राह्मणवेषधारिणे शक्राय कर्णस्य कवचकुण्डलार्पणम् । (९) मध्यमव्यायोगः-नाटकमिदम् एकाङ्कि। मध्यमपाण्डवो भीमो मध्यमनामानं ब्राह्मणसूनुम् एकं घटोत्कचात् त्रायते । अपत्यदर्शनेन भीमस्यानन्दावाप्तिः पत्न्या हिडिम्बया च समागमः । (१०) प्रतिमानाटकम्-अङ्कसप्तकमिह। रामवनवासाद् आरभ्य रावणवधान्ता कथाऽत्र वर्णिता । दशरथप्रतिमां प्रेक्ष्य भरतः पितुर्निधनम् अवगच्छति । (११) अभिषेकनाटकम्-अङ्कषट्कमत्र। किष्किन्धाकाण्डाद् आरभ्य युद्धकाण्डान्ता रामकथाऽत्र वर्णिता। रावणवधानन्तरं रामस्य राज्येऽभिषेकः। (१२) अविमारकम्-अङ्कषट्कमत्र। राजकुमारस्य अविमारकस्य राज्ञः कुन्तिभोजस्य दुहित्रा कुरङ्ग्या सह प्रणयपरिणयोऽत्र वर्णितः। (१३) चारुदत्तम्-अङ्क Page #169 -------------------------------------------------------------------------- ________________ १५२ संस्कृतनिबन्धशतकम् चतुष्टयमिह । वितीर्णविपुलवित्तेन उदारचित्तेन चारुदत्तेन सह वसन्तसेनानाम-वाराङ्गनायाः प्रणयोपयमोऽत्र वर्णितः । १३ नाटकानां प्रणेता भासः-नाटकानामेतेषां प्रणेता भास एव, अन्योवेति विविधा प्रतिपत्तिविषयेऽस्मिन् । अन्तःसाक्ष्यादिना विज्ञायते यद् भास एवैतेषां नाटकानां प्रणेता । एक एवैतेषां प्रणेतेत्यपि अन्तःसाक्ष्यादिनाऽवगम्यते । तद्यथा-(१) सर्वाणि नाटकानि सूत्रधारप्रवेशाद् आरभन्ते । (२) नाटकभूमिकाथं प्रस्तावनाशब्दस्थाने 'स्थापना'-शब्दप्रयोगः। (३) नाटकेषु प्ररोचनाभावः, अर्थात् नाटककृतः परिचयाभावः स्थापनायाम् (४) नाटकपञ्चके स्वप्नवासवदत्तादौ मुद्रालंकारप्रयोगः, अर्थात् प्रथमे श्लोके प्रमुखनाटकीयपात्राणां नामोल्लेखः । (५) भरतवाक्यं प्रायशः सर्वत्र समानमेव-'राजसिंहः प्रशास्तु नः' । (६) भूमिका संक्षिप्ततमा । तत्र संवादारम्भेऽपि प्रायः साम्यमेव । (७) पात्रनामसाम्यमपि । यथा-काञ्चुकीयो बादरायणः । (८) अप्रचलितवृत्तानां प्रयोगो यथा-सुवदना-दण्डकादयः । (९) बहुषु नाटकेषु पताकास्थानकप्रयोगः । (१०) नाटकेषु सर्वेषु भाषासाम्यं रीतिसाम्यं च । (११) अपाणिनीयप्रयोगाः सर्वेषु नाटकेषु । (१२) अन्योन्यसंबद्धानि नाटकानि । यथा-स्वप्न० प्रतिज्ञायौगन्धरायणस्योत्तरभाग एव । - बाणो हर्षचरिते 'सूत्रधारकृतारम्भैः' इति भासनाटकवैशिष्टयम् आचष्टे । तच्च सर्वत्रावाप्यते। राजशेखरोऽभिधत्ते-'भासनाटकचक्रेऽपि छेकैः क्षिप्ते परीक्षितुम् । स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः ।' एतस्माद् भासकृतनाटकबहुत्वस्य स्वप्नवासवदत्तस्य च तत्कृतित्वेनावगतिर्भवति । भोजदेवो रामचन्द्रगुणचन्द्रौ च स्वप्नवासवदत्तं भासकृतिम् आमनन्ति । अतो भास एवैतेषां प्रणेतेत्यवगम्यते । भासस्य जनिकाल: ४५० ई० पूर्वादनन्तरं ३७० ई० पूर्वात् प्राक् च स्वीक्रियते । भासस्य नाट्यकला-साम्प्रतकालं यावद् उपलब्धं संस्कृतवाङमयं परीक्ष्यते चेद् भास एव नाटककृतामग्रणीरिति शक्यं वक्तुम् । नाटकानां बाहुल्येन, विषयवैविध्येन, अभिनयोपयोगित्वेन च तस्य नाटयनैपुण्यं नाटकनिर्मिती वैशारा चावधार्यते । नाटकेषु तस्य प्रमुखा विशेषताः सन्ति-भाषायां सरलता, अकृत्रिमा शैली, वर्णनेषु यथार्थता, चरित्रचित्रणे वैयक्तिकत्वम्, घटनासंयोजने सौष्ठवम्, कथाप्रसङ्गस्याविच्छिन्नश्च प्रवाहः । सर्वाण्येव नाटकानि अभिनयोपयोगीनीति तस्य महनीयताम् अभिवर्धयन्ति । तस्य नाटकेषु मौलिकता कल्पनावैचित्र्यं च विशेषत उपलभ्येते । स एव एकाङ्किनाटकानां जन्मदाता । अस्य नाटकपञ्चकम् एकाङ्कि। पताकास्थानकमपि मधुरं प्रयुक्त । . भासोऽनेकेषु नाटकेषु प्रथमश्लोके मुद्रालंकारं प्रयुक्ते । तत्र प्रमुख Page #170 -------------------------------------------------------------------------- ________________ भासनाटकचक्रम् १५३ नाटकीयपात्राणामपि श्लेषाश्रयेण नामानि निर्दिश्यन्ते । यथा-प्रतिमानाटके नान्दोपाठे राम-सीता-लक्ष्मण-भरत-सुग्रीवादीनां श्लेषेण समावेशः। सीताभवः पातु सुमन्त्रतुष्टः, सुग्रीवरामः सहलक्ष्मणश्च । यो रावणार्यप्रतिमश्च देव्या विभीषणात्मा भरतोऽनुसर्गम् ॥प्रतिमा० १-१ क्वचिद् नाटकीयपात्राणां संवादोऽपि पद्यबन्धेन भवति । श्लोकस्यैकः पाद एकेन प्रयुज्यते, अपरश्च परेण । भासः चरित्रचित्रणेऽतिपटुः, तस्य पात्रेषु स्वीयं वैशिष्टयम् आलक्ष्यते । तस्य नाटकेषु संवादाः संक्षिप्ताः प्रभावोत्पादकाश्च । सोऽनावश्यकं विस्तारं परिजहाति । भासस्य शैली-भासस्य शैल्यां माधुर्योजःप्रसादानां त्रयाणाम् अपि गुणानां समाहारः समीक्ष्यते । तस्य भाषा सरला, सुबोधा, सरसा, नैसर्गिकी, सप्रवाहा च। उपमा-रूपक-उत्प्रेक्षा-अर्थान्तरन्यासालंकाराणां प्रयोगो विशेषतोऽवाप्यते तस्य कृतिषु । अनुप्रासादिकं विशेषतः प्रियं तस्य । यथा-'हा वत्स राम जगतां नयनाभिराम' (प्रतिमा० २-४)। रामायण-महाभारतादि-प्रभाविता तस्य शैली। अतएव तस्य भाषायां कृत्रिमतायाः क्लिष्टतायाः क्लिष्टकल्पनायाः समासाधिक्यस्य चाभावः संलक्ष्यते, सरलतायाः सरसतायाश्च समन्वयो निरीक्ष्यते । भासो मानवीय-मनोवृत्तीनां वर्णने आदर्शः । तस्य मनोवैज्ञानिक विवेचनम् अतीव मनोज्ञम् । यथा दुःखं त्यक्तु बद्धमूलोऽनुरागः, स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् । यात्रा त्वेषा यद् विमुच्येह बाष्पं, प्राप्तानृण्या याति बुद्धिःप्रसादम् ॥ स्वप्न० ४-६ भासो भारतीयभावानां कविः। तस्य नाटकेषु भारतीयभावानां समीचीनः समन्वयः प्राप्यते । यथा-पितृभक्तिः, पातिव्रत्यम्, भ्रातृप्रेम, क्षमाशीलता, त्यागादिकं च । पातिव्रत्यं वर्ण्यते यथा अनुचरति शशाङ्क राहुदोषेऽपि तारा, पतति च वनवृक्षे याति भूमि लता च। त्यजति न च करेणुः पङ्कलग्नं गजेन्द्र व्रजतु चरतु धर्म भर्तृनाथा हि नार्यः ॥ प्रतिमा० १-२५ भासस्य नाटकानां लोकप्रियतायाः कारणं वर्तते-सरसता, सरलता, रम्यता च । स रसानुकूलामेव भाषां प्रयुङ्क्ते । रसभावानुकूलं शैल्यां परिवर्तनमपि प्राप्यते । यथा शृङ्गारे प्रसादो माधुर्यं च, वीररसे ओजोगुणः। यथा जटायुषे क्रुद्धस्य रावणस्योक्ति:-'मद्भुजाकृष्टनिस्त्रिश-कृत्तपक्षक्षतच्युतै०' (प्रतिमा० ५-२२) १. विस्तृतविवेचनार्थं द्रष्टव्यम्-लेखकसंपादित-प्रतिमानाटकस्य भूमिका, पृ० १९-२६ । H Page #171 -------------------------------------------------------------------------- ________________ १५४ संस्कृतनिबन्धशतकम् भासो विस्तारमनादृत्य समासं साधीयान् मनुते । यथा-'कमप्यर्थं चिरं ध्यात्वा.... 'अनुक्त्वैव वनं गताः।' (प्रतिमा० २-१७ )। तथा. भावान् चित्रयति यथा ते मूर्तवद् उपतिष्ठन्ते । यथा संध्यावर्णनम्-'खगा वासोपेताः सलिलमवगाढो मुनिजन:०' (स्वप्न० १-१६)। राज्याभिषेकवर्णनम्-छत्रं सव्यजनं सनन्दिपटहं भद्रासनं कल्पितं० (प्रतिमा० १-३ )। भासस्य व्यङग्यप्रयोगोऽसाधारणो मार्मिकश्च । कैकेयी वने व्याघ्री स्यात् । वने व्याघ्री च कैकेयी० ( प्रतिमा० २-८ ) । व्याकरणादिवैदग्ध्यमपि प्रदर्शयति यथावसरम्। यथा-स्वरपदपरिहीणां हव्यधारामिवाहम्० (प्रतिमा० ५-७) । विविधरसवर्णने, छन्दःप्रयोगे, अर्थान्तरन्यासप्रयोगे च प्रभूतं दाक्षिण्यम् उपलभ्यते तस्य । एवं नाटकपथप्रवर्तकेषु भासः सर्वाग्रणीरिति सुकरं वक्तुम् । Page #172 -------------------------------------------------------------------------- ________________ ४३. भारतीयानां भाषा-विज्ञाने योगदानम् ज्ञानविज्ञानसंश्लिष्टं विश्वभाषाविभूतिमत् । • ध्वनि-वाक्य-पद-ज्ञानं भाषाविज्ञानमिष्यते ॥ ( कपिलस्य ) भाषाविज्ञानम्-यद्यपि भाषाविज्ञानस्य भाषाशास्त्रस्य च वर्तमानं रूपम् आधुनिकमेव । विद्यारूपेण उपविद्यारूपेण वा नास्य विज्ञानस्य पुरा नामोल्लेखः प्राप्यते । तथापि भारतवर्षे वैदिककालाद् आरभ्य भाषा-विषयकं चिन्तनं विवेचनं विश्लेषणं चोपलभ्यते । एतदेवात्र समासतः प्रस्तूयते ।' __ वेदाः-वेदा विश्ववाङ्मयस्य प्राचीनतमा निधिस्वरूपा ग्रन्थाः । तत्र भाषाविज्ञानसंबद्धा निर्वचनादयः प्राप्यन्ते । तद्यथा-वृत्रहन्-शब्दादीनां निर्वचनं व्युत्पत्तिश्च वेदेषु वृत्रं हनति वृत्रहा० ( यजु० ३३-९६), अमावस्या मामा वसन्ति सुकृतः (अथर्व० ७-७९-२), अवीवरत वो हि कम् तस्माद् वार्नाम० (अ० ३-१३-३), उदानिषुर्महीरिति तस्मादुदकमुच्यते ( उदक = उद्+अन् ) ( अ० ३-१३-४ ) यजुर्वेदे सर्वप्रथमं विश्लेषणार्थे व्या+कृ धातोः प्रयोग उपलभ्यते । दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः । यजु० १९-७७ 'चत्वारि शृङ्गा त्रयो अस्य पादा०' ( ऋग्० ४-५८-३ ) इत्यत्र शब्दस्य नामाख्यातादिचतुर्विधरूपेण विवेचनं दृश्यते । 'चत्वारि वाक् परिमिता पदानि०' ( ऋग्० १-१६४-४५ ) इत्यत्र वाचः परा-पश्यन्ती-मध्यमा-वैखरीति चतुर्भेदेन विवेचनं प्राप्यते । वेदेषु मन्त्राणां सस्वरस्य शुद्धपाठस्य च कियन्महत्त्वम् आसीद् इत्येतत् पतञ्जलिवचनेन ज्ञायते मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ महा० आ० १ स्वरवैषम्यादेव 'इन्द्रशत्रुर्वर्धस्व' इति वृत्रपुरोहितानां प्रयोगो वृत्रनाशाय समजनि। वेदाङ्गानि–वेदानां षडङ्गेषु शिक्षा व्याकरणं निरुक्तं छन्दश्चेति भाषासंबद्धानि वेदाङ्गानि । शिक्षाग्रन्था वस्तुतो ध्वनिविज्ञानस्यैव मूलरूपाः सन्ति । व्याकरणं वैदिकं व्याकरणं प्रातिशाख्यं च प्रकृतिप्रत्यय-विभाजनद्वारा भाषाशास्त्रीय विश्लेषणं द्योतयतः । निरुक्तं निर्वचनप्रधानत्वात् संज्ञाशब्दानां निरुक्ति व्याचष्टे । कथमिव संज्ञाशब्दानां प्रादुर्भाव इत्यपि निर्दिश्यते । छन्दःशास्त्रं पदानां लयात्मकं पाठं प्रस्तौति । एवं शिक्षा-व्याकरण-निरुक्त-छन्दःशास्त्राणि भाषाविज्ञानस्य प्राचीनतमं रूपं प्रस्तुवन्ति । विषयेऽस्मिन् मैकडानलकथनम् अवधेयम् 'The Taittiriya Aranyaka ( VII-I ) already mentions shiksha, or Phonetics, a subject which even then appears to have dealt १. विस्तृतविवेचनार्थ द्रष्टव्यम्-लेखककृत-'संस्कृतव्याकरणम्', पृष्ठ १०-४४ । Page #173 -------------------------------------------------------------------------- ________________ १५६ संस्कृतनिबन्धशतकम् with letters, accents, quantity, pronunciation and euphonic rules.' "The treatises really representative of Vedic phonetics are the Pratishakhyas.' ( H.S.L. by Macdonell. pp. 223-224) । ब्राह्मणग्रन्था आरण्यकग्रन्थाश्व-ब्राह्मणग्रन्थेषु इन्द्र-वरुण-वृत्रादिशब्दानां निर्वचनं तदर्थविवेचनं च प्राप्यते। ऐतरेयब्राह्मणे वाक् सप्तधा विभज्यते । ( सप्तधा वै वागवदत्, ऐ० ब्रा० ७-७) सप्त विभक्तय इति भट्टभास्करः । गोपथब्राह्मणे ओंकारशब्दे धातु-प्रत्यय-उपसर्ग-निपात-विभक्त्यादिभाषाशास्त्रीयशब्दानां प्रयोगः सर्वप्रथमम् उपलभ्यते ओंकारं पृच्छामः, को धातुः, कि प्रातिपादिकं, कि नामाख्यातं, कि लिङ्ग, किं वचनं, का विभक्तिः, कः प्रत्ययः, कः स्वर उपसर्गो निपातः, कि वै व्याकरणं..."कि स्थाननादानप्रदानानुकरणम् ( गोपथ० पू० १-२४) Even the Brahm anas bear evidence of linguistic investigations for they mention various grammatical terms, such as 'letter' ( वर्ण ), 'Masculine' ( वृषन् ), number ( वचन), case-form ( विभक्ति) ( Macdonell-HSL. p. 225) पाणिनिपूर्वजा वैयाकरणाः (क) पाणिनिपूर्वजानां ८५ वैयाकरणानां नामानि उपलभ्यन्ते । तत्र पाणिनेरष्टाध्याय्यां १० वैयाकरणानां नामानि प्राप्यन्ते । तद् यथा-आपिशलिकाश्यप-गार्य-भारद्वाज-शाकटायन-स्फोटायन-प्रभृतयः । (ख ) प्राचीनग्रन्थेषु १५ वैयाकरणानां नामान्युल्लिख्यन्ते । तद्यथाशिव ( महेश्वर )-बृहस्पति-इन्द्र-काशकृत्स्न-व्याडि-प्रभृतयः ।। (ग) १० प्रातिशाख्यग्रन्थाः। शौनककृतम् ऋकप्रातिशाख्यादिकम् । (घ ) सप्त अन्ये वैदिकव्याकरणग्रन्थाः । तद्यथा-ऋक्तन्त्र-सामतन्त्रअक्षरतन्त्र-प्रभृतयः। (ङ) प्रातिशाख्यादिषु उद्धृताः ५९ वैयाकरणाः। तद्यथा-अग्निवेश्म-आगस्त्य आत्रेय-पौष्करसादि-प्रभृतयः । ___ अष्टप्रभेदं नवप्रभेदं च व्याकरणम्--पुरा अष्टप्रभेदं व्याकरणं प्रचलितम् आसीत् । अतएव निरुक्तवृत्तौ दुर्गाचार्येण कथ्यते–व्याकरणम् अष्टप्रभेदम् ( दुर्ग, निरुक्तवृत्ति, पृ०७४ ) । तद्यथा ब्राह्ममैशानमैन्द्रं च प्राजापत्यं बृहस्पतिम् । त्वाष्ट्रमापिशलं चेति पाणिनीयमथाष्टमम् ॥ वाल्मीकिरामायणे श्रीतत्त्वविधिग्रन्थे च व्याकरणं नवप्रभेदं श्रूयते । सोऽयं नवव्याकरणार्थवेत्ता ( वा० रा०, उत्तर० ३६-४७) Page #174 -------------------------------------------------------------------------- ________________ भारतीयानां भाषा विज्ञाने योगदानम् ऐन्द्रं चान्द्र ं काशकृत्स्नं कौमारं शाकटायनम् । सारस्वतं चापिशलं शाकल्यं पाणिनीयकम् ॥ श्रीतत्त्वविधि एतेषु व्याकरणेषु ऐन्द्रं व्याकरणं प्रमुखम् आसीत् । तिब्बतीय-‍ नुसारम् ऐन्द्र-व्याकरणं २५ सहस्रश्लोकपरिमितम् आसीत् । एतद् व्याकरणं पाणिनीयव्याकरणतः पञ्चविंशतिगुणम् अधिकं विज्ञायते । इन्द्र एव सर्वप्रथमं प्रकृति-प्रत्यय-विश्लेषणस्य प्रवर्तकः । तथा चोच्यते तैत्तिरीयसंहितायाम् - -ग्रन्था १५७ वाग्वै पराच्यव्याकृतावदत् । ते देवा इन्द्रमब्रुवन्, इमां नो वाचं व्याकुविति । तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत् । तैत्ति० ६-४-७ एलन महोदयस्य कथनमत्र स्वारस्यं भजते । Our phonetic categories and terminology owe more than is perhaps generally realized to the influence of Sanskrit phoneticians'.- Phonetics in Ancient India, W. S. Allen, p. 3 पाणिनिः पाणिनिरेव विश्वस्य सर्वोत्कृष्टो वैयाकरणः । तत्कृताष्टाध्याय्यां सूत्रसंख्या ३९९७ वर्तते । तत्र भाषाशास्त्र संबद्धाः सर्वेऽपि विषया: समासतः प्राप्यन्ते । ध्वनीनां स्थानप्रयत्नविवेचनं ध्वनिविज्ञानदृष्ट्याऽतिमहत्त्वपूर्णम् । तत्र पदजातं ' सुप्तिङन्तं पदम् ' ( अष्टा० १-४ -१४ ) सुबन्त - तिङन्तभेदेन द्विधा विभज्यते । एतच्च विभाजनं भाषाविज्ञानदृष्ट्याऽतीव वैज्ञानिकम् उपयोगि च । पाणिनिरेव सर्वप्रथमं वाक्यस्य महत्त्वं स्वीकुरुते । पाणिनि-परवर्तिनो वैयाकरणाः - पाणिनि - परवर्तिषु वैयाकरणेषु वार्तिककारः कात्यायनः, महाभाष्यकारः पतञ्जलिश्च विशेषत उल्लेख मर्हतः । पाणिनिकात्यायन- पतञ्जलयो 'मुनित्रयम्' इत्याख्यया वैयाकरणैः स्तूयन्ते । 'यथोत्तरं मुनीनां प्रामाण्यम्' इति च निर्देशो वैयाकरणानां वैज्ञानिकदृष्टित्वं समर्थयते । - तत्परवर्तिषु वैयाकरणेषु काशिका - वृत्ति-कारी वामन जयादित्यो वाक्यपदीयकारो भर्तृहरिः, न्यासकारो जिनेन्द्रबुद्धिः, पदमञ्जरीकारो हरदत्तमिश्रः, महाभाष्यस्य प्रदीपटीकाकारः कैयटः, महाभाष्यस्य उद्योत टीकाकार: परिभाषेन्दुशेखर-मञ्जूषा- लघुशब्देन्दुशेखर- स्फोटवादादीनां प्रणेता नागेशभट्टः, सिद्धान्तकौमुदीकारः शब्दकौस्तुभ प्रौढमनोरमाग्रन्थकृद् भट्टोजिदीक्षितः, लघुसिद्धान्तकौमुदी-मध्यसिद्धान्तकौमुदीकारो वरदराजो विशेषतोऽत्र उल्लेखमर्हन्ति । सर्वेष्वेतेषु ग्रन्थेषु पतञ्जले महाभाष्यं भर्तृहरेर्वाक्यपदीयं च व्याकरणरत्नस्वरूपे स्तः । वाक्यपदीये व्याकरणदर्शनम्, पद-पदार्थ- वाक्य वाक्यार्थस्फोटसिद्धान्ता यथा विशदीक्रियन्ते, न तथान्यत्र । ' १. विवरणार्थं द्रष्टव्यम् - लेखककृतो ग्रन्थ : - 'अर्थविज्ञान और व्याकरणदर्शन' । Page #175 -------------------------------------------------------------------------- ________________ १५८ संस्कृतनिबन्धशतकम् अन्ये वैयाकरणाः -पूर्वोक्तातिरिक्तमपि केचन वैयाकरणा उल्लेखनीयाः सन्ति । रूपमाला ग्रन्थकृद् विमलसरस्वती, प्रक्रियाकौमुदीकारो रामचन्द्रः, वाक्यपदीयटीकाकारा वृषभदेव-पुण्यराजहेलाराजाः, स्फोटसिद्धि-कारो मण्डनमिश्रः, वैयाकरणभूषण-कार: कौण्डभट्टः, भट्टिकाव्य-कारो भट्टिः, अष्टाध्यायीभाष्य-कारो महर्षिर्दयानन्दसरस्वती। पाणिनीयव्याकरणेतरशाखाः-पाणिनिभिन्न-शाखासु मुख्यत्वेन उल्लेख्याः शाखाः सन्ति-चान्द्रशाखा, जैनेन्द्रशाखा, शाकटायन-शाखा, हेमचन्द्रशाखा, कातन्त्रशाखा, सारस्वतशाखा, बोपदेवशाखा च । कच्चायन ( कात्यायन )-कृते कच्चायनव्याकरणे पालिभाषाव्याकरणम्, वररुचि-कृते प्राकृतप्रकाशे प्राकृतभाषाव्याकरणम्, हेमचन्द्र-कृते शब्दानुशासने ( सिद्धहैमे वा ) संस्कृत-प्राकृतअपभ्रंश-भाषाणां व्याकरणं प्राप्यते । ___व्याकरणेतरशास्त्राणि-व्याकरणेतरग्रन्थेष्वपि भाषाशास्त्रीयम् अध्ययनम् उपलभ्यते । काव्यशास्त्रीयग्रन्थेषु शब्दशक्तेः ध्वनेश्च विवेचनं प्राप्यते । तत्रोल्लेख्या ग्रन्थाः सन्ति-भरतमुनि-कृतं नाट्यशास्त्रम्, दण्डि-कृतः काव्यादर्शः, आनन्दवर्धनकृतो ध्वन्यालोकः, अभिनवगुप्तकृतं ध्वन्यालोकलोचनम्, भोजराजकृतं सरस्वतीकण्ठाभरणम्, मम्मटकृतः काव्यप्रकाशः, विश्वनाथकृतः साहित्यदर्पणः, जगन्नाथकृतो रसगङ्गाधरश्च । दार्शनिकग्रन्थेष्वपि शब्दशक्तः स्फोटसिद्धान्तस्य अर्थविज्ञानस्य च विवेचनं समासाद्यते । तत्र प्राधान्येनोल्लेख्या ग्रन्थाः सन्ति-जगदीशभट्टकृता शब्दशक्तिप्रकाशिका, गदाधरभट्टकृती व्युत्पत्तिवाद-शक्तिवाद-ग्रन्थी, जयन्तभट्टकृता न्यायमञ्जरी, प्रभाचन्द्रसूरिकृतः प्रमेयकमलमार्तण्डः, कुमारिलभट्टकृतं मीमांसाश्लोकवार्तिकं च । आधुनिकसंस्कृतज्ञानां योगदानम्-यद्यपि भाषाविज्ञानस्य आधुनिकरूपेणाध्ययनं पाश्चात्त्यविद्वत्साहाय्यमूलकमेव, तथापि केषांचिद् भारतीयानामत्र विशेषतो योगदानं प्राप्यते । तत्र मुख्यत्वेन उल्लेख्या विद्वांसः सन्ति-डॉ. रामकृष्ण गोपाल भण्डारकर:-Wilson : Philological Lectures; डॉ० सिद्धेश्वर वर्मा Phonetic Observations of Ancient Indian Grammarians; डॉ० सुनीतिकुमार चटर्जी Origin and Development of Bengali Language; startITETET Elements of the Science of Language; डॉ० पी० डी० गुणे An Introduction to Comparative Philology; डॉ० मंगलदेवशास्त्री-तुलनात्मकभाषाविज्ञानम्, डॉ. बाबूराम सक्सेना-सामान्य-भाषाविज्ञानम्, डॉ. कपिलदेव द्विवेदी-अर्थ-विज्ञान और व्याकरणदर्शन, डॉ० भोलानाथ तिवारी-भाषाविज्ञानम। अन्येऽपि बहवो विद्वांसो विविधभाषाणां भाषाशास्त्रीयेऽध्ययने प्रवृत्ताः संलक्ष्यन्ते । Page #176 -------------------------------------------------------------------------- ________________ ४४. भाषोत्पत्तिविषयका वादाः भाषाविज्ञाने भाषोत्पत्तिविषयका विविधा वादाः प्रस्तूयन्ते । तत्र नव वादाः प्राधान्यं लभन्ते । तेषां समासतोऽत्र विवरणं प्रस्तूयते। १. दिव्योत्पत्तिवादः ( Divine Theory )-भाषोत्पत्तिविषये प्राचीनतमोऽयं वादः । तदनुसारं यथैवेश्वरेण वेदज्ञानं प्रदत्तं तथैव वैदिकी भाषा संस्कृतभाषाऽपि ईश्वरप्रदत्तैव । दैवी-प्रेरणया मानवो भाषणे प्रवृत्तः । मानवजाति-जन्मना सहैव भाषाऽपि प्रादुरभूत् । अतएव ऋग्वेदे प्रोच्यतेदेवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । ऋग० ८-१००-११ अइउण्-इत्यादि-चतुर्दशप्रत्याहारसूत्राणां प्रादुर्भावः शिवस्य ढक्कानादेन मन्यते । 'नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्' इति । परमेतन्मतं न विदुषां रुचिकरम् । ( क ) यदि भाषा ईश्वरप्रदत्ता स्यात् तर्हि कथं लोके विविधभाषोत्पत्तिः स्यात् । जीव-जन्तु-भाषादिवत् तद्-विपर्ययो न लक्ष्येत । ( ख ) ईश्वरसृष्टा भाषा प्रागेव पूर्णविकाससंपन्ना स्यात्, तत्र विकासक्रमो न लक्ष्येत । किन्तु परस्ताच्च भाषासु विकासक्रमः संलक्ष्यते । समीक्षणम्-एतन्मतखण्डनम् आपाततः समीचीनमिव प्रतीयते । परन्तु विचारदृशा विविच्यते चेत् स्फुटमेतद् अवगम्यते यद् भाषा संस्कृतभाषा वा देवप्रदत्ता ईश्वरप्रदत्ता भवेन्न वा भवेत्, भाषोत्पत्तिः स्फूट-स्थान-प्रयत्नादिकरण-जन्या, इति तु निश्चप्रचम् । मानवः कथं भाषणे प्रवर्तते ? इति विचारे 'आत्मा बुद्धया समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ।' (पा० शिक्षा ६, ७) इत्यत्र न कस्यापि भाषाविदो विप्रतिपत्तिः। अज्ञानां समवायेन, हिक्कादिरवेण, मनोभावाभिव्यञ्जकादिशब्दैश्च भाषोत्पत्तिः सुतरां दुर्लभा । एतच्च परस्ताद् व्याख्यास्यते । ___दिव्योत्पत्तिवादे एतत् पारमार्थिकं तथ्यं यत् संसृतौ मानव एव परिष्कृतध्वनियन्त्रयुक्तः प्रतिभोपेतश्च । 'प्रतिभा' ईश्वरप्रदत्ता, ईश्वरस्वरूपा वा । प्रतिभयैव ज्ञानं विज्ञानं च प्रस्तूयते । प्रतिभैव भाषणशक्तिप्रदानेन समं भाषाप्रदानेऽपि समर्था । (२) संकेत-सिद्धान्तः ( Agreement Theory )-एष एव वादः सांकेतिक उत्पत्तिवादः, निर्णयसिद्धान्त इत्यप्युच्यते । एतन्मतानुसारं हस्तादिसंकेतानाम् अपूर्णत्वम् अपर्याप्तत्वं चोद्वीक्ष्य मानवैः संभूय प्रति-वस्त्वर्थ ध्वनिसंकेता निर्धारिताः । तथा च भाषाया उत्पत्तिः । Page #177 -------------------------------------------------------------------------- ________________ १६० संस्कृतनिबन्धशतकम् समीक्षणम् :-एतन्मतमपि न विचारसहम् । (क ) भाषाया अभावे कथं विचारविनिमयः ? ( ख ) विचारविनिमयस्य का भाषा ? (ग ) कः कथं च संकेतशब्द-रचनाम् अकरोत् ? भाषाया अभावेऽपि चेद् विचारविनिमयः संपाद्येत, तर्हि का भाषाया आवश्यकता ? (घ ) भामहेनोच्यते-'इयन्त ईदृशा वर्णा ईदृगाभिधायिनः । व्यवहाराय लोकस्य प्रागित्थं समयः कृतः । ( काव्यालंकार ६-१३)। भाषाया अभावे कथमेष समयः संभवति ? एवं मतमेतद् निःसारमेव । (३) रणनसिद्धान्तः ! Ding-dong Theory )-मतमिदं धातुसिद्धान्त ( Root Theory )-नाम्नापि निर्दिश्यते । सर्वप्रथमं मतमिदं प्लेटो ( Plato )-महोदयेन संकेतितम् । प्रो० हेस ( Heyse )-महोदयेन एतद् व्यवस्थितरूपेण प्रतिपादितम् । मैक्समूलर ( Max Muller )-महोदयेन समर्थितमेतन्मतम्, परं परस्तात् तेनैव निरर्थकमिदमिति परित्यक्तम् । रणनसिद्धान्तानुसारं शब्दार्थयोः रहस्यात्मको नैसर्गिकः संबन्धः । सर्वस्मिन् वस्तुनि स्वीयो विशिष्टो ध्वनिः । समीक्षणम--शब्दार्थयो.सर्गिकसंबन्धस्य कल्पना रहस्यात्मिकैव । विश्वस्य बहुभाषासु धातूनाम् अभावो विज्ञायते । तत्र धातुसिद्धान्तस्य का गतिर्भविष्यति ? घण्टानादे रणनवद् वस्तुदर्शने न कापि नित्यभावानुभूतिः । (४) मनोभावाभिव्यंजकतावाद : ( Interject.onal Theory,PoohPooh Theory )-एतन्मतानुसारं मानवो भावप्रधानः । सुख-दुःख-विस्मयघृणादिकाले भावावेशेन सहसैव किंचिद् उच्चारयति । ततो भाषोत्पत्तिः । यथा धिक्, आः। समीक्षणम्--एतन्मतमपि न समीचीनम् । ( क ) विभिन्नभाषासु मनोभावाभिव्यंजक-शब्दानाम् एकरूपत्वं न लक्ष्यते ? ( ख ) एतादृशानां शब्दानां संख्या न्यूनतमा। एते शब्दाश्च न भाषायाः प्रधानाङ्गभूताः । एतस्मिन् मते सुकरम् एतद् वक्तुं यद् उच्चारण-प्रक्रियाप्रारम्भार्थम् एष सिद्धान्तः किंचिदुपयोगी। (५) श्रम-ध्वनि-सिद्धान्त : ( Yo-he-ho Theory)-एष एव सिद्धान्तः श्रमापहारमूलकतावादोऽपि कथ्यते । न्वायर ( Noire )-महोदयः सिद्धान्तस्यास्य जनकः । श्रमकाले श्वासप्रश्वास-वेगात् स्वरतन्त्रीकम्पनेन तदनुरूप-ध्वन्युच्चारणं जायते । श्रमिकाः श्रमकाले श्रमपरिहारार्थ केषांचित् शब्दानां प्रयोगं कुर्वन्ति । यथा-हो-हो, हे, हूँ, छियो, हियो-प्रभृतयः शब्दाः । क्रियया सहजसंगतो ध्वनिस्तक्रियाबोधक इति तेषां मतम् । समीक्षा-मतमेतद् निकृष्टतमम् । नैते शब्दा भाषायां किंचिदपि स्थानं Page #178 -------------------------------------------------------------------------- ________________ भाषोत्पत्तिविषयका वादाः गृह्णन्ति । न चैतेषां ध्वनीनां कोऽपि विशिष्टोऽर्थः । अत्र भावपक्षस्य अर्थपक्षस्य च शून्यत्वमेवावलोक्यते । (७) अनुकरणमलकतावादः-( Onomotopoeic Theory, Bowwo v Theory )-एष वादो ध्वन्यात्मकानुकरणसिद्धान्तः, शब्दानुकरणवादः, शब्दानुकरणमूलकतावादः, श्वध्वनिवादो वा कथ्यते । एतन्मतानुसारं ध्वन्यनुकरणमाश्रित्य कतिपया नामधेयशब्दाः प्रवर्तन्ते । यथा-काँव-कांव-ध्वनिमाश्रित्य काकशब्दः। एवमेव कोकिल-दर्दुर-खटखट-पटपट-घर-प्रभृतयः शब्दा वर्तन्ते। समीक्षा-मैक्समूलर ( Max Muller )-महोदयो वादस्यैतस्य निरर्थकत्वं कुक्कुरध्वनि-पर्यायं बाउ-वाउ-शब्दं प्रयुज्य प्रतिपादयति । एतादृशानां शब्दानां संख्याऽतीव लघ्वी । मतमेतद् हास्यास्पदमेव । (७) इंगित-सिद्धान्तः ( Gestural Theory )- एतन्मतानुसारं मानवः आङ्गिकचेष्टाभिः स्वीयं भावम् अभिव्यनक्ति । तदाधारेण केषांचित् शब्दानामुत्पत्तिर्ज्ञायते। डॉ० राये-महोदयः सिद्धान्तस्यास्य संस्थापकः । डार्विन ( Darwin )-महोदयोऽपि असंबद्धानां षड्भाषाणां तुलनात्मकेनाध्ययनेन एतदेव प्रमाणयति । रिचार्ड ( Richard ) - महोदयः स्वीये Human Speech ग्रन्थे Oral Gesture Theory मौखिकेङ्गितसिद्धान्तनाम्ना एतत् प्रस्तौति । एलेक्जेण्डर जोहान्सन ( Alexander Johanson ) - महोदयोऽपि प्रायेणैतत् समर्थयते । सोऽयं भाषाविकासस्य स्तरचतुष्टयं मनुते । यथा-ओष्ठसम्मेलनेन पानार्थद्योतने पा-शब्दमाश्रित्य पानार्थे पा-धातोः प्रयोगः। • एतन्मतमपि न विद्वद्धिः स्वीक्रियते । अनुकरणमूलकाः पा-गा-मांप्रभृतयः शब्दा अल्पा एव सन्ति । मुखेन हस्तादिसंपर्कमाश्रित्य ध्वनीनां शब्दानां चोत्पत्तिनं विचारसहा । जोहान्सनमहोदयः ध्वनीनाम् अर्थानां च सयुक्तिकसंबन्धस्थापने न प्रभवति । (८) प्रतीकवादः (Symbolic Theory )-एतन्मतानुसारं केचन शब्दा यं कमपि संबन्धमाश्रित्य 'प्रवृत्ताः, स्वल्पेन रूपेण बृहदर्थं बोतयन्ति । एते शब्दाः प्रायशो बालशब्दाः ( Nursery words ) सन्ति । यथा-माता, पिता, भ्राता, तात, चाचा-चाची-प्रभृतयः । एते प्रतीकरूपेण प्रयुज्यन्ते । एवमेव धातवोऽपि प्रवर्तन्ते यथा-पा, पिबामि, घ्रा, जिघ्रामिप्रभृतयः। ___एतन्मतमपि इंगितसिद्धान्तेन साम्यं धत्ते । एतन्मतमपि न भाषोत्पत्तिसाधने प्रभवति । स्थूलभावबोधका एते तातप्रभृतयः शब्दाः । सूक्ष्मभावबोधकानां शब्दानां कथमाविर्भाव इति नैतेन विशदीक्रियते । (९) समन्वयसिद्धान्तः–प्रसिद्धो भाषावित् हेनरी स्वीट ( Henry ११ Page #179 -------------------------------------------------------------------------- ________________ १६२ संस्कृतनिबन्धशतकम् Sweet ) महाभागः समन्वयसिद्धान्तं समन्वितविकासवादं वा वरिष्ठं मनुते । तन्मतानुसारं सर्वेषां सिद्धान्तानां समन्वय आवश्यकः । मनोभावाभिव्यञ्जकतावादः, रणनसिद्धान्तः, श्रमध्वनि-सिद्धान्तश्च भाषोत्पत्तेः प्राथमिकीम् अवस्थां द्योतयन्ति । प्रतीकवादः, औपचारिक-प्रयोगाश्च द्वितीयाम् अवस्थां प्रकटयन्ति । तदनुसारम् अर्थ-विकासप्रक्रियाम् आश्रित्य अर्थविस्तारादिप्रक्रिया प्रावर्तत । प्रतीक-शब्दानाम् औपचारिक-शब्दानां लाक्षणिकानां च शब्दानां संख्याऽनुदिनं वर्धते वर्धिष्यते च । (१०) दिव्योत्पत्तिवाद-समीक्षा--दिव्योत्पत्तिवादः सामान्यतया सर्वैरेव भाषाविद्भिनिरस्यते । एवं सति दैवी भाषा एकरूपा स्यात्, विश्वभाषा चैका स्यात् । परन्तु सर्वमेतत् संस्कृतभाषाया वेदानां च प्रामाण्ये विप्रतिपत्ति प्रतिपादयति । विषयोऽयं वैज्ञानिकदृष्ट्या दार्शनिकदृष्ट्या च परीक्ष्यते चेत् तहि न तथा निरसनमर्हति । अत्र महर्षेः पतञ्जले:, भर्तृहरेः, हेराक्लितुस (Heraclitus)डेमोक्रितुस ( Democritus ) -प्रभृतीनां विचाराः सर्वथा विवेचनमर्हन्ति । महर्षिणा पतञ्जलिना महाभाष्ये प्रोच्यते-'सिद्धे शब्दार्थ-संबन्धे' (महा० आ०१), नित्यानि छन्दांसि, या त्वसौ वर्णानुपूर्वी साऽनित्या ( महाभाष्य ) अर्थात् शब्दार्थ-सम्बन्धो नित्यः । वेदानां वर्णानुपूर्वक्रमोऽनित्यः । ज्ञानं तु नित्यम् । ज्ञानं कथं नित्यम् ? संस्कारवशात् प्रतिमानवं ज्ञानं नित्यत्वेन भासते । प्रतिभा प्रतिमानवं भिद्यते, प्रवर्तते च । प्रतिभा ब्रह्मण ईश्वरस्य वा साक्षाद् रूपम् । प्रतिभैव जन्मान्तरगतमपि ज्ञानं समाहृत्य लोके निदधाति । तन्मलैव सर्वस्यापि जगतः प्रवृत्तिः। प्रतिभामूलैव भाषोत्पत्तिः । प्रतिभा च दैवोंऽशः । प्रतिभैव यथायथं शब्दान् प्रवर्तयति । प्रतिभाजुषां यथैव तदर्थावभासः, वस्तुप्रतीतिर्वा भवति, तथैव शब्दनिर्माणं प्रतिभावद्भिर्विधीयते । एवं भाषाभेदो भावभेद: शब्दभेदश्च लक्ष्यते । को नु शिक्षयति पक्षि-पश्वादिकं भाषणम् ? लूता कथं जाल-निर्माणे प्रभवति ? अश्व-कुक्कुरादयः स्व-स्वभावजं धर्म कथं प्रतिपद्यन्ते ? इत्यत्र भर्तृहरिणा प्रोच्यते यत् सर्वमेतत् प्रतिभावशत एव । प्रतिभैव शब्दस्यात्मा । सा च प्रतिमानवम आत्मरूपेण स्थितिं विधत्ते । उक्तं च भर्तृहरिणा वाक्यपदीये यथा द्रव्यविशेषाणां परिपाकैरयत्नजाः। मन्दादिशक्तयो दृष्टाः प्रतिभास्तद्वतां तथा ॥ वाक्य० २-१५० स्वरवृत्ति विकुरुते मधौ पुंस्कोकिलस्य कः। जन्त्वादयः कुलायादि-करणे केन शिक्षिताः॥ वाक्य० २-१५१ आहार-प्रोत्यभिद्वेष-प्लवनादिक्रियासु कः। जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥ वाक्य० २-१५२ Page #180 -------------------------------------------------------------------------- ________________ भाषोत्पत्तिविषयका वादाः हेराक्लितुसो मन्यते-'शब्दानाम् अस्तित्वं प्रकृती वर्तते। शब्दाः पदार्थानों छायावद् वर्तन्ते। मानवः स्वविचारानुरूपं पदार्थानां नामानि निर्धारयति' । दार्शनिको डेमोक्रितूसो मन्यते-'भाषा जन्या। शब्दा भावानां मर्तयः, कलाकृतयश्च ।' एपीक्यूरसो भाषायाः प्रकृति-प्रतिध्वनिमलत्वं निराचष्टे, तथा सति भाषा-साम्यं स्यात् । हुमबोल्टोऽपि एतदेव समर्थयते । भाषा ज्ञानमूला। मनोभावाभिव्यंजकतादयो वादाः न ज्ञानमूलत्वं भाषाया मन्यन्ते । यदि साधु परीक्ष्यते तहि सत्यां भावाभिव्यक्तरिच्छायाम् 'आवश्यकता आविष्काराणां जननी' इति सिद्धान्तम् अनुसृत्य केचन भावाश्चेतसि आविर्भवन्ति । प्रतिभावशात् तदर्थं कश्चन शब्द उपादीयते । तदुत्पत्तिः प्राक संकेतमूला भवति । वस्तुप्रयोजनम् उपादाय कश्चन शब्दः तदर्थम् अभिधातुम् उपादीयते । प्रतिभावतां तथा शब्दनिर्माणं प्रारभते । सामान्यो लोकस्तं शब्दम् आदत्ते प्रयुङ्क्ते च । एवं भाषोत्पत्तिः प्राक् संकेतमूला ( Symbolic ) भवति । उपचारपद्धत्या आश्रयणेन विविधेष्वर्थेषु एकस्यापि शब्दस्य प्रयोगः प्रारभ्यते। परिज्ञाते सति एकदा शब्दनिर्माणप्रकारे अन्यैरपि प्रतिभावद्धिः अन्ये शब्दा आविष्क्रियन्ते । . एवं भाषाया प्रतिभामूलकत्वं न विप्रतिपत्तिविषयः। प्रतिभा च दैवी। एवं दिव्योत्पत्तिवादः समस्यासमाधानं कर्तुप्रभवति । Page #181 -------------------------------------------------------------------------- ________________ ४५. अर्थविज्ञानम् ( १. अर्थविकासः, २. शब्दार्थविज्ञानम् ) अर्थविज्ञानस्य स्वरूपम्'--अर्थविज्ञान-शब्देन शब्दार्थविषयकं सर्वाङ्गीण विवेचनं चिन्तनं चाभीष्यते । शब्दार्थयोः कः संबन्धः? शब्दः कथम् अर्थम अभिव्यनक्ति ? अर्थ: कतिविधः ? अर्थस्य कतिविधो विकासः ? अर्थविकासस्य कानि कारणानि ? इत्यादयोऽनुयोगा अर्थविज्ञाने विविच्यन्ते। ___ अर्थविज्ञानस्य नामकरणम्-अर्थविज्ञानशब्दस्य पारिभाषिकेऽर्थे सर्वप्रथमं प्रयोगो महाभारते, तदनु कुमारिलभट्टकृते श्लोकवार्तिके, वेंकटमाधवकृते ऋग्वेदभाष्ये, मण्डनमिश्रकृते स्फोटसिद्धिग्रन्थे च प्राप्यते । शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ महाभारत, वन० २-१९ शब्दज्ञानार्थविज्ञानशब्दौ शास्त्रे तथा स्थितौ । श्लोक० शब्द० १३ यजुषामर्थविज्ञानं नाकर्मज्ञस्य सिध्यति । वेंकट, ऋग्भाष्य, पृ० ३ अर्थस्य महत्त्वम्-अर्थज्ञानम् अन्तरेण सर्वमेव वाङ्मयं भारभूतम् । अर्थज्ञ एव सर्व भद्रमश्नुते । स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽयम् । योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥ निरुक्त १-१८ गोपथब्राह्मणे रूपसाम्याद् अर्थसाम्यस्य समीपत्वं मन्यते । रूपसामान्यादर्थसामान्यं नेदीयः । ( गोपथब्राह्मण १-१-२६) शतपथब्राह्मणे वाचो मनसोऽपि लघुत्वं प्रोच्यते । 'वाग्वै मनसो ह्रसीयसी' ( शत० १.४-४-७), निरुक्ते (२-१ ) 'अर्थनित्यः परीक्षेत, केनचिद् वृत्तिसामान्येन' । 'अर्थं वाचः पुष्पफलमाह' ( निरुक्त १-२० ) । इत्येवम् नर्वस्त्र महत्त्वं प्रतिपाद्यते । वाक्यपदीये श्लोकवातिके चार्थस्य स्वरूपं निर्दिश्यते यत्यस्मिस्तूच्चरिते शब्दे यदा योऽर्थः प्रतीयते । तमाहुरर्थं तस्यैव नान्यदर्थस्य लक्षणम् ॥ वाक्य०२-३३० तत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ ॥ श्लोक० १६० महाभाष्येऽर्थस्य शब्दादभिन्नत्वं प्रतिपाद्यते । १. विस्तृतविचेनार्थं द्रष्टव्यम्-लेखककृत-'अर्थविज्ञान और व्याकरणदर्शन' पृष्ठ १.४, ९८-१३५ । Page #182 -------------------------------------------------------------------------- ________________ अर्थविज्ञानम् १६५ शब्दश्च शब्दाद् बहिर्भूतः । अर्थोऽबहिर्भूतः॥ महा० १-१-६६ अर्थनिर्धारणविषये भर्तृहरिणा निर्दिश्यते यद् अर्थ-प्रकरणाभ्याम् अर्थो निर्धार्यते । 'अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते' ( वाक्य० २-३३५ )। शब्दशक्तिप्रकाशिकायां जगदीशः शक्तिग्रहस्य साधनाष्टकं निरूपयति । शक्तिग्रहं व्याकरणोपमान-कोषाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥ श्लोक २० अर्थविकासः--पाश्चात्त्यदेशेषु सर्वप्रथमं मिशेल ब्रेआल-महोदयः ( Michel Breal ) स्वीये फ्रेंचभाषा-ग्रन्थे ( Essai de Semantique) अर्थविकासस्य विवेचनं व्यदधात् । तत्र च तेन अर्थ-विकासस्य वृत्तित्रयं प्रतिपाबते-१. अर्थबिस्तारः, २. अर्थसंकोचः, ३. अर्थादेशः । ____ अर्थविस्तारः-यत्र शब्दः स्वीयं मौलिकम् अर्थ बोधयन्नेव सादृश्यादिकारणाद् अर्थान्तरमपि द्योतयति, तत्रार्थविस्तारप्रक्रिया स्वीक्रियते । अर्थविस्तारविषये भर्तृहरिणा प्रोच्यते यत् शब्दः किंचित् सामान्यम् आश्रित्य अर्थान्तराण्यपि योतयति । संसगिषु तथाऽर्थेषु शब्दो येन प्रयुज्यते । तस्मात् प्रयोजकादन्यानपि प्रत्याययत्यसौ ॥ वाक्य० २-३०१ तथा शब्दोऽपि कस्मिश्चित् प्रत्याय्यार्थे विवक्षिते । अविवक्षितमप्यथं प्रकाशयति संनिधेः॥ वाक्य० २-३०३ उदाहरणरूपेण प्रवीण-कुशल-शब्दौ विवेचनम् अर्हतः । प्रकृष्टो वीणायाम् इति प्रवीणः । वीणावादने चतुर इत्यर्थः । परम् अर्थविस्तारप्रक्रियया 'चतुर'-मात्रेऽयं शब्दः प्रयुज्यते । एवमेव कुशान् लाति छिनत्ति इति कुशलः । परं कुशच्छेदनरूपं मूलार्थं परित्यज्य चतुरेऽर्थेऽस्य प्रयोगः । एवं तैलशब्दस्य मूलार्थोऽस्ति, तिलस्य इदं तैलम्, तिलस्नेह इत्यर्थः । तिलस्नेहरूपं मूलार्थ परित्यज्य तैलमात्रे तैल-शब्दः प्रयुज्यते । एवं पुंगव-वृषभ-ऋषभादिशब्दा वृषार्थ परित्यज्य उत्कृष्टार्थे प्रयुज्यन्ते । यथा-भरतर्षभः, नरपुंगवः । गवेषणाशब्दो गवाम् अन्वेषणम् इति मूलार्थं परित्यज्य अन्वेषणमात्रे प्रयुज्यते । अर्थसंकोच:--यत्र शब्द: स्वीयं यौगिकमर्थं परित्यज्य कस्मिश्चिद् विशिष्टेऽर्थे प्रयुज्यते, तदाऽर्थसंकोचप्रक्रिया स्वीक्रियते। यथा-गच्छतीति गौः, या गच्छति चलतीति सा गौः। न गमनमात्रेण नरोऽपि गोशब्दाभिधेयः । अतएव साहित्यदर्पणे विश्वनाथेनोच्यतेअन्यद्धि शब्दानां व्युत्पत्तिनिमित्तम्, अन्यच्च प्रवृत्तिनिमित्तम् । सा० दर्पण २-५ वेदे अरि-शब्दः शत्रौ ईश्वरार्थे च प्रयुज्यते। परं संस्कृते शत्रौ एव Page #183 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् प्रयुज्यते । वेदे 'न' इति निपातो निषेधार्थे उपमार्थे च प्रयुज्यते, परं संस्कृते केवलं निषेधार्थे प्रयुज्यते । उक्तं च यास्केन नेति प्रतिषेधार्थीयो भाषायाम्। उभयम् अन्वध्यायम् ॥ निरुक्त १-४ वेदे पशुमात्र-पर्यायो मृग-शब्दो लोके केवलं हरिणार्थे प्रयुज्यते । एवमेव विद्यार्थको वेद-शब्दोऽद्यत्वे ऋग्वेदादिग्रन्थानेव बोधयति । अन्नमात्रार्थको धान्य-शब्दोऽद्यत्वे केवलं व्रीहिमेवाभिधत्ते । वरणीयार्थको वर-शब्द: केवलं पतिमेव निर्दिशति । अर्थादेशः--यत्र शब्दः स्वार्थं परित्यज्यार्थान्तरं संक्रमते, तदा अर्थादेशप्रक्रिया स्वीक्रियते । यथा वेदे शक्ति-संपन्नार्थद्योतकः 'असर' शब्दः परकाले केवलं दानवार्थकः संवृत्तः । वेदे जयार्थक: 'सह' धातुः संस्कृते मर्षणार्थक: प्रयुज्यते । दोग्ध्री-वाचको 'दुहितृ ( दुहिता )'-शब्द: केवलं पुत्री-अर्थे प्रयुज्यते । मुनि-वृत्ति-सूचको 'मौन'-शब्दस्तूष्णींभावेऽर्थे प्रयुज्यते । सपत्नशब्दः पत्नीपरिणयप्रतिस्पर्धि-रूपम् अर्थ विहाय शत्रुरूपमर्थमेव द्योतयति । साधु-संप्रदाय-बोधकः 'पाषण्ड'-शब्दः प्रपञ्चं छलं कपट भ्रष्टाचारं च द्योतयति । अर्थत्कर्षः, अर्थापकर्षश्च--यत्र सामान्यशब्द: कमपि विशिष्टमर्थं द्योतयति तत्र 'अर्थोत्कर्षः' । वेदे 'साहस'-शब्दो व्यभिचारवृत्त्यादि-कुत्सितेऽर्थे प्रायुज्यत, परं संस्कृते प्रशस्ये उत्साहरूपेऽर्थे प्रयुज्यते । जीर्णवस्त्रबोधकः कर्पटशब्दः शोभने 'कपड़ा ( वस्त्र )'-अर्थे प्रयुज्यते । एवं क्वचित् प्रकृष्टार्थ-बोधकः शब्दो निकृष्टेऽर्थे प्रयुच्यते, तत्र 'अर्थापकर्षः' उच्यते । यथा गोपनार्थको जुगुप्सा-शब्दो घृणाऽर्थे प्रयुज्यते । भक्तार्थ-बोधको 'हरिजन'-शब्दः, शिल्पिवाचकः 'शिल्पकार'-शब्दश्च अस्पृश्यार्थको संवृत्तौ । पूर्णब्रह्मचारि-अर्थबोधको 'वज्रवटुक'-शब्दो बजरबटू ( मूर्खाधमः ) संवृत्तः । ___ अर्थविकासस्य कारणानि--अर्थविकासस्य बहनि कारणानि सन्ति । तत्र कानिचिद् उल्लिख्यन्ते । (क ) आलंकारिक-प्रयोगाः-यथा-कटुवचनम्, कठोरभाषणम् , मधुरालापः, तीक्ष्णवचनम्, अवर्षा, इत्यादयः। ( ख ) नवभाव-प्रकाशनार्थं प्राचीनशब्दानाम् अर्थविस्तारः । यथा गंगा-शब्दो यां कामपि पवित्रनदी द्योतयति । भ्रातृशब्द: प्रियाथं हितैषिणं वा बोधयति । एवमेव मातृ-भगिनी-पत्र-ग्रन्थ-तात-महाराज-गुरुप्रभृतिषु शब्देषु अर्थविस्तारो दृश्यते । (ग) शिष्टाचार-प्रदर्शनार्थम् अशुभार्थनिवारणार्थं च बहवः शब्दा अर्थान्तरे प्रयुज्यन्ते । यथा-'तव' अर्थे-अत्रभवान्, तत्रभवान्, भगवान् इत्यादयः । अन्ध-अर्थे सूरदासः, प्रज्ञाचक्षुः । मरणार्थे स्वर्गवासः, पञ्चत्वं गतः, इत्यादयः । (घ) उत्कृष्टत्वभावना-प्रदर्शनार्थमपि केचन शब्दा निकृष्टेऽर्थे प्रयुज्यन्ते । यथा-देवानां प्रियः ( मूर्खः ), वैयाकरण-खसूचिः (प्रतिभाविहीनः ), तीर्थध्वाङ्कः ( पण्डा ) इत्यादयः। Page #184 -------------------------------------------------------------------------- ________________ ४६. वैदिक-लौकिक-संस्कृतयोः साम्यं वैषम्यं च ___ (वैदिकसंस्कृत-लौकिकसंस्कृतयोस्तुलना) वैदिकभाषा-ऋग्वेदादिवेदचतुष्टये तत्-शाखाग्रन्थेषु च या भाषा प्रयुज्यते सा वैदिकभाषा-नाम्ना व्यवह्रियते । कालिदासादि-काव्येषु या संस्कृतभाषा सा लौकिकसंस्कृतनाम्ना निदिश्यते । वैदिक-लौकिक-संस्कृतयोः साम्यम्-वैदिक-लौकिक-संस्कृतयोः सूक्ष्मदृष्ट्या विवेचनेन ज्ञायते यद् लौकिक-संस्कृतभाषा वैदिक-संस्कृत-भाषोद्भूतैव । वेदेष्वपि शब्दरूपाणि, धातुरूपाणि, कृत्-तद्धित-प्रत्ययाः, समासादयश्च प्राप्यन्ते । संस्कृतशब्दा अपि प्रायशस्ते एव सन्ति । धात्वर्था अपि प्रायेण त एव वर्तन्ते । रूपनिर्माणविधिरपि स एव । एवं ९९ प्रतिशतं वैदिकलौकिक-संस्कृतयोः साम्यं निरीक्ष्यते ।। __ वैदिक-लौकिक-संस्कृतयोर्वैषम्यम्'-द्वयोषियोस्तुलनया विज्ञायते यद् यद्यपि द्वयोर्न मौलिकमन्तरम्, तथापि वैदिको भाषा संस्कृतस्य प्राचीनतमं रूपं प्रस्तौति । तत्र रूप-बाहुल्यम्, प्रत्यय-बाहुल्यम्, सन्धि-परस्मैपदात्मनेपदशबादीनां नियमानां न तथाऽनिवार्यत्वम् अवश्यं करणीयत्वं चावलोक्यते । अतएव वैदिकी भाषा प्रयोगविषये उदारा विविधभावग्राहिणी च । दिग्देशादिभेदेन यत्र तत्र वा प्रयुक्ताः शब्दा धातवश्च तत्र संनिवेशम् अर्हन्ति । एतेन वैदिक-संस्कृतभाषा शब्द-धातु-रूपादिदृष्ट्या संपन्नतरा प्रेक्ष्यते । अत्र केचन प्रमुखा भेदा निर्दिश्यन्ते । तद् यथा (१) लौकिकसंस्कृते उदात्तादि-स्वराणां प्रयोगो न विधीयते । वेदे तू उदात्तादि स्वराणां प्रयोगोऽवश्यकर्तव्यत्वेन निर्धार्यते। अर्थनिर्धारणेऽपि उदात्तादिस्वराणामुपयोगो जायते । (२) वैदिकभाषायां प्रयुक्ता बहवः शब्दा धातवश्च लौकिक-संस्कृते लुप्तप्राया एव । (३) वैदिकभाषा संस्कृतस्य प्राचीनतमं रूपं प्रस्तवीति, लौकिकं संस्कृतं चार्वाचीनतरं रूपम् । ( ४ ) बहवो वैदिकशब्दा रूपसाम्येऽपि लौकिकसंस्कृतेऽर्थभेदेन प्रयुज्यन्ते । यथा-अरातिअसुरादयः शब्दाः । ( ५ ) धात्वर्थविषयेऽपि द्वयोर्वैषम्यं प्रेक्ष्यते । धात्वर्थपरिवर्तनवतां धातूनां संख्याऽल्पीयसी एव । यथा वेदे जयार्थकः सह, धातुलौकिक-संस्कृते मर्षणार्थे प्रयुज्यते। उड्डयनार्थक उत्पतनार्थको वा पत्धातुलॊके पतनार्थे प्रयुज्यते । ( ६ ) शब्दरूपदृष्टया द्वयोर्बह्वन्तरं प्राप्यते । यथा-अकारान्तपुंलिंगशब्दरूपेषु चत्वारो भेदाः। प्रथमा-द्वितीया-संबोधनद्विवचने-प्रियौ, प्रिया; प्रथमा बहु०-प्रियाः, प्रियासः; तृतीयैकवचने-प्रियेण, प्रिया; १. विस्तृतविवेचनार्थ द्रष्टव्यम्-लेखककृत-संस्कृतव्याकरणम्, पृष्ठ ३८०-४०७ Page #185 -------------------------------------------------------------------------- ________________ १६८ संस्कृत निबन्ध शतकम् , , तृतीया बहुवचने प्रियैः प्रियेभिः । अकारान्तनपुंसकलिंगरूपेषु - अकारान्त पुंलिंगवत् चत्वारो भेदाः, प्र० द्वि० सं० बहुवचने प्रियाणि, प्रिया । इकारान्त पुंलिंगरूपेषु द्वौ भेदौ - तृतीयैकवचने आ, ना । शुचिना, शुच्या । स्त्रीलिंगे - तृ० एक०शुच्या, शुचि, शुची । सप्तम्येकवचने - शुचौ शुचा । नपुं० प्रथमादिबहुवचनेशुचीनि शुचि, शुची । एवमेव उकारान्त पुंलिंगरूपेषु तृ० एक० मधुना, मध्वा ष० एक० मधोः, मध्वः सप्तम्येकवचने - मधौ, मधवि । अन्नन्तशब्दरूपेषु सप्तम्येकवचने अश्मन्, अश्मनि । सामान्यतः प्रथमा - द्वितीया - द्विवचने औ आ च । पठत् - पठन्तो, पठन्ता । राजन् - राजानी, राजाना । वाच् - वांचौ, चाचा । युष्मदस्मद्रूपेषु वैषम्यं यथा - युष्मद् - प्र० द्विवचने युवम्; तृ० एक० `त्वा, त्वया; ष० द्विवचने- युवोः, युवयोः; स० एक० - त्वे, त्वयि : अस्मद् — प्र० द्विवचने - आवम्, बाम्; च० एक० - मह्यम्, मह्य, इत्यादयः । युष्मदस्मदोर्बिभिन्नस्थानेषु युष्मे, अस्मे इति प्रयोगो । क्वचिद् रूपेषु 'या' इत्यस्य शब्दान्ते प्रयोगो लक्ष्यते । शब्दरूपेषु अन्याः काश्चन विशेषता दृश्यन्ते । यथा - अन्य - विभक्तिस्थाने प्रथमाविभक्त्येकवचनप्रयोगः, कारक- व्यत्ययः, पदान्तस्वरस्य दीर्घीकरणम्, क्वचिद् आकारान्त प्रयोगेणैव विभक्त्यर्थं प्रकाशनम् । (७) लोके धातुभ्योऽव्यवहितपूर्वम् उपसर्गाः प्रयुज्यन्ते । वेदे उपसर्गाणां स्वातन्त्र्येणापि स्थितिर्भवति । एकवारं क्रियया सहोपसगंप्रयोगे सति पुनस्तदर्थबोधनार्थं केवलम् उपसर्गस्यैव प्रयोगो भवति । ( ८ ) धातुरूपेषूल्लेख्या विशेषताः सन्ति - ( क ) लेट्-लकारप्रयोगो लोकेऽदृष्टः। लेट्लकाररूपाणि यथा - भवाति, भवातः भवान् प्र० पु० । कृधातोर्लेट्लकाररूपाणि - कृणवत्, कृणवतः, कृणवन्, प्र० पु० । (ख) भ्वादिगणीयशबादि-विकरणानां व्यत्ययः प्रायशो दृश्यते । यथा भिनत्ति इत्यस्य स्थाने भेदति-प्रयोगः । हन्ति इत्यस्य स्थाने हनति । नयतु — नेषतु । तरेम इत्यस्य स्थाने तरुषेम । शेते - शयते, ददाति - दाति । ( ग ) तिव्यत्ययः । बहुवचन-स्थाने एकवचनरूपप्रयोगः - ये तक्षन्ति इत्यस्य स्थाने ये तक्षति, इति प्रयोगः । (घ ) पद - व्यत्ययः – परस्मैपदस्थाने आत्मनेपदप्रयोगः-, आत्मने पदस्थाने परस्मैपदप्रयोगश्च । इच्छति -स्थाने इच्छते -प्रयोग: । (ङ) पुरुषव्यत्ययः – प्रथमपुरुषस्थाने मध्यमपुरुषप्रयोगः । वियूयात् - विययाः । (च) कालव्यत्ययः - लुट: स्थाने लृटः प्रयोगः । श्वोऽग्नीन् आधास्यमानेन । (छ) व्यञ्जनव्यत्ययः । अदुक्षत् - अधुक्षत् । ( ज ) इदन्तो मसि, उत्तम पु० बहुवचने इकारान्तप्रयोगः । वदामः - वदामसि । ( झ ) लङादिषु अट: स्थाने आडागमः । अनट् — आनट् । (ञ) सर्वलकारस्थाने लुङादिप्रयोगः । आगच्छतु इत्यस्य स्थाने आगमत् । ( ट ) हृग्रहोर्भ:, हकारस्थाने भकार प्रयोगः । गृह्णामिगृभ्णामि । जहार - जभार (ठ) अन्त्यस्वरदीर्धीकरणम् । विद्म विद्मा, Page #186 -------------------------------------------------------------------------- ________________ वैदिक-लौकिक-संस्कृतयोः साम्यं वैषम्यं च चक्र-चक्रा। (ड) हिस्थाने धिः । श्रुधी, कृधि, पूधि । (ढ.) रकारस्यागमः । अदर्शम्-अदृश्रम् । (ण) अमः स्थाने म् । अवधिषम्-वधीम् । (त) तस्थाने तन, थन । सुनुत-सुनोतन, स्त-स्थन । ( थ ) आसीत्-स्थाने आः, सर्वम् आ इदम् । (९) कृत्प्रत्ययेषु तुमर्थे से, असे, अध्यै, तवै, तवे इत्यादीनां प्रयोगः । एतुम्-एषे, जीवितुम्-जीवसे, पातुम्-पिबध्यै, दातुम्-दातवे, कर्तुम्कर्तवे। लोके केवलं तुम-प्रत्यय एव प्रयुज्यते । त्वा-प्रत्ययस्थाने त्वी, त्वाय च । पीत्वा-पीत्वी, गत्वा-गत्वाय । (१०) सन्धिनियमेष्वपि केचन भेदाः प्राप्यन्ते । क्वचिद् 'एङः पदान्तादति' इति न प्रयुज्यते, अतः पूर्वरूपाभावः । उपप्रयन्तो अध्वरम् । अचि सत्यपि भान्–आँ । देवां अच्छ । महाँ इन्द्रो० । युष्मे, अस्मे इत्यस्य प्रगृह्यत्वात् सन्ध्यभावः । युष्मे इत्था । अस्मे आयुः । डकारस्य ळकारः । ईडे-ईळे । एवं वैदिक-लौकिक-संस्कृतयोः पर्याप्तं वैषम्यं लक्ष्यते । Page #187 -------------------------------------------------------------------------- ________________ .. ४७. संस्कृत-प्राकृतभाषयोः साधम्यं वैधयं च प्राकृत-शब्दार्थ:--प्रकृतेः आगतं प्राकृतम् । अत्र प्रकृतिशब्देन वैदिकभाषा संस्कृतभाषा वा ग्राह्या । वैदिकभाषाया एव प्राकृतभाषाया उद्भवो विज्ञायते । लोकभाषा शिष्ठभाषाश्रयैव परिलक्ष्यते । प्राकृतभाषा लोकभाषा, सा च शिष्टभाषारूपेण वैदिकभाषामेव आश्रयते । प्रकृतिशब्देन जनसाधारणो गृह्यते, तन्मूला भाषा प्राकृतभाषेति केषांचिन्मतम् । परं न तद् युक्तिसहम् । जनसाधारणभाषायाः शिष्टभाषापूर्ववर्तित्वं न संभाव्यते, न च दृश्यते।। प्राकृतवाङ्मयम्--प्राकृतभाषा त्रिधा विभज्यते। ( क ) प्राचीनप्राकृतं पालीभाषा वा। तत्र तृतीयशताब्दी ईसवीयपूर्वाद् आरभ्य द्वितीय-शताब्दी ईसवीयं यावत् प्राप्ताः शिलालेखाः, पालीभाषाग्रन्थाः, महावंश-जातकादयो बौद्धग्रन्थाश्च संगृह्यन्ते । ( ख ) मध्यकालीन-प्राकृतम्। तत्र माहाराष्ट्री, शौरसेनी, मागधी, जैनग्रन्थानां भाषा अर्धमागधी, पैशाची च भाषा गृह्यन्ते । (ग ) परकालीन-प्राकृतम् । तत्रापभ्रंशः संगृह्यते । प्राकृतेषु माहाराष्ट्री प्राकृतं सर्वोत्कृष्टं गण्यते । उक्तं च दण्डिना काव्यादर्श-(१-३५ )-'महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः' । नाटकेषु पद्यरचना माहाराष्ट्री-प्राकृते एव प्राप्यते । गउडवहो-प्रभृतिकाव्यं माहाराष्ट्रीभाषायामेवोपलभ्यते । शौरसेनी-प्राकतं मथुरासमीपति-शूरसेन-प्रदेशे प्रायुज्यत । एतस्मादेव हिन्दी-भाषोत्पत्तिः । नाटकेषु इदमेव प्राकृतं प्राधान्येन प्रयुज्यते । मागधी-प्राकृतं पूर्व-विहारस्य मगधदेशे प्रायुज्यत ।। संस्कृत-प्राकृतभाषयोः साधर्म्यम्-संस्कृत-प्राकृतयोमहत् साम्यम् अवलोक्यते । संस्कृतभाषावत् प्राकृतेऽपि सैव वर्णमाला, तथाविध एव सन्धिविचारः, शब्दरूपाणि, धातुरूपाणि, कृत्-तद्धितादिप्रत्ययाः, स्त्रीप्रत्ययाः, समासादिकं च सममेव दृश्यते । एतस्मात् कारणादेव प्राकतभाषा सारल्येन संस्कृतभाषायाम् अनुवक्तुं पार्यते । संस्कृत-प्राकृतयोर्वधर्म्यम्'--सामान्यतया संस्कृतप्राकृतभाषयोः साम्येऽपि केचन विशेषाः संलक्ष्यन्ते । तद्यथा-(१) प्राकृतभाषा संयोगात्मिका भाषा । सुप्तिङादि-प्रत्ययाः शब्दादिभ्यः संश्लिष्टा एव प्रयुज्यन्ते । (२) अत्र प्राचीनव्याकरणस्य सरलीकरणं दृश्यते । ( ३ ) शब्दरूपाणां धातुरूपाणां च संख्या न्यूनत्वम् उपागता। ( ४ ) शब्दरूपेषु सप्तविभक्तीनां स्थाने विभक्तित्रयं विभक्तिचतुष्टयं वाऽवशिष्यते । धातुरूपाण्यपि दशगणभेदं विमुच्य एकप्रकारेण १. विस्तृतविवेचनार्थं द्रष्टव्यम्- लेखककृते संस्कृतव्याकरणे संक्षिप्त-प्राकृतव्याकरणम्, पृष्ठ ४०७-४२१ Page #188 -------------------------------------------------------------------------- ________________ संस्कृत-प्राकृतभाषयोः साधर्म्य वैधयं च १७१ द्विप्रकारेण वा प्रवर्तन्ते । ( ५ ) संक्षेपजन्याया अस्पष्टताया वारणाय कारकचिह्नभूतानां परसर्गाणाम् उद्भवोऽभूत् । तत एव वर्तमान-वियोगात्मकभाषाणां जनिरभूत् । (६) सति संक्षेपेऽपि संस्कृत-व्याकरणवत् प्राकृतव्याकरणं प्रवृत्तम् । सर्वाणि शब्दरूपाणि प्रायशोऽकारान्तशब्दवत् प्रवृत्तानि । सर्वाणि धातुरूपाणि च भ्वादिगणीय-धातुवत् प्रवृत्तानि । (७) चतुर्थीविभक्त्या अभावोऽभूत् । प्रथमाद्वितीया-विभक्त्योर्बहुवचनरूपाणि प्रायशः समानान्येव संजातानि । (८) धातु- . रूपेषु लङ्-लिट्-लुङ्-लकाराणाम् अभावो दृश्यते । (९) शब्दरूप-धातुरूपयोद्विवचनस्य सर्वथा लोपोऽवलोक्यते। (१०)धातुरूपेषु केवलं परस्मैपदमेव प्राचरत् । आत्मनेपदं तु लुप्तप्रायमेव । ( ११ ) परसर्गाणां सहायक-क्रियाणां च वैशिष्टयेन प्रयोगो न प्रावर्तत । ( १२) ध्वनिपरिवर्तनं मुख्यरूपेण संलक्ष्यते । संयुक्ताक्षरेषु परसवर्णत्वं पूर्वसवर्णत्वं वा प्रायशोऽवलोक्यते । ( १३ ) केचन प्राचीनाः स्वरा वर्णाश्च विलुप्ताः । यथा-ऋ, ऐ, औ स्वराः, य-श-ष-विसर्गाश्च । मागधोभाषायां य-श-वर्णी स्तः, परं तत्र स-वर्णाभावो वर्तते । ( १४ ) संस्कृतभाषायाम् अप्राप्यौ ऐ ओ नवीनौ लघस्वरौ दृकपथम उपगच्छतः । (१५) सामान्यतया पदान्तव्यञ्जनस्य शब्दान्तव्यञ्जनस्य च लोपो दृश्यते । (१६) ह्रस्व-स्वरानन्तरं व्यञ्जनद्वयाद् अधिकस्य सत्ता नाभीष्यते। दीर्घस्वरानन्तरं च व्यञ्जनैकमेव स्वीकार्यम् । ( १७ ) प्राकृतध्वनिनियमाश्रयात् केषुचित् स्थलेषु शब्दानां मूलरूपमेव नाभिज्ञायते । यथा वाक्पतिराजः>वप्पइराअः, अवतीर्णः >ओइण्णः इत्येवं स्वरूपं धत्ते । (१८) प्राकृते केचन संस्कृतशब्दाः तत्समरूपेण प्रयुज्यते । अधिकांशाः शब्दा यद्यपि विकतरूपेण प्राप्यन्ते, तथापि ते मूलसंस्कृतस्वरूपद्योतने क्षमाः। ध्वनिनियमाः--केचन ध्वनिनियमा दिङ्मात्रमत्र निर्दिश्यन्ते । (१) समस्तपदेषु उत्तरपदस्य प्रथमाक्षरं लुप्यते । यथा-आर्यपुत्र>अज्जउत्त । (२) अनुदात्ताव्ययानां प्रथमाक्षरं लुप्यते । पुनः > उण, अपि >वि, च>अ । ( ३ ) भूधातोः भकारस्य हकारः । भवति >होइ । (४) ककारस्य खकारः, पकारस्य च फकारो महाप्राणः । क्रीड् >खेल, पनस >फणस । ( ५ ) श-ष-सवर्णानां स्थाने सः । मागध्यां तु श एवावशिष्यते । ( ६ ) मध्यगताः क-त-पाः ग-द-बा भवन्ति । अतिथि >अदिधि, कृत >किद । (७) मध्यगत-महाप्राणवर्णानां ख-घ-थ-ध-फ-भ-वर्णानां स्थाने हः भवति । मुख >मुह । (८) मध्य. गत-अल्पप्राणवर्णानां क-ग-च-ज-त दानां प्रायशो लोपो भवति । मध्यगतो यः सदा लप्यते । लोक>लोअ, हृदय >हिअअ, प्रिय >पिअ । (९) मध्यगतः पः वः संपद्यते । दीप > दीव, हिन्दीभाषायां दीपावली >दिवाली । (१०) मकारस्य वकारो भवति । मन्मथ >वम्मह । संयुक्ताक्षर-विचारः-( १ ) संयुक्ताक्षरेषु क्वचित् परसवर्णत्वम् । यथा Page #189 -------------------------------------------------------------------------- ________________ १७२ संस्कृतनिबन्धशतकम् सप्त > सत्त, दुग्ध > दुद्ध । (२) क्वचिच्च पूर्वसवर्णत्वम् । अग्नि >अग्गि । ( ३ ) क्षस्य च्छः । अक्षि >अच्छि । ( ४ ) वकारस्य यकारस्य च पूर्वसवर्णत्वम् । पक्व >पक्क, योग्य > जोग्ग । ( ५ ) रकारः पूर्ववर्णस्य परवर्णस्य वा सवर्णत्वं भजते । चक्र > चक्क, मार्ग > मग्ग । ( ६ ) अनुनासिकसंगतो यकारोऽनुनासिकत्वं भजते । पुण्य >पुण्ण । (७) कवर्गात् पवर्गाच्च पूर्ववर्ती 'विसर्ग ऊष्मवद् गण्यते । दुःख >दुक्ख । स्वरविचारः-(१) प्राकृते ऋ-ल-स्वराभावः। (२) ऐ-औ-स्वरो क्रमशः ए-ओ-स्वरौ भवतः । कौमुदी > कोमुदी। ( ३ ) इकारस्य उकारः, ईकारस्य च एकारः । इक्षु > उच्छु, ईदृश >एरिस । ( ४ ) संस्कृत-ऋकारस्य स्थाने रि, अ, इ, उ वा भवति । ऋषि >रिसि, कृत > कद, दृष्टि> दिल्ठि, पृच्छति >पुच्छदि । ( ५ ) अनुस्वारानन्तरम् अपि >पि, इति >ति भवतः । एवं संस्कृत-प्राकृतयोः साम्यं वैधम्यं चावलोक्यते । Page #190 -------------------------------------------------------------------------- ________________ ४८. वैदिको संस्कृतिः संस्कृतिः पुण्या, पुरुषार्थचतुष्टयम् । वैदिकी शिष्ट्वा लोकान् पुनात्येषा, सत्याचारगुणप्रदा ॥ ( कपिलस्य ) संस्कृतेः स्वरूपम् — संस्कृतिर्हि जीवनस्यान्तरङ्गं स्वरूपं प्रकाशयति । मननम्, चिन्तनम्, दार्शनिक दृष्टिः, मनोवैज्ञानिकम् अन्वेषणम्, दार्शनिकं विश्लेषणम्, कर्तव्याकर्तव्यविवेचनम्, जीवनोत्कर्षाधायकतत्त्वानां गवेषणम्, समष्ठेः व्यष्टेश्च स्वरूपम्, जीवनस्योद्देश्यं लक्ष्यं च, लोकव्यवस्थितेः साधनानि, प्रकृतिपुरुषयोर्भेदाभेदविवेचनम्, सर्वमेतत् संस्कृतिशब्देन संगृह्यते । अत्र समासतो वैदिकी संस्कृतिरेव विविच्यते प्रस्तूयते च । वैदिकं दर्शनम् - वेदेषु दार्शनिकं तत्त्वं प्रचुरमुपलभ्यते । तत्र देवानां स्वरूपस्य, ब्रह्मणः, ईश्वस्य, जीवनस्य, प्रकृतेः सृष्टयुत्पत्तेः, पापपुण्ययोः, लोकपरलोकयोः, मोक्ष- पुनर्जन्मादीनां च वर्णनमवलोक्यते । प्राकृतिकतत्त्वानां सूर्य-चन्द्र-वायु- मेघ विद्युत् प्रभृतीनाम् इन्द्र-वरुण-रुद्र-मरुत्-प्रभृति - नामभिः वर्णनमाप्यते । क्वचिच्चामूर्ता भावा देवरूपेणोपस्थाप्यन्ते । यथा काम:, श्रद्धा, मन्युश्च । ईश्वर: सर्वोत्कृष्टत्वेन गण्यते । तस्यैव इन्द्र - मित्र- वरुणादयो विविधा नामधेयाः । देवानां प्रतिदेवं केचन सामान्य गुणाः, सामान्य-विशेषणानि च, केचन च विभेदका गुणाः । देवानां सामान्यवैशिष्ट्यमाश्रित्य एकेश्वरवादः समर्थ्यते । तेषां विभेदकगुणानाश्रित्य बहुदेवतावादोऽपि प्राप्यते । अतएव 'इन्द्र मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद् विप्रा 'बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः' ( ऋग्० १-१६४ - ४६ ) । एष एवाभिप्रायः'त्वमग्ने वरुणो जायसे यत् त्वं मित्रो भवसि यत्समिद्धः । त्वं विश्वे सहसपुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय ' ( ऋ०५ -३ - १ ) अस्मिन् मन्त्रेऽपि परिलक्ष्यते । अत्रक एवेश्वरः इन्द्र-मित्र - वरुणादिनामभिः स्तूयते । पुरुषसूक्त (ऋग्० १०-९०) विराट्पुरुषात् सृष्ट्युत्पत्तिर्वण्यते । नासदीय सूक्ते ( ऋग् ०१० - १२९ ) अपि सृष्ट्युत्पत्तिवर्णनम् । हिरण्यगर्भ सूक्ते ( ऋग्० १० - १२१ ) हिरण्यगर्भप्रजापतेः सृष्टेरुद्भवः । ऋग्वेदे ( ऋ० १० ५९-६ ) पुनर्जन्मनः प्रतिपादनं प्राप्यते । जीवः कर्मानुसारं पुनर्जन्म लभते । वैदिकदेववादः – वैदिकदेवानां विषये विशेषत उल्लेख्यमेतद् यत् — सर्वेषु देवेषु तेजः-पावनत्व- दया- दाक्षिण्य-क्षेमावहत्वादिकं सामान्येनोपलभ्यते । क्वचिद् देवा मातृपितृरूपेणापि परिकल्प्यन्ते । पितापुत्रसम्बन्धादिवर्णने देवानां काल्पनिकदेहादिवर्णनं प्राप्यते । वेदेषु न देवप्रतिमोल्लेखो न च तत्पूजाविधानम् । सर्वे देवा आयुष्याभ्युदय समृद्धिप्रदायकाः । केवलं रुद्र एवं भयमावहति । Page #191 -------------------------------------------------------------------------- ________________ संस्कृत निबन्धशतकम् सर्वत्राशावादसंचारः। देवानां चरित्रम् उज्ज्वलं निष्कलङ्कं च । वरुणो न्यायाशः, न जातु पापिनं क्षमते । देवयजमानयोरनुग्राहकानुग्राह्य सम्बन्धः । १७४ धार्मिकं जीवनम् — वैदिक जीवनं धर्मप्रधानम् । तत्र विविधदेवानामुपासना वर्ण्यते । यज्ञेषु देवा आहूयन्त । यज्ञेषु घृतान्न सोमक्षीरादिकमहूयत । यज्ञेषु पशुमांसाहुतिर्वर्जिताऽभूत् । सोमरसो देवानां प्रेष्ठं पेयमभवत् । उपास्यदेवेषु इन्द्राग्निवरुणमरुत् सोमाश्विनो मुख्याः । वैदिककाले ब्रह्मविष्णुमहेशा न प्रमुखदेवत्वेन गणिताः । धर्मप्रधानो वैदिकः कालः । मननचिन्तनदर्शनादिकं सर्वं धर्माश्रितमभवत् । धर्ममूलैव काव्यकृतिरपि आसीत् । आचारविचारशुद्धो - संयम - सत्यात्मचिन्तनादिषु बलमाधीयत । , " सामाजिक जीवनम् – समाज: आर्यदस्युभेदेन द्विधा विभक्तोऽभूत् । आस्तिक-धार्मिक-सदाचारादिगुणसमन्विता आर्याः, तद्विपरीताश्च दस्यवः । इमे दस्यवः शिल्पकर्मनिपुणाः । परकाले समाजो वर्णचतुष्टये विभक्तः — ब्राह्मणक्षत्रियवैश्यशूद्रप्रभेदेन । अध्यापनमध्ययनं यजनं याजन च ब्राह्मणानां मुख्यं कर्म । राष्ट्ररक्षा, शासनसंचालनं, न्यायदण्डव्यवस्था च क्षात्रं कर्म । कृषिर्गोरक्षा वाणिज्यं च वैश्यानां कर्म । समाजसेवा, शिल्पविधानं च शूद्राणां कर्म । समाजः परिवारेषु विभक्त आसीत् । परिवाराः पितृप्रधानाः । विवाहादिसंस्काराणां 'प्रादुर्भावो लक्ष्यते । एकपत्नीत्वव्रतप्रचलनं लक्ष्यते । समाजे नारीणां गौरवास्पदं - स्थानमासीत् । स्त्रीशिक्षा प्रचलनत्वादेव ऋग्वेदे एकविंशतिर्ऋऋषिका मन्त्रदर्शिकाः । स्वयंवरविवाहप्रचलनमपि प्राप्यते । शिक्षाक्षेत्रे न कोऽपि भेदभावः । पितृसम्पदि पुत्रपुत्रयोः समोऽधिकारः । आर्थिक जीवनम् - आर्थिक जीवनस्याधाररूपेण कृषि, पशुपालनं चोपलभ्येते । पशुषु गवां स्थानं सर्वोत्कृष्टम् । सैव अघ्न्या- अदिति-मातेत्यादिनामभिर्निर्दिश्यते । कृषिकर्मणि वृषभाः प्रायुज्यन्त । सेचनसाधनानि नदी -कूपजलाशय - कुल्यादीन्यभूवन् । अन्नेषु गोधूम-यव-ब्रीहि चणक-माष तिलादयो मुख्याः । कृषिकर्मातिरिक्ता वृत्तय उद्योगाश्च प्राचलन् । तद्यथा - तक्ष- हिरण्यकार-लौहकार-कर्मार-चर्मकार वासोवायादिवृत्तयः प्रावर्तन्त । व्यापारकर्मणि प्रवृत्ताः वणिजोऽभवन् । वस्तुविनिमयमूलकं क्रयविक्रयं प्राचरत् । मुद्रासु निष्कं मुख्यमासीत् । समुद्रव्यापारावस्थितिरपि विज्ञायते । सामुद्रिकधनस्योल्लेखोऽपि प्राप्यते । तत् समुद्रोपलब्धं रत्नादिकं स्यात्, समुद्रव्यापारजो लाभो वा । कुसीदवृत्तिरपि प्राचरत् । अष्टमांशः, षोडशांशो वा कुसीदरूपेणागृह्यत । राजनीतिक जीवनम् - राजनीतिकदृष्ट्या समाजः पञ्चधा व्यभज्यत१. गृहं कुलं वा, २. ग्रामः, ३. विट् ( विश् ), ४. जनः ५. राष्ट्रम् । एतेषां स्वामिनोऽपि क्रमशः गृहपतिः, ग्रामणीः, विशाम्पतिर्विश्पतिर्वा, जनपतिः, Page #192 -------------------------------------------------------------------------- ________________ वैदिक संस्कृतिः १७५ राजा चाभ्यधीयन्त । राज्ञः कर्म राष्ट्ररक्षणं, शत्रुविनाशनं चासीत् । द्विविधा शासनप्रणाली प्राचरत् — राजतन्त्रात्मिका, प्रजातन्त्रात्मिका च । राजतन्त्रे नृपो वंशपरम्परागतः, प्रजातन्त्रे च निर्वाचितोऽभूत् । द्वयोरपि राज्याभिषेकोऽभवत् । राज्ञो निर्वाचका: 'राजकृतः ' अभ्यधीयन्त । तत्र पञ्च राजकृत:राजानः, सूतः, ग्रामणीः, रथकारः, कर्मारश्च । राजसंचालनार्थं सभा समिति - श्चेति परिषद्द्द्वयं प्रजापतेः दुहितृरूपेण प्राचलत् । ग्रामादिन्यायकृत् सभा, राज्यशासनकृच्च समिति: । समितिरेव राज्ञो शासनादवतारणे नवराजनिर्वाचने च प्राभवत् । सेयं वैदिको संस्कृतिः प्रथमा संस्कृतिरिति वेदे संस्तूयतेसा प्रथमा संस्कृतिर्विश्ववारा ( यजु० ७ - १४ ) । - Page #193 -------------------------------------------------------------------------- ________________ ४९. भारतीया संस्कृतिः ( भारतीय संस्कृतेर्मूलतत्त्वानि ) सत्याहिंसागुणैः श्रेष्ठा, विश्वबन्धुत्वशिक्षिका । विश्वशान्तिसुखाधात्री, भारतीया हि संस्कृतिः ॥ ( कपिलस्य ) * का नाम संस्कृतिः-भारतीयसंस्कृतेविवृतिविचारे बहवोऽनुयोगाः समापतन्ति चेतसि । का नाम संस्कृतिः ? कथमिवैषोपकरोत्यात्मनो मनसो जनस्य देशस्य संस्कृतेर्वा ? हेयोपादेयोपेक्ष्या वैषा ? उपादेया चेदियं किं स्यात् स्वरूपमस्याः सांप्रतिक्यां लोकस्थिती ? कास्तावत् प्रातिस्विक्यो भारतीयसंस्कृतेः ? किमिव हि साध्यं क्षेममिह लोकस्य संस्कृत्याऽनया ? कानि च सन्ति कारणानि विश्वसंस्कृतावादृतेरस्याः ? इत्यादयः । संस्करणं परिष्करणं चेतस आत्मनो वा संस्कृतिरिति समभिधीयते । सा नाम संस्कृतिर्या व्यपनयति मलं मनसः, चाञ्चल्यं चेतसः, अज्ञानावरणमात्मनश्च । पापापनयनपूर्वकमेषा प्रसादयति स्वान्तम् , दुर्भावदमनपूर्वकं संस्थापयति स्थैर्य चेतसि, मनःशुद्धिपुरःसरं पावयत्यात्मानमपहरति च चित्तभ्रमम् । संस्कृतेर्महत्त्वम्-संस्कृतिरेवैषा चेतः प्रसादयति, मनोऽमलीकुरुते, दुर्भावान् दमयते, दुर्गुणान् दारयति, पापान्यपाकुरुते, दुःखद्वन्द्वानि दहति, ज्ञानज्योतिज्वलयति, अविद्यातमोऽपहन्ति, भूतिं भावयति, सुखं साधयति, धृतिं धारयति, गुणानागमयति, सत्यं स्थापयति, शान्ति समादधाति च । न केवलमेषोपकी व्यष्टेरपितु समष्टेरपि जीवनभूता। उपकरोति चैषाऽऽत्मनो मनसो लोकस्य राष्ट्रस्य संसृतेश्च । अजस्रमेषोपादेया सर्वैरेव स्वसुखमभीप्सुभिः । स्वोन्नतिमभीप्सता न शक्या केनाप्येषा हातुमुपेक्षितुं वा । उज्झितोपेक्षिता वैषा परिणंस्यते स्वात्मविनाशाय, लोकाहिताय च । अङ्गीकृतेऽस्या उपादेयत्वं तदेव स्यादस्याः स्वरूपं यत् साम्प्रतिक्या लोकसंस्थित्या नातितरां संभिद्येत । विविधाचारविचार-वादव्याकूले विश्वेऽस्मिन् सेव संस्कृतिरुपादेयतामप्स्यति या समेषां स्वान्ते सद्भावाविर्भावपुरःसरं विश्वहितं, विश्वबन्धुत्वं, विश्वोपकरणं चादर्शत्वेनोररीकुर्यात् । अतः सिध्यत्यदो यद् विश्वजनीना संस्कृतिरेव साम्प्रतमुपादानमहति । सैव च तापत्रयसन्तप्तं जगत् तापापनयनेन सुखनिधानं सम्पादयितुं प्रभवति । भारतीयसंस्कृतेर्वैशिष्टयम्-भारतीयसंस्कृतेः काश्चन प्रातिस्विक्यो मुख्या विशेषा वाऽत्र प्रस्तूयन्ते १. धर्मप्राधान्यम्-मानवेषु धर्मप्राधान्यमेव तान् व्यवछेदयति पशुभ्यः । अत उक्तम्-'धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः' । न हि धर्मपदेन कश्चन सम्प्रदायविशेषोऽत्र विवक्षितः । जगद्धारकाणि मूल Page #194 -------------------------------------------------------------------------- ________________ भारतीया संस्कृतिः १७७ तत्त्वानि यमाख्यया व्याख्यातानि शास्त्रेषु धर्मपदवाच्यानि । तदेवोच्यते'धारणाद्धर्म इत्याहुर्धर्मो धारयते प्रजाः । यः स्याद् धारणसंयुक्तः स धर्म इति निश्चयः' । यमास्तु व्याख्याता योगदर्शने–'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' (योग० २-३०)। अहिंसायाः समाश्रयणम्, सत्यस्य परिपालनम्, अस्तेयवृत्त्या आश्रयः, ब्रह्मचर्यव्रतस्यानुष्ठानम्, अपरिग्रहव्रतस्य पालनं च यम इत्युच्यते । एतेषां व्रतानामाश्रयेण मानव: समाजो देशो जगदिदं च सततमन्नति लप्स्यत इति तानि विश्वजनीनधर्मपदेन वाच्यानि । एत एव यमाः शाश्वतिकाः सार्वभौमाः महाव्रतमित्युच्यन्ते–'जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्' (योग० २-३१)। यश्चै हिकमामुष्मिकं चोभयं क्षेममावहति स धर्म इति व्यवस्थापितं वैशेषिकदर्शनकृता. कणादेन-'यतोऽभ्युदयनिःश्रेयस-. सिद्धि स धर्मः'। यतोऽभ्युदयोऽर्थात् ऐहिकी लौकिकी भौतिकी वा समुन्नतिः समुपलभ्यते, निःश्रेयसावाप्तिर्मोक्षाधिगमश्च भवति पारलौकिकं च सुखमाप्यते स एव धर्मपदेन वाच्यः । एतदेव मनसिकृत्य मनुना धृत्यादयो दश गुणा धर्मनाम्ना व्याख्याताः। तद्यथा-'धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम्' ( मनु० )। २. आध्यात्मिको भावना-जीवनमतन्न केवलं भोगार्थमेव, अपित्वात्मोन्नतेः प्रमुखं साधनम् । आध्यात्मिकी भावना मानवं देवत्वं प्रापयति । स सर्वेष्वपि जोवेष्वेकत्वं समीक्षते । समग्रमपि प्राणिजातं परेशेनैवोत्पादितमिति विचारं विचारं तत्रैकत्वमनुभवति । जगदिदं परमात्मना व्याप्तम् । 'ईशावास्यमिदं सर्वं यत् किञ्च जगत्यां जगत्' (ईशोपनिषद् १) । 'यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते । ईशोप०६)। 'यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः' (ईशोप० ७) । अध्यात्मप्रवृत्त्या जीवनमुन्नतं भवति । सर्वत्रैकत्वदर्शनेन न मानवः शोकाभिभूतो भवति । स प्रतिपदमानन्दमनुभवति । निखिलमपि संस्कृतवाङ्मयं व्याप्तं भावनयाऽनया । भावनैषा चेतः प्रसादयति, आत्मानं मोक्षाधिगमं प्रति प्रेरयति । उपनिषत्सु गीतायां चास्या भावनाया वर्णितं विविधं महत्त्वम् । अध्यात्मप्रवृत्त्या प्रवर्तते मनसि सहृदयता सहानुभूतिरौदार्यादिकं च । ३. पारलौकिकी भावना-जगदिदं विनश्वरं, कीतिरेवैकाऽविनाशिनी। भौतिका विषया इमे आपातरम्या पर्यन्तपरितापिनश्च । 'आपातरम्या विषयाः पर्यन्तपरितापिनः' (किराता० ११-१२)। एषामाश्रयणेन पतनं सुलभम्, दुःखावाप्तिः सुलभा, सुखं तु नितरां दुर्लभम् । एतस्मादेव हेतो/राः बीराः सुकृतिनश्च कर्तव्यं प्रमुखं मन्वाना विषयसुखानि विहाय, प्राणान् तृणवद् गणयन्तः समरादिषु वीरगति लेभिरे । Page #195 -------------------------------------------------------------------------- ________________ १७८ संस्कृतनिबन्धशतकम् ४. सदाचारपालनम-'आचारः परमो धर्म' इति सिद्धान्तमाश्रित्य सदाचारः सर्वोत्तमं तप इति स पालनीयः ! अत उक्तं महाभारते-'वृत्तं यत्नेन संरक्षेद वित्तमेति च याति च । अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः' । ब्रह्मचर्यादिपालनेनेन्द्रियनिग्रहो मनसो दमश्च साधनीयौ। सदाचारपालने ब्रह्मचर्यस्य विशिष्टं महत्त्वम् । ब्रह्मचर्यव्रतस्याश्रयणेन न केवलं शारीरिकी समुन्नतिरवाप्यते, अपितु मानसिकी, बौद्धिकी, आध्यात्मिकी चापि समुन्नतिः सुतरां सुलभा। देवा ब्रह्मचर्यव्रतपालनेनैव मृत्युमपि वशीकृतवन्तः । 'ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत' ( अथर्व०)। देवा ब्रह्मचर्येणैवानन्दमधिगतवन्तः । 'इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्' ( अथर्व०)। चरित्ररक्षा, शीलरक्षा, संयमो दमो मनसो वशीकरणमिन्द्रियाणां नियमनं चेत्यादिगुणाः सदाचारपालने विशेषतोऽवधेयाः । (५) वर्ण-व्यवस्था-ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वार इमे वर्णाः । वेदानां वेदाङ्गानां चाध्ययनमध्यापन, यजनं, याजनं, विद्याया धनस्य च दानं, धनादिदानस्य स्वीकरणं च ब्राह्मणस्य कर्तव्यम् । 'अध्यापनमध्ययनं यजनं याजनं तथा। दानं प्रतिग्रहश्चैव ब्रह्मकर्म स्वभावजम्' (मनु०) । 'शमो दमस्तपः शौचं शान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्' ( गीता १८-४२) । देशस्य समाजस्य च रक्षणं क्षत्रियस्य परमो धर्मः । स विपत्तेः क्षताद् वा लोकं त्रायते। अतः साधु निगदितं कविवरेण्येन कालिदासेन–क्षतात् किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः' ( रघु० ) । 'शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्' (गीता १८-४३) । देशस्य जनतायाश्च मनोरञ्जनत्वादेव राजा राजते । 'राजा प्रकृतिरञ्जनात् ।' कृषिर्गोरक्षा वाणिज्यं च वैश्यस्य प्रमुखं कर्म । 'कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ( गीता १८-४४) । एषु कर्मसु वैश्यैः समुन्नतिः कार्या । श्रमसाध्यं शारीरिकं च कार्य शूद्रस्य प्रधानं कर्तव्यम् । 'परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्' ( गीता १८-४४) । यो यादृशं कर्म कुरुते तादृशं वर्णमवाप्नोति । सर्वे वर्णाः स्वं स्वं कर्म विदधीरन् । इदमिहावधेयम्-आर्यसंस्कृतौ वर्णव्यवस्था स्वीक्रियते, न तु जातिप्रथा । जन्मना जातिरिति, कर्मणा वर्ण इति । वर्णो वृणोतेः । जनो यत् कर्म वृणोति, स तस्य वर्णः । जातिप्रथा सदोषा, हेयोपेक्ष्या चे, परं वर्णव्यवस्था निर्दोषोपादेया च । (६) आश्रमव्यवस्था-ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाश्चत्वार एते आश्रमाः । स्ववयोऽनुरूपमाश्रममाश्रयेत्, तदाश्रमनिर्दिष्टनियमान् पालयेच्च । आपञ्चविंशतिवर्षं ब्रह्मचर्याश्रमः । विद्याध्ययनं, तपोमयजीवनयापनं सर्वविधगुणानां सङ्ग्रहश्चाश्रमेऽस्मिन् प्रधानं कर्तव्यम् । आपञ्चाशद्वर्षं गृहस्थाश्रमः । भौतिकी शारीरिकी मानसिकी च समुन्नतिः, भौतिकविषयाणामुपभोगः, दाम्पत्यजीवनयापनं, वंशप्रतिष्ठायै सन्तानोत्पत्तिश्चाश्रमेऽस्मिन् विशिष्टं कर्म । Page #196 -------------------------------------------------------------------------- ________________ भारतीया संस्कृतिः १७९ पञ्चाशद्वर्षानन्तरं वानप्रस्थाश्रमे प्रवेशः । सपत्नीकेनेश्वराराधनं, संयमपालनं, योगादिकर्मसु विशिष्टा प्रवृत्तिश्च तत्र प्रमुखं कर्म । षष्टिवर्षानन्तरं यदैव वैराग्यभावना समुत्पद्यते, तदैव संन्यासाश्रम आश्रयणीयः । ' यदहरेव विरजेत् तदहरेव प्रव्रजेत्' । भौतिकविषयान् परित्यज्य योगाभ्यासे रतिः, पुण्यार्जने प्रवृत्तिः, समाधौ मनसः स्थितिः, लोकोपकरणे च विनियुक्तिः, परिव्राजकानां प्रथमं कर्तव्यम् । ( ७ ) कर्मवादः - मनुष्येण सदाऽनासक्ति भावनया कर्म कार्यमिति । कृतस्य कर्मणः फलावाप्तिः सुनिश्चिता । सत्कर्मणा पुण्यं, दुष्कर्मणा पापं चाप्नोति । 'अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ' । 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनैव' ( बृहदारण्यकम् ) । मानवः कर्मानुसारं शुभं वाऽशुभं वा जन्म लभते । सुकृतं क्रियते चेत् सत्फलं लभ्यते, दुष्कृतं क्रियते चेत् कुफलं प्राप्यते । सर्वास्ववस्थासु कर्मणां फलमवश्यमवाप्यते । अतस्तादृशं कार्यं कार्यं यथा जीवने दुःखावाप्तिर्न स्यात् । ( ८ ) पुनर्जन्मवादः –— कर्मानुरूपं सर्वस्यापि जन्तोः पुनर्जन्म भवति । 'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ' ( गीता २-२७ ) । यो हि जायते तस्य मरणं ध्रुवमेवास्ति । मृतस्य च कर्मानुसारं पुनर्जन्म सुनिश्चितम् । यः पूर्वजन्मनि यादृशं कर्म कुरुते, सोऽस्मिन् जन्मनि तादृशे एव कुले परिवारे च जन्म लभते । प्रतिभादिवैशिष्ट्यं विशिष्टगुणादिसमन्वितत्वं तद्वैपरीत्यं च पूर्वजन्मकृतकर्मविपाक एवेत्यवगन्तव्यम् । ज्ञानाग्निदग्धकर्माणः केचन यतयो निःश्रेयसमधिगच्छन्ति । (९) मोक्षः - मोक्षावाप्तिः परमः पुरुषार्थः । मोक्षमधिगम्य न च पुनरावर्तन्ते मुनयः । केषांचित् मतेन नियतकालं निःश्रेयससुखमुपभुज्य तेऽप्यावर्तन्त इति । ज्ञानाग्निना सर्वकर्मप्रदा हे मोक्षावाप्तिर्भवतीति । (१०) श्रुतीनां प्रामाण्यम् - वेदाश्चत्वारः स्वतः प्रमाणस्वरूपाः ग्रन्थाः, अन्ये तु तन्मूलकं प्रामाण्यं लभन्तेऽतस्ते परतः प्रमाणरूपाः । श्रुत्युक्तदिशा कर्मानुष्ठानेन श्रेयोऽवाप्तिस्तदन्यथाऽऽचरणेन दुःखाधिगमश्च । (११) यज्ञस्य महत्त्वम् — सर्वैरेव जनैः पञ्च यज्ञाः दैनिककर्तव्यत्वेनानुष्ठेयाः । यज्ञानुष्ठानेनात्मप्रसादनं देवप्रसादनं चोभयं क्रियते । पञ्चयज्ञाः सन्ति - ( क ) ब्रह्मयज्ञः — सन्ध्योपासनमीश्वरोपासनं च, ( ख ) देवयज्ञ: - दैनिकयागस्यावश्यकर्तव्यता, (ग) पितृयज्ञः मातुः पितुश्च सततं परिचर्या, तयोराज्ञापालनं च, (घ) बलिवैश्वदेवयज्ञः - परिपक्वस्य भोजनस्याल्पेनांशेन मन्त्रपूर्वकम् अग्नावाहुतिः कीटादिभ्योऽन्नप्रदानं च, (ङ) अतिथियज्ञः-‘अतिथिदेवो भव' इति शास्त्रमनुसृत्यातिथीनां शुश्रूषा, सत्करणं च । , Page #197 -------------------------------------------------------------------------- ________________ $40 संस्कृतनिबन्धशतकम् ( १२ ) सत्यपरिपालनम् - - मनसा वाचा कर्मणा सत्यमुररीकुर्याद् अनुतिष्ठेच्च । सर्वदा सत्यं व्यवहरेत्, नासत्यम् । सत्यमेव शाश्वतं विजयं लभते, नासत्यम् । तथोक्तम्--'सत्यमेव जयते नानृतम्' । 1 (१३) अहिंसापालनम् — 'अहिंसा परमो धर्मः' इत्यहिसैव श्रेष्ठधर्मत्वेनाङ्गीक्रियते । अहिंसयैव साध्या विश्वशान्तिः । जनहितं विश्वहितं चेप्सताऽजस्रं मनसा वाचा कर्मणा चाहिंसाधर्मः पालनीयः । ( १४ ) त्यागस्य महत्त्वम् - अनासक्तेनात्मना जगति व्यवहरेत्, न परस्वमीप्सेत् । पुरुषार्थोपार्जितमेवोपभुञ्जीत । तथा चोक्तं वेदे - ' तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद् धनम् (यजु० ४०–१ ) । (१५) तपोमयं जीवनम् - तपसैव शुध्यति जीवनम् मनश्च प्रसीदति । भोगवासनाभिर्विषीदति स्वान्तम् । मनसो बुद्ध्याश्च परिष्काराय सततं तपोमयं जीवनं यापयेत् । (१६) मातृपितगुरुभक्तिः - मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव इत्येतेषां देववत् पूज्यत्वमाख्यायते । शुश्रूषयैवेषां सिध्यति सकलमिह संसृतौ । मातुः पितुर्गुरूणां चादेशोऽनवरतं पालनीयः । ते एव मानवस्य सर्वोत्तमं शुभचिन्तकाः । तेषामाज्ञानुसारमेव व्यवहर्तव्यम् । विश्वहितस्य विश्वोन्नतेश्च सर्वा एव मूलभूता भावनाः संस्कृतावस्याम् उपलभ्यन्ते । एतासामाश्रयणेन सर्वविधा समुन्नतिः सुलभा राष्ट्रस्य विश्वस्य च। गुणवैशिष्ट्यमेवैतस्याः समीक्ष्य समाद्रियते विश्वसंस्कृतावियम् । Page #198 -------------------------------------------------------------------------- ________________ ५० संस्कृतिः संस्कृताश्रया .. १. संस्कृतं भारतीयसंस्कृतिश्च, २. संस्कृतं भारतीयसंस्कृतेर्मूलमाधत्ते।) संस्कृतं संस्कृतेर्मलं ज्ञानविज्ञानवारिधिः। वेदतत्त्वार्थसंजुष्टं लोकाऽऽलोककरं शिवम् ॥ ( कपिलस्य ) संस्कृतेः स्वरूपम्-का नाम संस्कृतिः ? परिष्करणं, संस्करणं, दुरितव्यपोहनम्, दुर्भावदहनं च संस्कृतिरिति । संस्कृतिहि जीवनोन्नतिसाधिनी, सद्गुणग्राहिणी, सत्पथविहारिणी, ज्ञानज्योतिःप्रचारिणी च। यथा कृषिकर्मणि तृणादिहेयपरिहारेण अभीष्टाकुरादिरक्षणं तथैव संस्कृत्या दुर्भावनिरोधपूर्वकं दुर्गुणदमनपुरःसरं च सद्गुणरत्नसङ्ग्रहोऽनुष्ठीयते।। _ संस्कृतिः संस्कृताश्रया-वेदेषु, धर्मसूत्रेषु, उपनिषत्सु, दर्शनेषु, स्मृतिग्रन्थेषु च महता विस्तरेण पुरुषार्थचतुष्टयस्य, कर्तव्याकर्तव्यस्य च विवृतिरुपस्थाप्यते । वेदेषु अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहादीनाम् अवश्यकर्तव्यत्वेन निर्देश उपलभ्यते। वेदमूलकमेव उपनिषदादीनामनुशासनम् । उपनिषत्सु आत्मज्ञानं ब्रह्मप्राप्तिर्वा परमकर्तव्यत्वेन निर्दिश्यते । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्' (बृहदा० ५।५।१५) धर्मस्य स्वरूपं विवेचयता वैशेषिकदर्शनकृता कणादेन व्यवस्थापितं यत् येन ऐहिकमामुष्मिकं च क्षेममासाद्यते स धर्मः। ( यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः)। ईश्वरास्तित्वम्, अनास्तिक्यं, धर्मबुद्धिश्चेति संस्कृताश्रयायाः संस्कृतेवैशिष्टयम् । अत एव यजुर्वेदे ईशोपनिषदि च निगद्यते 'ईशावास्यमिदं सर्वम्'० ( यजु० ४०।१ ) । ब्रह्मसाक्षात्कारः यदि जीवनेऽस्मिन् न क्रियते तहि जीवनस्य नैष्फल्यमेव । ब्रह्मज्ञानेनैव जीवनस्योपयोगित्वम् । इह चेदवेदीदथ सत्यमस्ति, न चेदिहावेदीन्महती विनष्टिः। भूतेषु भूतेषु विचिन्त्य धीराः, प्रेत्यास्माल्लोकादमृता भवन्ति ॥ केन० २-५ जीवने कर्तव्यनिष्ठता, अनासक्तिभावनया कर्मणि प्रवृत्तिश्च जीवनस्य साफल्यं दिशति । भगवद्गीतायामपि एतदेव सैद्धान्तिकरूपेणोपदिश्यते । कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। ( यजु० ४०-२) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भर्मा ते सङ्गोऽस्त्वकर्मणि ॥ (गीता २-४७) एषैव संस्कृतिलॊकेषु विश्वबन्धुत्वभावनां जागरयति । समत्वदृष्टिसम्पादनेन च स्वपरहितविभेदनिवारणद्वारा सार्वभौतिकी, सार्वलौकिकी चोन्नति निर्दिशति Page #199 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् 'मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे। मित्रस्य चक्षुषा समीक्षामहे' ( यजु० ३६।१८) 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' ( यजु० ४०७ ) भौतिकवादे प्रवृत्तिश्चेत् मानवस्य तमुध्यात्मसाधनं तत्त्वज्ञानाधिगमश्च न कथमपि सम्भाव्यते । भौतिकविषयेष्वनवलिप्तस्यैव तत्त्वज्ञानं सत्यदर्शनञ्च हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ( ईश० १५ ) ॥ जीवनमेतद् यज्ञमयम् । यज्ञस्याश्रयणं सर्वाङ्गीणोन्नतिसाधकम् । जीवनस्य परार्थसाधनेनैव साफल्यम् । तदर्थं परोपकारभावोदयः, स्वार्थपरित्यागः, त्यागवृत्तित्वं चावश्यकम्-यज्ञो वै श्रेष्ठतमं कर्म ( शत० ११७।१।५ ) । तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम् ( यजु ४०।१ )। समाजस्य, देशस्य, राष्ट्रस्य च सर्वविधसमुन्नत्यै विचारसाम्यं, मतैक्यं, सामञ्जस्यं चाभीष्टम् । विचारसोम्ये एव समवेतत्वम्, समन्विता कार्यवृत्तिश्च समानी व आकृतिः समाना हृदयानि वः। ___ समानमस्तु वो मनो यथा वः सुसहासति । ( ऋग्० १०।१९१।४) पारिवारिकाभ्युदयाय मातृपितृगुरुशुश्रूषा, पितृनिदेशानुसरणं, मातृभक्तिः, पतिपरिचरणं चेष्यते अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः। जाया पत्ये मधुमती वाचं वदतु शान्तिवाम् ॥ ( अथर्व० ३।३०।२) __उद्यमोऽध्यवसायः, सततं सत्कृतिनिष्ठत्वम्, प्रगतिशीलत्वं च साध्यं साधयितुं क्षमते । अजस्रं परिक्रमणेन तिग्मदीधितिः तिग्मांशत्वमापद्यते । एवं लोके निरन्तराध्यवसायसाध्यैव सिद्धिः । अत ऐतरेय-ब्राह्मणे 'चरैवेति, चरैवेति' इति स्तूयमानेन कविनोदीर्यते । 'चरन् वै मधु विन्दति, चरन् स्वादुमदुम्बरम् । सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरन् । ( ऐ० ब्रा०) लोके जागरूकस्यैव प्रत्युत्पन्नमतेः प्रबुद्धबुद्धेरेव कीर्तिलाभो, विभवलाभश्च । श्रमेणैव सौभाग्यावाप्तिः । सदाचारेणैव जीवनस्य सर्वविधोत्कर्षः । अध्यवसायशीलस्य न दैन्यं, न पराभवो, न चावधीरणम् भूत्यै जागरणम् अभूत्यै स्वपनम् । ( यजु० ३०।१७ ) कृधी न ऊर्ध्वान चरथाय जीवसे । ( ऋग० ११३६।१४) उच्छ्य स्व महते सौभगाय । ( अथर्व० ३।१२।२ ) जीवने सदाचारस्य सद्वत्तत्वस्य महत्यावश्यकता। सदाचारेण परिपूतं जीवनमैहिकमामष्मिकं च फलमवाप्तं शक्नोति । आचारहीनस्य सर्वशास्त्रावगमोऽपि निष्फल एव । सवृत्तस्यैव सम्यग्दृष्टित्वं, सम्यक् सम्बोधश्च आचारः परमो धर्मः श्रुत्युक्तः स्मात एव च । Page #200 -------------------------------------------------------------------------- ________________ संस्कृतिः संस्कृताश्रया १८३ . तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः॥ ( मनु० १।१०८) लोके विषयासक्तिः मानवविनाशकारिणी । घृतप्रदीप्तो वह्निरिव विषयोपभोगो दोषायैव प्रवर्तते । अतो विषयासक्तियोपेक्ष्या च न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥ (मनु० २।९४ ) मातृपितृगुरुशुश्रूषा सन्ततं कल्याणकारिणी। सा चतुर्विधां श्रियमावहति । अत एव मनुना संस्तूयते अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥ ( मनु० २।१२१) • Page #201 -------------------------------------------------------------------------- ________________ ५१. भारतीयसंस्कृतौ नारीणां स्थानम् (१. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः, २. भारतीयसमाजे महिलानां गौरवम् ।) स्त्रीणां संमानास्पदत्वम्-वैदिकसाहित्यस्यानुशीलनेन विज्ञायते यद् वैदिककाले स्त्रीणां स्थानम् अतीव गौरवास्पदम् आसीत् । स्त्री गृहिणी, गृहस्वामिनी, सहधर्मिणी इत्यादिभिर्विशेषणैः संबोध्यते स्म । पत्नीरूपेण सा गृहस्वामिनीपदम् अलमकरोत् । श्वशुर-श्ववादिषु तस्या अधिकारो मन्यते स्म । 'सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव । ननान्दरि सम्राज्ञी भव सम्राज्ञो अधि देवृषु' (ऋग्० १०-८५-४६)। 'जायेदस्तम्' जाया एव अस्तं गहमित्यर्थः, इति ऋग्वेदे प्रतिपाद्यते । एतदेव संस्कृतेऽपि समर्थ्यते यद्-'न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते'।। ऋग्वेदे कन्यानां शिक्षाया व्यवस्था निर्दिश्यते । पुत्रवत् तासामपि उपनयनादिसंस्कारा अभवन् । वेदाध्ययनेऽपि तासामधिकारोऽङ्गीक्रियते स्म । गृहस्थजीवन-संबद्धविषयेषु तासां योग्यत्वम् अभीष्टमासीत् । वैदुष्यमासाद्य ता यज्ञादिकर्मणि, विद्याविवादे, मन्त्रदर्शनकर्मण्यपि च प्रावर्तन्त । ऋग्वेदे बहव्यो मन्त्रदर्शिका ऋषिकाः स्मर्यन्ते । तत्र काश्चन ऋषिकाः सन्ति-श्रद्धा कामायनी, शची, यमी, इन्द्राणी, अदितिः, जुहूर्ब्रह्मजाया, अपाला, आत्रेयी, शश्वती, आंगिरसी, विश्ववारा, लोपामुद्रा, रोमशा ब्रह्मवादिनी, घोषा, उर्वशी, सूर्या सावित्री, गोधा, सिकता निवावरी-प्रभृतयः । मन्त्रदर्शनेन तासां गौरवं वैदुष्यम् आदर्शरूपत्व च परिलक्ष्यते । स्त्रीणाम् अधिकाराः-नारी पुरुषस्य सहयोगिनीरूपेणावर्तत । सा पुरुषैः सह यज्ञादिकर्माणि समपादयत् । न केवलं सा यज्ञादावेव पुरुषसांनिध्यम् अशिश्रियत्, अपि तु भीषणे समरेऽपि सा सेनानीत्वम् अलंचकार । संहोत्रं स्म पुरा नारी समनं वाव गच्छति । अथर्व० २०-१२६-१० इन्द्राण्येतु प्रथमाजीतामुषिता पुरः। अथर्व० १-२७-४ वेदेषु स्त्री न 'अबला' इति मन्यते । सा सुवीरा, शूरपत्नी, इन्द्रपत्नी, इत्यादिभिः पदैर्गौरवेणो ष्यते । सा दुर्जनं कामुकं धृष्टं च सुवीरेव शूरपत्नीव धर्षयति घातयति च। अवीरामिव मामयं शरारुरभि मन्यते । उताहमस्मि वीरिणीन्द्रपत्नी० । अथर्व० २०-१२६-९ स्त्रियाः सौभाग्यवतीत्वं सहृदयत्वम् उद्यमित्वं च प्रशस्यते । न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् । अथर्व० २०-१२६-६ Page #202 -------------------------------------------------------------------------- ________________ भारतीयसंस्कृतौ नारीणां स्थानम् १८५ स्त्री यथावसरं संसद्यपि भाषणादिकं ध्यदधात् । 'वशिनी त्वं विदथमा वदासि' ( अथर्व० १४-१-२०)। सा गार्हपत्यकर्मणि जागरूकाऽभूत्, पुत्रादिलाभेन समृद्धि चागच्छत् । ( अथर्व० १४-१-२१, ७-३५-१) स्त्रीणां कर्तव्यम्-स्त्रीणाम् आचारशुद्धिः, जागरूकत्वम्, सुसन्ततियुक्तत्वं चाभीष्यते । 'शुद्धाः पूता योषितो यज्ञिया इमाः' (अथर्व० ६-१२२-५ )। सुसन्तानोत्पत्त्या राष्ट्रहितसंपादनमपि स्त्रीणां कर्तव्यम् । 'इदं राष्ट्र पिपृहि सौभगाय' ( अ ० ७-३५-१ )। अथर्ववेदे स्त्रीगुणानामपि वर्णनं प्राप्यते । ( अ० १.१४. १-४ )। तत्र स्त्रीगुणा वर्ण्यन्ते यत् सा तेजोवती, कुलपा, पतिहितकारिणी, मृदुभाषिणी, सरला, अक्रोधना, पतिव्रता, आज्ञाकारिणी, प्रसन्नचित्ता च स्यात् । पत्याऽविराधयन्ती ( अ० २-३६-४)। जाया पत्ये मधुमती वाचं वदतु शान्तिवाम् ( अ. ३-३०-२)। पत्युरनुव्रता भत्वा सं नास्वामृताय कम् (अ० १४-१-४२)। सा पतिव्रता स्यात्, न च पत्या विरोधम् आचरेत् । मधुमती वाचम् उदीरयेत् । पत्युर नुव्रता स्यात् । त्रुटयर्थं प्रायश्चित्तम् आचरेत् । पतिपरिवारार्थं मङ्गलकारिणी शुश्रषापरा सुखदा च स्यात् । यज्ञं कुर्यात् । पत्या सहाग्निहोत्रम् आचरेत् । पातिव्रत्यम् आचरन्ती सोम्यस्वभावा दयालुश्च स्यात् । दम्पत्योः हृदयसामञ्जस्यं स्यात् । प्रजावती वीररुर्देवकामा स्योनेमग्नि गार्हपत्यं सपर्य। ___ अ० १४-२-१८ यतनुचा मिथुना या सपर्यतः । अथर्व० २०-२५-३ सं वां भगासो अग्मत सं चित्तानि समु व्रता । अथर्व० २-३०-२ पुरा ना : शृङ्गारमकुर्वन्, आभूषणानि चाधारयन् । 'चक्षुरा अभ्यञ्जनम्' ( अ० १४.-१-६ )। यज्ञाद्यवसरेषु स्त्रियः सुवसनाः सालंकाराश्च संमिलिता अभूवन् । 'सूर्याया भद्रमिद् वासो गाथयैति परिष्कृता' ( अ० १४१-७)। बहिर्गमनादौ भाषणादिषु च न तत्र पारतन्त्र्यम् आसीत् । तासां चारित्रिक स्तरमपि उत्कष्टत्वमभजत । नहि धृष्टोऽपि ता धर्षयितुं क्षमोऽभूत् । ( अ० २०-१२६-९)। गोभिलगृह्यसूत्रे ( प्रपाठक २) कन्यानाम् उपनयनसंस्कारो वेदाध्ययनं गायत्रीमन्त्रपाठः च निर्दिश्यन्ते। काश्चन आजन्म ब्रह्मचर्यव्रतम् अपालयन् । ता ब्रह्मवादिन्यो धर्मोपदेशिकाश्च समभूवन्, यथा घोषा अपालाप्रभृतयः । पितृसम्पत्तावपि तादृशीनां ब्रह्मचारिणीनां पुत्रवत् समानाधिकारी विज्ञायते । १. विशदविवेचनार्थ द्रष्टव्यम्-लेखककृत-अथर्ववेदकालान संस्कृति-अध्याय ३ Page #203 -------------------------------------------------------------------------- ________________ ૨૮૬ संस्कृत निबन्ध शतकम् अमाजूरिव पित्रोः सचा सती । समानादा सदसस्त्वामिये भगम् ॥ ऋग्०२ - १७-७ L ब्राह्मणग्रन्थेषु स्त्रीणां स्वरूपम् - शतपथब्राह्मणादिषु ग्रन्थेषु स्त्रीस्वरूपं यथास्थानं प्रतिपाद्यते । तत्र नारीविषये काश्चन विशिष्टता निर्दिश्यन्ते । तत्र स्त्री सावित्रीरूपेण गौरवास्पदं प्रतिपाद्यते । स्त्रीणां पतिरेव गतिः । पतिवर्त्मानुसरणं तासां कर्तव्यम् । ताः कोमलाङ्गत्वाद् अबलाः । न च ता - स्ताडनीया: स्त्री सावित्री । जै० उ० ब्रा० ४-२७-१७ पतयो ह्येव स्त्रियै प्रतिष्ठा । श० ब्रा० २-६-२-१४ तस्मात् स्त्रियः पुंसोऽनुवर्त्मानो भावुकाः । शत० १३-२-२-४ अवीर्या वै स्त्री । शत० २-५-२-३६ न वै स्त्रियं घ्नन्ति । शत० १९-४-३-२ स्त्रियाः परपुरुषगमनं निषिद्धं दोषावहं च । स्त्री पत्युरर्धाङ्गी । अतएव सार्धाङ्गिनीशब्देन व्यवह्रियते । पत्नीमन्तरेण न यज्ञस्य पूर्णत्वं स्वीक्रियते । वैदिकविवाहस्याविच्छेद्यत्वं च प्रतिपाद्यते । जाया गार्हपत्योऽग्निः । जाययैव मानवस्य पूर्णत्वं संजायते । वरुण्यं वा एतत् स्त्री करोति यदन्यस्य सत्यन्येन चरति । शत० २-५-२-२० अथ अर्धो वा एष आत्मनः, यत् पत्नी । तैत्ति० ब्रा० ३-३-३-५ अयज्ञो वा एषः । योऽपत्नीकः । तैत्ति० २-२-२-६ सा होवाच - यस्मै मां पिताऽदात् नैवाहं तं जीवन्तं हास्यामीति । शत०४-१-५-९ जाया गार्हपत्योऽग्निः । ऐत० ब्रा० ८-२४ यावद् जायां न विन्दते नैव तावत् प्रजायते, असर्वो हि तावद् भवति । शत० ५-२-१-१० स्मृतिग्रन्थेषु स्त्रीणां स्वरूपम् - मनुस्मृतौ योषितां स्वरूपम् अत्युत्कृष्टत्वेन प्रतिपाद्यते । यत्र योषितां समादरस्तत्रैव सर्वक्रियाणां साफल्यम्, तदभावे तु सर्वकृत्यानां निष्फलत्वम् । यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रिया ॥ मनु० ३-५६ अतएव नारीणां भूषणाच्छादनादिभिः सत्कृत्यैः सततमेव सत्क्रिया विधेया' । योषिति सन्तुष्टिमुपागतायां प्रसन्नायां च सत्यां तत्कुलं रोचते वर्धते १. तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः । भूतिकामैर्नरैनित्यं सत्कारेषुत्सवेषु च ।। मनु० ३-५९ Page #204 -------------------------------------------------------------------------- ________________ भारतीयसंस्कृतौ नारीणां स्थानम् १८७ १ च । तदभावे न कुलश्रीवृद्धिः । अतएव मनुना व्यादिश्यते यद् यत्र दम्पत्योः सामञ्जस्यं परस्पर-सन्तुष्टिश्च तत्रैव कल्याणाधिवास : २ । स्त्रियो हि रत्न - स्वरूपाः, अतः स्त्रीरत्नं दुष्कुलादपि ग्राह्यम् । स्त्रिया महत्त्वं प्रेक्ष्यैव मनुनोच्यते यत् स्त्रियो रत्नानि विद्या धर्मश्च यत्रैव प्राप्येरन्, तत एवादेयानि । रामायण-महाभारतकाले नारीणां स्थितिः - रामायणे महाभारते च स्त्रीणां शिक्षायाः सुव्यवस्थाऽवलोक्यते । रामायणे कौशल्या तारा च ' मन्त्रविदो ' कथ्येते । सन्ध्यां कुर्वन्त्या जानक्या वर्णनं प्राप्यते । रामायणे उत्तररामचरिते च आत्रेयी वेदान्तविद्यानिष्णाता श्रूयते । महाभारते सुलभा वेदान्तविद् वर्ण्यते । द्रौपदी च 'पण्डिता' कथ्यते । स्त्रीणां संगीतनृत्यादिकलानां शिक्षणं वर्ण्यते । अर्जुन उत्तरां तद्गृहे एव संगीतनृत्यादिकम् अध्यापयामास । रामायणेSपि एकपत्नीव्रतं प्रतिपाद्यते । अतएव सीतापरित्यागानन्तरं न रामो विवाहा - न्तरं विदधे । महाभारते भार्याया अकारणं परित्यागो निन्द्यते । " महाकाव्यकाले स्त्रीणां गौरवं प्रतिष्ठितम् आसीत् । तत्र स्त्रियाः पुरुषाद् अनन्यरूपत्वं च निर्दिश्यते ।१° साऽर्धाङ्गरूपिणी प्रियतमा सखी च गण्यते । ११ मातृरूपेण सा भूमेरपि गुरुतरा । १२ मातृक्लेशकारी न क्वचित् सुखं लभते । १३ महाभारते सा 'अवध्या' इति वर्ण्यते । १४ महाभारते वर्ण्यते यत् सत्कृता नार्येव साक्षात् लक्ष्मीर्भवति । १५ १. स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलम् । तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥ मनु० ३-६२ २. सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च । यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ।। मनु० ३-६० ३. स्त्रीरत्नं दुष्कुलादपि । मनु० २-२३८ ४. स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्वतः । मनु० २-२४० ५. रामा० २-२०- ७५ ६. रामा० ५-१५-४८ । ० ७. तेभ्योऽधिगन्तुं निगमान्तविद्यां । उत्तरराम० २-३ ८. न सीतायाः परां भार्यां वव्रे स रघुनन्दनः । रामा० ७ ९७-७ ९. महाभारत १२-२७८-३६; १२-५८-१३ १०. अनन्यरूपाः पुरुषस्य दाराः । रामा० ४-२४-३४ ११. महा० १-७४-४० १२. माता गुरुतरा भूमेः । महा० ४-३१३-७० १३. महा० १३७-४ १४. महा० १-१५८-३२ १५. महा० १३-८१-१५ Page #205 -------------------------------------------------------------------------- ________________ १८८ संस्कृतनिबन्धशतकम् उपसंहारः-बृहदारण्यकोपनिषदि स्त्रीपुरुषौ एकस्यैवात्मनो द्वौ भेदौ वर्येते । स्त्री चाकाशेनोपमीयते । स्त्रीपूमांसौ संपरिष्वक्तौ, स इममेवात्मानं द्वेधाऽपातयत्, ततः पतिश्च पत्नी चाभवताम् । अयम् आकाशः स्त्रिया पूर्यते । बृहदा० १-४-३ यजुर्वेदे नारीणां गौरवास्पदत्वं स्वीक्रियते । 'तस्मै नमन्तां जनयः सुपत्नीः' ( यजु० १२.३५ )। ऋग्वेदे इडा मानवस्याध्यापिकारूपेण वर्ण्यते । 'इडामकृण्वन् मनुषस्य शासनीम्' ( ऋग्० १-३१-११ ) । अथर्ववेदे स्त्रियाः समस्तपरिवारसुखसन्धातृत्वं प्रतिपाद्यते ! 'सुमंगली प्रतरण गृहाणां सुशेवा पत्ये श्वशुराय शंभूः' ( अथर्व० १४-२-२६ ) । ऋग्वेदे ( १८०-१०२-२) मुद्गलानी-नाम्न्याः स्त्रियाः शौर्य वर्ण्यते । सा शत्रुसेनाम् अजयत् । एवमेव ऋग्वेदे (१-११२-१०) विश्पलाया युद्धे शौर्य वर्ण्यते । एवं विज्ञायते यत् प्राचीनभारते नारीणां स्थानं महत्त्वपूर्णम् आसीत् । Page #206 -------------------------------------------------------------------------- ________________ ५२. नहि सत्यात् परी ( १. सत्यमेव जयते नानृतम्, २. सत्ये सर्व प्रतिष्ठितम् ) सत्यं सर्वजगन्मूलं जगदाधारकं परम् । सत्यान्नास्ति परं ज्योतिः, सत्यं धर्मस्य जीवितम् ॥ ( कपिलस्य ) किं नाम सत्यम् ?–सते कल्याणाय हितं सत्यम् । यत् सर्वलोकहितसम्पादने प्रभवति, सर्वस्य च जगतः सुखमावहति, समाजस्य च संरक्षणं विदधाति, तत् सत्यम् । दार्शनिकहष्ट्या यद् वस्तु शाश्वतरूपेण स्थायि अविनश्वरं च तत् सत्यम् । यत्र देशकालादिभेदेऽपि न वैपरीत्यं परिवर्तनक्षमत्वं वा तत् सत्यमिति । तथाविध-विवेचनया जगति ब्रह्मव सत्यम् इति दर्शनविद्भिः संस्थाप्यते । अत्र दार्शनिकं सत्यं न विवक्षितम्, इति लौकिकं सत्यमेव विवियते । यद् वस्तु येन रूपेण विद्यते, तस्य तेनैव रूपेण प्रकाशनं विवरणम् अभिधानं च सत्यम् इत्यनेनाभिप्रेतम् । सत्यमेव जयते-जगति द्विविधा प्रवृत्तिर्मानवानाम्-सत्याश्रयिणः असत्याश्रयिणश्च । केचन अनृतमेव जीवनोपयोगीति आकलय्य अनृतेनैव जीविकोपार्जनं विदधते। अनृतेनैव लोक-व्यवहारसिद्धिरिति ते मन्वते । असत्याचार-विचार-प्रचार-प्रचुरे विश्वप्रपञ्चे न छलप्रपञ्च आश्रीयते चेत् न केनापि प्रकारेण स्वार्थसिद्धिः । अवितथाश्रयेणैव धनोपचयो लोकख्यातिश्चेति मन्वाना अनृतमाश्रयन्ते । परमेतन्मतं तथ्यानवगाहि। ये हि भौतिकसुखलिप्सयाऽनिच्छया अधर्मावृतलोचना अनृतमाश्रयन्ते, तेऽचिरादेव दुर्गतिगर्तमग्नाः, दुरुदर्कोपनिपातभग्नगतयः, अज्ञानसंछन्नाः, विपदन्तां गतिमाश्रयन्ते । उक्तं च मनुना अधर्मेणैधते तावत्, ततो भद्राणि पश्यति । ततः सपत्नान् जयति, समूलस्तु विनश्यति ॥ मनु० ४-१७४ - असत्याश्रयेण तात्कालिकी अल्पकालिकी वा समुन्नतिः सुलभा, परं सोन्नतिः ख्यातिर्वा दुःखोदर्का दुःखान्ता च । लोके हि पारमार्थिकी समुन्नतिरुद्गतिः प्रगतिर्वा सत्येनैव संभवा । सत्याश्रयिणोऽसत्यम् असन्मिश्रं च परित्यज्य लौकिकं पारलौकिकं च तात्त्विकमभ्युदयं लभन्ते । अत एवोच्यतेसत्यमेव जयते, नानृतम् । यजुर्वेदे चोच्यते-इदमहमनृतात् सत्यमुपैमि (यजु०१-५)। नहि सत्यात् परो धर्मः-धर्मस्य मूलं सत्यम् । सत्यमेव धर्मः । नहि धर्मः सत्याद् अतिरिच्यते। सत्यं ज्योतिः, सत्यमेव जीवनं द्योतयति ज्वलयति च । सत्यं ब्रह्मणस्तत्त्वम् । अतएव–'ब्रह्म सत्यं जगन्मिथ्या' इति वेदान्तविद्भि Page #207 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् रुदीर्यते । ब्रह्मैव सत्यम्, सत्यं च ब्रह्मात्मकम् इति सुकरं वक्तुम् । अतएव ईश्वरस्य स्वरूपनिर्देशात्मके सच्चिदानन्दशब्दे सत्-शब्दः प्राङ निर्दिश्यते । छान्दोग्योपनिषदि बृहदारण्यकोपनिषदि च सत्यमेव ब्रह्म ति प्रतिपाद्यते, तदेव च जिज्ञासितव्यम् । सत्यं ब्रह्मेति, सत्यं ह्येव ब्रह्म । बृहदा० ५-४-१ सत्यं त्वेव विजिज्ञासितव्यम् । छान्दोग्यो०७-१६-१ पायथागोरस ( Pythagoras )- महोदयोऽपि सत्यं ब्रह्मेति ( Truth is God ) प्रतिजानीते। महाभारते अश्वमेधसहस्रादपि सत्यस्य वैशिष्टयं व्याचक्ष्यते। अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद् हि सत्यमेव विशिष्यते ॥ महा० महात्मा कबीरदासोऽपि सत्यं परं तप इति भणति । यत्र सत्यं तत्र ब्रह्मणोऽवस्थितिः । 'सांच बराबर तप नहीं, झूठ बराबर पाप । जाके हिरदय साँच है, ताके हिरदय आप' ॥ तुलसीदासोऽपि 'नहि असत्य सम पातक दूजा' इत्यभिदधान एतदेव समर्थयते । एवान्स-महोदयः सत्यं जगतः संस्थापकरूपेण गुरुत्वाकर्षकरूपेण च प्रतिपादयति Truth is the gravitation principle of the universe, by which it is supported and in which it inheres. सत्ये सर्व प्रतिष्ठितम सत्येनैव जगदेतद् धार्यते । सत्याश्रयेणैव जगति विश्वासस्य प्रेम्णः श्रद्धायाः सद्भावनायाश्च समवस्थितिः। सत्यं जनं पापात् त्रायते, दुखाद् मोचयति, बन्धनाद् रक्षति च । यत्र-यत्र सत्यं तत्र-तत्र यशो दाक्षिण्यं सात्त्विकत्वं पावनत्वं श्रीः सौख्यं च । एवं जगति न तत् किंचिद् यत् सत्येन दुरवापम् । सत्येनैव जगतः स्थितिः। उक्तं च-'गोभिविप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः । अलुब्धैर्दानशूरैश्च सप्तभिर्धार्यते मही ।' सत्यं ब्रूयात् प्रियं ब्रूयात्०–सत्याश्रयणेऽपि न तत्र अप्रियत्वं संपृक्तं स्यात् । सत्यमपि प्रियत्वेन माधुर्येण च समन्वितं स्यात् । तथैव सत्यस्य प्रतिष्ठा । मनुना साधु निर्दिश्यते यत् प्रियमेव सत्यं भाषितव्यम्, प्रियमपि नानृतेन संपृक्तं स्यात् । सत्यं ब्रूयात् प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयाद्, एष धर्मः सनातनः॥ मनु० ४-१३८ । एतदेव 'सूनृत'-शब्देनापि अभीष्यते-'प्रियं च सत्यं च वचो हि सूनतम्' । सूनृत-वचनस्य महत्त्वं भवभूतिना वर्ण्यते Page #208 -------------------------------------------------------------------------- ________________ नहि सत्यात् परो धर्मः कामं दुग्धे विप्रकर्षत्यलक्ष्मी, कीर्ति सूते दुर्हृदो निष्प्रलाति । शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ उत्तर० ५-३० १९१ ऐतिह्यं वाक्ष्यते चेद् तर्हि प्राप्यन्ते बहूनि उदाहरणानि यत्र सद्भिः सत्यसंरक्षणार्थमेव प्राणपरित्यागोऽपि सोढः । सत्यपालनार्थमेव महाराजो दशरथो निजं प्रियं पुत्रं रामं वनं प्रेषयत् । राजा हरिश्चन्द्रो युधिष्ठिरो महर्षिर्दयानन्दो महात्मा गांधी-प्रभृतयः सत्यसंरक्षणार्थमेव स्वजीवनानि समर्पयामासुः । अतएव भारतस्य राजचिऽपि 'सत्यमेव जयते' इति सादरम् उल्लिख्यते । • Page #209 -------------------------------------------------------------------------- ________________ ५३. अहिंसा परमो धर्मः हिंसा लोकेन विद्विष्टा, हिंसा धर्मक्षयावहा । अहिंसा परमा शक्तिः, अहिंसा परमं तपः ॥ ( कपिलस्य ) अहिंसायाः स्वरूपम् — हिंसनं हिंसेति । प्राणिनां शारीरं मानसं वा परिपीडनं हिंसेति । त्रिविधा हि हिंसा - मनसा वाचा कर्मणा च । न प्राणिवध एव हिंसा, अपितु मनसा परापकृतिचिन्तनं वाचा कटवाक्यप्रयोगोऽपि हिसेव परिगण्यते । सर्वविधहंसा परित्याग एवाहिंसेति । अहिंसाया धर्मसाधनत्वम् - विविध वाद-विवाद- विप्रतिपत्ति-बहुलेऽपि लोके अहिंसाया महत्त्वविषये सर्वेषां निगमागमानाम् ऐकमत्यम् । अतएव मुनिना मनुना चातुर्वण्यर्थम् अहिंसाया महत्त्वम् उपस्थाप्यते । अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥ मनु० १०-६३ महर्षिणा पतञ्जलिना योगदर्शने यमं व्याख्यायमानेन अहिंसायाः प्राधान्यं निरूप्यते यत् अहिंसासत्यास्तेय- ब्रह्मचर्यापरिग्रहा यमाः । योग० २ - ३० यमानां महत्त्वं वर्णयता पतञ्जलिना तेषां सार्वभौमहाव्रतत्वम् उद्घोषितम्- ' जातिदेशकाल समयानवच्छिन्नाः सार्वभौमा महाव्रतम्' (योग० २ - ३१) । अहिंसैव विश्वस्मिन् जगति शान्तिसंधात्री, अभ्युदयसाधनी, गुणोत्कर्षकारिणी, सच्चारित्र्यमूला, धर्माभिवृद्धि हेतुः भवाब्धिसंतरणैकसेतुश्च । अहिंसाया उपयोगिता - अहिंसाया जीवनोपयोगित्वम् आश्रित्यैव प्राचीनैः ऋषिभिर्महर्षिभिः शास्त्रकारैश्च तस्योपादेयत्वम् उद्घोष्यते । न केवलं वेदादिषु, अपि तु जैन-बौद्धाद्यागमेष्वपि, अहिंसाया अनिवार्यत्वम् उपदिश्यते । यजुर्वेदे मित्रत्वेन सर्वप्राणिहितसाधनं स्नेहव्यापारश्चादिश्यते । तद्यथा मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे । मित्रस्य चक्षुषा समीक्षामहे ॥ यजु० ३६-१८ प्रेमभावनयैव राष्ट्रहितं विश्वहितं च संपादयितुं शक्यते । अतएव गीतायामपि देवीसम्पदवर्णने भगवता कृष्णेन तत्र अहिंसागुणोऽपि प्राधान्येन समाविश्यते । अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ॥ गीता १६ - २ दैवी-सम्पदि न केवलम् अहिंसाया एवोपादानम्, अपि तु तद्व्याख्यान - रूपेण 'दया भूतेषु' इत्यनेन प्राणिमात्रे सदयत्वं समर्थ्यते । भगवान् बुद्धोऽपि अहिंसाया आश्रयणेनैव आर्यत्वम् उद्घोषयति, न हि जातु हिंसाश्रयणेन । Page #210 -------------------------------------------------------------------------- ________________ अहिंसा परमो धर्मः । न तेन अरियो होति येन पाणानि हिंसति । 'अहिंसा सब्बपाणानं अरियो'ति पवुच्चति ॥ धम्मपद १९-१५ अहिंसायाः श्रेयोवहत्वम्--भगवता मनुनाऽहिंसाया उपयोगित्वं प्रतिपादयता निगद्यते यद् अहिंसयैव मानवैः सर्वमपि कार्य साध्यम् । मधुरया वाचा यथा कार्यसिद्धिः संभाव्यते, न तथा प्रकारान्तरेण । एवं स्वार्थ-परार्थ-साधनेन सममेव धर्मपरिपालनमपि सिध्यति । अहिंसयैव भूतानां कार्य श्रेयोऽनुशासनम् । वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ मनु० २-१५९ न केवलमेतदेव, अपि तु आपद्यपि कटुभाषणं परद्रोहवृत्तित्वं च निषिध्यते । न च तादृशी वाक् प्रयोक्तव्या यया जन उद्विजेत । नारन्तुवः स्यादातॊऽपि न परद्रोहकर्मधीः। ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ मनु० २-१६२ अतएव पतञ्जलिना योगदर्शने समर्थ्यते यत्-'अहिंसा-प्रतिष्ठायां तत्संनिधौ वैरत्यागः' (योग० २-३५) । यत्रैव अहिंसायाः प्रतिष्ठा तत्र न केवलं मानवेषु, अपि तु तियंग्योनिष्वपि अहिंसावृत्तित्वम् अवलोक्यते । अतएव पुरा महर्षीणाम् आश्रमेषु हिंस्रेषु सिंहादिष्वपि हिंसावृत्ति-परित्यागोऽलक्ष्यत । अहिंसया विश्वबन्धुत्वम्-अहिंसैव स गुणो येन विश्वबन्धुत्वं विश्वप्रेम विश्वहितसाधनं च संभाव्यते । अहिंसैव धर्ममार्गः । अहिसायाः परिपालनार्थमेव भगवान् बुद्धः, भगवान् महावीरः, महर्षिदयानन्दः, महात्मा गांधिश्च स्वजीवनं समर्पयामासुः । अहिंसा-प्रचारे एवैतेषां जीवन व्यतीयाय । अहिंसाशस्त्रेणैव महात्मा गांधिः पराधीनतापाशं संछिद्य भारतवर्ष स्वाधीनताम् अलभ्भयत् । अहिंसाश्रयेणैव महर्षिर्दयानन्दो विषप्रदं ब्राह्मणं जगन्नाथम् अमुञ्चत । ___ अहिंसाया महत्त्वम्-अहिंसाया गौरवम् अवलोक्यैव मनुना प्रतिपाद्यते यत् स्वसुखसाधनाय न प्राणिवधम् आचरेत् । हिंसको नेह न चामुत्र सुखम् अश्नुते । ... योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया। स जीवंश्च मृतश्च व न क्वचित् सुखमेधते ॥ मनु० ५-४५ 'न हिंस्यात् सर्वभूतानि' एतद्वचनमपि पूर्वाभिप्रायात्मकम् । हिंसया मानवे क्रूरत्वं निर्दयत्वं निघृणत्वं सद्भावहीनत्वं च संजायते । अहिंसयैव सदयत्वं सौजन्य सद्भावसमवेतत्वं च संलक्ष्यते । अहिंसयैव स्वोन्नतिः परोन्नतिः राष्ट्रहितं विश्वहितं च संभाव्यते । अतएवोच्यते-अहिंसा परमो धर्मः। . Page #211 -------------------------------------------------------------------------- ________________ ५४. यतो धर्मस्ततो जयः ( १. धर्मो रक्षति रक्षितः, २. धर्मो धारयते प्रजाः, ३. धारणाद् धर्म इत्याहुः, ४. धर्मेण होनाः पशुभिः समानाः, ५. न धर्मात् परमं मित्रम्, ६. न च धर्मो दयापरः, ७. न धर्मवद्धेष वयः समीक्ष्यते, ८. धर्मस्य त्वरिता गतिः, ९. धर्मः स नो यत्र न सत्यमस्ति ।) ___को नाम धर्मः ?--जगन्मूलत्वेन संसृतिनियामकानि तत्वानि 'धर्मः' इति व्यपदिश्यन्ते । यत्र जगद्धारकत्वं तत्र धर्मत्वम् । के च ते गुणाः, ये इदं जगद् धारयन्ति ? एते गणा महर्षिणा पतञ्जलिना योगदर्शने यम-शब्देन व्याख्याताः । एषां प्रयोजनं च प्रतिपादयता पतञ्जलिना अभिधीयते यद् एते यमाः सार्वभौमा महाव्रतं सन्ति । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। योगदर्शन २-३० जातिदेशकाल-समयानवच्छिन्नाःसार्वभौमा महाव्रतम् । योग० २-३१ तत्र 'शौच-सन्तोष-तपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' (योग० २-३२ )। मनुना स्फुटमेतत् प्रतिपाद्यते यद् यमा एवानिवार्यत्वेन सेव्याः । एषाम् अनाश्रये पतनम् अवनतिश्च । यमान् सेवेत सततं न नित्यं नियमान् बुधः । यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन ॥ मनु० ४-२०४ मनुना धृति-क्षमादयो दश गुणा एव धर्मशब्दवाच्यत्वेन निर्दिष्टाः । धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ मनु० ६-९२ महाभारतकृता व्यासेन जगद्धारकतत्त्वानां 'धर्मः' इति समाख्या व्यधायि । धारणाद् धर्म इत्याहुधर्मो धारयते प्रजाः। यः स्याद् धारणसंयुक्तः स धर्म इति निश्चयः ॥ महाभारत वैशेषिकदर्शनकृता कणादेन प्रतिपाद्यते यद् येन लौकिकी पारलौकिकी च समुन्नतिः संजायते, स एव धर्म-शब्देन वाच्यः । एवं लोक-परलोकोभयसाधकानि तत्त्वानि धर्मशब्दवाच्यानि ।। ___यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः। वैशेषिक० मीमांसादर्शनकृता जैमिनिमुनिना धर्मलक्षणं निर्दिश्यते यत्-'चोदनालक्षणोऽर्थो धर्मः' ( मीमांसा० १-१-२)। जैमिनेरभिमतं यद् यदेव तत्त्वं मानवानां स्फूर्तिजनकम्, अन्तश्चेतनाप्रबोधकम्, सत्कर्मणि प्रवर्तकं च तदेव धर्म-शब्दवाच्यम् । एवं सिध्यति यद् धर्मो मानव-लोकपरित्रायकः, समुन्नतिसाधकः, अवनतिनिरोधकः, ज्ञान-विज्ञान-शौर्यादिगुणसंपादकः, आस्तिक्यादिप्रवर्तकश्चेति । Page #212 -------------------------------------------------------------------------- ________________ यतो धर्मस्ततो जयः धर्मेण होनाः पशुभिः समाना:-धर्म एव जीवनस्य सारः। पशवस्तिर्यञ्चश्चापि आहारनिद्रादिकर्मसंपादनेन स्वजीवनस्य साफल्यम् अश्नुवते । परं न मानवजीवनम् आहारविहारादिसिद्धयर्थमेव, अपि तु विशिष्टोद्देश्यमूलकम् । किं तद् उद्देश्यमिति, कथं च तदवाप्तुं शक्यते, इत्येतत् सर्वमेव धर्मविषयान्तर्गतमेव । अतः साधूच्यते भर्तृहरिणा आहारनिद्राभयमैथुनं च सामान्यमेतत् पशुभिर्नराणाम् । धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः॥ हितो० १-२५ यतो धर्मस्ततो जयः-लोके द्विविधा प्रवृत्तिर्मानवानाम्-धर्मनिष्ठा अधर्मनिष्ठा च । अधर्माश्रयिणो जीवने असत्यादिभाषणेन असद्वृत्त्या चाचिरेण समृद्धि विन्दन्ते । धर्माश्रयिणां च श्रीवृद्धिः प्रयत्नसापेक्षा चिरसाध्या च । परं निश्चप्रचमेतद् वक्तं सुकरं यद् अधर्माश्रयिणां श्रीवृद्धिविनाशाय दुःखोदो च, धर्मनिष्ठानां तु समृद्धयुत्कर्षः सुखोदकः सुखशान्तिसंधायकश्च । अतएव मनुना प्रतिपाद्यते यद् अधर्मोद्भवा श्रीवृद्धिः क्षणिका, समूलोन्मूलनकी च । अधर्मेणैधते तावत् ततो भद्राणि पश्यति । ततः सपत्नान् जयति समूलस्तु विनश्यति ॥ मनु० ४-१७४ धर्मो रक्षति रक्षितः-मनुना धर्मलक्षणं निर्दिश्यते यद् वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः। एतच्चविघं प्राहः साक्षाद धर्मस्य लक्षणम् ॥ मनु० २-१२ चतुर्विधधर्मे वेद-स्मृत्यनन्तरं सदाचारोऽपि धर्म उदीयते। सदाचारेणेव जीवने सर्वार्थसिद्धिरित्यत्र न काचन विप्रतिपत्तिर्विपश्चिताम् । अतएव मनुना व्याह्रियते आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥ मनु० १-१०८ आचाराद् विच्युतो विप्रो न वेदफलमश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाग भवेत् ॥ मनु० १-१०९ सर्वस्य तपसो मूलमाचारं जगृहः परम् । मनु० १-११० धर्मलक्षणे 'स्वस्य च प्रियमात्मनः' इत्यनेन मधुरभाषणं परोपकरणम् अहिंसनं च समर्थ्यते । अतएव महाभारते प्रोच्यते श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ परार्थसाधनं परहितचिन्तनं च जीवने सुखम् अनुप्राणयति । हिंसा हिंसाम्, अहिंसा अहिंसां च प्रवर्तयति । एवं रक्षितो धर्मोऽपि धर्मबुद्धेरनर्थवारणपुरःसरं रक्षामातनुते । बद्धमूलो धर्मो धर्मिष्ठं पावयति त्रायते च । न धर्मात् परमं मित्रम्-जगति धर्म एव सर्वोत्कृष्ट मित्रम् । सम्पदि Page #213 -------------------------------------------------------------------------- ________________ संस्कृतनिवन्धशतकम् विपदि सुखे दुःखे चाजस्रं साहाय्याचरणेन धर्मः परमः सुहृत् । न केवलं जीवने, परत्रापि सुखसाधनेन धर्मस्य परमबन्धुत्वं परममित्रत्वं च व्यादिश्यते। उच्यते च एक एव सुहृद धर्मो निधनेऽप्यनुयाति यः। शरीरेण समं नाशं सर्वमन्यत्त गच्छति ॥ धर्मः स नो यत्र न सत्यमस्ति-सत्य-अहिंसादिगुणव्यपेतो न धर्मः । सत्यं धर्मस्य मूलम् । सत्याद् ऋते न धर्मस्य प्रतिष्ठा । सत्याश्रयैव धर्मवृत्तिः । यत्र सत्यं तत्र धर्मः, तदभावे तदभावः । साम्प्रतं लोके धर्मस्य द्विविधं रूपम्-कर्मकाण्डमूलकम् आचारमूलकं च । लोके ये धार्मिका विवादाः प्रवर्तन्ते, प्रवतिष्यन्ते च, तेषां मूलं कर्मकाण्डमेव । नहि धर्मो विद्वेष शिक्षयति । ये साम्प्रतं विविधाः संप्रदायाः ते 'भिन्नरुचिहि लोकः', 'मुण्डे मुण्डे मतिभिन्ना', इति प्रवादमाश्रित्यैव प्रवर्तन्ते । ते विवादं संघर्ष, मनोमालिन्यं चानुदिनं प्रवर्तयन्ति । आचारमूलकस्य सत्याहिंसादिरूपस्य धर्मस्य सर्वधर्मेषु समत्वम् अनिवार्यत्वं च व्यादिश्यते, तत्पालने न कस्यचिदपि विपश्चितो विप्रतिपत्तिः । एवं धर्मो मानवं देवत्वं गमयति, परमसुहृद्रूपेण चाभीष्टार्थावाप्तौ साहाय्यं वितरति । धर्मो धारयते प्रजाः-जगति धर्म एव पारस्परिक-विश्वास-संधानात् प्रजानां धारकः । धर्मस्य विश्वजनीनत्वं सार्वलौकिकत्वं सार्वभौमिकत्वं च विश्वहितसम्पादनादेव प्रवर्तते । धर्म एव शिक्षयति-'उदारचरितानां तु वसुधैव कुटुम्बकम्' । सत्यं दया परोपकारादयो धर्मस्यातएव मूलतत्त्वानि गण्यन्ते । अतएव परदुःखनिवारणं करुणाद्रवत्वं च धर्मे संगृह्यते। अतएव प्रोच्यते-'न च धर्मो दयापरः'। न धर्मवृद्धेषु वयः समीक्ष्यते-ज्येष्ठत्वं श्रेष्ठत्वं च धर्ममूलकम् । सत्कर्मा-. श्रयणेन ज्येष्ठत्वं, न तु वयसा। अतस्तपःपूताः सदा सर्वत्र च संमानमर्हन्ति । बालिशानां वयोमूलं ज्येष्ठत्वम्, सुधियां तु धर्ममूलकं ज्ञानमूलकं च ज्येष्ठत्वम् । 'धर्मस्य त्वरिता गतिः' इत्यनेन निर्दिश्यते यद् धर्मे देशकालानुरूपं परिवर्तनं संजायते । सत्यपि तत्र परिवर्तने न मौलिकं परिवर्तनम्, यथा बाल्ययौवनादिभेदेऽपि न नामभेदः शरीरभेदो वा । 'गृहीत इव केशेषु मृत्युना धर्ममाचरेत्' इत्यप्यत्राभिप्रेतम् । एवम् अवलोक्यते यद् जीवने धर्मस्य सर्वदा सर्वथा चानिवार्यत्वं वर्तते। तस्याश्रयणेनैव ऐहिकम् आमुष्मिकं च सुखमवाप्यते । धर्मो जीवनरक्षकः, सुखशान्तिसंधायकः, सत्कर्मप्रेरकः, दुःखनिरोधकश्चेति सततम् आश्रयणीयः। . Page #214 -------------------------------------------------------------------------- ________________ ५५. परोपकाराय सतां विभूतयः को नाम परोपकारः - परेषामुपकारः परोपकारः इत्यभिधीयते । समाजे मानवः परस्य हितसाधनार्थं यत् किंचिद् वितरति मनसा वाचा कर्मणा वा परार्थं संपादयति, परेषां हितं वाऽनुतिष्ठति, सर्वं तत् परोपकारो गण्यते । 1 परोपकारस्योपयोगिता -- परोपकार एव स गुणो येन समष्टेव्यंष्टेर्वा समुत्कर्षः संपद्यते । जीवने सर्वेऽपि सर्वोत्कर्षम् अभिलष्यन्तः, स्वोदरपूर्त्येकमतयः, स्वार्थसाधनतत्पराः, स्वानुजिघृक्षया इष्टकर्मजातं संपादयन्तोऽवलोक्यन्ते । यदि सर्वोऽपि लोकः स्वार्थभावनयैव प्रेरितः स्यात् तर्हि कथमिव सामाजिकी राष्ट्रया वा समुन्नतिः संभाव्येत । परस्पर सद्भावेनैव स्वार्थं विहाय परार्थसाधनेन, परदुःख निवारणेन, लोकोपकृति-साधनेन, सर्वजीवानुग्रहेण च भौतिकोऽभ्युदयः समासाद्यते । समाजस्य स्थितिरेव परोपकाराधारा । परोपकरणं लोकानुग्रहसाधनेन परदुःखनिवारणेन च सकले लोके आत्मीयत्वं साधयति । उकं व यजुर्वेदे - यस्मिन्त्सर्वाणि भूतान्यात्मैवाभूद् विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ यजु० ४०-७ परोपकारस्य महत्त्वम् - - परोपकारेणैव विश्वबन्धुत्वं समाजसेवित्वं देवत्वं च सिध्यति । वेदेषु यज्ञपद्धत्या, स्वाहा ( स्व + आ + हा ) - शब्देन, 'इदं न मम' इत्यादिना च स्वार्थपरित्याग एवादिश्यते । स्वत्व - परत्व-भावपरित्यागेनैव उदारचरितत्वं महात्मत्वं विश्वबन्धुत्वं च संसाध्यते । उक्तं चअयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ हितो० १-६९ नश्वरेण क्षणभङ्गुरेण च कलेवरेण यदि परोपकारकृतिभिः स्थास्नु यशः संचीयते, तर्हि किं लाभान्तरम् अन्वेष्यम् ? साधूच्यते धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्तं वरं त्यागो विनाशे नियते सति ॥ 'प्रकृतिश्चेद् अवलोक्यते तर्हि सर्वत्र सततं परोपकारप्रक्रियैव संलक्ष्यते । भानुजंगदिदं द्योतयति विधुर्भुवनम् आह्लादयति; मातरिश्वा मृतप्रायेऽपि प्राणसंचारं विधत्ते; अनलः शैत्यादिकं वारयति भक्ष्यादिकं च पाचयति; सरितो जलेन मेघाश्च वृष्ट्या शस्यं जनयन्ति; वृक्षाः फलैर्क्षधाम् अपहरन्ति; पशवो दुग्धप्रदानेन मानवं संपोषयन्ति पुष्पाणि फलानि वनस्पतयश्च स्वाथं विहाय परार्थे प्रवर्तन्ते । एवं सर्वत्रैव प्रकृतौ परोपकरणं संलक्ष्यते । उक्तं च परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम् ॥ विक्रमो०६६ Page #215 -------------------------------------------------------------------------- ________________ १९८ संस्कृतनिबन्धशतकम् परोपकृतिनिरताः प्रकृत्या विनयम् आश्रयन्ति । फलागमे शाखिनोऽपि नम्रत्वं दधति । घना जलभारभरिता भृशम् अवनमन्ति । उक्तं च भवन्ति नम्रास्तरवः फलागमैनवाम्बुभिभूरिविलम्बिनो घनाः। अनुद्धताः सत्पुरुषाः समृद्धिभिः, स्वभाव एवैष परोपकारिणाम् ॥ नीति० १-७१ परोपकारः पुण्याय-शास्त्रेषु परोपकारः प्रतिपदं प्रशस्यते, अनुमोद्यते च । प्राणैरपि धनैरपि परोपकारः कार्यः। न च परोपकार-सदृशं पुण्यं यज्ञशतेनाऽपि संभाव्यते। परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्यात् क्रतुशतैरपि ॥ सुभाषित०, पृ० ७४ . अष्टादश-पुराणकर्तुर्व्यासस्य उपदेशसहस्रेषु द्वयमेव तस्याभिमतम्'परोपकारः पुण्याय, पापाय परपीडनम् ।' अष्टादशपुराणंषु व्यासस्य वचनद्वयम् । परोपकारः पुण्याय पापाय परपीडनम् ॥ पशवोऽपि स्वचर्मप्रदानेन नराणाम् उपकृति विदधति । परोपकार-विहीनस्य जीवनं निःसारमेव । परोपकारशून्यस्य धिङ् मनुष्यस्य जीवितम् । जीवन्तु पशवो येषां चर्माण्युपकरिष्यति ॥ सुभाषित०, ७४ मानवस्य शरीरावयवाणां परोपकारेणैव साफल्यम् । चकास्ति जीवनं परोपकारेणैव । यथा श्रोत्रं विद्यया, तथैव पाणिर्दानेन, न तु कङ्कणेन विभाति । श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङ्कणेन । विभाति कायः करुणापराणां परोपकारेण न चन्दनेन ॥ नीति० १-७२ सत्सु परोपकृतिभावना नैसर्गिकी समीक्ष्यते । ते जन्मावधि परोपकरणेन स्वजीवनं सफलयन्तोऽवलोक्यन्ते । प्रकृती सूर्यचन्द्रादीनामेष एव परोपकृतिस्वभावः प्रशस्यते। पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम् । नायथितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहितेषु कृताभियोगाः॥ नीति० १-७४ परोपकारभावनयैव महर्षिर्दधीचिर्देवानां हिताय स्वीयम् अस्थिजात प्रादात् । महाराजः शिविः कपोतसंरक्षणार्थं स्वमांसं श्येनाय प्रायच्छत् । महर्षिदयानन्दो महात्मा गान्धिश्च भारतभूमि-हितायैव स्वीयान् असून अहासिष्टाम् । अतः साधूच्यते परोपकाराय सतां विभूतयः। Page #216 -------------------------------------------------------------------------- ________________ ५६. आचारः परमो धर्मः ( १. शीलं परं भूषणम्, २. वृत्तं यत्नेन संरक्षेत्; ३. सुवृत्तैरेव शोभन्ते प्रबन्धाः सज्जना इव, ४. सदाचारः।) आचारस्य लक्षणम्-को नाम आचार: ? कथं वा साध्यश्च ? सताम् आचारः सदाचार इति निगद्यते । सज्जना यथैवाचरन्ति व्यवहरन्ति च, तद्वदाचरणं सदाचारः । सदाचारे सर्वेषामेव सद्गुणानां समावेशोऽभीष्यते । तत्र च प्राधान्येन जितेन्द्रियत्वं संयमो दमो वागादिनिग्रहः सत्य-अहिंसा-ब्रह्मचर्यसेवनं सत्कर्मप्रवृत्तिर्दुरित-निवृत्तिश्च प्रशस्यते। महात्मना बुद्धेन निर्दिश्यते यद् योऽधर्माद् विरमति, इन्द्रियाणि संयच्छते, ब्रह्मचर्यम् उपास्ते, वाक्कायमनोभिः सुसंयतः, स सदाचारवान् इति ।। कायेन संवुता धीरा अथो वाचाय संवुता। मनसा संवुता धीरा ते वे सुपरिसंवुता ॥धम्मपद १७-१४ न इच्छेय्य अधम्मेन समिद्धिमत्तनो। स सीलवा पञ्चवा धम्मिको सिया ॥ धम्म० ६-९ यथागारं सुच्छन्नं वुट्ठी न समतिविज्झति । एवं सुभावितं चित्तं रागोन समतिविज्झति ॥ धम्म० १-१४ आचारस्य महत्त्वम्-आचार एव सदाचार-शिक्षणेन, शीलविनियोगेन, विनयसम्पादनेन, धृति-दाक्ष्यादिगुण-संवर्धनेन, शारीरिक-बौद्धिकमानसिकोन्नतिप्रदानेन जगदिदं बिभर्ति । अतएव मनुना व्यादिश्यते यत् सदाचार एव साक्षाद् धर्मः। वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षात् धर्मस्य लक्षणम् ॥ मनु० २-१२ सदाचारपालनेनैव श्रेष्ठत्वं गुणोत्कृष्टत्वं चासाद्यते । यो ह्याचाराद् हीनः, न स वेदफलमश्नुते । आचारेण च संयुक्तः सर्वां सिद्धि समधिगच्छति । सदाचार एवं सर्वेषां तपसां मूलम् । सदाचारविहीनस्य सर्वाऽपि क्रिया निष्फलैव । आचारहीनं न वेदादयोऽपि पावयितं क्षमन्ते । आचाराद् विच्युतो विप्रो न वेदफलमश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाग भवेत् ॥ मनु० १.१०९ सर्वस्य तपसो मूलमाचारं जगहुः परम् ॥ मनु० १-११० वेदास्त्यागाश्च यज्ञाश्च नियमाश्च तपांसि च। न विप्रदुष्टभावस्य सिद्धि गच्छन्ति कहिचित् ॥ मनु० २-९७ आचारहीनं न पनन्ति वेदाः।। आचारस्योपयोगितत्वम्-आचार एव जगति सर्वार्थसाधकः । आचारा Page #217 -------------------------------------------------------------------------- ________________ f २०० संस्कृतनिबन्धशतकम् देव दीर्घायुष्यं समुन्नतिर्धनावाप्तिः कुलक्षणनिवृत्तिश्च। अतएवाचारवर्णने विष्णुस्मृतौ निर्दिश्यते नाश्लोलं कीर्तयेत् । नानृतम् । नाप्रियम् । धर्मविरुद्धौ चार्थकामौ । लोकविद्विष्टं च धर्ममपि । विष्णुस्मृति आचाराल्लभते चायुराचारादीप्सितां गतिम् ।। आचाराद् धनमक्षय्यम् आचाराद हन्त्यलक्षणम् ॥ विष्णुस्मृति । सर्वलक्षणहीनोऽपि यः सदाचारवान् नरः। श्रदधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ विष्णुस्मृति विद्वज्जनादृतं सत्पुरुषानुष्ठितं देशीयाचारसंनद्धं पारम्परिकक्रमागतम् आचारमपि संगृह्णन्ति विज्ञाः सदाचारे । उक्तं च मनुना यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः। वर्णानां सान्तरालानां स सदाचार उच्यते ॥ मनु० २-१८ वृत्तं यत्नेन संरक्षेत्-जीवने यदि विद्यते किंचन शाश्वतं तत्त्वम्, तर्हि तद् वृत्तम् एव । चरित्रमेव पुरुषस्य सर्वस्वम् । चरित्ररक्षणेनैव मानवत्वं देवत्वं च । तदभावे दानवत्वं पिशाचत्वं च । चरित्रं हि जीवनस्य सर्वस्वम् । तदेव सर्वथा संरक्ष्यम् । उक्तं च वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ महाभारत आङ्ग्लभाषायामपि सूक्तं केनापिIf we alth is lost nothing is lost. If health is lost something is lost. If character is lost everything is lost. इन्द्रियसंयमेनैव सर्वाभीष्टावाप्तिर्मनोरथानां सिद्धिश्च । उक्तं च विष्णुस्मृती दमः पवित्रं परमं मङ्गल्यं परमं दमः। दमेन सर्वमाप्नोति यत् किंचिन्मनसेच्छति ॥ विष्णुस्मृति . सुवृत्तैरेव शोभन्ते प्रबन्धाः सज्जना इव-यथा सत्कविप्रणीतानि काव्यानि सुवृत्तैर्माधुर्योपेतैः सुन्दरछन्दोभिः शोभन्ते, तथैव सज्जनाः सवृत्तेन सदाचारपालनेन च चकासति । सद्वृत्तस्य परिपालनेनैव श्रीरामचन्द्रो मर्यादापुरुषोत्तमत्वम् अलभत । सद्वृत्तरक्षणार्थमेव लक्ष्मणः शूर्पणखाया नासिकाम् अच्छिनत् । चरित्ररक्षार्थमेव शतशो राजर्षिकन्यका वध्वश्च पद्मिनीप्रभृतयो वीराङ्गनाश्च सतीत्वं वविरे। सदाचाराभावादेव वेदशास्त्र-निष्णातोऽपि, पुलस्त्यमुनिवंशजोऽपि, ब्राह्मणोऽपि दशाननो राक्षसत्वं प्रपेदे । वेदेऽपि आचारस्य Page #218 -------------------------------------------------------------------------- ________________ आचारः परमो धर्मः २०१ ब्रह्मचर्यस्य च महत्त्वं वर्णयता प्रोच्यते यद् ब्रह्मचर्येणैव देवा मृत्युं विजिग्यिरे । इन्द्रोऽपि ब्रह्मचर्यबलेनैव देवेभ्यः क्षेमं दिदेश । ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत । ___ इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत् ॥ अथवं० ११-५-१९ शीलं परं भूषणम्-जीवने शीलमेव सद्गुणसाधनम् । यत्र शीलं तत्रैव धर्मः सत्यं तेजो बलं च निवसन्ति । नहि जगति किचिदप्यसाध्यं शीलवताम् । सर्वेषां गुणानामाधारः शोलम् । शीलेन त्रिभुवनमपि जेतुं शक्यम् । उक्तं च महाभारते शोलेन हि त्रयो लोकाः शक्या जेतुं न संशयः । नहि किचिवसाध्यं वै लोके शीलवता भवेत् ॥ महा० शीलेनैव नैरोग्यं तेजस्वित्वं दुःखौघध्वंसनं दर्शनीयत्वं च प्राप्यते । नीरोगः कान्तिसम्पन्नः सर्वदुःखविजितः।। सदाचारी भवेल्लोके दर्शनीयस्तु सर्वदा ॥ महा० भर्तृहरिणा शीलमेव सर्वगुणानां कारणं सर्वोत्तमम् बाभूषणं च व्यादिश्यते। सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् । नीतिशतक १-८३ महात्मना बुद्धेन शोलगुणस्य महत्त्वं वयते यत् शीलगन्धः चन्दनतगर-कमलादि-गन्धानप्यतिशेते। शीलवतां जितेन्द्रियाणां सम्यग्ज्ञानवतां च मार्ग कामोऽप्यवरोखून प्रभवति । चन्दनं तगरं वापि उप्पलं अय वस्सिको। एतेसं गन्घजातानं सोलगन्धो अनुत्तरो॥धम्मपद ४-१२ तेसं सम्पन्नसीलानं अप्पमादविहारिनं। सम्मद आविमूत्तानं मारो मग्गं न विन्दति ॥धम्म०४-१४ एवं सिध्यति यद् आचार एव सर्वोन्नतिसाधकः परमो धर्मश्चेति । साधूच्यते-आचारः परमो धर्मः । Page #219 -------------------------------------------------------------------------- ________________ ५७. स्त्रीशिक्षाया आवश्यकतोपयोगिता च शिक्षायाः स्वरूपम्-शिक्षा नाम जीवने शुभाशुभावबोधनी पुण्यापुण्यविवेचनी हिताहितनिदर्शनी कृत्याकृत्यनिर्देशनी समुन्नतिसाधिकाऽवनतिनाशनी सद्भावाविर्भावयित्री दुर्भावतिरोधात्री आत्मसंस्कृतिहेतर्मनसः प्रसादयित्री, धियः परिष्की, संयमस्य साधयित्री, दमस्य दात्री, धैर्यस्य धात्री, शीलस्य शीलयित्री, सदाचारस्य संचारयित्री, पुण्यप्रवृत्तेः प्रेरयित्री, दुष्प्रवृत्तेर्दमयित्री, समग्रसुखनिधाना, शान्तेः सरणिः, पौरुषस्य पावनी, काचिदपूर्वा शक्तिरिह निखिलेऽपि भुवने। समाश्रित्यैवैतां सूधियो विश्वहितं समाजहितं जातिहितं च चिकीर्षन्ति, लोकस्य दुःख-दावाग्नि संजिहोर्षन्ति, दीनानपचिकीर्षन्ति, सद्भावानाधित्सन्ति, दुर्भावान् जिहासन्ति, सत्कर्म विधित्सन्ति, दुष्कर्म जिहीपंन्ति, आत्मानं मुमुक्षन्ते च । यथेयं नराणां हितसाधयित्री सुखसाधनी च, तथैव स्त्रीणामपि कृतेऽनिवार्या सुखशान्तिसाधिका समुन्नतिमूला च । यथा च नान्तरेण शिक्षां पुरुषैरभ्युदयावाप्तिः सुलभा सुकरा च, तथैव स्त्रीणां कृतेऽपि समधिगन्तव्यम् । नरश्च नारी च द्वावेवैतौ सद्गृहस्थसुरथस्य चक्रद्वयम् । यथा चक्रेणैकेन न रथस्य गतिवित्री, एवं सर्वार्थसाधिनी स्त्रियमन्तरेण न गृहस्थ-रथस्य प्रगतिः सुकरा । सति विदुषि नरे सहधर्मचारिणी चेत् सच्छिक्षापरिहीणा, न दाम्पत्यं सुखावहम् । द्वयोरेव गुणैर्धर्मेण ज्ञानेन विद्यया शीलेन सौजन्येन च गार्हस्थ्यं सुखमावहतीत्यगन्तव्यम् । यथा नरेण ज्ञानमन्तरा समुन्नतिर्दुभा, तथैव स्त्रियाऽपि । एतर्हि पुरुषशिक्षावत् स्त्रीशिक्षाप्यनिवार्याऽऽवश्यकी च । स्त्रीशिक्षाया आवश्यकता-यदि विचारदृशा विमृश्यते परीक्ष्यते चेद् भूयस्यावश्यकताऽनुभूयते स्त्रीशिक्षायाः । स्त्रिय एवैता मातृशक्तेः प्रतीकभूताः । निसर्गादेवैतासु पतत्युत्तरदायित्वं शिशोभरणस्य पोषणस्य च, गृहस्य संचालनस्य संस्थापनस्य च । गृहस्थजीवनस्य सुखस्य शान्तश्च, परिवारप्रपुष्टेः कुटुम्बभरणस्य च, श्वशुरश्वश्र्वोः शुश्रूषायाः परिचर्यायाश्च, शिशोः शैशवे शिक्षणस्य प्रशिक्षणस्य च, शिशौ सत्संस्काराधानस्य सच्छीलनिधानस्य च, भर्तुः सहयोगस्य सद्भावोन्नयनस्य च, अभ्यागतसपर्याया लोकहितसम्पादनस्य च । अनासाद्य वैदुष्यं न संभाव्यते स्त्रोभिः स्वीयोत्तरदायित्वपरिपालनम् । वैदुष्यलाभाय च न केवलं विविधग्रन्थपरिशीलनमेव पर्याप्तम, अपितु व्यावहारिकीणां विविधानां विद्यानां विज्ञानानां च परिज्ञानमपि तेषां कृतेऽनिवार्यम् । विविधकलाकलापकौशलमवाप्यैव पार्यते दाम्पत्यजीवनं मधुरं सुखावहम् आनन्दरसावसिक्तं च सम्पादयितुम् । विशदीभवत्येतस्माद् यन्मानवशिक्षणवत् नारीशिक्षाऽपि नितरामावश्यकी। ज्ञानविज्ञानकौशलमधिगच्छति चेद् द्वय्यपि Page #220 -------------------------------------------------------------------------- ________________ स्त्रीशिक्षायाः आवश्यकतोपयोगिता च २०३ नरनार्योस्तर्हि न केवलं तेषामेव जीवनं सुखशान्तिसमन्वितं भविताऽपि तु समाजहितं राष्ट्रहितं विश्वहितं च संभाव्यते तैः सम्पादयितुम् । स्त्रीशिक्षायाः स्वरूपम् — उररीक्रियते चेत् स्त्रीशिक्षाया आवश्यकता तहि बहवोऽनुयोगाः पुरतोऽवतिष्ठन्ते । तद्यथा - किं स्यात् स्त्रीशिक्षायाः स्वरूपम् ? कीदृशी शिक्षा तासां हितकरी भवितुमर्हति ? कुमाराणां कुमारीणां च सहशिक्षा श्रेयस्करी न वेति ? विषयेष्वेषु नैकमत्यं मतिमताम् । कुमारीणां शिक्षा कुमाराणां शिक्षावदेव स्यात् । तत्र नोचितः कश्चन प्रतिबन्धः । जीवनसंग्रामे साम्यमूला स्यात् तासु व्यवहृतिरित्येके आतिष्ठन्ते । अन्ये तु नरनार्योः नैसर्गिको भेदोऽपौरुषेयः, तेषां कार्यशक्तिरसमा, तेषां व्यवहारक्षेत्रं विपरीतम्, तेषां वृत्तिभेद इत्यास्थाय शिक्षायामपि वैविध्यं हितकरमाकलयन्ति । उचितं चैतत् प्रतिभाति । नार्यो हि मातृशक्तेः प्रतीकभूता इत्युक्तपूर्वम् । तासां कृते सैव शिक्षा श्रेयो वितनितुं प्रभवति या मातृशक्तिमूलभूतान् गुणान् उन्नयेत । तासु शीलं सौकुमार्यं सद्भावं स्नेहं वात्सल्यं सच्चारित्र्यं द्वन्द्वसहिष्णुत्वं कर्तव्यनिष्ठताम् आस्तिक्यं चोत्पादयेत् । गुणानामेतेषामभावश्चेत् तासु, तर्हि सकलकलानिष्णातत्वमपि तासां निष्प्रयोजनम् । अतस्तादृशी शिक्षा हितकरी या सच्छीलादिगुणाधानपूर्वक तासु गृहकलावैशारद्यं कर्मनिष्ठतां सद्गृहिणीत्वबुद्धिमुत्पादयेत् । " स्त्रीशूद्रौ नाधीयाताम्" इत्यत्र न श्रद्दधति सुधियः साम्प्रतम् । लोकव्यवहारज्ञानविहीनानां केषामप्युक्तिरिति तेषां मतम् । 1 स्त्रीशिक्षायाः पृथग् व्यवस्था - कुमाराणां कुमारीणां च सहशिक्षाविषये वैमत्यमधुनाऽपि संलक्ष्यते विदुषाम् । शैशवे सहशिक्षा संभवति । न त व्यावहारिकी क्लिष्टता । यौवनेऽपि सहशिक्षा श्रेयस्करीति न वक्तुं सुकरम् । व्यवहारदृशा दृश्यते चेत् तर्हि समापतति यद् यौवने सहशिक्षा न तथा हितसाधनी, यथाऽहितसाधनी । अतो यावच्छक्यं तावद् यौवने पृथक् शिक्षैव प्रशस्या । स्त्रीशिक्षाया उपयोगिता - सुशिक्षितैव स्त्री सद्गृहिणी सती साध्वी सत्कर्मपरायणा वंशप्रतिष्ठास्वरूपा च भवितुमर्हति । सैव सद्वृत्तादिसद्गुणगणान्वितां संतति विधातुमीष्टे । स्त्रिय एव मातृभूताः सवंशं सद्राष्ट्रं च निर्मातुं प्रभवन्ति । आह्निकक्रियाकलापविकलो मानवो न तथाऽपत्येषु सत्संस्काराधाने प्रभवति, यथा मातरः । अत: मातृशक्तेः शास्त्रेषु महद् गौरवमनुश्रूयते । उक्तं च मनुना यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ॥ मनु० ३-५६ अन्यत्र चोच्यते मातृदेवो भव । तैत्ति० उप० १-११-२ Page #221 -------------------------------------------------------------------------- ________________ २०४ संस्कृतनिबन्धशतकम् सहस्रं तु पितृन् माता गौरवेणातिरिच्यते । मनु० २-१४५ पितुर्दशगुणं माता गौरवेणातिरिच्यते ॥ गृहाधिष्ठातृदेवतात्वात् सा गृहिणी, गृहस्वामिनी, गृहलक्ष्मीरित्यादि - शब्देः संस्तूयते। तत्सत्त्वादेव गृहं गृहमित्युच्यते । उच्यते च – 'न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।' ऋग्वेदेऽपि 'जायेदस्तम्' गृहिण्येव गृहमिति प्रतिपाद्यते । एवं मातरः स्त्रियश्च सर्वत्रैव समादरमर्हन्ति । देशस्य समाजस्य च समुन्नत्यै स्त्रीशिक्षा नितरामावश्यकीत्यवगन्तव्यम् । Page #222 -------------------------------------------------------------------------- ________________ ५८. विज्ञानस्य लाभा दोषाश्च विज्ञानस्य युगम्-विंशतितमशताब्द्या वर्तमानः कालो विज्ञानयुगं गण्यते । सर्वतो विज्ञानवार्ता प्रचरति । पदे पदे, स्थाने स्थाने, प्रतिनगर, प्रतिग्राम प्रतिगृहं च विज्ञानस्याश्रयणेनैव कर्मसिद्धिः संजायते । नहि तादृशं किमपि कर्म यत्र विज्ञानं नापेक्ष्येत, विज्ञानं वोपेक्ष्येत, विज्ञानस्य साहाय्यं वा नाभीष्टं स्यात् । गमने, पठने, भाषणे, वाग्व्यवहारे, भोजनादिकर्मणि, यातायाते, संवादसंप्रेषणे, चिकित्साक्षेत्रे, मनोरञ्जनकर्मणि, दूरदेशयात्रासु, वस्तुनिर्माणे, अन्नोत्पादने, वस्त्रनिर्माणे, कृषिकर्मणि, भवननिर्माणे, व्यापारे, वाणिज्ये, वैज्ञानिकानुसन्धाने, चन्द्रादिग्रहप्राप्ती, विलासिता-सामग्री-संकलने च सर्वत्रैव विज्ञानम् अपेक्ष्यते। विज्ञानस्य लाभाः-विज्ञानमन्तरेण साम्प्रतिक्यां स्थितौ जीवननिर्वाहोऽपि सुदुष्करः । वैज्ञानिका आविष्कारा जीवनोपयोगिवस्तुनिर्माणेन प्रतिपलं मानव सभ्यतायाः संस्कृतेश्च विकासम् आवहन्ति । सर्वेषु क्षेत्रेषु विद्युदुपयोगो नवीनामेव सृष्टिमुत्पादयति । सर्वैरेव सभ्यतमैर्लोकः प्रतिक्षणं विद्युदुपयोगः क्रियते कार्यते च । सौकर्याय सोविध्याय च विद्युदुपयोगो मानवजीवनाङ्गत्वेन परिणतः। विद्युता विद्युद्व्यजनानि ( fans ) संचाल्यन्ते, भोजनं पच्यते, गृहादिकं वातानुकूलितं (Air-conditioned ) विधीयते, यन्त्रशालाः ( factories ) संचाल्यन्ते, वस्त्रादयो निर्मीयन्ते, भवनादयः प्रकाश्यन्ते च । न केवलमेतदेव, अपि तु विद्युता विद्युद्यानानि ( Electric Trains ), यन्त्रशालाः, जलपोताः ( Ships ), विमानानि च संचाल्यन्ते। __ यातायात-साधनेषु रेलयानानाम् ( Trains ), मोटरयानानाम् ( Motor Cars ), विमानानाम्, जलयान-पनडुब्बी-मोटर साइकिलसाइकिल-स्कूटर-प्रभृतीनाम् आविष्काराद् यातायाते तादृशं सौकयं सञ्जातं यथा सहस्रयोजनदूरमपि स्थानम् अल्पिष्ठनैव कालेन प्राप्तुं पार्यते। स्थानकृतं दूरत्वं तु समाप्तप्रायमेव । विविधयन्त्रशालानां निर्माणात् सर्वविधं दैनिकजीवनोपयोगि वस्तु जातम् अनायासेनासाद्यते । एवं विश्वसभ्यताया विश्वसंस्कृतेश्च विकासे महद् योगदानं विज्ञानस्य ।। ___कैमरा-सिनेमा-ग्रामोफोन-टेलीविजन-रेडियो-ट्रान्जिस्टर-प्रभृतीनाम् आविकाराद् मनोरञ्जनस्य प्रचुरं सौविध्यं संलक्ष्यते । तार-टेलीफोन-वायरलेसप्रभृतीनाम् आविष्कारात् संवाद-संप्रेषण-पद्धतौ संचारव्यवस्थायां च प्रभूतं सौकर्यम् अवाप्यते । मुद्रणालय ( Printing Press)-रोटरी मशीन-टाइपराइटर-टेपरिकार्डर-साइक्लोस्टाइलमशीन-प्रभृतीनाम् आविष्कारात् ज्ञानविज्ञान-संवाद-संचारक्षेत्रेऽभूतपूर्वा क्रान्तिदरीदृश्यते । Page #223 -------------------------------------------------------------------------- ________________ २०६ संस्कृतनिबन्धशतकम् चिकित्साक्षेत्रे एक्स-रे-अल्ट्रावायलेट रेज-प्रभृतीनाम् आविष्कारात् नव्या सृतिरेव समुद्भूता। विज्ञान-साहाय्येनैव हृदय-परिवर्तनम्, अङ्गपरिवर्तनम्, स्त्रीपुरुषलिङ्गपरिवर्तनम्, असाध्यरोगोपशमनम्, सर्वमप्येतद् अश्रुतपूर्व प्रत्यक्षीक्रियते। इजीनियरिंग-क्षेत्रेऽपि तादृश्येवापूर्वा चमत्कृतिनिरीक्ष्यते । युद्धसामग्रीविषये तु एटमबम-हाइड्रोजन बम-नापाम बम-मेगाटन बम-टैंक-मेरीन-सबमेरीनमशीनगन-राडार-राकेट-प्रभृतीनाम् आविष्काराद् युद्धप्रक्रियायाम् आमूलचूलं परिवर्तनं संलक्ष्यते । एवंविधैराविष्कारैः क्षणेनैव किमपि नगरम्, कोऽपि देशः स्वकीयः परकीयो वा, सुदूरावस्थेनैव अग्निसात्, भस्मसात्, जलसात्, प्रलयसाद् वा कपार्यते । एवं विज्ञायते यद् विज्ञानेन किमप्यपूर्वमेव जगदिदं विहितम् । विज्ञानस्य दोषाः-यदि विज्ञानस्य दोषा विविच्यन्ते विश्लिष्यन्ते चेत् तर्हि दोषपक्षोऽपि तथैव प्राबल्यं धत्ते । तत्रापि बहु निगदितुं शक्यम् । यथैव महदुपकृतं मानवसंसृतेविज्ञानेन, तथैव प्रभूतमपकृतमपि । तत्र समासतः केचन दोषा उपस्थाप्यन्ते। विज्ञानेन जीवनम् असंयतम्, चरित्रहीनम्, धर्महीनम्, स्वास्थ्यहीनम्, मनोबलहीनम्, इच्छाशक्तिहीनम्, आधि-व्याधि-ग्रस्तम्, चिन्ता-सहस्र-निचितम्, व्याधि-सहस्रोपचितम्, कर्मठताविरहितम्, सालसं च व्यधायि । धर्माभावे, आस्तिक्यबुद्धयभावे, चारित्रिकोत्कर्षाभावे च कीदृशी समुन्नतिः, कीदृशो वा विकास इति न शक्यं वर्णयितुम् । रोगोपशमनार्थ सत्स्वपि सहस्रशो भेषजेषु रोगाः सुरसाराक्षसीमुखवद् वर्धन्ते । विज्ञानप्रभावेण तथा जीवने प्रतिस्पर्धा वृद्धिमुपागता, यथा प्रतिस्पर्धायामेव जीवनं राष्ट्र समाजो वा संक्षयमुपैति । वैज्ञानिके विकासे सदाचारस्य सहानुभूतेः शीलस्य विनयस्य च स्थानमेव नोपलभ्यते । धीरत्वम्, वीरत्वम्, आस्तिक्यम्, तपःपूतत्वम्, स्नेह-श्रद्धा-भक्तयः, सदाचारश्च तुषार-पात-हतकमलानीव म्लायन्ते, हीयन्ते, विनश्यन्ति च ।। वैज्ञानिकेऽस्मिन् युगे धनिनो धनवत्तराः, निर्धना निर्धनतराश्च संलक्ष्यन्ते । आस्तिक्यस्य, पावनत्वस्य, सद्वृत्तत्वस्य च नामान्यपि विलुप्यन्ते । भौतिकोन्नतिलिप्सायां सत्यां विश्वशान्तेः, विश्वप्रेम्णः, विश्वधर्मस्य, विश्वकल्याणादिकस्य च स्वान्तसंस्कर्वी सर्वोदयप्रवणा पूता भावनैव न मानसपाटलं जागरयति । तत्प्रभावेणैव वर्णेषु वर्गेषु जातिषु समाजेषु राष्ट्रषु च प्रतिस्पर्धा, शत्रुत्वभावना, परसंहारचिन्ता, परार्थनाशनपूर्वकं स्वार्थसाधनकामना, चानुदिनं समेधते। विद्युतः प्रयोगादुपयोगाच्च मृतानां म्रियमाणानां च संख्या भूयसी । विज्ञानमेतद् मानवं दानवत्वेन पर्यणमयत् । तत्प्रभावाद् अनुरागस्थाने विद्वेषि Page #224 -------------------------------------------------------------------------- ________________ २०७ विज्ञानस्य लाभा दोषाश्च त्वम्, सहानुभूतिस्थाने परापकृतिः, चारित्रिकशिक्षास्थाने दुश्चरित्रत्वम्, विनयशीलादि-स्थाने धाष्ट्यं च प्रवर्तते । संहारकास्त्राणाम् अणुबमप्रभृतीनाम् आविष्कारात् सकलं जगत् चिन्ताग्रस्तम् आतङ्कितं क्षुब्धं च वरीवति । साम्प्रतिकं विज्ञानं बालिश-करगतखड्ग इव न तथा लाभाय यथा विनाशाय हानाय च, न तथा सुखदं यथा दुःखदम्, न तथा चिन्तात्राणं यथा चिन्ताजननम्, न तथा विकासाय यथा विनाशाय प्रवर्तते । यन्त्रादीनि मानवोपकरणानि सहायत्वेन सेवकत्वेन च प्रवर्तितानि साम्प्रतं मानव-स्वामित्वमेव भजन्ते ।। __ उपसंहारः-विज्ञानं तीक्ष्णम् आयुधमिव उभयमपि साधयितुं शक्नोतिशत्रुनाशनम् आत्मनाशनं च । यदि विज्ञाने धर्मः, आस्तिक्यम्, सद्वृत्ताचरणम्, परार्थचिन्तनं च संगृह्यन्ते तर्हि विज्ञानस्य दोषा अपि गुणत्वेन, दूषणमपि भूषणत्वेन, दुर्गुणा अपि सद्गुणत्वेन, दुःखानि च सुखत्वेन परिणंस्यन्ते। . Page #225 -------------------------------------------------------------------------- ________________ ५९. चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः (१. वर्णव्यवस्था; २. जाति-प्रथाया दोषाः) का नाम वर्णव्यवस्था-वैदिककालाद् आरभ्य भारतेऽस्मिन् वर्णव्यवस्था प्रसरीसति । वर्णशब्देन किम् अभिप्रेतम्, इति जिज्ञासायां 'वर्णो वृणोते.' (निरुक्त ) । मानवः स्वजीवन-निर्वाहाथं यां कामपि वृत्तिम् आश्रयते, तदनुसारमेव तस्य वर्णनिर्णयः । प्रवृत्तिवैविध्यम् अनुरुध्य मानवशरीर-समालोचनपूर्वकं चातुर्वर्ण्यव्यवस्था प्रवर्तिता। . मानव-शरीरं चतुर्धा विभक्तुं शक्यते-१. शिरोभागः, ज्ञानेन्द्रियमनोबुद्धिसमन्वितः; २. हस्ती, ग्रहण-दानादान-रक्षण-साधनभूतो; ३. उदरप्रधानो मध्यभागः, पाचनक्रियासंबद्धोऽशितमन्नं रक्तादिरूपेण परिवर्त्य शरीरस्थितिसाधकश्च; ४. पादो, गमनागमनादिसाधको शरीरस्थितिप्रवृत्तिप्रवर्तको च। एवमेव राष्ट्र समाजोऽपि चतुर्धा विभज्यते । १. ब्राह्मणो ज्ञानकायंसंबद्धः, २. क्षत्रियो रक्षाकायंसंबद्धः, ३. वैश्यः कृषिवाणिज्यादि-संबद्धः, ४. शूद्रः शुश्रूषाकार्यसंबद्धश्च । एतदेवाभिप्रेत्य ऋग्वेदे यजुर्वेदेऽथर्ववेदे गीतायां च चातुर्वण्र्यम् उल्लिख्यते। ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः। ऊरू तवस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥ यजु० ३१-११ चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः। तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् ॥ गीता ४-१३ ब्राह्मणस्य कर्तव्यम्-मनुस्मृती गीतायां च ब्राह्मणस्य कर्तव्यं निर्दिश्यते यद् अध्ययनम्, अध्यापनम् , यजनम, याजनम्, दानम्,प्रतिग्रहः, शम-दम-शौचक्षान्ति-क्षमा-आजवादि-गुणयुक्तत्वम्, ज्ञान-विज्ञानयोः समुत्कृष्टत्वं च ब्राह्मणस्य कर्तव्यम् । अध्यापनमध्ययनं यजनं याजनं तथा। घानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत् ॥ मनु० १-८८ शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ गीता १८-४२ क्षत्रियस्य कर्तव्यम्-प्रजानां संरक्षणम्, दानम्, यजनम्, अध्ययनम्, विषयेष्वनासक्तिः, शौर्यम्, धैर्यम्, दाक्ष्यम्, युद्धेऽपलायनम्, दानम्, प्रभुत्वं च क्षत्रियाणां कर्तव्यम् अवधार्यते। प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समादिशत् ॥ मनु० १-८९ Page #226 -------------------------------------------------------------------------- ________________ २०९ पापुर्ववं नया सृष्टं गुणकर्मविभागशः शौर्य तेजो प्रतिक्ष्यिं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ गीता १८-४३ महाकविना कालिदासेन 'क्षतात् किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः' ( रघु० २-५३ ) इत्यत्र क्षतेः विपदो वा रक्षणं क्षत्रियस्य कर्तव्यमित्यभिधीयते। वैश्यस्य कर्तव्यम्-वैश्यस्य कर्तव्यं निर्दिश्यते-पशूनां रक्षणम्, दानम्, यजनम्, अध्ययनम्, व्यापारः, वाणिज्यम्, कुसीदवृत्तिः कृषिश्चेति । पशूनां रक्षणं दानमिज्याऽध्ययनमेव च। वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥ मनु०१-९० कृषि-गौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । गीता १८-४४ शूद्रस्य कर्तव्यम्-शूद्रस्य शिल्पकार्यम्, सर्वेषां वर्णानां च शुश्रूषणं कर्तव्यम् अभिधीयते।। एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् । सर्वेषामेव वर्णानां शुश्रूषामनसूयया ॥ मनु० १-९१ परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ गोता १८-४४ वर्णव्यवस्थाया उपयोगिता-वर्णव्यवस्था परीक्ष्यते चेद् गीताया वचनमेतत् समर्थयते यत् चातुर्वण्यं गुणकर्मानुसारमेव प्रवृत्तम् । विभाजनस्य किं कारणम् ? क आधार इत्यनुयोगे प्रोच्यते यद् मानवेषु केचन नैसर्गिकाः सहजाश्च गुणदोषा उपलभ्यन्ते । तन्मूलकमेव प्रवृत्तिवैविध्यम् । प्रवृत्तिभेदाच्च वृत्तिभेदाः। वृत्तिभेदाच्च वर्णभेदः । वर्णभेदाच्च क्रियाभिन्नत्वम् । अतएव गीतायां निगद्यते ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप। ___ कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥ गीता १८-४१ वर्णव्यवस्थाया वैज्ञानिकत्वम्-दार्शनिकदृष्टया, मनोवैज्ञानिकदृष्टया, वैज्ञानिकदृष्टया च समाजः पर्यालोच्यते चेत् तर्हि चतुर्विधा प्रवृत्तिर्मानवानां संलक्ष्यते । १. सत्त्वप्रधाना, २. सत्त्वरजोमिश्रिता, ३. रजस्तमोमिश्रिता, ४. तमःप्रधाना च। प्रकृतेर्गणत्रयात्मकत्वात् प्रकृतिविकृतावपि गुणत्रयसमन्वयो निर्विवादः। 'सत्त्वं लघु प्रकाशकम्' (सांख्यकारिका १३ )। एवं ये सत्त्वगुणोपेता ज्ञानविज्ञानप्रवणा आध्यात्मिकता-आस्तिक्यादिगुणसंवीताश्च ते ब्राह्मणाः । 'उपष्टम्भकं चलं च रजः' ( सांख्य० १३)। रजोगुणे प्रेरकत्वं क्रियाशीलत्वं च । अतो ये सत्त्वरजोमिश्रितास्ते क्षत्रियाः। 'गुरु वरणकमेव तमः' (सांख्य० १३) । तमोगुणे आवरकत्वं क्रियाराहित्यं च । एवं ये रजस्तमोमिश्रितास्ते वैश्याः। ये सर्वथा तमःप्रधानास्ते शूद्राः । एवं दार्शनिकदृष्टया Page #227 -------------------------------------------------------------------------- ________________ २१० संस्कृतनिबन्धशतकम् वर्णव्यवस्थाया औचित्यं सुव्यवस्थितत्वं चावगम्यते । अतएव गीतायां प्रतिपाद्यते यद् नहि लोके किंचिद् वस्तु गुणत्रयव्यपेतम् । सर्वं त्रिगुणात्मकमेव । न तदस्ति पथिव्यां वा दिवि देवेष वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणः॥ गीता १८-४० गुणकर्मानुसारं वर्णव्यवस्था-वर्णव्यवस्था परीक्ष्यते चेत् सा गुणकर्मानुसारं प्रावर्तत । यः कश्चन तत् कर्म कुर्यात् स तं वर्णम् आश्रयेत् । स्वकर्मणैव ब्राह्मणो वैश्यत्वं शूद्रत्वं चापद्यत । एवमेव सत्कर्माण्यनुरुध्य शूद्रोऽपि ब्राह्मणत्वं प्रपेदे । नहि वर्णव्यवस्था जन्मानुसारिणी जन्ममूला च । अतएव मनुना कर्मानुसारं वर्णविपर्ययो निर्दिश्यते शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम्। क्षः याज्जातमेवं तु विद्याद् वैश्यात् तथैव च ॥ मनु० १०-६५ मनुना स्फुटं निर्दिश्यते यद् वेदम् अनधीयानो ब्राह्मणः सपरिवारः शूद्रत्वम् आपद्यते। योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः॥ मनु० २-१६८ आपस्तम्बधर्मसूत्रेऽप्येतदेव विशदीक्रियते यद् धर्मचर्यया वर्णोत्कर्ष लभते, अधर्मचर्यया च वर्णापकर्षम् । धर्मचर्यया जघन्यो वर्णः पूर्व पूर्व वर्णमापद्यते जातिपरिवृत्तौ । अधर्मचर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णमापद्यते जातिपरिवृत्तौ । आपस्तम्ब० १-२ जातिप्रथाया दोषाः-वर्णव्यवस्थैव स्वस्थानात् प्रच्युता परस्ताद् जातिप्रथाम् आपन्ना। तदा च जन्ममूलकमेव जातेविभाजनं संपन्नम् । एतदत्रावधेयं यद् वर्णव्यवस्थाया मूलं वृत्तिः कर्म गुणो वाऽवर्तत । जातिप्रथायाश्च मूलं जन्ममात्रम् । सेयं जातिप्रथा सर्वविधदोषसंवलिता लक्ष्यते । तत्र गुणकर्मणोः प्राधान्याभावाद् विद्वषाः, उच्चावचत्वभावना, वर्णसांकर्यम्, सजातीय-विजातीय-विरोधाः, स्पृश्यास्पृश्यत्वदोषः, सग्धिसपीत्यादौ उत्कृष्टत्वापकृष्टत्वादिजघन्य-विचार-चर्चा । एवंविधा भूयांसो दोषाः संप्रवर्तन्ते । अतएव भारतीयैवैदेशिकैश्च विद्वद्भिर्जातिप्रथा सर्वदोषालयेति निन्द्यते गोते च । एवं विज्ञायते यद् वर्णव्यवस्था समाजोन्नतिसाधिका लोकहितकारिणी वैज्ञानिकी चास्ति । जातिप्रथा नूनं दोषावहा कलङ्कास्पदा च । Page #228 -------------------------------------------------------------------------- ________________ ६०. महषिर्दयानन्दः ( दयानन्द-गुण-गौरवम् ) गुणानामाधारो विदित-श्रुतिशास्त्रार्थनिचयः समद्धर्ता भर्ता पतितजनचित्तातिहरणः। नयन्नात्मोत्सर्ग परहितरतः स्वार्थविरतो दयानन्दः स्वामी जयतु भुवने भास्कररुचिः॥ ( कपिलस्य) जीवनवृत्तम्-अयं महात्मा गुजरात-प्रान्तान्तर्गत-टंकारानगरे १८२४ ईसवीये जनि लेभे। अस्य पितृवर्यः कर्षणजीतिवारी मातृवर्या रुक्मिणी चास्ताम् । शास्त्रविधिमनुसृत्य जनकोऽस्य दशमेऽहनि मूलशंकर ( मूलजी) इति नामधेयम् अकरोत् । अष्टमे संवत्सरे एनमुपानयत् । प्राप्ते तु त्रयोदशे वर्षे जनक एनं शिवरात्रिव्रतम् आदिदेश | शिवरात्रिवतकाले स निशीथे शिवोत्तमाङ्गम् आसाद्य नैवेद्यम् अश्नन्तं मूषकमेकम् अद्राक्षीत् । तदा चिन्तापिहितवृत्तिर्मनसोद्वेलितः पितरं शिवस्वरूपम् अप्राक्षीत्-किमयं मूर्तः शिवः सत्यः ? उताहो सत्यः शिवोऽन्य एव ? जनकोऽस्य तज्जिज्ञासासमाधानेऽक्षमोऽभूत् । तदा स सत्यं शिवम् अन्वेष्टुं प्रत्यजानात् । गृहे स्वभगिन्याः पितव्यस्य च निधनम् आलोक्य कथं मोक्षावाप्तिर्जन्ममृत्युबन्धननिवृत्तिश्च स्यादिति वैराग्यम् उदभूत् । स गृहं पितरौ च परित्यज्य वनमगात् । तत्र साधुसंगत्याऽपि न तृप्ति लेभे । पूर्णानन्दयतेः संन्यासं गृहीत्वा 'दयानन्दसरस्वती' इत्याख्यां जगाम । ततो हिमालयं प्राप्य तपश्चक्रे। पश्चाच्च विरजानन्दयतीश्वराणां ख्याति संश्रुत्य तदन्तिकम् अवाप । तस्माद् ज्ञानभास्कराद् व्याकरणादिकम् अध्यैष्ट । वेदशास्त्रादिशिक्षाम् अवाप्य गुरुदक्षिणारूपेण तस्मै लवङ्गानि प्रायच्छत् । गुरुश्च तं समादिशत्-'वेदविद्या विद्योतय, शास्त्राणि समुल्लासय, भुवने वैदिकधर्मज्योतिः प्रज्वलय, सत्यशास्त्राणि समुद्धर, मतमतान्तरप्रसारिताम् अविद्यानिशीथिनीम् अपसारय, पाषण्डतति समुन्मूलय' इति । ____काश्यां १० नवम्बर, १८६९ ईसवीये 'मूर्तिपूजा वेदविरुद्धा' इति विषयमाश्रित्य तस्य काशीस्थैर्विद्वद्भिः शास्त्रार्थो बभूव । तत्र च विजयश्रीरेनम् अवणोत् । तस्य विजयोद्घोषस्तदानीन्तनैः समाचारपत्रैः पायोनीयर-हिन्दुज्ञानप्रदायिनी-प्रभृतिभिः प्रसारितः । स १२ अप्रैल, १८७५ ईसवीये मुम्बापुर्या सर्वप्रथमम् आर्यसमाजम् अस्थापयत् । भारतवर्षस्य विभिन्नप्रदेशेषु प्रचारादिविधिना वैदिकधर्मसिद्धान्तान् प्रासारयत् । जोधपुरनगरे २९ सितम्बर, १८८३ ईसवीये नन्हीनाम्न्या वेश्याया वशगो भूत्वाऽस्य पाचको जगन्नाथो दूग्धे विषं Page #229 -------------------------------------------------------------------------- ________________ २१२ संस्कृतनिबन्धशतकम् संमिश्रयैनं प्रादात् । ततश्च स ३० अक्टूबर, १८८३ ईसवीये मङ्गलवासरे दीपावलि-पर्वणि ज्ञानराशिर्यतीश्वरोऽयं भौतिकं शरीरं विहाय यशःशेषताम् अयात् । कृतयः तस्य प्रथिततमाः कृतयः सन्ति-ऋग्वेदभाष्यम्, यजुर्वेदभाष्यम्, ऋग्वेदादिभाष्यभूमिका, सत्यार्थप्रकाशः, संस्कारविधिः, गोकरुणानिधिः, व्यवहारभानुः, आर्याभिविनय-प्रभृतयः । तत्र नैरुक्तप्रक्रियाम् आश्रित्य कृतं वेदभाष्यं वेदानां गौरवं सर्वज्ञाननिधानत्वं च प्रतिष्ठापयति । सत्यार्थप्रकाशो विश्ववाङ्मयस्य प्रकाशस्तम्भः । सोऽयं स्वसिद्धान्तसमर्थनेन परपक्षनिरसनेन चाभुवनं प्रथतेतमाम् । समाजसुधारको राष्ट्रोद्धारकच-भारतवर्षे समाजसुधारकेषु महर्षिदयानन्दो मूर्धन्यः। तस्य समाजसुधारकार्येषु सर्वोत्कृष्टत्वं पाश्चात्त्यैरपि मनीषिभिः साह्लादम् उद्घोष्यते । स महर्षिरेव जन्ममूलां जातिप्रथां निरस्य गुणकर्मानसारं वर्णव्यस्थां वेदाभिमताम् अघोषयत् । समाजे प्रचलितं बद्धमूलम् अनर्थमूलं च सर्वविधमपि पाषण्डं प्रपञ्चम्, धार्मिकमन्धानुकरणम्, अन्धविश्वास भूतप्रेतादिप्रवादं च निराकरोत् । मूर्तिपूजैषा सर्वविधायाः पाषण्डपरम्पराया आधारभूतेति निर्णीय, अस्या वेदविरुद्धत्वं चावगत्य, युक्ति-प्रमाण-पुरःसरं मूर्तिपूजाम् अखण्डयत् । मृतानां पितृणां श्राद्ध-तर्पणादिविधिरपि वेदविरुद्ध एवेति स प्रत्यपादयत् । मातृशक्तेरुन्नतिमन्तरेण न देशोन्नतिः संभवतीति विचारंविचारं स्त्रीशिक्षायां बलं न्यधात् । स एव स्त्रीशिक्षायाः सर्वप्रथमप्रचारकत्वेनाभिनन्द्यते । स आर्षपद्धतिमनुसृत्य गुरुकुलसंस्थापनासमकालमेव कन्यागुरुकूलपद्धतिमपि प्रावर्तयत् । अस्पृश्योद्धारविषये स महात्मनो गान्धेरग्रदूतः । स वालविवाहम् अहितकरमिति निश्चित्य न्यषेधयत् । विधवाविवाहम्, विधवाश्रमम्, अनाथालयादिकं च प्रावर्तयत् । राष्ट्रभाषाया हिन्दीभाषाया अपि प्रवर्तने तस्यापूर्व योगदानम् । गुर्जरदेशीयोऽपि सन्, संस्कृतभाषानिष्णातोऽपि सन्, लोकहितभावनया आर्यभाषां हिन्दीभाषामेव लेखनस्य प्रचारस्य च माध्यमं चक्रे । हिन्दीभाषाप्रचारे आर्यसमाजस्य यथा योगदानम्, न तथाऽन्यस्य कस्यचिदपि समाजस्य । स वेदाध्ययनम् आर्याणां परमकर्तव्यम् अमन्यत । अतएव स वेदाध्ययने तीव बलं न्यधात् । वेदा एवार्यजातेः प्रमाणत्वेन संमान्या ग्रन्थाः सन्ति, इत्येवं सोऽघोषयत् । भारते शिक्षाप्रसारे तन्मतमनुरुध्य प्रवर्तितानां डी० ए० बी० कालेजप्रभृतीनां महत्त्वपूर्ण योगदानम् । राष्ट्रियता-जागरणेऽपि तस्य विशिष्टं योगदानम् । १८५७ ईसवीये संजातायां राष्ट्रियक्रान्तौ तस्य महर्षेः परोक्ष Page #230 -------------------------------------------------------------------------- ________________ महर्षिदयानन्दः २१५ योगदानमभूदिति ऐतिह्यविद्भिनिश्चप्रचं प्रतिपाद्यते । सत्यार्थप्रकाशे स्फुटं तेन प्रतिपाद्यते यद् निकृष्टमपि स्वराज्यं श्रेयोवहादपि परकीयाद् राज्या श्रेयस्करम् । _ 'कोई कितना हो करे, परन्तु जो स्वदेशीय राज्य होता है, वह सर्वोपरि उत्तम होता है। अथवा मतमतान्तर के आग्रह-रहित, अपने और पराये का पक्षपातशून्य, प्रजा पर पिता-माता के समान कृपा, न्याय और दया के साथ विदेशियों का राज्य भी पूर्ण सुखदायक नहीं है।' सत्यार्थप्रकाश, अष्टम समुल्लास, पृष्ठ १४५ भारतीय-गौरव-संरक्षणार्थमेव स 'कृण्वन्तो विश्वमार्यम्' इत्यघोषयत् । संस्कृतभाषायाः प्रचारः प्रसारश्च तस्य जीवनस्योद्देश्यम् । वैदिकी दृष्टिमवष्टभ्य यज्ञस्य महत्त्वम्, पशुबलिविरोधम्, सन्ध्योपासनादीनाम् उपयोगित्वम्, निराकारस्येश्वरस्योपासनम्, वेदविरुद्धत्वाद् मूर्तिपूजाया निराकरणम्, पश्चयज्ञानां षोडशसंस्काराणां चावश्यकरणीयत्वं प्रत्यपादयत् ।। हिन्दु-धर्मान्तर्गत-कुरीतीनाम्, अन्धविश्वासानां च यावज्जीवनं विरोधम् अशिक्षयत् । स एव हिन्दु-धर्म-विघटनं न्यरोधयत् । शुद्धि-आन्दोलनं प्रवत्यं यवन-ईसु-मतानुयायिनामपि शुद्धि विधाय तान् वैदिकधर्मे अदीक्षयत् । एवं वैदिकधर्मस्य श्रेष्ठत्वं प्रत्यपादयत् । उपसंहारः-एवं महर्षेः कार्यानुशीलनेन स्फुटमेतद् अवगम्यते यत् स क्रान्तदर्शी, निर्भीकः, निःस्वार्थः, धर्मपरायणः, परार्थंकधीः, दीन-हीन-पतितरक्षकः,शोषितपोषकः, नारीसंमान-संवर्धकः, वैदिकधर्मप्रतिष्ठापकः, गवां रक्षकः, गुरुकुलशिक्षा-पद्धति-प्रवर्तकः, मूर्तिपूजा-अवतारवादादि-दोष-संहारकः, समाजोनायकः, राष्ट्रियचेतनाप्रबोधकः, आर्यजातिप्राणरूपः, अहिंसा-सत्य ब्रह्मचर्यमूर्तिः, कुरोतिनिरोधकः, यज्ञादिप्रवर्तकः, भारतोन्नतिसाधकश्च कश्चन महात्मा महायोगी महापुरुषश्चासीत् । Page #231 -------------------------------------------------------------------------- ________________ ६१. महात्मा गान्धिः स्वातन्त्र्यहेतु सुखशान्तिसेतु, सत्यस्य केतु रिपुधूमकेतुम् । देशोन्नतौ त्यक्तसमस्तवित्तं, नमामि गान्धि गुणगौरवाब्धिम् ॥ ( कपिलस्य ) जीवनवृत्तम्- महात्मा गान्धिः २ अक्टूबर, १८६९ ईसवीये काठिया - वाड-प्रदेशान्तर्गत-पोरबन्दरनामकं स्थानं स्वजनुषाऽलंचकार । अस्य पितृवयं : कर्मचन्द्रगान्धिर्जननी पुतलीबाई चास्ताम् । तस्य पितरी साधुस्वभावी धर्मनिष्ठौ सत्कर्मप्रवणैकचित्तौ चाभूताम् । तद्गुणान् अनुसृत्य सोऽपि सत्यप्रियो धर्मनिष्ठश्चाभूत् । द्वादशवर्षदेशीयः 'कस्तूरबा ' - नाम्नीं दिव्यगुणोपेतां कन्याम् उपयेमे । भारते प्रारम्भिक शिक्षाम् अवाप्य विधान - विशेषज्ञताम् अवाप्तुम् आङ्ग्लदेशम् इयाय । ततो निवृत्य वर्षद्वयं भारते प्राड्विवाक - कार्यं संपाद्य दाक्षिणात्य-अफ्रीकादेशम् अगात् । १९१५ ईसवीये भारतं निवृत्य भारतीयस्वातन्त्र्यान्दोलने रुचिम् अघोषयत् । लोकमान्य तिलकमहोदयानन्तरं राष्ट्रयान्दोलनस्य १९१९ ईसवीयत आरभ्य सूत्रधारत्वं भेजे । १९१९ ई० आरभ्य १९४७ ईसवीयं यावद् राष्ट्रियान्दोलनम् ऐतिह्ये 'गान्धियुगम्' इत्याख्याम् अगात् । ३० जनवरी, १९४८ ईसवीये सायं षड्वादने प्रार्थनासभां गच्छन् नाथूरामगोडसे - नाम्ना नृशंसेन गोलिकाघातं हतो दिवम् अयासीत् । समाजसेवा - महात्मा गान्धिर्महर्षि दयानन्दवत् पीडित-शोषित-दलितवर्ग-विपज्ज्वाला- दग्ध-चेताः, तदुद्धारेकधीः, कष्टदावाग्नि शिशिराम्बुवद् गणयन् समाजोत्थाने प्रावर्तत । समाज सुधारक - दृष्ट्या तस्य महत्त्वं वर्णयितुम् अशक्यम् । पद्दलितजातीनां समुत्थाने तस्य कार्यम् अविस्मरणीयं भविता । अस्पृश्योद्धारे, अस्पृश्यतानिवारणे, योषितां सामाजिक-स्थिति-सुधारणे, स्वीयान् क्रान्तिसमन्वितान् विचारान् समुपास्थापयत् । हरिजनोत्थापनद्वारा आदर्शसमाजसंस्थापने प्रावर्तत । गोरक्षा स्त्रीशिक्षा - पर्दाप्रथोन्मूलनादिकं समाजसुधार-कार्यजातं व्यदधात् । शिक्षाक्षेत्रेऽपि समानत्वम्, जनकल्याणभावना, मौलिकशिक्षा ( Basic Education ) - प्रयोगः, हस्तकला - महत्त्वं च तदुपदिष्टम् आदर्शत्वेनोररीक्रियते । राष्ट्रियसेवा - तस्य महात्मनो निखिलमपि जीवनं देशसेवाऽऽयत्तम् अभवत्। घोरां यातनां, कठोरयन्त्रणाम्, आधिव्याधि- पीडां चोपेक्ष्य, सत्यअहिंसा-शस्त्र - संनद्धः, प्रेमवर्मावनद्धः, सत्याग्रह - शर- संधानैकदक्षः, शत्रुमनो Page #232 -------------------------------------------------------------------------- ________________ २१५ महात्मा गान्धिः मोहनो मोहनोऽयं महात्मा । अहिंसा - मूलकं सत्याग्रहम्, असहयोगान्दोलनम्, सविनयावज्ञान्दोलनम्, उपवासाश्रयणम्, हड़ताल नामक कार्यावरोधं समाश्रयत् । जन-साहाय्यैकमूलकेन आन्दोलनेन भीतभीता वैदेशिका भारतशासनाभिलाषम् उन्मुच्य स्वाश्रयं ययुः । भारतस्वातन्त्र्यस्य गान्धिरेव मूलमन्त्रः । तत्प्रयत्नजन्यं भारतस्वातन्त्र्यम् । अतएव स 'राष्ट्रपिता' इत्येवंरूपेण संमान्यते । अन्यद् वैशिष्ट्यम्- - न केवलं राष्ट्रसेवा, समाजसेवा च तस्य गौरवम् अभिवर्धयतः, अपितु भारतीय-कला-कौशल विकासे, धार्मिक विभेद-शमने, हिन्दु-यवनैकता - सम्पादने, राजनीती धर्मार्थयोः समन्वय सम्पादने, भारतीयेषु स्वावलम्बनोद्बोधने, विदेशीय-वस्तु- बहिष्कारे, स्वदेशीय-वस्तु संग्रहणे, शिक्षापद्धतौ परिष्कारे, नैतिके चारित्रिके चोत्थापने, देशभक्ति - भावना - प्रबोधने, राष्ट्रियैकता- संपादने चानुपमं महत्त्वपूर्ण योगदानम् अवलोक्यते । एवं महापुरुषोऽयं स्वगुणैरेव विश्व-जन-संमानम् अवाप्य आबालवृद्धं स्तूयते प्रशस्यते च । तद्गुण- हृत - हृदया भारतीयाः स्वीयां श्रद्धाञ्जलि समर्पयन्तः तच्चरणारविन्द - कृपां सततं कामयन्ते । ते तज्जोवनादर्श च स्वादर्श - रूपेण समुपस्थाप्य स्वजीवनं सफलयितुम् अभिलष्यन्ति । Page #233 -------------------------------------------------------------------------- ________________ ६२. कुटीरोद्योगः ( Cottage Industry ) कुटीरोद्योगस्य प्रारम्भः-यद्यपि प्राचीनकालादेव कुटीरोद्योगानाम् उल्लेख उपलभ्यते । पुरा तेषां व्यवस्थितरूपेण नियन्त्रणं संचालनं प्रवर्तनं चासीन्नवेति वक्तुं दुष्करम् । ऋग्वेदे तक्षा, हिरण्यकारः, चर्मकारः, वासोवायः, इत्यादीनामुल्लेखो लभ्यते । यजुर्वेदे ( अ० ३०.५-२२ ) बहवः कुटीरोद्योगाः सनामोल्लेखं प्राप्यन्ते तत्र केचन कुटीरोद्योगाः प्राधान्येन निर्दिश्यन्ते । यथा-रथकारः तक्षा, मणिकारः, इषुकारः, धनुष्कारः, ज्याकारः, रज्जुसर्जः, हिरण्यकारः, कुलाल:, अयस्तापः, कर्मारः, सुराकारः, इत्यादयः । कुटीरोद्योगेषु संलग्नानां नारीणामपि वर्णनम् आप्यते । यथा-रजयित्री, पेशस्कारी, विदलकारी, कोशकारी, अञ्जनीकारी, वासःपल्पूली, स्मरकारी-प्रभृतयः । १९ तम-शताब्दी यावद् भारतवर्ष स्वोद्योगार्थ जगति ख्याति लेभे । भारतीयं वस्तु शोभनं सुदृढमिति दूरदेशं यावत् प्रसिद्धिमवाप । ऐतिह्यमेतत् प्रमाणयति यद् रोमदेशं यावत् भारतीयवस्त्राणां ख्यातिरासोत् । ऊर्णावस्त्राणि, क्षौमवस्त्राणि, कश्मीरदेशीयानि वस्तूनि शाल-दुशाला-कम्बल-भृतोनि अद्यावधि लोके ख्यातिमुपयान्ति । ढाका-नगरस्य मलमल-वस्त्रं विदेशेष्वपि प्रसिद्धि लेभे। हस्ति-दन्त-कर्माणि, काष्ठकृतयः, लौहवस्तूनि च भारतस्य गौरवम् अद्यावधि प्रथयन्ति । भारतीयवस्तूनि अरब-फारस-सीरिया-प्रभृतिदेशेषु ख्याति ययुः। एतच्च १९१९ ईसवीये प्रकाशितेन औद्योगिकायोग-विवरणेन प्रमाणीक्रियते। ___ कुटीरोद्योगस्य महत्त्वम्-भारतस्य स्वातन्त्र्यलाभे क्रान्तदर्शिना महात्मना गान्धिना कुटीरोद्योगस्य महत्त्वं बहुधा प्रतिपादितम् । यान्त्रिकसभ्यता विनाशावहेति विचारं विचारं स तद्विरोधरूपेण कुटीरोद्योगं प्रावर्तयत् । तस्याभिमतं यत् कूटीरोद्योगानां लघद्योगानां च माध्यमेन भारते आर्थिकी समानता संभाव्यते । नगरस्थेषु विद्युत्संचालितेषु फैक्टरो-मिल-प्रभृतिषु अशिक्षितानां सामान्यानां ग्राम्यजनानां प्रवेशो न संभाव्यते । अतस्तेषां हितसम्पादनार्थम्, तेषाम् आर्थिकी दुःसाध्या समस्यां समाधातुं च कुटीरोद्योगं वरदानरूपेण प्रत्यष्ठापयत् । एतेन तस्याभिमतं यद् अवकाशकाले ग्रामीणा नागरिका वा लोकाः स्वल्पव्ययसाध्येनोद्योगेनातिरिक्तधनोपार्जने क्षमाः स्युः । एवंविधया रीत्या समयस्य सदुपयोगेन सहैवातिरिक्तवित्तलाभोऽपि स्यात् । पारिवारिका जना बाला वृद्धाः स्त्रियश्च औद्योगिकर्मणि साहाय्यप्रदानेन स्वसमयं सफलयन्तु, अतिरिक्तं धनम् अर्जयेयुः, स्वीयाम् आर्थिकी समस्यां च निराकुर्युः। एतदत्रावधेयं यत् कृषिप्रधानोऽयं भारतो देशः। अस्य नवतिप्रतिशतं Page #234 -------------------------------------------------------------------------- ________________ कुटीरोद्योगः २१७ जनाः कृषिकर्मनिरताः। संवत्सरे प्रायशः षड्मासं यावत् कृषिकर्माभावात् समयापव्यय एव दरीदृश्यते । यदि समयं बहमूल्यम् अवगच्छन्तो ग्राम्या जना लघुद्योगेषु कुटीरोद्योगेषु च रिक्तं समयं विनियोजयेरन्, तर्हि आर्थिकस्थितिसमुद्धारसमकालमेव तेषां पारिवारिकी सामाजिकी राष्ट्रिया च स्थितिः समुद्धरेत् । कुटोरोद्योगस्य जीवनोपयोगित्वम्--कुटीरोद्योगा लघुद्योगाश्च स्वीयावश्यकतापूत्यैव समं समाजस्य राष्ट्रस्य चार्थिकस्थितिसमुन्नयने क्षमाः । तत्र केचन तथाविधा अपि लघुद्योगाः सन्ति, ये स्वल्पव्यवसाध्याः, विद्युदभावेऽपि च प्रक्रमन्ते । लघुद्योगेषु विशेषत उल्लेख्या उद्योगाः सन्तिः-वस्त्र-दरीगलीचा-रज्जु-खद्दर-कम्बल-मोजा-स्वेटर-शाल-प्रभृतीनां निर्माणम्, सुवर्ण-रजतताम्र-पित्तल-प्रभृतिधातूनां पात्राणां कलात्मककृतीनां च निर्माणम् । एवमेव तैलोद्योगः, चर्मोद्योगः, फेनिल ( Soap )-उद्योगो दुग्धशालोद्योगश्च आर्थिकदृष्ट्याऽतीव लाभप्रदाः। मैसूर-मद्रास-बंगाल-असम-कश्मीर-प्रभृतिप्रदेशेषु अपरिष्कृतरेशमोद्योगोऽतीव प्रथते । बंगादिषु च जूट-वस्तु-निर्माणं प्रतिवर्ष प्रवर्धत एव । कुटीरोद्योगेन लघुद्योगेन च निधनानां हीनानां दीनानां च वृत्तिसमस्या निराक्रियते । तेषाम् आर्थिकी स्थितिरुन्नीयते । तेषां भौतिकसौविध्याभावः सुतरां पूर्यते। अपह्रियते च तेषाम् अर्थाभावजन्यं दैन्यम्, संह्रियते च तेषां स्वोदरपूर्तिचिन्ता, निरस्यते चान्नवस्त्राद्यभावजा हीनत्वभावनारूपिणी पिशाचिनी। समष्टेय॑ष्टेर्राष्ट्रस्य चोत्थाने उद्योगानामेषां गौरवपूर्ण स्थानम् । सुविदितमेवैतत् समेषामपि सुधियां यद् जापानदेशो लघुद्योगबलेनैव जगति स्वीयं गरिमाणम् अभ्युन्नतत्वं च प्रथयति । कुटीरोद्योगोऽयं दैन्यनाशकः, पतितोद्धारकः, दुर्गतिदमकः, समुन्नतिसाधकः, वृत्तिसमस्यानिवारकः, आर्थिकस्तरोन्नायकः, श्रममहत्त्वप्रतिपादकः, सर्वलोकहितसाधकः, क्षुत्-पिपासा - वस्त्राभाव - अन्नाभाव - धनाभावादि-दोषरोधकश्च । एवं कुटीरोद्योगो जनस्य राष्ट्रस्य च श्रेयसेऽभिवृद्धये च प्रथते। . Page #235 -------------------------------------------------------------------------- ________________ ६३. सहकारितान्दोलनम् ( Co-operative Movement ) परिचयः-सहकारिताशब्देन एकोद्देश्यपूर्त्यर्थं समन्वितेन सहयोगभावनया कृतम् ऐच्छिकं संगठनम् अभीष्यते । तन्निमित्तम् आन्दोलनं च सहकारितान्दोलनम् इत्यभिधीयते । अत्र तत्त्वत्रयस्य प्राधान्येन समावेशोऽभीष्टः । ( क ) कस्यचिद् आर्थिकोद्देश्यस्य पूर्तिः, (ख) कार्यपराणाम् अधिकारदृष्ट्या कार्यदृष्ट्या च स्तरसाम्यम् एकरूपत्वं च, (ग) सहकारित्वम् ऐच्छिकं संगठनमूलकं च । अत एतस्य प्रेरणास्रोत आभ्यन्तरं न तु बाह्यम् ।। सहकारितान्दोलनस्योद्भवो विकासश्च–'संघे शक्तिः कलौ युगे' इत्युल्लिखतो विपश्चितोऽभिमतं सहयोगमूलकं कर्मैव । एतद् वचनं न केवलम् आर्थिकविकासार्थमेव, अपितु जीवनस्य सर्वेषु क्षेत्रेषु सामाजिकेषु राजनीतिकेषु विश्वसंबद्धेषु च सर्वत्रैवानुमोदितुं व्यवहाँ च शक्यते । समन्वयभावनाम् अन्तरेण, सहयोगभावाद् ऋते च संघर्षबहुले जगति न संभवा साध्यसिद्धिः । एतस्यान्दोलनस्य आर्थिकक्षेने सहकारितान्दोलनरूपेणोद्भवः १९ तमशताब्द्यां जर्मनी-डेनमार्क-देशयोरभूत् । शर्मण्यदेशे शुल्ज़-डेलिज़-नामा, डेनमार्कदेशे च रेफिसन-नामा दीन-शोषित-पतितानां श्रमिणां कृषकाणां च स्थिति-सुधारव्रतम आस्थाय सहकारितान्दोलनं प्रारब्धवन्तौ। शुल्जः शर्मण्यदेशनगरेषु रेफिसनश्च डेनमार्क-ग्रामीण-क्षेत्रेषु सहकारिसमितीः संस्थापितवन्तौ । भारते ग्रामसहकारिसमिति-संस्थापनं रेफिसन-सिद्धान्तम् अनुसृत्य, नगर-सहकारिसमिति-संस्थापनं च शुल्ज-सिद्धान्तम्लकम् । __ भारते सहकारितान्दोलनस्योद्भवः १९०४ ईसवीयेऽभूत् । तदानीं वैदेशिकशासनत्वाद् एतस्योद्देश्यं न तथा आर्थिकोत्थानम् आसीत्, यथा आथिकोन्नति-व्यपदेशेन जन-शोषणम् । तदा सहकारि-समितीनाम् उद्देश्यम् आसीद्-अल्पकुसीद-पूर्वकं कृषकेभ्य ऋणदानम् । १९०६ ईसवीये सहकारिसमितीनां संख्या ८४३, १९११ ईसवीये च तासां संख्या ८१७७ आसीत् । आसां समितीनां निधिश्च कोटित्रयाधिकम् अभूत् । १९१२ ईसवीये सहकारिताविधानं निर्मितम् । तदनुसारं केन्द्रीय-सहकारि बैंकस्य संस्थापनम् अभूत् । सहकारिसमितीनां कृते क्रयविक्रयौ, जीवन-बीमा-कार्यम्, भवननिर्माणम्, उत्पादनव्यवस्था, उद्योगाश्च वैधरूपेणोद्घोषितानि । १९१५ ईसवीये प्रान्तीयसहकारि-बैंकानां स्थापनाऽभूत् । एवं विविधकार्य-व्यवस्थापनार्थम् अर्थप्राप्तौ सहकारि-समितीनां कृते सौविध्यमभूत् । १९१९ ईसवीये मैकलागनसमितिविवरणम् आश्रित्य सहकारिता प्रान्तीयशासनान्तर्गतम् अभूत् । १९४५ ईसवीये सहकारि-समितीनां संख्या पादोनद्विलक्ष-परिमिताऽभूत् । Page #236 -------------------------------------------------------------------------- ________________ सहकारितान्दोलनम् स्वातन्त्र्योत्तरं विकासः - स्वातन्त्र्यलाभोत्तरकाले विशिष्टा प्रगतिर्लक्ष्यते सहकारितान्दोलने । भारतस्य पुनर्निर्माणम् अनुरुध्य का योजना हितावहा इति विचारे सहकारितान्दोलनमपि प्राधान्यं भेजे । तत्परिणामरूपेण सहकारिताभावना- प्रोत्साहनार्थं भारतशासनेन १९४८ तमे ईसवीये सहकारितायोजनासमितिः संस्थापिता । पञ्चवर्षीय योजनास्वपि सहकारिता प्राधान्यम् अलभत । २१९ भारते एतदान्दोलन-स्वरूपेण या: सहकारिसमितयः संस्थाश्च कार्यपराः सन्ति, ताः सन्तिः - १. ग्रामीण - सहकारि - समन्वय समितयः, २. ग्रामीण - सहकारीतर-समन्वय समितयः, ३. नगर समन्वय समितयः, ४. नगर-समन्वयेतर समितयः, ५. निरीक्षक यूनियनः ६. गारण्टी यूनियन, ७. केन्द्रीय सहकारि-बैंक:, ८. सहकारि-राज्य - बैंक, ९. भारतीय राज्य सहकारि-बैंकश्च । , सहकारि-समितीनाम् उपयोगिता - सहकारि समितीनां कार्यक्षेत्रम् अतीव व्यापकम् । आसां जालं भारतवर्षे प्रतिग्रामं सुनियन्त्रितरूपेण प्रसरति । एताः शरोर-स्थित-स्नायु-शृङ्खलावत् समग्रमपि राष्ट्रशरीरं व्याप्य राष्ट्र- शक्तेरुत्कर्षे संलग्नाः सन्ति । समितीनाम् एतासां प्रचारेण देशोऽतीव लाभान्वितोऽभूत् । सहकारितान्दोलनस्योपलब्धयः - सहकारिता - आन्दोलनस्योपलब्धिविचारे काश्चन मुख्या उपलब्धयोऽत्र निर्दिश्यन्ते — आत्मनिर्भरता, दीन-जन-शोषणसमापनम्, लाभांशस्य सहकर्मिषु समरूपेण विभाजनम्, पारस्परिक सहयोगभावोदयः, समाजवादि- ग्रामीण व्यवस्था संस्थापने सहयोगः, पञ्चवर्षीय योजनापूर्ती साहाय्यापादनम्, मध्यस्थनिवारणपूर्वकम् उत्पादनेऽपि योगदानम्, उपयोगि-वस्तु-वितरण-क्षेत्रेषु योग्यसदस्यानां साहाय्याचरणम्, सहयोग - सहानुभूति - मितव्ययितादिगुणानाम् अनुसरणेन सदस्यानां नैतिको विकास:, सुदृढ - पथ - ( पक्की सड़क ) - निर्माणम्, कूप - चिकित्सागृह-वाचनालय-पुस्तकालयादीनां संस्थापनम् । सहकारिता आर्थिक क्षेत्रे मध्यस्थनिराकरणेन लाभांशोपार्जने सदस्यानां साहाय्यम् आचरति । अल्प - कुसीदमूलक - ऋणदानेन धनाभाव - जन्य- काठिन्यापनोदने साहाय्यं तनुते । बुल्फ-महोदयेन स्फुटमेतद् उदीर्यते यत् सहकारितान्दोलनेन धनाभावग्रस्तक्षेत्रेषु धनं प्रापितम् ; निराशाः कृषकादयः सदाशासमन्विता विहिताः; उत्पीडिता उन्मूलिताश्च पुनः प्रत्यारोपिताः; कुसीदजीविभ्यश्च लोकाः परिरक्षिताः । सहकारिताया मूलमन्त्रो मितव्ययिता । मितव्ययिता - पाठ - पाठनेन सदस्यानां मदिरापान- द्यूत-दुर्गुणगणेभ्यो विनिवृत्तिः । एवं लोकानां नैतिकस्तरोन्नयनं विहितम् । सदस्येषु आत्मविश्वासस्य, संयमस्य, सहयोगस्य, स्पष्टवादितायाः, स्वाभिमानस्य चोदयोऽभूत् । Page #237 -------------------------------------------------------------------------- ________________ २२० संस्कृतनिबन्धशतकम् - सहकारितायाः प्रचारेण शिक्षणात्मका लाभा अपि दृश्यन्ते । यथा समिति-कार्य-ज्ञानम, वाद-विवाद-विधिज्ञानम्, संगठनस्य व्यवस्थायाश्च क्रियात्मकं ज्ञानम्, साक्षरता-प्रचारेण हस्ताक्षरादिकरणे क्षमत्वम्, उत्तरदायित्वभावनाजागतिश्च । सहकारिमितयः क्रियात्मकरूपेण जनतान्त्रिकशासन-व्यवस्थायाः शिक्षा ददति । अतएव लोकेषु राजनीतिकी जागरूकता संलक्ष्यते। समाजोत्थानेऽपि सहकारिताया महत्त्वपूर्ण योगदानं लक्ष्यते । स्वच्छतास्वास्थ्य-चिकित्सा-मनोरञ्जनादिसाधनानां वृद्धया ग्रामीणानां सामूहिक-सुविधावाप्तिः । कूप-तडाग-नालिका-मार्गादीनां नवनिर्माणेन पुननिर्माणेन परिष्कारेण चैषा जनमानपं तोषयति पोषयति च ।। ___ सहकारिताया दोषा न्यूनताश्च-सहकारितान्दोलनस्य सुखावहत्वेऽपि केचन बद्धमूला दोषा लक्ष्यन्ते, येन कृतेऽपि प्रयत्ने वाञ्छिता लाभा नाप्यन्ते । तत्र केचन दोषाः प्राधान्येनोल्लेखम् अर्हन्ति । ते सन्ति-१. भारतीयजनताया अशिक्षितत्वम्, २. उच्चाधिकारिणां कार्यविधौ हस्तक्षेपः, ३. जनतायाः पूर्णसहयोगाभावः, ४. ऋणादिदाने वैधानिक-विघ्न-प्राचुर्यम्, ५. समिति-व्यवस्थासु जातिवाद-वर्गवाद-सम्प्रदायादिदोषप्रवेशः, ६. ऋणदाने उत्कोचग्रहणप्रवृत्तिः, ७. जनतायां नैतिकताया अभावाद् ऋण-प्रत्यर्पणे विलम्बनम्, सर्वथा अप्रत्यर्पणं च, ८. शासन-सहकारिताविभागस्य नियन्त्रणेन उत्कोच-चाटुकारिता-अनैतिकतादिदोषाणां वृद्धिः, ९. अधिकारिणां सदस्यानां च समिति-सर्वस्वापहरणप्रवृत्तिः, १०. स्वार्थपराणां परधन ग्रास-गृद्धानां समितिषु पूर्णाधिकारः । दोषैरेतैः सहकारितान्दोलनम् अभीष्टलाभप्रदानेऽक्षम परिलक्ष्यते । Page #238 -------------------------------------------------------------------------- ________________ ६४. परिवार नियोजनम् ( Family Planning ) उपक्रमः-वैदिक-साहित्यावलोकनेन विज्ञायते यत् सन्तति-बाहुल्यं दोषावहम् इति । ऋग्वेदेऽथर्ववेदे च प्रतिपाद्यते यत् बहुप्रजा निऋतिमा विवेश । ऋग्० १-१६४-३२, अथर्व०९-१०-१० बहुसन्ततियुक्तो मानवो नितरां दुर्गति दुःखतति चाश्नुते, इति वेदानाम् अभिमतम् । परिवार नियोजनस्य तात्पर्यमेतद् यत् परिवारस्याकारस्तथा सुनियोजितः सुनियन्त्रितश्च स्याद्, यथा पारिवारिका जनाः समाजे भारभूता न स्युः । परिवारनियोजनस्यावश्यकता-सामान्येन निखिले जगति विशेषतश्च भारते जनसंख्या प्रतिसंवत्सरम् आक्रामकरूपेण परिवर्धते । यथा भारते जनसंख्यावृद्धिः, न तथा खाद्यसामग्रीवृद्धिः। खाद्यसामग्र्यभावे जनसंपोषणं न संजायेत, दुभिक्षादीनां च जनिर्जायत । दुर्भिक्षे व्याप्ते सति जीवनं मरणपर्याय एव । अन्नाभावे शरीरापचयः, मनोबलक्षयः, स्वाभिमानावनतिः। विदेशानां समक्षं स्वोदरदर्शनं खाद्यसामग्रीयाचनं च तथा मानहानिम् आवहति, यथा तत् विषपानं स्यात् । परिवारनियोजन-प्रयोगाभावे सत्यां जनसंख्यावृद्धौ खाद्याभावेन सममेव जीवनस्तरस्यावनतिः, कार्यक्षमता-न्यूनत्वम्, रोग-शोकोपतापसन्ताप-विपत्पात - क्लेश-दैन्य-विवाद-कलह-अशान्ति-असन्तोष-मनोग्लानि-हीनत्वभावनादयो विवद्धिम् अश्नुवते । सन्तति-निरोधाभावे न पारिवारिकी शान्तिः। सन्तति-सुख-साधनार्थ मातापितरौ यादृशं क्लेशम् अनुभवतः, स न वर्णयितुं शक्यते । मातृणां तु बालसंरक्षणादिषु स्वास्थ्यमेवापक्षीयते । प्रतिदिनं प्रतिपलं चावश्यकताया वृद्धया, लाभस्य साधनानां चाभावेन, जीवनमेव नारकीयं संजायते । साधनानाम् अभावे बालानां समुचितपोषणाभावः, शिक्षाया अभावः, अन्नपानाद्यभावः, जीवनस्तरन्यूनत्वं च संजायते । बालानां दीनत्वं हीनत्व क्षीणत्वं च प्रेक्षं प्रेक्षं पित्रोरपि निष्प्रभत्वं श्रीहीनत्वं दुःखाब्धिमग्नत्वं च संजायते । परिवारनियोजनोपाया:-परिवार-नियोजनार्थं सर्वकारेण बह व्यो योजनाः प्रवर्तिताः। प्रतिक्षेत्र प्रतिनगरं प्रतिग्रामं बहुविधया रीत्या परिवारनियोजन-प्रचारो दृश्यते श्रूयते च । तत्र पुरुषाणां कृते निरोध-नलिकोपयोगो नसबन्धादिविधिश्च निर्दिश्यते । स्त्रीणां कृते लूपोपयोगः, शल्यक्रियया संततिनिरोध-प्रकाराश्रयणं च प्रस्तूयते । एषां प्रयोगाणां लाभहानिविषये विविधा विप्रतिपत्तिर्विवादो मतवैषम्यं च प्राप्यन्ते । एते प्रयोगाः क्वचिद् लाभप्रदाः, क्वचिच्च हानिकरा अवलोक्यन्ते । लूपादीनां प्रयोगस्तु प्रायशो रोगादिवृद्धया नैराश्य-संचारको विनाशकरश्च संलक्ष्यते । Page #239 -------------------------------------------------------------------------- ________________ संस्कृत निबन्धशतकम् महात्मनो गान्धेर्मतम् — परिवार नियोजन - विषये महात्मनो गान्धेर्मतं न तथा सर्वकारमतानुकूलम् । स सन्तति-निरोधार्थं ब्रह्मचर्यव्रतपालनं श्रेयस्करत्वेनामन्यत । ब्रह्मचर्यंनियमपालनेन स्वास्थ्यरक्षा, आचाररक्षा, जीवनरक्षा, सन्ततिनिरोधश्च । परं खेदावहमेतद् यत् शासनेन महात्मनो वचनं तिरस्कृत्य पाश्चात्त्य विधिरुररीकृतः । २२२ परिवार नियोजनस्य दोषाः - परिवारनियोजने सन्ततिनिरोधे च यः कृत्रिमो विधिराश्रीयते, स समाजे चारित्र्यावनतिं वर्धयति । युवका युवतयश्च कृत्रिमविधि-परिज्ञानेन पाश्चात्त्य देशादिवत् चरित्रहानि न दोषकरीं गणयन्ति । सत्यमेतद् यत् साम्प्रतं युवक-युवत्यादिषु न तथा संयमो दमो नियन्त्रणं च, अतस्ते सन्ततिनिरोधार्थं कृत्रिमविधिम् आश्रयन्ते । तदुदर्कत्वेन च विविधरोगग्रस्ताः, शारीरिक-मानसिक बलविरहिताः, शैशवे यौवने च निष्प्रभा हतकान्तयश्चावलोक्यन्ते । यावान् प्रचारः प्रसारश्च सर्वकारेण कृत्रिमनिरोधोपायादी क्रियते, तावानेव सदाग्रहश्चेत् संयमे ब्रह्मचर्य पालने च स्यात्, तदा कृत्रिम - निरोधजन्य - दोषाणाम् अपमार्जनं संभाव्यते । एवं परिवारनियोजनं सन्ततिनिरोधो वा सिद्धान्तरूपेण ग्राह्यम् । व्यवहाररूपेण च संयमपालनमेव सन्ततिनिग्रहस्य सर्वोत्कृष्ट उपायः । एष उपायः प्रयुक्तो व्यवहृतश्चेत् तदा सन्ततिनिरोधेन सममेव लोकजीवनं लोककर्म लोकव्यवहृतिश्च सदा श्रेयसे भविष्यन्ति । Page #240 -------------------------------------------------------------------------- ________________ ६५. पञ्चवर्षीय-योजनाः ( Five-year Plans ) प्रस्तावना-१५ अगस्त, १९४७ ईसवीये भारतस्य स्वातन्त्र्यलाभे देशस्य दयनीयां स्थितिम् उद्धतु बद्धकौर्नेतृभिः समुन्नतराष्ट्रकोटौ भारतं संस्थापयितुं रूसदेशविकासं पर्यालोच्य तदनुकृतिमूलेयं पञ्चवर्षीय-योजना प्रारब्धा । भारतस्य सर्वाङ्गीणसमुन्नतिर्येन विधिना यया पद्धत्या च सिध्येत् तत् सर्वमेवात्र पर्यालोचितम् । प्रथम-पञ्चवर्षीया योजना-योजनायोगः मार्च १९५० ईसवीये भारतीयसंविधानानुसारम् आयोजितोऽभूत् । तेनैव च प्रारूपं प्रस्तुतम् । प्रथमपञ्चवर्षीययोजनाकाल: १९५० ईसवीयतः ३१ मार्च, १९५६ ई० यावदासीत् । परन्तु योजनायोगः दिसम्बर, १९५२ ईसवीये योजनाम् अन्तिमरूपेण प्रस्तोतुं प्राभवत् । प्रथम-पञ्चवर्षीय योजनाया लक्ष्यम् आसीत्-खाद्यसमस्यासमाधानार्थ कृषेरुन्नतो बलाधानम्, तदर्थं क्षेत्रादिसेचनस्य समुचितव्यवस्थासंपादनम्, कृषेरुन्नत्यर्थं विद्युदुत्पादनवृद्धिः, सेचनकार्यसौकर्याय नदीषु बन्ध-स्थापनम्, कुल्यानिःसारणम्, कूप-तडाग-नलकूपादीनां निर्माणम्, कृषियन्त्राणां साहाय्येन अनुर्वराभूमेः उर्वरीकरणम्, कृषिकर्मयोग्यकरणं च । सेचन-साधनवृद्धया जलाभावाद् अकृष्टः कृषिकर्मणि अनुपयुक्तश्च विशालो भूमिभागः कृषिकर्मयोग्यः संवृत्तः । कृषिकर्मणि आधुनिक-कृषि-यन्त्राणाम् उपयोगः तत्साहाय्यं चावर्धत । एतदतिरिक्तं सामुदायिकयोजनानाम् उपक्रमाद् राष्ट्रव्यापिनी कृषिविस्तारसेवा संस्थापिता। सहकारितान्दोलनमपि पुनः गौरवास्पदं प्राप्नोत् । येन प्रकारेण ग्रामीणजनताया आर्थिको विकासः स्यात्, तथा प्रयत्न आरब्धः । एतदथं विद्युतः सुविधा प्रदत्ता । लघद्योगानां कुटीरोद्योगानां च प्रोत्साहनाथं सर्वकारेण आर्थिक साहाय्यमपि वितीर्णम् । एतद् योजनान्तर्गतं भाखड़ा-नांगल-बन्धः, दामोदरघाटी-योजना, कोसीविकास-योजना, हीराकुण्ड-बन्धः, दाक्षिणात्य-प्रदेशस्थ-नदीषु बन्धकार्याणि संपन्नानि । रेलइन्जिन-कम्पार्टमेण्ट-प्रभृतीनां निर्माणार्थ चितरञ्जन-लोकोमोटिववर्क्स-आख्यस्य यन्त्रागारस्य संस्थापनम् । बंगलोरस्थाने वायुयानानां विशाखापत्तने च जलपोतानां निर्माणार्थं निर्माणशालाः संस्थापिताः । __ एतद्योजनान्तर्गतं २३५६ कोटि-रूप्यक-परिमितो व्ययः प्रस्तावितोभूत् । वास्तविको व्ययस्तु ३३६० कोटि-परिमितोऽभूत् । प्रथमपञ्चवर्षीययोजनाफलस्वरूपं कृषेरुन्नतो १८ प्रतिशतं राष्टिये आये वृद्धिरजायत । द्वितीय-पञ्चवर्षीय-योजना-द्वितीयपञ्चवर्षीय-योजनायाः काल: १९५६ ईसवीयत आरभ्य १९६१ ईसवीयं यावद् अभूत् । द्वितीययोजनाया लक्ष्यम् Page #241 -------------------------------------------------------------------------- ________________ २२४ संस्कृत निबन्धशतकम् आसीत् - ( क ) राष्ट्रिये आये २५ प्रतिशतं वृद्धिः स्यात् । ( ख ) आधारभूतानां विशालानां चोद्योगानां विकासे बलाधानेन तीव्रगत्या देशस्य औद्योगिकीकरणं स्यात् । ( ग ) अवृत्ति समस्या समाधानं वृत्ति-सुविधा-संपादनं च । (घ ) वैयक्तिक आये संपत्तौ च वैषम्यं निराकृत्य देशे समाजवादिन्या व्यवस्थायाः स्थापनम् । फल - स्वरूपम् उद्योगेषु प्राधान्यम्, औद्योगिकीकरणं च योजनाया मुख्यं लक्ष्यं संजातम् । समाजवादिन्या व्यवस्थायाः क्रियान्वयत्वम्, अस्यां योजनायाम् अभूत् । एतद्योजनाकाले विद्युत उत्पादने, कृष्युत्पादने, रासायनिक-खादोत्पादने, इस्पातोत्पादने, सीमेन्ट- कोयला - वस्त्र - चीनी - आल्मुनियम - प्रभृतीनाम् उद्योगे आशातीतं साफल्यम् अभूत् । ७०० लघुद्योगानां स्थापना संजाता। साइकिल मोटर साइकिल-स्कूटर - रेडियो -विद्युद्व्यजन (Fans ) - विद्युबल्ब घटिका-प्रभृतीनां निर्माण प्रभूतं साफल्यम् अभूत् । संचार परिवहनविभागान्तर्गतं विद्युतो विस्तारः, रेलवे लाइन - विस्तारः ६ लक्ष - किलोमीटरपरिमितम् अभूत् । नांगल नवेली - राउरकेला-स्थानेषु खादोत्पादनार्थं यन्त्रशालानां निर्माणम् अभवत् । अस्यां योजनायां निर्धारितो व्ययः ४८,०० कोटिरूप्यकमित आसीत् परं वास्तविको व्ययः ६५७० कोटिरूप्यकमितोऽभूत् । राष्ट्रिये आये ४२ प्रतिशतं वृद्धिरभूत् । कृष्युत्पादनेऽपि वृद्धिरभूत् । ६५ लक्ष - कर्मिणां वृत्तिप्राप्तिव्यवस्था च संजाता । परं व्ययपर्यालोचनेनावगम्यते यन्नाऽऽशानुरूपं योजनायाः साफल्यम् अभूत् । तृतीय- पञ्चवर्षीय योजना - तृतीयपञ्चवर्षीय योजनाया मुख्योद्देश्यानि समासत आसन् — ( क ) राष्ट्रिये आये ५ प्रतिशत वृद्धिः । तथा च मूलधनविनियोगः स्याद् यथा भविष्यति कालेऽपि वृद्धर्जायेते । ( ख ) खाद्यान्नविषये देशस्य स्वावलम्बित्वम् । (ग) उद्योगानां निर्यातानां चावश्यकता-पूर्त्यर्थम् उत्पादनवृद्धिः । ( घ ) जनशक्तेः पूर्णोपयोगेन वृत्ति- समस्या- निराकरणम् । (ङ) औद्योगिकविकासे तीव्रत्वाधानम्, यन्त्रनिर्माणे आत्मनिर्भरत्वम्, इस्पात रसायनइन्धन विद्युद् यन्त्रादिनिर्मातॄणां मूलभूतोद्योगानां विकासनेन औद्योगीकरणक्षमता-संपादनम् । ( च ) आयस्य संपत्तेश्च वैषम्यनिवारणम्, सर्वेभ्योऽपि समुन्नत्यर्थं समानावसरप्रदानम्, आर्थिकक्षमतायाश्च साम्येन वितरणम् । एतद्योजनान्तर्गतं प्रमुख कार्याण्यासन्-- कृषिविकास: सामुदायिककार्यविकासः, सेचनसुविधाः, विद्युदुत्पादन वृद्धिः, कुटोरोद्योग-लघूद्योग-बृहदुद्योगवृद्धिश्च, यातायात संचार व्यवस्था वृद्धिः, समाजसेवोन्नयनम् । योजनायाः कालः १९६१ ई० आरभ्य १९६६ ई० यावदासोत् । योजनाया एतस्या एकखर्वपरिमितो व्ययो निर्धारितोऽभूत् । अस्यां योजनायाम् उद्योगेषु खनिजोत्पादने च बलम् आधीयत । Page #242 -------------------------------------------------------------------------- ________________ पञ्चवर्षीय योजनाः २२५ तृतीयपश्चवर्षीययोजनायामुपलब्धिः सामान्यैव संजाता। सर्वेषु क्षेत्रेषु लक्ष्याद् न्यूनैवोपलब्धिर्जाता। यतो हि कालेऽस्मिन् १९६३ ईसवीये चीनदेशाक्रमणेन, १९६५ ईसवीये पाकदेशाक्रमणेन च योजनायां गत्यवरोधोऽभूत् । राष्ट्रिये आये २० प्रतिशतं वृद्धिः, खाद्यान्नोत्पादने 3 उपलब्धिः, औद्योगिकक्षेत्रे च लक्ष्यस्य सर्वथापूर्तिः । वृत्तिरहितानां लोकानां संख्या १२० लक्षपरिमिताऽवर्धत । वितरणव्यवस्थोन्नयने, असमानतानिराकरणे च लक्ष्यम् अपूर्तिमेवाभजत । सहकारि-समितीनां व्यवस्थादोषाद् भ्रष्टाचारस्य च सर्वत्र व्याप्तेः सहकारितान्दोलनमपि स्वलक्ष्यसिद्धी असाफल्यमेवाभजत । कृषिविकासकार्य, भूसंरक्षणे, खादोत्पादने, सेचनसुविधाप्रदाने च निर्धारित लक्ष्यम् अपूर्णमेवास्थात् । व्ययानुरूपं लाभप्राप्ति भूत् । परिणामस्वरूपं मुद्रास्फीतिः, वस्तुमहार्घत्वं चाभूताम् । अवृत्तिसमस्याऽपि जटिलतरताम् आपन्ना । चतुर्थ-पञ्चवर्षीय-योजना--एषा योजना १३ अप्रैल, १९६९ ईसवीये प्रारब्धा । एतदर्थम् २३७५० कोटि-परिमितो व्ययो निर्धारितोऽभूत् । एतस्या लक्ष्यम् आसीत्-(क) उत्पादने आत्मनिर्भरत्वम्, निर्यातस्यं प्राथमिकत्वं च, ( ख ) वस्तुमूल्य-स्थिरीकरणम्, (ग) कृष्युत्पादने विकासाद् ग्रामीणानाम् आये वृद्धिः, (घ) जनोपयोगिवस्तूनां पूर्ती वृद्धिः, (ङ) इस्पात-रसायनविधुच्छक्ति-यातायात-साधनेषु वृद्धिः, ( च ) परिवार नियोजन-द्वारा जनसंख्यानिरोधः, (छ) अवृत्तिसमस्या-निराकरणम् । चतुर्थपञ्चवर्षीययोजनाया वैशिष्ट्यं समासतो वक्तुं शक्यते यदत्र कृषेमहत्त्वं प्रतिपाद्यते, आर्थिकविषमतानिराकरणे बलम् आधीयते, सहकारिता-शिक्षा-जनस्वास्थ्यादिकार्यक्रमेषु वरीयस्त्वं च निर्दिश्यते।। एतद्योजनाकाले योजनाकृतां शिरःसु विषमा विपत्तिः समायाता। व्ययार्थं कूतो धनोपलब्धिः ? अमेरिकातः साहाय्यं निरुद्धमेव । भारतीयजनतासमीपे धनाभावात् किंकर्तव्यविमूढत्वं प्रावर्तत । अस्माकं सर्वकारेण यथा योजनासु व्ययो व्यधायि, न तथा लक्ष्यावाप्तिाभावाप्तिश्च संजाते। भारते प्रवर्तितास्वपि चतुर्योजनासु सर्वतो विषमा खाद्यान्नसमस्या, कठिना वृत्तिसमस्या, असाध्या अर्थव्यवस्था, विद्युतोऽभावः, महार्घता, जीवनोपयोगिवस्तूनाम् अभावः प्रतिपलं प्रतिपदं प्रतिदिनं च दावाग्निवत् समेधते । सर्वमेतत् भारतीय-शासकानाम्, भारतीयार्थशास्त्रिणाम्, नेतृणां च वैदुष्यं, वैदग्ध्यं, कौशलं, व्युत्पत्ति, योजना-निष्पादनदक्षत्वं, तक्रियान्वयनक्षमत्वं च द्योतयति घोषयति च। Page #243 -------------------------------------------------------------------------- ________________ ६६. जनतन्त्रवादः ( Democracy ) ( १. लोकतन्त्रशासनपद्धतिः, २. प्रजातन्त्र-शासनविधिः, ३. सर्वेषां राजतन्त्राणां लोकतन्त्र विशिष्यते । ) जनतन्त्रशासनस्य प्रारम्भः-वैदिकं वाङ्मयम् अनुशील्यते चेत् तहि दृग्गोचरताम् आयाति यद् राजतन्त्रशासनेन सममेव लोकतन्त्रशासनमपि वैदिककाले प्राचरत् । ऋग्वेदे राज्ञो निर्वाचनस्य वर्णनं प्राप्यते । अथर्ववेदेऽपि राज्ञो निर्वाचनस्य, जनतायाः समर्थनस्यावश्यकतायाश्च वर्णनम् उपलभ्यते । विशो न राजानं वृणानाः। ऋग्वेद १०-१२४-८ । त्वां विशो वणतां राज्याय । अथर्व० ३-४-२। विशस्त्वा सर्वा वाञ्छन्तु० । अथर्व०६-८७-१। यजुर्वेदे स्फुटमेव महतो जनराज्यस्य द्विवारम् उल्लेखो विधीयते । महते जानराज्याय० । यजु०९-४०, १०-१८ । राज्ञः परामर्शदातृरूपेण सभा-समिति-नाम्न्योः परिषदोवर्णनमपि प्राप्यते। सभा च मां समितिश्चावतां प्रजापतेदुहितरौ संविदाने। अथर्व०७-१२-१ यजुर्वेदे राष्ट्रपतेः कर्तव्यरूपेण जनतन्त्र-संरक्षम्, विश्वहित-संरक्षणम्, स्वराज्य-संरक्षणं च निर्दिश्यते । जनभृत स्थ राष्ट्रदा राष्ट्र मे दत्त । विश्वभृत स्थ राष्ट्रदा राष्ट्र मे दत्त। स्वराज स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त । यजु० १०-४। ___ एवं सुकरमेतद् अभिधातुं यद् वैदिककालादेव जनतन्त्रशासनविधिः प्रवर्तते । साम्प्रतं विंशतितमशताब्द्यां जनतन्त्रस्योदय आधुनिकरूपेण संलक्ष्यते । एतदाश्रित्यैव जर्मनी-फ्रांस-रूसादिदेशेषु जनतन्त्रं प्रचरति । किं नाम जनतन्त्रम् ?-जनानां लोकानां प्रजानां वा तन्त्रं शासनं जनतन्त्रम् इत्यभिधीयते । जनतन्त्रस्य बह व्यः परिभाषा उपलभ्यन्ते । तत्र अमेरिकादेशराष्ट्रपतेः अब्राहम लिंकन-महोदयकृता परिभाषा प्रथिततमा हृद्या च । जनतन्त्रं जनतायाः शासनम्, जनताद्वारा संचालितम्, जनहितार्थं च भवति । It is a government of the people, by the people and for the people. -ABRAHAM LINCON. सीले-महोदयो लक्षयति यत् तत् प्रजातन्त्रं जनतन्त्रं वा कथ्यते यत्र सर्वस्यापि लोकस्य शासने भागो भवति । डायसी-महोदयस्तु लक्षयति यत् तत् प्रजातन्त्रं यत्र शासनसूत्रं राष्ट्रस्य बृहत्तर-लोकहस्ते निपतति । Page #244 -------------------------------------------------------------------------- ________________ Democracy is a a share. जनतन्त्रवादः government, in which २२७ everyone has -Seeley. Democracy is a form of government, in which the governing body is comparatively a large fraction of the entire nation. -Dicey. ले कतन्त्रस्य वैशिष्ट्यम् — लोकतन्त्रशासनस्य सूत्रं लोकायत्तं भवति । लोकतन्त्रे जननिर्वाचिताः शासनसूत्रं गृह्णन्ति । यद्येभिर्लोकहितं न संपाद्यते, जनमनोऽनुकूलं च न कार्यं निष्पाद्यते, तर्हि ते आगामिनि निर्वाचने पदच्युताः क्रियन्ते । एवं जनविश्वासम् अवाप्ता एव जनप्रतिनिधयस्तत्र शासनं विदधति । जनप्रतिनिधिशासनत्वाद् एतद् उत्तरदायित्वपूर्णं शासनं भवति । प्रतिमानवं भेदाभावात् समानत्वम् अत्रोररीक्रियते । अत्र जनो न साधनमात्रम्, अपि तु साध्यमेव । जनहितार्थमेतत् शासनम् । लोकहस्तेषु प्रभुत्व- शक्तेः सत्तया प्रजायाः प्राधान्यम् । अत्र नागरिकेभ्यः सामाजिकी, राजनीतिकी आर्थिकी च स्वतन्त्रता भवति । अत्र मानव बन्धुत्वं जनसहयोगभावना चानिवार्यत्वेन निर्दिश्यते । अस्य तन्त्रस्य वयस्क- मतदानाधिकारः प्रमुखं वैशिष्ट्यम् । मतदानाधिकारलाभेन लोकेषु उत्तरदायित्वभावना जागति । अत्र विधानसभादिभ्यो निर्वाचनमपि प्रामुख्यं भजते । जननिर्वाचिता लोका विधानसभायाः संसदश्च प्रतितिधित्वम् अलं कुर्वन्ति । जाति-धर्म-वर्गादि-भेदाभावात् सर्वधर्म-जात्यादि - हित संरक्षणं जायते । निर्वाचनपद्धत्या अनिवार्यत्वेन राजनीतिकदलानाम् उद्भवो जायते । अत्र लोकमतस्य जनमतस्य वा प्राधान्यं भवति । जनमतमेव शासन-परिवर्तनं विधातुं प्रभवति । तत्र स्थानीयं स्वराज्यमपि स्थापयते । यथा — ग्राम-पंचायतजिला - परिषद् — नगरपालिकादयः स्थानीय-स्वराज्य संस्था एव सन्ति । स्थानीयं स्वराज्यं प्रजातन्त्रशासनपद्धतेर्मूलम् । सर्वेषां लोकानां शिक्षणं विद्योपार्जनं चात्र अनिवार्यत्वेनापद्यते । आर्थिकी समानता चापि प्रजातन्त्रस्याधाररूपेण गण्यते । प्रजातन्त्रपद्धतेर्लाभा वैशिष्ट्यं च - अत्र राज्यापेक्षया व्यक्तेर्महत्त्वम्, वैयक्तिक विकासस्य च पूर्णोऽधिकारो लभ्यते । राज्यम् अत्र साधनम् जनोऽत्र साध्यश्च । अतो व्यक्तेः स्वातन्त्र्यम् । मतदानेऽपि स्वातन्त्र्यलाभात् प्रतिनिधिनिर्वाचनेऽप्रतिहतं स्वातन्त्र्यम् । भाषणे, लेखने, विचाराभिव्यक्तौ चात्र पूर्ण स्वातन्त्र्यम् । ईदृशं स्वातन्त्र्यं लोकहितघातकं न भवितुमहति । विविधाः क्रान्तयो जनशोषणेन अत्याचारादिभिर्वा प्रादुर्भूताः । अत्र स्वाभिमत - प्रकाशनस्वातन्त्र्यात् न रक्तमयी क्रान्तिः सम्भाव्यते । Page #245 -------------------------------------------------------------------------- ________________ २२८ संस्कृतनिबन्धशतकम् अत्र शिक्षा-विषये सार्वजनीन-सुविधया जनानां शिक्षितत्वम्, सार्वजनिककार्येष्वभिरुचिः, बौद्धिकविकासः, स्वावलम्बनं च प्राप्यते । अत्र समानाधिकारत्वात् कस्यचिद् वर्गस्य शोषणं न संभवति । प्रतिनिधीनां निर्वाचनात् कुशलशासनं भवति । निर्वाचने जनमतस्य प्राधान्याद् निर्वाचित प्रतिनिधीनां नैतिकं महत्त्वम् आशास्यते। लोकायत्तत्वादस्य शासनस्य लोकेषु देशप्रेमभावना जागति । लोका एव शासकाः, इत्येवं-रूपेण लोकेषु स्वाभिमानोदयः । एवमस्य तन्त्रस्य वैज्ञानिकमपि महत्त्वम् । साम्प्रतिक्यां स्थिती जनतन्त्रमेव सर्वोत्कृष्टत्वेन गण्यते । जनतन्त्रशासनस्य दोषाः-जनतन्त्रशासनस्य केचन दोषा अपि संलक्ष्यन्ते । सिद्धान्तरूपेण जनतन्त्रवादः सर्वोत्तमः । परं व्यवहारे न तथा सुखावहः, सिद्धान्त-व्यवहारयोः सर्वत्र वैषम्यावेक्षणात् । व्यवहारे परीक्षिता एते गुणा दोषरूपेण परिणमन्ते । वर्तमानं जनतन्त्रं क्षुधायै, दुःखावाप्तये, कष्टसहनाथं च स्वातन्त्र्यम् । समाजे मूर्खाणां बाहुल्याद् मूर्ख-राज्यमेतद् व्यादिश्यते । प्लेटो ( Plato )-महोदयो लोकतन्त्रशासनं मूर्खशासनं मनुते । तमेव समर्थयता कार्लाइल-महोदयेनोच्यते There are nine fools in the world for one wise man. Democracy, therefore, means the rule of fools. -Carlyle, लोके सात्त्विका गुणिनश्च न तथा लोकप्रियाः, यथा धूर्ताः प्रवञ्चकाश्च । ते धनादिना, जातिवादादिना, सम्प्रदायवादेन च लोकान् प्रतार्य प्रतिनिधित्वं भजन्ते । एवमेतत् तन्त्रम् अयोग्यानां वञ्चकानां च शासनं संजायते । धनादिना मतानां क्रयणात् जन-स्वातन्त्र्यस्य विनाशायैतद् भवति । मतदाने बहुसंख्यकानां प्राधान्याद् अल्पमतस्योपेक्षा भवति । भाषणादि-स्वातन्त्र्याद् धूर्ता वञ्चकाश्च स्वार्थसाधनाय राजनीतिकीम् अशान्ति जनयन्ति । जनतन्त्र विदुषां समादराभावात् कलानां साहित्यस्य विज्ञानस्य च विकासोऽवरुध्यते । राज्यशासने भ्रष्टाचारवतां पिशुनानां खलानां च प्राधान्याद् लोकानां नैतिक पतनमपि संजायते । स्वार्थसाधनाय विविधानां दलानां समुद्भवो भवति । तथा च दलगत-राजनीति-समाश्रयणाद् नैतिकं वातावरण प्रदुष्यति । निर्वाचनेषु मतलाभाय धनस्य बहुधा दुरुपयोगो दृश्यते । मतमेतद् न विकासवादेनापि आनुकूल्यं धत्ते । अत्र बुद्धेः कर्तृत्वम् अपास्य, अङ्गानामेव कर्तृत्वम् अनुशिष्यते । अत्र विदुषां नेतृत्वाभावान्न समन्वयात्मिका समुन्नतिः संभाव्यते । उपसंहारः-सिद्धान्तदृष्टया जनतन्त्रं समीचीनतमम् । व्यवहारदृशा ये दोषाः संलक्ष्यन्ते, तेषां निराकरणमपि अभीष्टम् । तदर्थ जनतायाः शिक्षितत्वम् Page #246 -------------------------------------------------------------------------- ________________ जनतन्त्रवादः २२९ अनिवार्यम् । स्वाधिकार कर्तव्यं च प्रति जनताया जागरूकताऽभीष्यते । लोकेषु तादृशी जागरूकता स्याद् यथा वश्वका धूर्ता आचारहीनाश्च न प्रतिनिधित्वं प्राप्नुयुः । शासनकर्मणि योग्या दक्षास्तत्तद्विषयनिष्णाता एव नियुक्ताः स्युः । राजनीतिक जागरणमपि लोकेष्वभीष्यते। सहकारितायाः सहयोगस्यैकत्वस्य देशभक्तश्च लोकेषु प्रचुरः प्रचारः स्यात् । राजनीतिकदलानां सैद्धान्तिकम् आचार-मूलकं च संगठनं स्यात्, न तु जाति-धर्म-सम्प्रदायमूलकम् । लोकेषु सद्भावनायास्तथाविध उदयः स्याद् यथा दीनानां शोषणम्, धनदानेन मतक्रयणादिकं च न प्रवर्तेत । धनेन मतक्रयणे तु धनिनामेवेतत् शासनं प्रवर्तिष्यते। लोकास्तथाऽनुशासनीया यथा ते मताधिकारस्य पूर्णरूपेण सदुपयोगं कुर्युः । आचारवतां गुणज्ञानां विज्ञानामेव च निर्वाचनेन जनतन्त्रं साफल्यम् अवाप्तुं प्रभवति । Page #247 -------------------------------------------------------------------------- ________________ ६७. समाजवादः ( Socialism ) समाजवादस्य स्वरूपम् — समाजवादः प्राधान्येन समाजस्य हितचिन्तनम् उररीकरोति । समाजस्य हितसम्पादनम्, तस्याधिकार संरक्षणम्, तदवाप्तये च यथायथं कार्यकरणम् । समाजवादस्य प्रथमं चिकीर्षितं यद् जगति पूँजीवादस्य सर्वतोरूपेण समूलोन्मूलनं स्यात् । द्वितीयं च तस्याभिमतं यद् उत्पादनविकासादिकार्येषु समाजे प्रतिस्पर्धा-पद्धति विहाय सहकारितापद्धतिराश्रीयेत । तृतीयं च तस्याभिमतं यत् सर्वेऽप्युद्योगा राष्ट्रीकृताः स्युः । उद्योगेषु समाजस्य राष्ट्रस्य वा पूर्णोऽधिकारः स्यात् । चतुर्थं च तस्याभिमतं यत् सर्वाऽप्युत्पादनवितरण व्यवस्था राज्यायत्ता स्यात् । पञ्चमं च तस्याभिमतं यत् सर्वेभ्योऽपि नागरिकेभ्यः समाजसेवाव्यवस्था स्यात् । समाजवादस्योपयोगित्वम् — समाजवादस्योद्देश्यं विविच्यते चेत् तर्हि स्फुटम् एतदापद्यते यत् समाजवादो जनहितभावनयैव प्रेरितोऽस्ति । समाजवादः समाजे वर्गविभेदं जातिभेदं धर्मवैषम्यम् उच्चावचत्वं धनिक-निर्धनभेदं न मान्यत्वेनाङ्गीकरोति । तद्दृष्ट्या सर्वेऽपि लोकाः समानाः । सर्वेषामेव राष्ट्रिय - सम्पत्तौ प्रकृतिप्रदत्तेषु च वस्तुषु समानाधिकारः । यत्र यत्रोच्चावचत्वं सम्पन्न निर्धनत्वादिभेदोऽवलोक्यते, तत्र तत्र स्वार्थसिद्धिमूलकं मानवकृतं वैषम्यम् । यदि मानवकृतं वैषम्यं विनाशम् आपाद्यते तर्हि सर्वोऽपि समाजः सकलं सुखमवाप्तुं प्रभवति । समाजवाद-साम्यवादयोर्भेदः - समाजवाद - साम्यवादयोर्मुख्योऽयं भेदो यत् साम्यवादः स्वलक्ष्यावाप्तये विद्रोह, क्रान्तिम्, आन्दोलनम्, उचितम् अनुचितं वा साधनम्, हिंसाश्रयणम्, छद्मादिप्रयोगम् अपि न परिहार्यत्वेन मनुते । अपि तु हिंसादेराश्रयणं साधनत्वेन प्रस्तौतितराम् । समाजवादः स्वलक्ष्यावाप्तयेऽहिंसात्मक वैधानिकपद्धतिम् अनुमोदयति । साम्यवादो वर्गसंघर्षं जनयति, विद्रोहं वर्धयति, येन केनापि प्रकारेण लक्ष्यसिद्धि संस्तौति । तत्र समाजवादो वैधानिक क्रान्तिम्, आर्थिक क्रान्तिम् सामाजिक क्रान्तिम्, जनतान्त्रिकं चोद्बोधनं समर्थयते । , समाजवाद -साम्यवादयोः कार्यविधिभेदः - समाजवादः पूँजीवादस्य किं कारणं घोरोऽरातिः ? विचारदृशा विवेचनेन विज्ञायते यत् पूँजीवादे केषांचिदेव विशिष्टानां जनानां स्वार्थसिद्धिः लाभः, सुखसौकर्यं च । पूँजीवाद-पद्धती जनहितसाधनापेक्षया व्यक्तिविशिष्टहितसाधनं प्राधान्यं लभते । तत्र न सुनियोजिता वित्त-विभाजन-पद्धतिः, न च दीन-हीन- जन - सुखसाधनेच्छा | राष्ट्रियस्यायस्य धनिकेषु संविभाजनाद् निर्धनत्वं दीनत्वं हीनत्वं बुभुक्षितत्वं च समेधते । पूँजीवादे प्राचुर्येऽपि निर्धनत्वम्, धनसंग्रहेऽपि क्षुधामृत्युः, विभवसामग्री -सत्त्वेऽपि हीनत्वम्, Page #248 -------------------------------------------------------------------------- ________________ समाजवादः २३१ सुखसाधनसत्त्वेऽपि दुःखित्वम्, प्रासादादिवे भवेऽपि जीर्ण-शीर्ण- कुटोरत्वम् । एवं पूँजीवादे केचन धनिन एव, केचन च निर्धना एव । जनहितसाधनं न धनिनाम् अभीष्टम् । स्वसुखावाप्तये ते निर्धनानां शोषणे तत्पराः । धनिनः स्वार्थसाधने यथा तत्पराः, न तथा परार्थचिन्तने । धान्यादीनाम् आधिक्येऽपि सम्यग् - विभाजनपद्धतेरभावाद् दौर्भिक्ष्यम्, अकालमृत्युः, इत्यादिक प्रवर्तते । 1 प्रतिस्पर्धाभावनयैव विदेशेषु स्ववस्तु-विक्रयादिकम् उद्दिश्य युद्धं महायुद्धं च प्रवर्त्यते । अपरं च सुविदितमेतद् यद् अमेरिकादिदेशेषु विपुलं धान्यं दुग्धादिकं च सरित्सु सागरेषु च निक्षिप्यते, न च तद् दोन-हीन- बुभुक्षितादिलाभाय स्वदेशे विदेशेषु च निःशुल्कं वित्तीयते । समाजवादे धनसंग्रहस्य समवितरण व्यवस्था प्रस्तूयते । स च श्रेयान् पन्थाः । समाजवादस्य कार्यविधिः - समाजवादे सहकारिताभावनया कृतं कर्म सर्वंहितसाधकम् । तत्र प्रतिस्पर्धा-भावनाया अभाव उत्पादनाधिक्यं करोति । समाजवादे सुनियोजितोत्पत्तेः, उत्पादनस्य च समविभाजनेन न धान्यादीनाम् अपव्ययो विनाशो वा । समाजवादो व्यक्तिगत स्वार्थं विनाश्य लाभं जनायत्तं विधत्ते । तत्र समाज एवोत्पादनस्य, समविभाजनस्य, आदान - प्रतिदानस्य च स्वत्वाधिकारी । एष एव प्रतिस्पर्धा जन्य - दोष-निरोधोपायः । अत्र औद्योगिकसंस्थानां राष्ट्रीकरणं समाजीकरणं च प्रस्तूयते । समाजवादे राज्यं राष्ट्रं च प्रभुत्वसपन्नम् । तदेव च धनादि-समविभाजनस्य समानावसर प्रदानस्य चाधिकारि । सम-विभाजनम्, सम-श्रमनियोजनम्, सम-लाभ-प्रदानं च समाजवादस्याभिमतम् । एवं समाजवादो निर्धनत्वं जीविकानिरोधं वृत्ति- प्राप्ति - समस्यां च संहरति । समाजवादे शिक्षा, चिकित्सा, सुरक्षा-व्यवस्था, नगरे स्वच्छतादिकम्, सर्वमेवैतद् राज्येन संपाद्यते । समाजवादे जनोन्नतेः समाजोन्नतेश्च पूर्णोऽवसरो लभ्यते । समाजवादे केचन दोषा अपि संलक्ष्यन्ते । तत्र वस्तुतो निर्धनतायाः समूलोन्मूलनं न दृश्यते, निर्धनत्वं तत्रावश्यं नियन्त्रयते । तत्र राज्याधिकारसंवृद्ध्या सह राज्यकर्मचारिषु सहानुभूतेरभावः, जनकार्ये कालातिपातः ( Red-tapism ) च प्रवर्धते । विदेशे बहुषु देशेषु समाजवादः प्रथते । भारतेऽपि वादोऽयं गान्धीवादेन सह सामञ्जस्यं दधत् प्रचरति । Page #249 -------------------------------------------------------------------------- ________________ ६८. साम्यवादः ( Communism ) साम्यवादस्य प्रवर्तनम् — साम्प्रतं जगदिदं प्रायशो वर्गद्वयसंविभक्तम्साम्यवादिनः ( Conmunists ), पूँजीवादिनश्च ( Capitalists ) । द्वयोरप्येतयोर्वादयोः रूस-अमेरिका- प्रदेशयोः प्रवर्तनं, प्रचारणं, प्रसारणं, परी - क्षणं च संदृश्यते । रूसदेशे साम्यवादः प्रसरीसति । साम्यवादस्य संस्थापको जर्मनदेशीयो विद्वान् कार्ल मार्क्स - महोदयो ( Karl Marx ) वर्तते । सोऽयं देवदूतत्वेन विविधविद्यापारहश्वत्वेन च तन्मतानुसारिभिर्गण्यते । तस्य च प्रथिततमो ग्रन्थः ‘दास कापिटाल' ( Das Kapital ) विषयेऽस्मिन् प्रामाण्ये - नोररीक्रियते । तत्र साम्यवादस्योपयोगित्वं, महत्त्वं, लोकोपकारित्वञ्च विशदीक्रियते । साम्यवादस्य प्रवर्तकेषु 'एंजेल्स' ( Angels ) - महोदयस्य नामधेयोऽपि सादरमुल्लिख्यते । साम्यवादस्य सिद्धान्ताः - साम्यवादस्य राद्धान्तेषु प्राधान्येन इमे विचारा आपतन्ति-वर्गसंघर्षं परिसमाप्य वर्गहीनस्य समाजस्य स्थापनम्, वर्गहीनसमाजस्थापनापुरःसरम् असमानताया अपनयनम्, जनस्य तत्क्षमतानुकूले कर्मणि नियोजनम्, तदपेक्षित साधनानां च प्रस्तुतीकरणम्, उत्पाद्यवस्तुषु व्यक्ति विशेषस्य वर्गविशेषस्य वा स्वामित्वमपसार्यं समाजस्य राज्यस्य वाऽधिकारस्य संस्थापनं, शोषितस्य ( सर्वहारावर्गस्य ) श्रमजीविवर्गस्य स्वामित्वसंस्थापनम् ईश्वरधर्मं-भाग्यादि-प्रवृत्तीनां वारणम्; क्रियामूलकमेव जीवनोपयोगि वस्तुवितरणम्; अकर्मण्याय आवश्यक सुविधानिवारणम्; पूँजीवादं विनाश्य सर्वविधशोषणप्रकारस्य विनाशनम् ; आभुवनं साम्यवादसिद्धान्तप्रचारणं च । साम्यवादस्योपयोगित्वम् - साम्यवाद: पूँजीवादस्य बद्धमूलोऽरातिः । तन्मतानुसारं समग्रेऽपि भुवने विषमताया अत्याचारस्य अन्यायस्य शोषणस्य च मूलं पूँजीवाद एव निर्णीयते । पूँजीवाद एव स दोषाकरो विधिः, येन भुवने वैषम्यं, वर्गसंघर्षः, शोषणं, पतितोत्पीडनं, पराभ्युदयोपेक्षित्वं च प्रचरति । एष एव विधिः विश्वशान्तिविनाशप्रवणः, मानवमौलिकाधिकारसंहारकः, मानवविकास-मार्गावरोधकश्च विज्ञायते । विश्वशान्तेः मानवतायाः संरक्षणं च वर्गहोनेनैव समाजेन सम्भवति । विश्वस्याधि-व्याधिनिवारणं वर्गहीन समाजसंस्थापनयैव पार्यते । उत्पादनसाधनेषु वितरणव्यवस्थायां च सति समाजस्याधिकारे शोषकशोषितभेदो विलोप्स्यते । तदैव पारमार्थिक्याः समृद्धेः शान्तेश्च दर्शनं सुलभम् । साम्यवादस्य लोकोन्नतौ योगदानम् - साम्यवादप्रक्रियाश्रयेण सर्वेषामेव मानवानां विकासकार्येषु समानोऽवसरः, सदृशा एव च सुविधाः लप्स्यन्ते । तदा Page #250 -------------------------------------------------------------------------- ________________ साम्यवादः २३३ समाजे न कश्चन शोषको, न च कश्चन शोषितो भविता । एतादृशस्य वर्गहीनसमाजस्य संस्थापनं साम्यवादस्य प्रक्रिययैव सम्भाव्यते। मासमतानुसारं साम्यवादपद्धतौ जनशासितस्य राज्यस्यैव उत्पादनसाधनेषु पूर्णाधिकारः स्यात् । उत्पादनसाधनेषु सति राज्याधिकारे पंजीवादव्यवस्था स्वयमेव तिरोधास्यते । यतो हि तत्र व्यक्तिविशेषस्याधिकारस्याभावात् शोषणप्रक्रियायाः समूलोच्छेदः । न केवलमेतदेव, मार्क्स-महोदयः राज्यस्यास्तित्वमपि नानुमनुते । वास्तविक शासनं तु जनशासनमेव तस्याभिमतम् । पूंजीवादविनाशानन्तरं धनिनां चाभावे, कोटिपतीनां विलोपे, प्रतिक्रियावादिशक्तिविनाशे च मार्क्समहोदयो निखिलसाधनेषु लोकाधिकारमनुमोदयति । सत्यां विद्रोहात्मकस्थिती अधिनायकतन्त्रस्य स्थापना स्यादिति विमृश्य राज्यसंघटनापद्धतिमपि तिरस्करोति । प्रान्तीयभेदान् प्रदेशादिभेदांश्च अपवायं विश्वसमाजसंस्थापनम् अभिमतत्वेन प्रतिपादयति । साम्यवादस्य प्रसारः-मासंप्रभृतिप्रतिपादितानांराद्धान्तानां प्रचारको मूर्तरूपप्रदश्च लेनिन ( Lenin )-महोदय आसीत् । स एव व्यावहारिकरूपेण तन्मतं प्रवर्तयामास । स एव मार्क्समहोदयस्य सन्देशं प्रतिगृहं प्रापयत्-'हे विश्वस्य श्रमिणः ! सङ्गच्छध्वम् । केवलं स्वपाशबन्ध एव विनाश्यः, नान्या भवतां हानिः । विजयश्रोर्युष्मान् वृणोते।' ( Workers of the world, unite. You have nöthing to lose but your chains and have a world to win. )। स एव जार-शासनविनाशाय पूंजीवादक्षयाय च सर्वहारावगं संगृह्य विद्रोहं प्रावर्तयत् । तत्सहयोगमवाप्य रूसदेशस्य भाग्यपरिवर्तनं संजातम् । जारशासनसंहारेण भुवने सर्वप्रथमं श्रमिकशासनं प्रवृत्तम् । एवं रूसदेशे समाजवादिप्रजातन्त्रस्य संस्थापनमभूत् । रूसदेशे साम्यवादस्य साफल्यं राष्ट्राण्यन्यान्यपि साम्यवादसंस्थापनार्थ प्रेरयत् । श्रमिकवर्गे स्वातन्त्र्यभावतरङ्गाः समुद्वेलिताः । यत्र तत्र विद्रोहाः राज्य-क्रान्तयः समजायन्त । साम्यवादिसमाजसंस्थापनाथं च साम्यवादानुयायीनि शासनानि प्रावर्तन्त । तेषु चीनदेशस्य नाम प्राधान्येनोल्लेखमहंति। . ___साम्यवादालोचनम्-एतन्निश्चप्रचं वक्तुं पार्यते यत् साम्यवादसिद्धान्तो लोकप्रियः, लोकाभ्युदयकारी, शोषणप्रक्रियाविनाशकः, पतितोत्पीडननिवारकः, अन्यायात्याचारादिदोषशमको लोके प्रचरति, प्रचरिष्यति च । स्वाधिकारलाभभावनाप्रेरिता लोका: वादमिमं सादरमाश्रयन्ते । शोषणप्रक्रिया तु विश्वव्यापिनी। न स्याच्चेत् शोषणभावोदयस्तर्हि विशिष्टभौतिकसूखावाप्ति१रवापा। वादोऽयं मृतप्रायेऽपि हीने दीनेऽपि क्षुत्पिपासाऽभावग्रस्तेऽपि लोके चैतन्यं सञ्चारयति, स्वोत्कर्षभावनां च जागरयति । अवितथमेतद् यत् साम्यवादप्रक्रिया लोकोपकारिणी समाजोन्नति Page #251 -------------------------------------------------------------------------- ________________ २३४ संस्कृतनिबन्धशतकम् साधिका च । परं विचारदृशा परीक्ष्यते चेत् तत्र केचन दोषा निसर्गसिद्धाः । स्वेष्टसाधनार्थं विद्रोहेण समं हिंसाश्रयणमपि न विश्वशान्तिसाधनम् । सति अशान्तेरुद्रेके शान्तिपाठो विश्वशान्तिवादो वाधूमायिष्यते । नास्तिक्यमपि वादस्यैतस्य मूलम् । अङ्गीकृते नास्तिक्यवादे का नाम शक्तिर्या विश्वशान्तिस्थापने प्रवर्तयेत् । विद्रोहो विद्रोहान्तरं जनयति, संक्षोभो संक्षोभान्तरम्, दीपो दीपान्तरमिव । शोषकविनाशसमकालमेव प्रवर्तनाशक्तेरभावे शोष्यवृन्दविनाशोऽपि प्रतिष्यते । साम्यवादे अन्नवस्त्रादिप्राप्तौ यथा बलमाधीयते न तथा नैतिकाचारविचारसंरक्षणे । अधिनायकवादस्योत्पनिरपि एतन्मतस्य दोषमावहति । धर्मस्योपेक्षा, ईश्वरेऽविश्वासः, नास्तिक्यबुद्धिः, नैतिकाचारोपेक्षा, कलाविमुखता, संस्कृतिप्रातिकूल्यं चेत्यादयो दोषाः साम्यवादस्य गरिमाणमपहरन्ति । Page #252 -------------------------------------------------------------------------- ________________ ६९. विश्वशान्तेरुपायाः विश्वशान्ते रावश्यकता - जगदिदम् अधिव्याधिपीडितम्, दुःखदावाग्निदग्धम्, अभावग्रस्तम्, चिन्तासहस्रनिचितम् अविश्वास - पिशाच क्षुब्धम्, नृशंसकर्म-संत्रस्तम्, अन्नाद्यभाव-विशीर्ण-चित्तम्, क्षुत्-पिपासाशीविष- संदष्टं च संलक्ष्यते । देशे, विदेशे, सर्वस्मिश्च भूमण्डले क्रान्तेविद्रोहस्य नरसंहारस्य च कारुणिकं दृश्यं प्रेक्ष्यते । शान्तेर्नामापि न श्रुतिपथमुपयाति । सर्वोऽपि लोकस्त्रासादीनां संहाराय, भयानां विध्वंसाय, अविश्वासस्य चापगमाय जीवने सुखशान्तेर्मूलं किमपि तत्त्वं कामयते । परं तत् तत्त्वं शान्तिश्च कथमिव लभ्या विश्वशान्तिमन्तरेण । कृतेऽपि प्रयत्ने शान्तिः सौख्यं समृद्धिश्च दुरवापान्येव । यत्र शान्तेनिवासस्तत्रैव सुखं, वैभवं, शिक्षा, उन्नतिः, कलाविकासः, धर्मचर्चा, संस्कृतिसमुदयः, सभ्यतोत्कर्षः, जीविकोपलब्धिः, सौकर्यं च । विश्वशान्तिः कथं संभवति ? - विश्वशान्तेः सद्भावार्थं लोकेषु समाजेषु राष्ट्रेषु च सद्भावोदयस्य समवेदनायाः सहानुभूतेश्च परमावश्यकता । सद्भावाद् ऋते न परार्थचिन्तनम्, परदुःखानुभूतिः, परशोषण - विरतिश्च । तथैव पारस्परिक विश्वासस्य चानिवार्यत्वम् । पारस्परिक - विश्वास एव सद्भावनां प्रेरयति, परार्थसाधनायोद्बोधयति, परदुःखापहारायोत्तेजयति, स्वार्थपरित्यागपूर्वकं परार्तिवारणाय च मानसम् उद्वेलयति । संकीर्णा राष्ट्रियताऽपि विश्वशान्तेः प्रत्यवायरूपेणोपतिष्ठते । तुच्छ राष्ट्रिय - भावनयैव प्रेरिता देशा हीनबलानि परराष्ट्राण्यात्मसात् कर्तुं प्रयतन्ते । साम्प्रतिक्यां स्थितौ न कश्चन हीनतमोऽपि दुर्भिक्षादिग्रस्तोऽपि देशः परतन्त्रतापाशं गले पादयोर्वा बन्धुं कामयते । स्वल्पबलाः स्वल्पाश्चापि देशाः पराधीनतापाशं समूलम् उन्मूल्य स्वातन्त्र्य-सुधां लेभिरे । केचन वादा अपि विश्वशान्ति संदूषयन्ति । तत्र पूँजीवादः परशोषणैकवृत्तिः, स्वार्थसाधनैकप्रवृत्तिश्च । सति जीवति पूँजीवादे विश्वशान्तिः सुदुर्लभैव । साम्यवादो धर्म-आचार-नीति-विरहितत्वाद् लोकोपकार करणे क्षमोऽपि अनाचार -विद्रोहादि प्राबल्याद् न जनमानसं तोषयति, अपितु वर्गसंघर्षं पोष - यति, ईश्वर-धर्मादि-मर्यादां दूषयति च । अतो द्वयोरप्येतयोर्वादयोः सत्त्वे न विश्वशान्तिः सम्भाव्यते । युद्ध-ज्वाला-ज्वलितान्तरात्मानः, पर-संहारैकदक्षाः, अणुबम - प्रभृतीनि प्रलयावहानि शस्त्राण्यस्त्राणि च निष्पादयन्तो बर्बरा एव केचन देशा विश्वशान्तिम् अहिताम् अशुभां चाकलयन्ति । अत आवश्यकमिदं यद् घातकास्त्राणां निर्माणे पूर्णावरोधः स्यात् । विश्वशान्ति स्थापनायां यद्यपि वर्तते राष्ट्रसंघस्य महद् योगदानम्, तथापि राष्ट्रसंघो न समस्या समाधाने विश्वशान्ति स्थापने Page #253 -------------------------------------------------------------------------- ________________ २३६ संस्कृतनिबन्धशतकम् च प्रभवति । राष्ट्र-संघस्य बहवो निर्णया न पाल्यन्ते शक्तिमद्भिः प्रमुखैर्राष्ट्रिः । तदर्थं राष्ट्रसंघस्य गौरवाभिवृद्धिरपेक्ष्यते, यथा तन्निर्णयोऽस्खलितरूपेण संपाल्येत। ___ अशान्तेर्मुलं स्वार्थलिप्सा, स्वार्थपरता च । एवम् अभावग्रस्तानां देशानां साहाय्य-व्यपदेशेन पारतन्त्र्यं विधीयते । एतद्दोषवारणार्थ राष्ट्राणां कृते स्वावलम्बनम् एवेकं साधनम् । विज्ञानस्य दुरुपयोगोऽपि अशान्तेमलम् । यदि विज्ञानेन सहाध्यात्मं न संबद्धं स्यात् तर्हि विज्ञानं दोषायैव। ईसु-महोदय आजीवनं शान्त्यर्थ प्रायतत । परं तदनुयायिनः स्वप्नेऽपि न शान्ति कामयन्ते । विश्वासस्य प्राधान्यम् अपास्य तैः साम्प्रतं तर्कस्यैव प्राधान्यम् उररीक्रियते । परम् आवश्यकता वर्तते तर्क-निरोधस्य, विश्वास-संस्थापनस्य च । सर्वविधाऽपि हिंसा अशान्तेजननी । हिंसायाः परित्यागेनैव विश्व शान्तिः संभवति । निरस्त्रीकरणमपि विश्वशान्तिसंस्थापनार्थम् उपयोगि। सर्वोदय-भावना, 'वसुधैव कुटुम्बकम्' इति भावना, परहित-निरतत्व-कामना च छद्म-प्रपञ्च-कूटनीत्यादीनां निःसारणपूर्वकं विश्वशान्ति बद्धमूलां सुदृढां च विधातुं प्रभवन्ति । . Page #254 -------------------------------------------------------------------------- ________________ ७०. छात्राणां राजनीती प्रवेशः ( छात्रा राजनीतिश्च ) उपक्रमः-छात्राणां राजनीती प्रवेशः स्याद् न वेति, विषयोऽयं न केवलं भारते, अपि तु विश्वस्मिन् जगति प्रतिराष्ट्र समस्यारूपेण प्रचरति । विषयेऽस्मिन् प्रचुरो विवादो विदुषाम् । तत्र विविधा विप्रतिपत्तिः, विभिन्नानि मतानि, विविधाः सैद्धान्तिकाश्च प्रश्नाः पुरतः समुपस्थाप्यन्ते । विषयेऽस्मिन् नकमत्यं विपश्चितां वर्तते, वतिष्यते च । विषयोऽयं शाश्वतविवादास्पदम् । छात्राणां कर्तव्यम्-विषयेऽस्मिन् समेषामपि सुधियाम् ऐकमत्यं यत् छात्राणाम् अध्ययनं प्रमुखं कर्म । विद्योपादानम्, शिक्षाग्रहणम्, गुणार्जनम्, चरित्रोन्नतिः, शारीरिक-मानसिक-आत्मिक-नैतिक बलाधानम्, हृष्टत्वम् पुष्टत्वम्, सद्गुणसम्पन्नत्वं च सदेव छात्रेष्वभीष्यते । पञ्चविंशति-वर्षं यावद् ब्रह्मचर्याश्रमकालो विद्याध्ययनकालश्च । विद्याध्ययनकाले सद्गुणेष्वभिरुचिः, अध्ययने प्रवृत्तिः, गुणार्जनेऽभिनिवेशश्च प्रशस्यते काम्यते च । तस्मिन् काले विषयान्तर-व्यपक्षेपस्तेषाम् अध्ययनम् सर्वविधाम् उन्नतिं च निरुणद्धि । अतो ये केऽपि विषयाः स्युः, ततो ध्यानं निवर्त्य स्वकर्मण्येव छात्राः प्रवर्तेरन् ।। ___ साम्प्रतिको स्थिति:--सत्यमेतद् यद् गुणाजनं विद्याग्रहणं चारित्रिकोन्नतिश्च छात्राणां प्रमुखं कर्तव्यम् । परं को न जानाति देशस्य विदेशस्य वा साम्प्रतिकी लोकस्थितिम् । नहि साम्प्रतं प्राक्कालवद् जीवने निश्चिन्तता, धनधान्यावाप्तिः, सुखसौविध्यम्, अनासक्तत्वम्, सर्वविषयविनिवृत्तिश्च । न केवलं भारतेऽपि तु समग्रेऽपि भुवने शान्तिभृगतृष्णेव वरीवति । क्षुत्-पिपासासन्तापः संतापयति जीवनमखिलं भुवनं निखिलं च । अन्न-वस्त्राद्यभावः समग्रविश्ववद् भारतमपि अतितरां शोषयति ग्लपयति च । वृत्त्यभावः, आजीविका-साधनानाम् अभावः, भक्ष्य-वस्तूनाम् अभावः, जीवनोपयोगि-वस्तूनां दुरवापता च कं न प्रेरयति जीवनोद्दश्यानां पुनर्मूल्याङ्कने समयानुकूल-गतिविधि-संचालने च। छात्राणामपि पुरत एताः समस्या जीवनाङ्गत्वेन समुपतिष्ठन्ते । छात्रा राजनीतो प्रवेशं कुर्युवेति प्रतिपदं प्रतिविद्यालयं प्रतिमहाविद्यालयं प्रतिविश्वविद्यालयं च चर्चाविषयो विचारविनिमयविषयश्च । सर्वतोऽवलोक्यते यद् राजनीतिजुषामेव सर्वत्र प्राधान्यम् । ये राजनीती प्रवेशं लभन्ते, कृत्येन अकृत्येन दुष्कृत्येन वा नेतृत्वं भजन्ते, तेषामेव राज्यसंचालने राष्ट्रसंचालने च प्राधान्यम् । राजनीतिविरहितस्य जनस्य मनेरिव जीवनम, निवृत्तिप्रधानम् एकान्तवासप्रमुखं च । सर्वत्र नेतृणामेव गतिः प्रगतिः सद्गतिश्च । नेतारो Page #255 -------------------------------------------------------------------------- ________________ २३८ संस्कृतनिबन्धशतकम् नेतृपुत्रा नेतृसंबन्धिनश्च सर्वतो भारतभुवम् अकालमेघवद् दुर्भिक्ष-अन्नाद्यभावभ्रष्टाचारादिकम् अशुभं सूचयन्त आच्छादयन्ति । आचारेण अनाचारेण दुराचारेण वा यत् तैः क्रियते, तत् चाटुकारैर्देवकृत्यवत् प्रशस्यते स्तूयते च । एवंविधायां स्थितौ को न स्यात् छात्रो वा मानवो वा यः स्वमहत्त्वाकांक्षापूर्तये नेतृपदलाभं नाभिलष्येत् । पराधीनता-पाश-निगडिते भारतवर्षे महात्मा गान्धि-प्रभृतिभिर्ने तृभिः स्वातन्त्र्ययुद्धे आत्म-बलिदानं कर्तुं राष्ट्रहितं च विधातुं छात्रा उद्बोधिताः । १९४२ ईसवीये 'भारतभुवं त्यजत' ( (Quit India ) आन्दोलने भारतीयैश्छात्रैः किं किं न बलिदानं कृतम् । एकतः सत्याग्रहादि - कर्मसु प्रवृत्ते छात्रैर्महात्मन आन्दोलनं समर्थितम्, अपरतश्च रामप्रसाद बिस्मिल - चन्द्रशेखर आजाद-भगतसिंह-राजगुरु - सुखदेव - खुदीराम बोस - अश्फाकउल्ला - राजेन्द्र लाहिरी - प्रभृति - भिश्छात्रैः पञ्चनद-उत्तर प्रदेश - बंग- देशादिषु क्रान्तिपूर्णम् आन्दोलनं प्रवर्तितम् । शान्ति-क्रान्ति-पूर्णयोरान्दोलनयोः प्रभावेण भारतस्य स्वातन्त्र्यलाभोऽभूद् इति विदितमेव विदुषाम् । राजनीति-निरोधः -- छात्राः, अभिभावकाः, अध्ययनप्रवणा अध्येतारश्च सततं कामयन्ते यन्न स्याद् अस्माकं राजनीती प्रवेशः परं प्रतिपदं संलक्ष्यते यत् छात्र-संघ-माध्यमेन स्वार्थेप्सुभिर्ने तृभिश्छात्रवर्गे स्व-स्व-वाद- प्रचारार्थं ते प्रबोध्यन्ते, आदिश्यन्ते, निर्दिश्यन्ते, धनादिभिः समर्थ्यन्ते च । विधानसभायाः संसदश्च निर्वाचनादिषु ते छात्रनेतारो लोभोपहतचेतसः क्रीता इव नेतृ- निर्दिष्ट - वर्त्मानुयायिनो भवन्ति । एवं सुकरमेतद् वक्तुं यत् छात्रसंदूषणाय, छात्रपथभ्रंशाय, अध्ययन - विघाताय चास्माकं नेतृवर्ग एव दोषभाक् । स्वार्थसाधनाय कदाचिद् छात्राणां राजनीती प्रवेशार्थम् उद्बोधनम्, अन्यदा च राजनीति-प्रवेश-निरोधाश्रयणस्य प्रवचनम्, 'मनस्यन्यद् वचस्यन्यत्, कर्मण्यन्यद् दुरात्मनाम्' इति दुरुक्तिमेव समर्थयते । एवं विचार्यते चेत् तर्हि विज्ञायते यद् छात्रा अनिच्छन्तोऽपि स्वार्थलिप्सुभिर्नेतृभिर्नेतृकल्पैश्च राजनीतीप्रवेशार्थं प्रेर्यन्ते। नात्र छात्रवर्गो दोषभाक् । Page #256 -------------------------------------------------------------------------- ________________ ७१. वसुधैव कुटुम्बकम् ( १. विश्वबन्धुत्वम् ; २. विश्वधर्मः) विश्वबन्धुत्वस्यावश्यकता-जगदिदं सुख-दुःखात्मकम् । सुखानन्तरं दुःखम्, दुःखानन्तरं च सुखम् । सुख-दुःखयोः परिवृत्त्या भुवनमेतद् विपद्यते । नहि लोके कश्चन दुःखम् इष्टत्वेन कामयते । मुमूर्षुरपि, जराव्याधिशीर्णगात्रोऽपि, चिन्ता-सहस्र-विषण्णोऽपि, दुःखं मृत्युं वा नाभिलष्यति, तर्हि कथमिव दुःखनिरोधः संभाव्यते । दुःखनिरोधस्यैक एवोपायः-भुवने शान्तेः सद्धर्मस्य च संस्थापना। यदि मानवो मानवं स्वबन्धुत्वदृशा निरीक्षेत तर्हि पर-शोषणप्रक्रियैव समाप्यते । शोषणस्य कि मूलम् ? स्वार्थसिद्धिः, स्वसूखावाप्तिकामना च । महत्त्वाकांक्षा च मानवं परशोषणे प्रेरयति । यदि परार्थ-निष्पादनपूर्वकं स्व-सुख-साधनम् अभिलष्येत् तर्हि न पारस्परिको विवादः कलहः संघर्षः परशोषणं च प्रवर्तेरन् । विश्वबन्धुत्वस्योपयोगिता–अत्रेदं विचार्य यत् कथं मानव आत्मानं देवं मानवं दानवं वा कतु प्रभवति । ऐहलौकिक-सुख-कामनया सहैव चेत् पारलौकिकी बुद्धिः स्यात्, जीवनान्तरे सुखाभिलाषश्च भवेत्, तर्हि न तथा मानवः पापाचरणे प्रवर्तेत । पर-हित-विनाशनम् , परापकृति-साधनम्, परार्थनाशनं च न केवलं दोषायैव, अपितु अपकर्तरपि विनाशं साधयति । दुष्कृतं दष्कृतं जनयति, सुकृतं च सुकृतम् । विद्वेषो विद्वेषं जनयति, विरोधो विरोधम्, कलहः कलहम्, युद्धं च युद्धान्तरम् । तथैव स्नेहः स्नेहं वर्धयति, प्रेम प्रेमभावनां जागरयति, सहानुभूतिः सहानुभूतिम्, सद्भावः सद्भावम् , ममता ममत्वं च । द्वयोरपि पक्षयोः परिणामः सुलभः, अनायास-प्रेक्ष्यश्च । सामाजिकं राष्ट्रियम् अन्ताराष्ट्रियं वा कार्य यदि सहानुभूति-विश्वास-मूलकं तर्हि तत् सुखदं समृद्धिकारि लोकहितकारि च संपद्यते । प्राचीन रतीयैर्ऋषिभिर्महर्षिभिश्च सततमेवोदीरितं यत् सर्व-भूतहित-साधनम् अस्माकं लक्ष्यम् । तत्र राष्ट्रदेशादिभेदो विपज्जनक एव । यदा स्वार्थबुद्धिीयते तदैव देवत्वं जागति । वेदेषु यज्ञ-प्रक्रियाया एतदेव महत्त्वं यत् तत्र स्वार्थ-परिहार-पूर्वकं परार्थ-साधनं शिक्ष्यते । एतदेव यज्ञप्रक्रियायां स्वाहा ( स्व-आ हा, स्वार्थस्य सर्वथा त्यागः ), इदं न मम, इत्यादिभिः पदैनिर्दिश्यते । निजत्व-परत्वभावना तु अल्पधियामेवाभिमता। ते ममेदम् , परकीयम् एतद् इति विभेदम् आश्रयन्ते । परं ज्ञानिनस्तत्त्वदर्शिनश्च समत्व-बुद्धिम् आश्रित्य जगद्-हितचिन्तने सर्वलोक-कल्याणे च प्रवर्तन्ते । अत एव साधूच्यते अयं निजः परो वेति गणना लघुचेतसाम्।। उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ हितोपदेश १-६९ Page #257 -------------------------------------------------------------------------- ________________ २४० संस्कृतनिबन्धशतकम् वसुधैव कुटुम्बकम्-सर्वेऽपि देशीया विदेशीया वा, एकस्यैव परमात्मनः पुत्राः । तत्र कि कारणं भेदप्रथनम् ? यदाऽभेददृष्टिः प्रवर्तते, तदा जगदिदं स्वर्गमिव चकास्ति । न तत्र मोह-शोकादेरवसरः, न च तदा विजुगुप्सा विचिकित्सा वा बाधते । एकत्वबुद्धौ न दुःखाग्निलेशोऽपि, क्लेशलवोऽपि च । अतएव यजुर्वेदे ईशोपनिषदि च प्रोच्यते यस्तु सर्वाणि भूतान्यात्मन्नेवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विचिकित्सति ॥ यजु० ४०-६ यस्मिन्त्सर्वाणि भूतान्यात्मवाभूद विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ यजु० ४०-७ विश्वधर्म:-विश्वधर्म-भावना विश्वकल्याणमूला । 'कृण्वन्तो विश्वमार्यम्' (ऋग०९-६३-५ ) इति वदतो वेदस्याप्येतदेवाभिमतम् । सर्वेषां धर्माणां सारभूततत्त्वानां संग्रहेण विश्वधर्मत्वं संभवति । अतएव पतञ्जलिना अहिंसा-सत्यादि-यमानां महत्त्वं वर्णयता प्रोच्यते यद् यमास्ते गुणाः सन्ति ये सर्वधर्मः स्वीक्रियन्ते । एते 'सार्वभौमा महाव्रतम्' इति व्यपदिश्यन्ते । अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः। योगदर्शन २-३० जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महाव्रतम् । योग०२-३१ विश्वधर्मे सर्वोदय-भावना मूलम् आधत्ते । उच्यते च सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग भवेत् ॥ इत्यस्याप्येष एवाभिप्रायः । यदि विविच्यते तर्हि ज्ञायते यद् दुश्चरितं मानवं दानवं विधत्ते । सत्कर्म मानवस्य मानवत्वं पोषयति । परहिताश्रयणं विश्वबन्धुत्वं च मानवं देवत्वं प्रापयति । जीवने देवत्वप्राप्ति-कामना स्यात् चेत्तहि 'वसुधैव कुटुम्बकम्' इत्याप्तवाक्यत्वेनाश्रयणीयं व्यवहरणीयं च। . Page #258 -------------------------------------------------------------------------- ________________ ७२. देशभक्तिः ( १. भारतमहिमा, २. धन्या भारतभूः प्रकामवसुधा प्रत्ना च तत्संस्कृतिः ।) न यत्र देशोद्धृतिकामनाऽऽस्ते, न मातृभूमेहितचिन्तनं च। न राष्ट्ररक्षा-बलिदानभावः, श्मशानतुल्यं नरजीवनं तत् ॥ (कपिलस्य) प्रस्तावना-निखिले भुवने न कोऽपि नरो यः स्वमातृभूमि स्वदेशं वा न प्रणमति । राष्ट्रियभावनैव सा भावना या मानवं स्वदेशोन्नत्यथं प्रेरयति, स्वदेशाभिमानं स्वदेशगौरवं च प्राणेभ्योऽप्यधिकं मन्यते । प्राचीनकालादेव देशभक्तिर्मानवजीवने ओता-प्रोता च । ऋग्वेदे-अहं राष्ट्री संगमनी वसूनाम् (ऋग्० १०-१२५-३), यजुर्वेद-वयं राष्ट्र जागृयाम पुरोहिताः स्याम ( यजु० ९-२३ ) । अथर्ववेदे च पृथ्वीसूक्ते बहवो मन्त्राः प्राप्यन्ते देशभक्तिभावोपेताः । यथा-माता भूमिः पुत्रो अहं पृथिव्याः ( अ० १२-१-१२), वयं तुभ्यं बलिहृतः स्याम ( अ० १२-१-६२) इत्यादयः । रामायण-महाभारत-पुराणादिषु स्वदेशगौरवं देशभक्तिश्च बहुधा कीर्त्यते । स्वदेशभक्ति-भावनयैव प्रेरिताः शतशो महात्मानः शूरा वीराश्च सर्वस्वं विहायापि देशरक्षणं व्यदधुः। केचन च देशोन्नती स्वीयान् असून तृणवद् उज्झांचक्रुः। देशभक्तेरावश्यकता-देश-प्रेम देशभक्तिश्च जन्मिनोऽनिवार्य कर्तव्यम् । देशभक्तिभावनयैव प्रेरिताः शतशो वीराः समराङ्गणे हेलया स्वजीवनानि समर्पयामासुः । देशभक्त्यैव देशोन्नतिभावना, समाजसुधारभावना, समाजोनतिकामना, राष्ट्र श्रीवृद्धिकरणम्, शत्रून्मूलन-पुरःसरं देशस्य सर्वविध-सुदृढीकरणं प्रवर्तते । यत्र न जागति देशभक्तिभावः स मानवः पशुसंकाशो गण्यते । उक्कं चार्यभाषा-कविना जिसको न निजगौरव तथा निजदेश का अभिमान है। वह नर नहीं, नर-पशु निरा है, और मृतक समान है। ___ आङ्ग्लभाषा-विद्वान् डेनियल-वेब्स्टर-महोदयो निर्दिशति यद् अस्माकं जीवनोद्देश्यं राष्ट्रमेव, समग्रं राष्ट्रम्, न किंचिद् अन्यत् । Let our object be, our country, our whole country, and nothing but our country. -Daniel Webster. हावार्ड-महोदयोऽपि देशहित-संपादनं सर्वोत्कृष्टं कर्तव्यं निर्दिशति । Our country's welfare is our first concern and who promotes that best, best proves his duty. -Havard. देशभक्तेमहत्त्वम्-देशभक्तिर्मानवानां सर्वोत्कृष्टं कर्तव्यम् । यत्र न Page #259 -------------------------------------------------------------------------- ________________ २४२ संस्कृतनिबन्धशतकम् संचरति, न प्रवहति च देशभक्तिधारा तज्जीवनं शुष्कसरिदेव । अतएव मातृभूमिस्तुतौ प्रत्यहं गीयते । वन्दे मातरम् । सुजलां सुफलां मलयजशीतलाम् । शस्य-श्यामलां मातरम, वन्दे मातरम् । आंग्लभाषाया बैरन-कविराह-यो न राष्ट्रे स्निह्यति, न स स्नेहं कर्तुं जानीते। He, who loves not his country, can love nothing. . --Byion. का नाम सा शक्तिर्या.मातृभूमि-हिताय सर्वस्वार्पणं प्रति प्रेरयति । देशभक्तिरेव सा शक्तिर्या दीपशिखासु पतङ्गवद् आत्मोत्सर्ग शिक्षयति । तयैव प्रेरणया महाराणा प्रताप-शिवाजी-महात्मा गान्धि-सुभाषचन्द्रबोस-जवाहरलाल नेहरू-वीर सावरकर-लाला लाजपतराय-बालगंगाधर तिलक-सरदार भगतसिंहचन्द्रशेखर आजाद-ऊधमसिंह-गोखले-रामप्रसाद बिस्मिल-लक्ष्मीबाई-मङ्गल पाण्डेय-नानासाहब-भामा शाह-स्वामी दयानन्द-सरदार पटेल-प्रभृतयः स्वदेहमोहं परित्यज्य मातृभूमि-रक्षार्थ स्वोत्सर्ग चक्रुः । देशभक्ति-भावनयैव स्वदेशाभिमानम्, स्वदेश-रक्षा-संकल्पः, आत्मोत्सर्ग-भावना, परोपकार-प्रवणता, नैतिकाभ्युन्नतिश्च संभाव्यते । 'स्वातन्त्र्यम् अस्माकं जन्मसिद्धोऽधिकारः' इति महात्मनस्तिलकस्य वचनम् अद्यापि जीवनं प्रेरयति । माता भूमिः पुत्रो अहं पृथिव्याः--भारतभूमिरस्माकं जननी। तत्पुत्रत्वेन मातुः रक्षणम् अस्माकं परमं कर्तव्यम् । अतएव साधु व्याहियते 'जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।' वयं तुभ्यं बलिहृतः स्याम । अथर्व० १२-१-६२ सत्यवसरे सत्यां चावश्यकतायां मातृभूमेः संकटनिवारणार्थं प्राणार्पणेनापि मातृभूमि-हितसंपादनं सर्वेषां श्रेष्ठं कर्म । धन्या भारतभूः–भारतभूमेर्गुणगौरवं प्रकृष्टोन्नतत्वं च ध्यायं ध्यायं धीमद्भिः भारतभू-प्रशंसनं व्यधायि । उक्तं च विष्णुपुराणे-- गायन्ति देवाः किल गीतकानि, धन्यास्तु ते भारतभूमिभागे । स्वर्गापवर्गास्पदमार्गभूते, भवन्ति भूयः पुरुषाः सुरत्वात् ॥ विष्णु० एतस्य गुणगौरवोत्कृष्टत्वं प्रेक्ष्यैव मनुनोद्घोष्यते एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ मनु० २-२० यदा सर्व जगद् अज्ञान-ध्वान्तावृतम् अभूत्, तदा भारते वेदोद्घोषः प्रावर्तत । अतएव भारतीया वैदिकी च संस्कृतिः प्राचीनतमा प्रेष्ठा च । Page #260 -------------------------------------------------------------------------- ________________ देशभक्तिः २४३ सा प्रथमा संस्कृतिविश्ववारा। यजु० ७-१४ भारतस्य समृद्धिम् आकलय्यैव विदेशीयैर्भारतं सुवर्णपक्षी ( सोने की चिड़िया ) इति प्रशस्यते स्म । अगस्त्य-बुद्ध-अशोक-प्रभृतिभिर्विदेशेषु भारतीयं गौरवम्, भारतीया संस्कृतिः, वैदिकधर्मः, भारतीया विचाराश्च प्रचारिताः । अतएव साधूच्यते-'धन्या भारतभूः प्रकामवसुधा धन्या च तत्-संस्कृतिः' । जयन्ति ते हुतात्मानः, क्रान्तिसन्देशवाहकाः। येषां ज्योतिर्जगत्सवं विद्योतयति भानुवत् ॥ ( कपिलस्य) . Page #261 -------------------------------------------------------------------------- ________________ ७३. संस्कृतभाषाया महत्त्वम् (१. भारते भातु भारती; २. भाषासु मधुरा मुख्या दिव्या गीर्वाणभारती; ३. संस्कृताध्ययनस्य मुख्यप्रयोजनानि )। ऋषीणामाद्यानां गहनमननावाप्तसुयशाः श्रतीनां शास्त्राणां निखिलगण-तत्त्वार्थनिलया। पुरातत्त्वाधारा सकलभव-ज्ञानाधिविभवा __ जयेद् दैवी वाणी त्रिभुवनमनोज्ञा बुधप्रिया ( कपिलस्य ) संस्कृतस्य स्वरूपम्-किं नाम संस्कृतमिति जिज्ञासितं चेत् परिष्कृतं, परिशुद्धं, व्याकरणादिदोषरहितं यत् तत् संस्कृतम् । प्राचीनः ऋषिभिर्मुनिभिश्च भाषागतदोषपरिष्कारेण, अपशब्दादिदोषवारणेन या परिष्कृता भाषा व्यवहृतिमानीता सैव संस्कृतभाषा-नाम्ना सम्बोध्यते, प्रशस्यते, आद्रियते च । 'विद्वांसो हि देवाः' विद्वज्जनव्यवहृता चेयं भाषा। सैव देवभाषा, देववाणी, गीर्वाणवाणी, गीर्वाणगीरित्यादिभिर्नामधेयः व्यवह्रियते। इयमेव भाषा विकृतिमापन्ना प्राकृतभाषापदमुपगतवती। सेयं भाषा भारतीयानां प्राणरूपिणी, जीवनोन्नायिका, सत्पथप्रदर्शिनी, आचारविचारप्रवर्तिनी, कर्तव्याकर्तव्यबोधिनी, लोकद्वयहितसम्पादिनी च । संस्कृतस्य विपुलं साहित्यम-भारतवर्षस्य समस्तमपि प्राचीनं वाङमयं संस्कृतभाषामाश्रित्यैवावतिष्ठते । निखिलमपि वैदिक वाङ्मयं, रामायणं, महाभारतं, पुराणानि, स्मृतिग्रन्थाः, दर्शनानि, धर्मग्रन्थाः, महाकाव्यानि, काव्यानि, नाटकानि, गद्यकाव्यानि, गीतिकाव्यानि, आख्यानसाहित्यम्, नीतिग्रन्थादयश्च संस्कृतभाषायामेवोपलभ्यन्ते । न केवलमेतदेव, व्याकरणं, काव्यशास्त्रं, गणितं, ज्योतिषम्, आचारशास्त्रं, काव्यशास्त्रम्, आयुर्वेदः, धनुर्वेदः, वास्तुकलाशास्त्रम्, अर्थशास्त्रम्, राजनीतिशास्त्रम्, ऐतिह्यम्, छन्दःशास्त्रम्, कोशग्रन्थाश्च संस्कृतभाषाया गौरवमभिवर्धयन्ते । ज्ञानस्य विज्ञानस्य न तादृशं किमप्यङ्गम्, यन्नैवोपलभ्यते संस्कृतभाषायाम् । प्राचीनानाम् ऋषीणां, महर्षीणां, कवीनां, तत्त्वज्ञानाम् अनारतश्रमस्यैव फलमेतद् यदीदृशं विपुलं संस्कृतवाङ्मयं दृष्टिपथमुपयाति । __ संस्कृतस्य पुरा लोकव्यवहारः-प्राचीनभारतीयसाहित्यानुशीलनेन स्फुटमेतदवगम्यते यद् ईसवीयसंवत्सरात् पूर्वं गीर्वाणगीरियं जनसाधारणे व्यवहृताऽभूत् । न केवलं विद्वज्जनव्यवहृतभाषारूपेणैवेयं प्रायुज्यत, अपितु लौकिकानामपि व्यवहारास्पदमभूत् । निरुक्तकारो यास्कः संस्कृतं 'भाषा' ( व्यवहारभाषा) इति निरूपयति । पाणिनिकृतसूत्राण्यपि एतदेव समर्थयन्ते । यथा-दूराह्वाने प्लुतत्वम्, प्रत्यभिवादे अन्तिमस्वरप्लुतत्वं च । पाणिनिना वैदिकलौकिकभाषयोः Page #262 -------------------------------------------------------------------------- ________________ संस्कृतभाषाया महत्त्वम् विभेदो छन्दस्-भाषा- - शब्दयोः प्रयोगेण विधीयते । एतेन व्यवहृतभाषारूपेण संस्कृतस्य प्रयोगो लक्ष्यते । प्राचाम्, उदीचाम्, इत्यादिभिः प्रयोगैश्च संस्कृतभाषाया प्राच्यादिभेदोऽवगम्यते । महामुनिना पतञ्जलिना 'सर्वे देशान्तरे' इत्यत्र विविधप्रदेशेषु प्रयुज्यमानानां संस्कृतशब्दानां निदर्शनानि प्रस्तूयन्ते । महाभाष्ये सूतशब्दव्युत्पत्तिविषये सूतवैयाकरणयोविवादः कस्य न मनोरञ्जनमावहति । सूतो वैयाकरणं निर्भर्त्सयन्नाह - ' प्राप्तिज्ञो देवानां प्रियः, न त्विष्टिज्ञः, इष्यते एतद् रूपम्' ( महा० २|४|५६ ) । २४५ रामायणकाले, महाभारतकाले च संस्कृतभाषैव लोकव्यवहृतिभाषा - भूदिति पाश्चात्त्यैरपि निर्विवादम् ऊररीक्रियते । हनुमान् अशोकवाटिकायां सीतां प्राप्य संस्कृतम् आश्रित्यैव विवक्षति - 'वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ' ( वा० सुन्दरकाण्ड ३०।१७ ) । बौद्धकविरश्वघोष: प्राकृतभाषां परित्यज्य बुद्धचरित -सौन्दरनन्द- काव्यद्वयं संस्कृतभाषायामेव निरमिमीत । द्वितीयशताब्दी ईसवीयादारभ्य एकोनविंशतितमशताब्दी यावत् सर्वेऽपि शिलालेखाः प्रायेण संस्कृतभाषाश्रया एव । राज्ञो भोजस्य काले संस्कृतस्य प्रचुरः प्रचारो लोकविदित एव । कविबिल्हणः कश्मीरदेशजनारीणां संस्कृतभाषाज्ञानं तत्प्रयोगञ्च प्रमाणयति । मैकडानल-कीथ - विण्टरनित्स - पाल डायसन - विण्डिश- हर्टल - प्रभृतयः पाश्चात्त्यविद्वांसोऽपि न केवलं पुराकाले एव, अपितु अद्यावधि संस्कृतभाषायाः सजीवत्वम्, व्यवहृतित्वं च साधयन्ति । संस्कृतस्य महत्त्वं गौरवं च --- संस्कृतभाषाया महत्त्वं न केवलं भारतीयैरेव अपितु पाश्चात्त्यैरपि साह्लादमङ्गीक्रियते । विश्वस्य प्राचीनतमं साहित्यमत्रैवोपलभ्यते । अत्र वैदिकसाहित्यं, मुख्यतः ऋग्वेदः, विशेषत उल्लेखमर्हति । विश्वस्य प्राचीनतमायाः संस्कृतेः सभ्यतायाश्च यथार्थावगमाय संस्कृमेवैकं साधनम् । विश्वसंस्कृतेराधारशिला संस्कृतवाङ्मये एव प्राप्यते । तन्मूलकमेव विश्वसंस्कृतेः तुलनात्मकमध्ययनं प्रस्तूयते । संस्कृते ज्ञान - विज्ञानकला-संस्कृति-धर्मं-दर्शन - अर्थशास्त्र - व्याकरण - काव्यशास्त्र - आयुर्वेदादि - विषयेषु यथा विपुलं प्राचीनं वाङ्मयमुपलभ्यते न तावदन्यत्र कस्यामपि भाषायाम् । मैकडानलमतानुसारं समग्र सभ्यताया मूलं संस्कृतवाङ्मय एव निहितम् । मानवजातिविकासाध्ययनार्थं मूलस्रोतस्त्वेन भारतीयं वाङ्मयं ग्रीकसाहित्या - पेक्षया गुरुतरम् । धर्मदर्शनयोः क्षेत्रे संस्कृतस्य उत्कर्षः सर्वातिशायी । अध्यात्मशास्त्रानुशीलनाय, काव्यतत्त्वज्ञानाय, नीतितत्त्वावबोधाय, आचार शिक्षासंग्रहाय, प्राचीनविधानज्ञानाय, गणित - ज्योतिष - अर्थशास्त्र - कामशास्त्र सङ्गीतनृत्याभिनयादिकलानां सूक्ष्मातिसूक्ष्मज्ञानाय संस्कृतवाङ्मयमेवैकं शरणम् । विश्वप्रेम- विश्वबन्धुत्व - विश्व संस्कृत्यादीनाम् आधारतत्त्वज्ञानार्थं संस्कृतस्यानुशीलनमनिवार्यम् । Page #263 -------------------------------------------------------------------------- ________________ २४६ संस्कृतनिबन्धशतकम् भाषासु मधुरा मुख्या दिव्या गीर्वाणभारती-गीर्वाणगिरो माधुर्य कस्य न सचेतसश्चेत आवर्जयति । कालिदास-माघ-श्रीहर्ष-जयदेवादीनां काव्यानि । प्रतिपदं माधुर्योपेतानि, सङ्गीतात्मकानि, लालित्यवन्ति च सन्ति । देववाण्या माधुर्य-गुणमुग्धा एव सर विलियम जोंस-गेटे-प्रभृतयः पाश्चात्त्या विपश्चितोऽपि तद्गुणानुवादपरा अभूवन् । 'मेघे माघे गतं वयः' 'मधुरकोमलकान्तपदावली शृणु तदा जयदेवसरस्वतीम्' (गीत० ११३ ) इत्यादय आभाणकाः कालिदासमाघ-जयदेवादीनां पदमाधुर्यं मनोज्ञत्वं सहृदयास्वाद्यत्वं च पुष्णन्ति । एतन्माधुर्यापहृतचेतसः शतशः पाश्चात्त्या गीतारामायणादीनां पठने, श्रवणे, अनुवादे च प्रावर्तन्त । भारते तु न केवलं विज्ञा एवापितू रसास्वादप्रवणा ललना अपि संस्कृताध्ययनं व्यदधुः । आकर्ण्यते यद् मण्डनपण्डितभवनविषये पृष्टा नार्यः तमेवमूचुः–'स्वतःप्रमाणं परतःप्रमाणं कीराङ्गना यत्र गिरो गिरन्ति । द्वारस्थनीडान्तरसन्निविष्टा जानीहि तन्मण्डनपण्डितौकः'। संस्कृताध्ययनस्य प्रयोजनानि-संस्कृताध्ययनस्य प्रयोजनानि विचिन्त्यन्ते चेत्तहि सुकरमेतद्वक्तं यत् संस्कृत-भाषैव अध्यात्मज्योतिःप्रदा, आचारशास्त्रशिक्षिका, जीवनोन्नतिकारिणी, ज्ञानाग्निना मोहान्धतमसविनाशिका, सत्पथप्रदर्शिका काचिदनुत्तमा शक्तिः । अध्यात्मदृशा तत्त्वार्थदीपिका, व्यवहारदृशा च वृत्तिसाहाय्यमाचरन्ती, कर्तव्योद्बोधनपरा। अस्य मुख्य प्रयोजनत्वेन एते विशेषा गणयितुं शक्यन्ते--वेदोक्तधर्मज्ञानम्, आर्यसंस्कृतिज्ञानम्, आर्यसभ्यतावैशिष्ट्यज्ञानम्, प्राचीनभारतीयवैभवावगमः, दर्शनतत्त्वावबोधः, कर्तव्याकर्तव्यज्ञानम्, विश्वबन्धुत्वभावोदयः, आस्तिक्यबुद्धिः, विवेचनात्मिका दृष्टिः, विविधभाषासम्पृक्तत्वम्, शीलप्रधानं शिक्षादर्शनम्, प्राचीनपरम्पराज्ञानं चेति । संस्कृतस्य भाषाशास्त्रीयं महत्त्वम्-भारोपीयपरिवारे संस्कृतभाषैव प्राचीनतमा। तन्मलकमेव भाषा-विज्ञानस्य उद्भवः । संस्कृत-ग्रीक-लैटिनभाषाणां तुलनात्मकेनाध्ययनेन भाषाविज्ञानस्य उद्भवः । संस्कृतभाषायामुपलब्धं वाङ्मयं भाषाशास्त्रीयां सर्वामप्यावश्यकतां पूरयति । संस्कृतभाषामूलकमेव तुलनात्मकदेवशास्त्रस्योत्पत्तिः । अतएव मैकडानलमहाभागेनाभिधीयते The discovery of the sanskrit language led to the foundation of the science of comparative philology, an acquaintance with the literature of the Vedas resulted in the foundation of the science of Comparative Mythology. -MACDONELL-H.S.L. P.5. विण्टरनित्स-महोदयोऽपि संस्कृतभाषां भाषाविज्ञानस्य आधारत्वेनोरीकरोति In the earliest ages the Indians already analysed their ancient sacred writings with a view to Philology, classified Page #264 -------------------------------------------------------------------------- ________________ संस्कृतभाषाया महत्त्वम् the linguistic phenomena as a scientific system and developed their grammar so highly that even today modern Philology can use their attainments as a foundation. २४७ -Winternitz H.I.L. P. 8. संस्कृतभाषाश्रयेण सर्वा अपि भारतीया भाषाः सारल्येनावगन्तुं पार्यन्ते । यतो हि तत्र प्रतिशतं षष्टि-प्रतिशतादारभ्य अशीतिप्रतिशतं यावत् संस्कृतशब्दाः प्रयुज्यन्ते । जर्मन-फ्रेञ्च -आङ्ग्लभाषादिष्वपि महती संख्या संस्कृतस्य तत्सम-तद्भव शब्दानाम् । एवं विज्ञायते यत् भाषाविज्ञान- दृष्ट्या संस्कृतभाषा बहुमूल्य निधिः । संस्कृतस्य सांस्कृतिकं महत्त्वम् - सांस्कृतिकदृष्ट्या संस्कृत भाषा अनर्घा प्रेष्ठा च । भारतस्य तु भाषैषा सांस्कृतिको निधिः । निखिलमपि सांस्कृतिकं वाङ्मयं संस्कृतमाश्रित्यैवावतिष्ठते । विश्वसंस्कृतिपरिज्ञानार्थमपि संस्कृतभाषा अपरिहार्या । तुलनात्मक संस्कृतिविचारे संस्कृतभाषेव साहाय्यमाचरति । संस्कृतभाषाश्रयैव संस्कृतिः सुदूरपूर्ववतिषु ब्रह्मदेश श्याम-यव- सुमात्रादि द्वीपेषु प्रचचार । अमेरिका-यूरोपदेशस्थ संस्कृतिष्वपि एतस्या अक्षय: प्रभावः परिलक्ष्यते । धर्मार्थकाममोक्षात्मकपुरुषार्थ चतुष्टयस्य साधनं संस्कृतवाङ्मयमेव । प्रागैतिहासिक-तत्त्वावबोधाय संस्कृतमेवैकं शरणम् । भारोपीयसंस्कृतेः प्राचीनतमरूपावगमाय संस्कृतं विहाय नान्या गतिः । संस्कृतवाङ्मयाश्रयेणैव पाश्चात्त्य-पौरस्त्यसंस्कृत्योः समन्वयः, सम्पर्कः, सङ्गतिश्चावगम्यते । भारतीयसंस्कृतेः विशुद्धरूपज्ञानाय संस्कृतवाङ्मयमेवैकं साधनम् । जैनबौद्धचार्वाकादिसंस्कृतयोऽपि संस्कृतभाषाश्रया एव । भारते भातु भारती - यदि भारतस्य सर्वाङ्गीणा समुन्नतिः काम्यते, सर्वसुखदो विकासश्चाभिलष्यते तर्हि संस्कृतस्य प्रचारः, प्रसारश्च नितराम - निवार्यम् । वैदिकसाहित्याद् उद्भूता सेयं संस्कृतभाषा - परम्परा अद्यावधि जीवति - तमाम् । मृतभाषाभाषिणो जनाः संस्कृतवाङ्मयज्ञानाभावात् स्वीयं मूढत्वमेव प्रदर्शयन्ति । हर्षावहोऽयं विषयो यदद्यत्वेऽपि संस्कृत-साहित्यं, काव्यानि, नाटकानि, गीतिकाव्यानि, गद्यसाहित्यम् विविधाः पत्र-पत्रिकाश्च प्रतिसंवत्सरं प्रकाश्यन्ते, सहस्रशो लक्षशश्च तेषामध्येतारो दरीदृश्यन्ते । भारतसर्वकारोऽपि विषयेऽस्मिन् जागरूकतां प्रदर्शयति । अक्षयोऽयं निधिः सर्वथा सर्वदा च अध्येयोअनुशीलनीयः, सम्मान्यो, विकासनीयश्च । एतदेव संप्रार्थ्य विरम्यते यत्-सुवर्णा सद्वृत्ता विविधललितालङ्कृतिचणा, गुणाढ्या निर्दोषा विबुधनिवहाराधितपदा । सुरीतिप्रख्याता भवविभवरूपाश्रितरसा, सदेयं शर्वाणी जयतु सुरवाणीह सततम् ॥ 1 Page #265 -------------------------------------------------------------------------- ________________ ७४. संस्कृतस्य रक्षार्थ प्रसारार्थ चोपायाः संस्कृतं संस्कृतिश्च–सुविदितमेतत् समेषामपि शेमुषीमतां यद् भारतीया संस्कृति धिगन्तुं पार्यते संस्कृतज्ञानमन्तरा। संस्कृतिमन्तरेण निर्जीवं जीवनं जीविनः । संस्कृतिहि स्वान्तस्य संस्की, सद्भावानां भावयित्री, गुणगणस्य ग्राहयित्री, धैर्यस्य धारयित्री, दमस्य दात्री, सदाचारस्य संचारयित्री, दुर्गणगणस्य दमयित्री, अविद्यान्धतमसस्यापनोदयित्री, आत्मावबोधस्यावगमयित्री, सुखस्य साधयित्री, शान्तेः सन्धात्री च काचिदनुत्तमा शक्तिः । सेयं संस्कृतिरजस्रं रक्षणीया पालनीया परिवर्धनीयेति भारतीयसंस्कृतेः समुद्धारायावबोधाय च संस्कृतज्ञानमनिवार्यम् । ___ संस्कृतस्य महत्त्वम्-- समग्रमपि पुरातनं भारतीयं वाङमयं संस्कृतमाश्रित्यावतिष्ठते इति सुविदितम् । न केवलं भारतीयसंस्कृतिरक्षणार्थमेवावश्यकं संस्कृतमपितु संस्कृतमेतत् विविधसंस्कृतिप्रसारसाधनम्, भारतीयभाषाणामभिवृद्धिहेतुः, राष्ट्रभाषायाः समुन्नतेः साधकम्, आर्यभाषाया गौरवस्य प्राणभूतम्, विश्ववाङ्मयस्य पथिप्रदर्शकम्, जीवनदर्शनस्य दर्शकम्, आचारशास्त्रस्य शिक्षकम पुरुषार्थस्य प्रयोजकम, विविधविरुद्धसंस्कृतिसमाहारसाधकम् , प्रान्तीयानां प्रादेशिकानां च विकृतीनां विवादानां संघर्षाणां च प्रशमनम्, राष्ट्रियभावनायाः सद्वृत्ततायाश्चाभिवृद्धमलम्, वैदिकवाङ्मयालोकस्य प्रसारहेतुः, आध्यात्मिक्या भौतिक्याश्च समुन्नतेः साधनमिति सुतरामवधेयम् । संस्कृत्या वाङ्मयेन च विहीनस्य देशस्य जातेश्चाधःपतनमनिवार्यम् । द्वयोरेवैतयोः संरक्षणेन संवर्धनेन च समेधते श्रीः सर्वस्या अपि संसृतेः इत्येतदेवावधार्य संस्कृतस्य संरक्षणस्य प्रचारस्य प्रसारस्य च भूयस्यावश्यकताऽनुभूयते साम्प्रतम् । संस्कृतस्य प्रसारोपायाः-अस्य रक्षणप्रचारप्रसारोपायाश्च समासतोऽत्र विविच्यन्ते समुपस्थाप्यन्ते च (१) संस्कृतकाठिन्यापनोदनम्-क्लिष्टा, दुरूहा, दुर्बोधा चेयं गीर्वाणगीरिति लोकानां विचारः प्रशमं नेयः । सरला, सुबोधा, प्रसादगुणोपेता चेयं प्रयोज्या व्यवहार्या च । सरला सुबोधैव च भाषा प्रचरति प्रसरति चेत्यवगन्तव्यम् । २) संस्कृतव्याकरणस्य सरलीकरणम्-संस्कृतस्य प्रसारे प्रचारे च संस्कृतव्याकरणस्य काठिन्यं महद् बाधकम् । व्याकरणं सरलं कार्यम् । सूत्राणां कण्ठस्थीकरणे न बलमाधेयम् । व्याकरणनियमा अनुवादद्वारा प्रयोग-शैल्या च शिक्षणोयाः । प्रयोगशैल्याऽवगता नियमास्तथा बद्धमूला भवन्ति, यथा नान्येनोपायेन । ( ३ ) नवशब्दानाम् आत्मसात्-करणम्-विविधासु भाषाषु प्रयुज्यमाना नवभावावबोधका नव्याः शब्दाः संस्कृतशब्दावल्यां संस्कृतस्वरूपप्रदानद्वारा आत्मसात् करणीयाः । संसृतौ व्यवह्रियमाणाः सर्वा एव प्रमुखा भाषाः शैलीमिमामाश्रयन्ते । प्रकारेणैतेन तासां भाषाणां प्रगतिरुद्गतिर्जागृतिश्च संसूच्यते । समादृताऽऽसीत् शैलीयं प्राक् संस्कृतेऽपि । Page #266 -------------------------------------------------------------------------- ________________ संस्कृतस्य रक्षार्थं प्रसारार्थं चोपायाः २४९ ( ४ ) नवभावावबोधनम् — विश्वसाहित्ये प्रयुज्यमानाः सर्वेऽपि भावाः सहर्ष - माश्रयणीयाः प्रयोज्याश्च । नवभावावबोधनार्थं नूतना शब्दावली प्रयोज्या निर्मातव्या वा । विदेशीयनवशब्दग्रहणे न संकोच प्रवृत्तिरास्थेया । ( ५ ) संस्कृतभाषा - व्यवहारः - जीविता समृद्धा च सैव भाषा या लोके व्यवह्रियते प्रयुज्यते च । संस्कृतभाषायाः प्रचाराय प्रसाराय चानिवार्यमेतद् यत् संस्कृतज्ञाः संस्कृतमाश्रित्यैव व्यवहरेयुः । भाषणे लेखने वादे विवादे संलापे पत्रव्यवहारे च संस्कृतमेव प्रयुञ्जीरन् । ( ६ ) नवग्रन्थ रचना - नवीनान् विषयानाश्रित्य संस्कृते नवग्रन्थरचना स्यात् । साम्प्रतिके काले प्रचलिताः सर्वेऽपि विषयाः संस्कृतमाध्यमेन सुलभाः स्युः । एतदर्थं विविधविद्यानिष्णाताः संस्कृतज्ञाः सविशेषमुत्तरदायित्वं भजन्ते तेषां चैतत्पावनं कर्म । (७) नवविषयाध्ययनम् – संस्कृतज्ञानां कृतेऽनिवार्यमेतद् यत् ते संस्कृताध्ययनेन सहैव भूगोलमैतिह्यं विज्ञानादिविषयान् विदेशीया भाषाश्चाधीयीरन् । विविधविद्याध्ययन मन्तरेणाशक्यं धियो विस्फुरणम् । ( ८ ) अन्वेषण - कार्यम् – संस्कृतेऽन्वेषणकार्यंस्य महत्यावश्यकता । अन्वेषणकार्यमेव गौरवाधायि । अन्वेषणेनैव वाङ्मयस्य महत्त्वमुत्कर्षश्चावगम्यते । एतदर्थं महान् श्रमोऽपेक्ष्यते । (९) संस्कृतग्रन्थानामनुवादः – संस्कृतस्य प्रचारार्थं प्रसारार्थं चावश्यकमदो यत् सर्वेषामपि प्रमुखानां संस्कृतग्रन्थानां न केवलं भारतीयासु भाषास्वेव प्रामाणिकोऽनुवादः स्यादपि तु विश्वस्य सर्वास्वेव प्रधानासु भाषासु तेषामनुवादः स्यात् । कार्यं चैतत् सर्वकारप्रयत्नेन तत्सहयोगेन , सम्भवति । ( १० ) सुलभग्रन्थमालाप्रकाशनम् — सर्वेषामपि प्रमुखानामुपयोगिनां च संस्कृतग्रन्थानां सानुवादम् अल्पमूल्यकं संस्करणं प्रकाशितं स्यात् । महार्घाणां चाकरग्रन्थानां सारांशरूपं संस्करणं सानुवादं प्रचारार्थं प्रकाशितं स्यात् । (११) वैज्ञानिक शैलीसमाश्रयणम् - वैज्ञानिकों शैलीं समाश्रित्य संस्कृतं प्रारिप्सूनां बालानां संस्कृतप्रेमिणां च कृते सुबोधा हृद्याश्च ग्रन्थाः प्रणेयाः । ( १२ ) संस्कृतस्यानिवार्यशिक्षणम् - आर्य ( हिन्दी ) - भाषया सहैव संस्कृतमपि सर्वेषु विद्यालयेष्वनिवायं स्यात् । संस्कृतमूलकमेव हिन्दीभाषाज्ञानं श्रेयोवहमिति समेषां सुधियाम् अत्रैकमत्यम् । (१३) पठनपाठनपद्धति परिष्कारः - संस्कृतस्य प्रचारार्थमावश्यकमेतद् यत् संस्कृतस्य पठनपाठनप्रणाली साम्प्रतिकीं वैज्ञानिकों पद्धतिमनुसरेत् । तत्र च स्यादावश्यकः परिष्कारः । (१४) विलुप्तग्रन्थोद्धारःसंस्कृतस्यानेके महार्घा ग्रन्था विलुप्ता विलुप्तप्राया जीर्णाः शीर्णा वा यत्र तत्रोपलभ्यन्ते । तेषामभ्युद्धार आवश्यक: । (१५) सर्वकार सहयोगः -- सर्वमुपरिष्टादभिहितं सर्वकारसहयोगेनैव सम्भवति । सर्वकारस्य कर्तव्यमेतद् यद् स संस्कृतज्ञानमाद्रियेत, संस्कृतवाङ्मयप्रसारे साहाय्यमाचरेत्, राजकीयवृत्तिषु संस्कृतज्ञानम् अनिवार्यं कुर्यात्, संस्कृतशिक्षोद्धारे प्रयतेत च । -- Page #267 -------------------------------------------------------------------------- ________________ ७५. भारतीय-शिक्षापद्धतौ अपेक्षिताः परिष्काराः (भारतीय-शिक्षा-पद्धत्या गुणदोषविमर्शः) अज्ञानान्धतमःप्रणोदप्रवणा लोकोपकृत्येकदृक् पाषण्डादिनिवारणकमतिदा मोदावहा मानिनाम् । सद्वृत्तेन विवर्धिताखिलगुणा या शस्यते ज्ञानिषु या देहात्ममनोविकासरुचिरा शिक्षाऽस्तु सा श्रेयसे ॥ (कपिलस्य) शिक्षायाः स्वरूपम्--शिक्षा कीदृशी स्यात् ? इति प्रश्नः प्राक्कालादेव विचार-चर्चा-विषयः । 'सा शिक्षा या विमुक्तये', 'या लोक-परलोकोभयसाधनी स विद्या'। आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते । अथर्व० ११-५-१७ ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापति परमेष्ठिनं विराजम् । गर्भो भूत्वाऽमृतस्य योनाविन्द्रो ह भूत्वाऽसुरांस्ततह ॥ अथर्व० ११-५-७ इत्यत्र जितेन्द्रियत्वं सर्वोत्कृष्ट-गुण-संपन्नत्वं दुश्चरित्रादिवारणं शिक्षाया उद्देश्यं निरूप्यते । एवं यया सर्वाङ्गीणा समुन्नतिः संजायते सा शिक्षा । भारतीय-शिक्षा-पद्धत्या गुणा दोषाश्व--साम्प्रतिकी भारतीया शिक्षापद्धतिः वर्गादिभेदम् अनाश्रित्य सर्वजनसुलभेत्येव भारतीयशिक्षा-पद्धतेर्गुणः । अपरतो दोषाश्चेद् लक्ष्यन्ते तर्हि शिक्षा-पद्धतिरियं विविधासाध्यरोग-ग्रस्ता। तत्र प्रधानत्वेनोल्लेख्या दोषाः सन्ति--१. आस्तिक्य-धार्मिकता-चरित्र-जितेन्द्रियत्व-ब्रह्मचर्य-सत्यभाषणादि-गुणानाम् उपेक्षा । २. स्वार्थबुद्धेः, असंयमस्य, अनैतिकतायाश्चाप्रतिहतः प्रसारः । ३. शिक्षा-पद्धतेर्दोषात् परीक्षाणां दोषाकुलत्वम् । ४. परीक्षाविधेर्दूषिता प्रणाली। ५. उपाधीनाम् अवमूल्यनम् । ६. वृत्ति-प्राप्ति-समस्योत्पादनम् । ७. दूषित-राजनीतेः प्रवेशः । ८. श्रमेश्रमकार्ये वाऽरुचिः । ९. शिक्षाया अर्थकरीत्वाभावः ।। शैक्षिकदृष्ट्याऽपेक्षिताः परिष्काराः--(१) शैक्षिक-स्तरोन्नयनम्-- शिक्षास्तरे सर्वतोऽवनतिरवलोक्यते । वैदेशिक-शिक्षा-पद्धति-स्तर-दृष्ट्या भारतीय-शिक्षास्तरोऽवनततमो विज्ञायते । विशेषतश्च विज्ञान-इंजीनियरिंगमेडिकल-टेक्निकल-विषयेषु । शिक्षा-स्तरोन्नयनं विना न शिक्षा श्रेयसे भविष्यति । (२) शिक्षणपद्धतौ परिष्कारः--वर्तमान-शिक्षापद्धतौ न तथा विषयबोधे बलम् आधीयते, यथा रटन-पद्धतौ । विषयबोधम् अन्तरेण न तत्त्वार्थावगमः। (३) परीक्षापद्धतौ परिष्कारः--परीक्षा-पद्धतौ आमूलचूलं परिवर्तनम् इष्यते। साम्प्रतिकी परीक्षा-पद्धतिर्योग्यता निर्धारणं विहाय, येन केनापि प्रकारेण साधुना असाधुना वापायेन परीक्षोत्तरणम्, तत्र च योग्य-श्रेणीप्रापणं समर्थयते । (४) शोध-प्रवृत्युद्भावनम्--छात्रेषु विषयान् प्रति स्वाभाविकी अभिरुचिः उदियात्, येन जीवने तस्य तत्त्वावगाहित्वं गम्भीराध्ययनं च संपद्येत । पल्लवग्राहि-पाण्डित्यं न स्वकल्याणाय न च देशकल्याणाय Page #268 -------------------------------------------------------------------------- ________________ भारतीय-शिक्षापद्धती अपेक्षिताः परिष्काराः २५१ संपत्स्यते । (५) अनुपयोगि-विषय-निःसारणम्-शिक्षाक्रमे, प्रधानतो विद्यालयीय-शिक्षाक्रमे, बहवोऽनुपयोगिनो विषयाः पाठ्यत्वेन निर्धार्यन्ते । तेषां पाठ्यक्रमाद् निःसारणम् आवश्यकम् । यथा-उर्दू-भाषाध्ययनम्, त्रिभाषाफार्मलाप्रयोग-रूपेणानिवार्यत्वेन आंग्लभाषाध्ययनं दाक्षिणात्यभाषाध्ययनं वा । साम्प्रतं विद्यालयेषु शिल्पविषयाणां शिक्षणं केवलं मनोरञ्जनायैव भवति । ___ राष्ट्रिय-दृष्टयाऽपेक्षिताः परिष्काराः-(१) राजनीति-निष्कासनम्छात्रसंघ-माध्यमेन छात्रेषु राजनीतिरारोप्यते । अनिच्छन्तोऽपि छात्रा नेतवर्गेण विश्वविद्यालयादिषु स्ववाद-प्रचारार्थ प्रेर्यन्ते, तदर्थं धनव्ययश्च विधीयते, एतत् सर्वथा गर्हणीयम् । (२) देशभक्ति-भावोदयः-छात्रेषु देशभक्ति-भावोदयाय शिक्षानिदेशकैर्न किश्चिद् निर्दिश्यते । फलस्वरूपम् अधीतिनो विद्यार्थिनो देशभक्तिभावना-शून्याः संलक्ष्यन्ते । (३) क्रीडादीनां सुव्यवस्था-छात्राणां क्रीडा-विषये नाभिरुचिर्जागर्यते । क्रीडायोग्यता-विरहितं जीवनं निष्फलं निरर्थकं च। सामाजिकदृष्टयाऽपेक्षिताः परिष्काराः-(१) श्रम-महत्त्व-शिक्षणम्आधुनिक-शिक्षायां शारीरिक-श्रम-महत्त्वं न शिक्ष्यते, न च प्रशस्यते । अतएव स्वावलम्बनभावोऽपि न जागति । शारीरिक-परिश्रमे, क्षेत्रादिषु कार्यकरणे, स्वच्छता-कार्य-संपादने गौरवमेवावगन्तव्यम् । न च तत्र लज्जायाः किंचित् कारणम् । एवं महात्मनो गान्धेः सिद्धान्तम् अनुसृत्य श्रममहत्त्वं शिक्षणीयम् । (२) जातीय-दोष-निराकरणम्-केचन विद्यालया महाविद्यालयाश्च ब्राह्मणक्षत्रिय-वैश्यादि-वर्ग-विशेषम् आश्रित्य संचाल्यन्ते । एतत् सर्वथा दोषावहम् । सम्प्रदाय-भावनयापि प्रवर्तिता आङ्ग्ल-यवनादि-विद्यालया देशोन्नती बाधकाः, सम्प्रदाय-विष-प्रवेशेन च दोषम् आतन्वते । आर्थिक-दृष्टयाऽपेक्षिताः परिष्काराः-(१) शिक्षाया अर्थकरीत्वमशिक्षाया अर्थकरीत्वम् अनिवार्यम् । याऽधीतिनां जीविकानिर्वाहं वृत्तिव्यवस्था च न साधयति, न सा शिक्षा श्रेयसे । (२) विश्वविद्यालयेषु छात्रप्रवेशनियन्त्रणम-विश्वविद्यालयेषु येऽध्ययनरुचयः, व्युत्पन्नाः, विविधशास्त्रदक्षाः, त एव प्रवेश्याः। तत्र च विषयविशेषज्ञताम् अनुरुध्याध्यापनव्यवस्था स्यात् । केवलम् उपाधिप्राप्त्यर्थं छात्रप्रवेशो न स्यात् । ( ३ ) औद्योगिक प्रशिक्षणम्विद्यालयेषु तथा औद्योगिकं यान्त्रिकं हस्तकलाविषयकं विविधकला-विषयकं शिक्षणं स्यात्, यथा कुटीरोद्योगे लघुद्योगे च छात्राणां ज्ञानम् उपयुज्येत । एवं वृत्ति-समस्या कथंचिद् निराकतुं शक्यते । (४) न करणिकोत्पादनम्करणिक ( क्लर्क, बाबू )-वर्गस्योत्पादनं न शिक्षाया उद्देश्यम् । (५) शिक्षायाः स्वल्पव्ययसाध्यत्वम्-साम्प्रतिकी शिक्षा तथा व्ययसाध्या, यथा निर्धनानां सामान्यजनानां चोच्चशिक्षा-ग्रहणं सुदुष्करमेव । एतद्दोषनिराकरणं शिक्षाशास्त्रिभिश्चिन्तनीयम् । Page #269 -------------------------------------------------------------------------- ________________ २५२ संस्कृतनिबन्धशतकम् . नैतिक-दृष्टयाऽपेक्षिताः परिष्काराः-(१) आचारशिक्षा-सत्य-ब्रह्मचर्यादि-महत्त्वशिक्षणम् अनिवार्य स्यात् । अन्तरेण नैतिकशिक्षां जीवनं पाशविकम् आसुरं च प्रवर्तेत । (२) मातृवत् परदारेषु-परयोषित्सु मातृवत् परकन्यासू च भगिनीवद् व्यवहरणं शिक्ष्यते चेत् तहि बहवः समस्याः स्वयमेव समाधास्यन्ते। (३) भोग-विलासिता-निराकरणम्-यथायथा वर्धते विषयभोगेप्सा, तथा तथा जीवनं दोषम् अन्वेति । विषय-भोगेच्छा-वृद्धिरेव छात्रेषु अनैतिकतायाः चारित्र्यभ्रंशस्य च मलम् । (४) गुरु-शिष्य-संबन्ध:-गुरुशिष्याणां सम्बन्धस्तथाविधः स्याद् यथा द्वावेव अन्योन्य-हित-सम्पादन-पूर्वक सामञ्जस्यं सम्पादयेताम् । 'सह नाववतु सह नौ भुनक्तु । सह वीयं करवावहै ।' साम्प्रतं गुरु-शिष्ययोर्न तथा सामञ्जस्यमिति चिन्त्यम् । ___सांस्कृतिक दृष्ट्याऽपेक्षिताः परिष्काराः-(१) सांस्कृतिकदृष्टिः-छात्रेषु सांस्कृतिकदृष्ट्या विकासः स्याद् येन धर्माभिरुचिः, चरित्रोन्नती अभिरुचिः, विविध-नृत्य-गीत-वादत्रादि-कलासु प्रवृत्तिः, विनयादि-गुण-समन्वयश्च स्यात् । सांस्कृतिकोन्नति संपन्नैव शिक्षा श्रेयसे स्यात् । (२) यन्त्रीकरणत्यागःछात्राणां यन्त्रवत् संचालनं स्नेह-सौहार्दादि-गुण-व्यपेतत्वात् तेष प्रेम-करुणादिहीनत्वं जनयति । न तादृशी शिक्षा श्रेयसे, लोकहिताय च।। संस्कृतभाषा-दृष्टयाऽपेक्षिताः परिष्काराः-(१) आर्षपद्धतेरुन्नयनम्-प्राचीना आर्षपद्धतिः सर्वथोपेक्ष्यते त्यज्यते चेति राष्ट्र-गौरवप्रतिकूलम् । गुरुकुलानां शिक्षापद्धती यथा आचारस्य, ब्रह्मचर्यस्य, सात्त्विकतायाः, गुरुशिष्य-सद्व्यवहारस्य, चारित्रिकोन्नतेश्च समन्वयः, तथा न आधुनिकशिक्षा-पद्धतौ। (२) पाश्चात्त्य-प्रभाव-त्यागः-भारतीय-शिक्षा-पद्धती पाश्चात्त्यप्रभावो यथा यथा वर्धते तथैवेयं पद्धतिर्दोषपूर्णत्वम् उपैति । पाश्चात्त्यप्रणाली, आंग्ल-भाषा-संरक्षणम्, बाह्याडम्बरश्च यथा पाश्चात्त्यदेशानुकलं न तथा भारतदेशानुकलं, भारतगौरवानुरूपं च । लार्ड-मैकालेप्रभृतीनां शिक्षाविषयकं मतं भारतगौरवभ्रंशाय भारतीय-संस्कृति-ध्वंसाय च । (३) संस्कृत-पाठशालादीनाम् अनुपेक्षणम्--प्राचीन-पद्धतिम् अनुसत्य प्रवर्तिताः संस्कृतपाठशालाः संस्कृतमहाविद्यालयादयः सपत्नीकसुता इवोपेक्ष्यन्ते, दारिद्रयानल-संधुक्षिताश्च संप्रेक्ष्यन्ते । त्रिभाषा-फार्मला तु संस्कृतभाषायाः समूलोन्मूलनायैव समजनि। एतदनुसारं संस्कृतस्य शिक्षाक्रमे स्थानमेव सुदुष्करम् । (४) धार्मिक-प्रन्थाध्ययनम्--धार्मिकग्रन्थानाम् अध्ययनं चारित्रोन्नतिसाधनं सांस्कृतिकसमुत्कर्षार्थं च । वेद-गीता-रामायणमहाभारतोपनिषदादीनां संकलिता महत्त्वपूर्णाः सन्दर्भा अनिवार्यत्वेन पाठयाः स्युः। तादृशाः सन्दर्भाः सांस्कृतिकाभ्युदयाय लोकहिताय चारित्रिकोन्नत्यै च भविष्यन्ति । • Page #270 -------------------------------------------------------------------------- ________________ ७६. शिक्षा मनोविज्ञानम् ( Educational Psychology) ( १. शिक्षा-दर्शनम्, २. शिक्षाया उद्देश्यम् ) सत्याचार-विचारशिक्षणपरा सर्वाङ्गिकीमुन्नति छात्राणां विदधद् विवेक-विनयाचार-प्रचारकधीः। चारित्र्योन्नतिसाधिका गुणगणैः सारल्यसंसाधिका लोकेषु प्रचरेत् सुशिष्यजनिदा शिक्षा सदा कामधुक् ॥ (कपिलस्य) शिक्षायाः प्राचीनतम रूपम्-शिक्षायाः प्राचीनतम रूपम् अथर्ववेदे प्राप्यते । तत्र शिक्षाया उद्देश्यं गुरुशिष्य-सम्बन्धादिकं च विस्तरशो निरूप्यते । तत्र ज्ञान-सम्पन्नत्वस्य चिन्तनशक्तेश्च महत्त्वं प्रतिपाद्यते । ज्ञानेन सह संयमस्य धारणाशक्तेश्च महत्त्वं निर्दिश्यते । वेदानुकूलाचरणम् अनिवार्यत्वेनादिश्यते। पुनरेहि वाचस्पते देवेन मनसा सह । अथर्व० १-१-२ । वाचस्पतिनि यच्छतु मय्येवास्तु मयि श्रुतम् । अथर्व० १-१-३ संश्रतेन गमेमहि मा तेन विराधिषि ॥ अथर्व०१-१-४ अथर्ववेदे छात्रस्य ब्रह्मचर्यपालनम् अनिवार्यत्वेनादिश्यते । आचार्यस्य दुर्धर्षत्वम्, संयमित्वम्, शीलवत्त्वं च प्रशस्यते । तत्र 'समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुम् उपगच्छेदिति' पद्धतिराश्रीयते । आचार्यों ब्रह्मचर्येण ब्रचारिणमिच्छते । अथर्व०११-५-१७ आचार्यो मृत्युवरुणः सोम ओषधयः पयः । अथवं० ११-५-१४ ब्रह्मचर्यति समिधा समिद्धः काष्णं वसानो दीक्षितो दीर्घश्मश्रः। । अ० ११-५-६ गुरु-शिष्य-सम्बन्ध-विवेचनायां स्फुटमेतद् निर्दिश्यतेऽथर्ववेदे यद् आचार्योऽध्येतृषु मातृवत् पितृवच्च स्निह्यति व्यवहरति च। आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः । अथवं० ११-५-३ तद् ब्रह्मचारी प्रायच्छत् स्वान् मित्रोऽध्यात्मनः । अ० ११-५-१५ श्रमस्तपश्च छात्रस्य शस्त्रद्वयम् । तपःश्रमाभ्यां सर्वं लोकं स पूष्णाति । ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपति । अ० ११-५-४ शिक्षाया उद्देश्य विविच्यते तर्हि वेदेषु शिक्षोद्देश्यरूपेण अध्यात्मज्ञानम्, आस्तिक्यम्, शारीरिक-वाचिक-मानसिक-हार्दिक-बौद्धिक-समुन्नतिः प्रतिपाद्यते । एवं सर्वविधसमुन्नत्याऽन्तेवासी सर्वदेवाधिवासः सम्पद्यते । ब्रह्मचारी ब्रह्म भ्राजद बिति तस्मिन् देवा अधिविश्वे समोताः। प्राणापानौ जनयन्नाद् व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् । अ० ११-५-२४ Page #271 -------------------------------------------------------------------------- ________________ २५४ संस्कृतनिबन्धशतकम् आचार्यस्य कर्तव्यरूपेण निर्दिश्यते यत् स छात्रेष्वाचारं ग्राहयेत् । सदाचारं शिक्षयेत्, व्युत्पत्तिम् आदधीत, ज्ञान-समृद्धि निष्पादयेत्, दुर्गुणगणवारणपुरःसरं सद्गुणान् आदध्याद् । इन्द्रो ह भूत्वासुरांस्ततह । अथर्व० ११-५-७ आचार्यः कस्मात् ? आचार्य आचारं ग्राहयति । आचिनोत्यर्थान् । आचिनोति बुद्धिमिति वा। निरुक्त १-५-४ तैत्तिरीयोपनिषदि गुरु-शिष्य-सम्बन्धमाश्रित्य प्रोच्यते यद्-- . आचार्यः पूर्वरूपम्। अन्तेवास्युत्तररूपम् । विद्या सन्धिः। प्रवचनं सन्धानम् । इत्यधिविद्यम् । तैत्तिरीयो० १-३-३ छात्राणां शम-दमादि-गुणयुक्तत्वं प्रतिपाद्यते। विद्यायाश्च श्रीवर्धकत्वं शिष्यते। दमायन्तु ब्रह्मचारिणः स्वाहा । शमायन्तु ब्रह्मचारिणः स्वाहा । यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तैत्ति० १-४-२,३ सत्य-तपोदम-शमादिभिः सहैव स्वाध्यायः प्रवचनं चानिवार्यत्वेनानुशिष्यते । अतएव दीक्षान्तोपदेशे आचार्योऽन्तेवासिनम् अनुशास्ति-- सत्यं वद । धर्म चर। सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम् । तैत्ति० १-११-१ वैशेषिकदर्शने 'यतोऽभ्युदय-निःश्रेयस-सिद्धिः स धर्मः' इत्येनेन धर्मलक्षणेन सदैव शिक्षाया उद्देश्यम् अभ्युदयस्य निःश्रेयसस्य चावाप्तिनिर्दिश्यते । 'विद्ययाऽमृतमश्नुते' 'सा विद्या या विमुक्तये' 'ऋते ज्ञानात् न मुक्तिः' इत्यादिभिः सुभाषितैः, 'सा शिक्षा या ब्रह्मगतिप्रदा' इति शङ्कराचार्यवचनेन चाध्यात्मज्ञानावाप्तिर्मोक्षाधिगमश्च शिक्षाया लक्ष्य निर्धार्यते । शिक्षा-विषये पाश्चात्त्यविदुषां मतम्--सुकरात-महोदयस्याभिमतं यद् व्यक्तिगतभेद-वारणेन सार्वभौम-सत्यज्ञानं शिक्षाया उद्देश्यम् । स शिक्षा व्यष्टेः समष्टेश्च समुन्नतिसाधनं मनुते । प्लेटो-महोदयः शिक्षाया उद्देश्यरूपेण सच्चरित्रता-विनय-संस्कृति-सभ्यता-गुणग्राहिता-कलाप्रियत्वादि-गुणानां समन्वयं करोति । अरस्तू-महोदयः संस्तौति यत् सा शिक्षा साधीयसी याऽध्यात्मदर्शनेन सममेव लोक-व्यवहार-दर्शनस्यापि सामञ्जस्यं साधयेत् । शिक्षा उदात्तभावोद्दीपनेन सहैव आत्मनश्च परिष्काराय स्यात् । शिक्षायाम् आदर्शवादस्य प्रवर्तकाः पाश्चात्त्यशिक्षाशास्त्रिणो वर्तन्तेप्लेटो (अफलातून )-दकार्ते-बर्कले-फिरद्धे-हीगेल-काण्ट-प्रभृतयः। एते Page #272 -------------------------------------------------------------------------- ________________ शिक्षा मनोविज्ञानम् २५५ भौतिकवादापेक्षयाऽध्यात्मप्रवणत्वम् अध्यात्मप्राधान्यं च शिक्षाया जीवनस्य च लक्ष्यं मन्यमानाः शिक्षाक्षेत्रे सादरं स्मर्यन्ते । वास्तविकं सुखं तु मानसिकमेव । विचारवादिनां मतं यद् आध्यात्मिकता विचारवादो वा वास्तविक तथ्यम् । तत्रैव शाश्वत-सत्यादीनां समावेशः । तन्मतानुसारम् इयं विचारसृष्टिनिवस्य आध्यात्मिक-प्रकृतेरेवाभिव्यक्तिः । एतदेव भारतीयैः समर्थ्यते यत्-- मन एव मनुष्याणां कारणं बन्धमोक्षयोः । पंचदशी । महात्मा बुद्धो धम्मपदे धर्मस्य विचारस्य चाधाररूपेण मनसो महत्त्वं प्रतिपादयति । मनोपुवंगमा धम्मा मनोसेट्रा मनोमया। मनसा चे पठेन भासति वा करोति वा । ततो नं दुक्खमन्वेति चक्कं व वहतो पदं । धम्म० १-१ शिक्षाया यथार्थवादि-स्वरूपम्-डेवेनपोर्ट-महोदयस्याभिमतं यत् शिक्षा नैतिक-शिक्षा-दानेन सममेव अर्थकरी जीवनोपयोगिनी च स्यात् । यथार्थवादसमर्थकेषु मल्कास्टर-महोदयः शिक्षाया उद्देश्यं बालकस्य सर्वाङ्गीण विकासं मन्यते । शिक्षा च मातृभाषामाध्यमेन स्यात् । शिक्षाशास्त्री फ्रांसिस बेकनमहोदयः केवलं पुस्तकोय-शिक्षाया निकृष्टत्वं प्रदर्श्य शिक्षायाः पूर्ण-व्यावहारिकीकरणं समर्थयते । शिक्षायाः लक्ष्यं यत् मानवः शिक्षामवाप्य प्रकृतौ स्वाधिकारं संस्थापयेत्, मानवं च समाजहितकरं निर्मातं साहाय्यम् आचरेत् । जर्मनशिक्षाशास्त्री राटेक-महोदयः समर्थयते यद् मातृभाषामाध्यमेनैव विज्ञानविषयाणां कलाविषयाणां चाध्यापनं कार्यम् । रटनक्रिया परिहार्या । वस्तुज्ञानम् अनुभवमूलकं परीक्षण-मूलकं च स्यात् ।। कमीनियस-महोदयः शिक्षाया उद्देश्यं प्रतिपादयति यद् ज्ञान-विज्ञानद्वारा मानव-हृदये नैतिक-धार्मिक-भावनानां समुद्बोधनं स्यात् । मानवजीवनस्य लक्ष्यम् ईश्वर-सान्निध्यम् अवाप्य आनन्दानुभूतिः स्यात् । स मातभाषाऽध्ययनम् आवश्यकं मनुते । स बालानां ताडनादिकमपि गर्हयति । स समर्थयते यत् शिक्षायाः सर्वजनीनत्वं स्यात् । वर्ग-विभेद-परिहार-पूर्वकं शिक्षासुविधायां साम्यं स्यात् । मनोवैज्ञानिक-पद्धत्या तथा शिक्षणं स्याद् यथा तत्रत्यं वातावरणं तादृशं मधुरं स्निग्धम् आकर्षकं च स्याद्, येन बालाः स्वयमेव विद्यालयं जिगमिषवो भवेयुः । कमीनियस एव सर्वप्रथमं सार्वजनिक-शिक्षायाः प्रचारकोऽभूत् । शिक्षाशास्त्रिणः स्पेन्सर-महोदयस्याप्यभिमतं यत् शिक्षा बाह्याभ्यन्तरावस्थयोः साम्यं सामञ्जस्यं च संस्थापयेत् । थार्नडाइक-महोदयो मनुते यत् शिक्षा Page #273 -------------------------------------------------------------------------- ________________ २५६ संस्कृतनिबन्धशतकम् तत् साधनं विद्यते येन वर्गस्य समाजस्य वाऽनुभवजातं शिक्षाथिनं प्रति प्राप्यते । येन विधिना ते समाजानुभवम् आश्रित्य आत्मोत्कर्षे क्षमा भवेयुः । शिक्षाया उद्देश्यम्-यदि समस्तरूपेण शिक्षाया उद्देश्यं विविच्यते तर्हि वक्तुं पार्यते यत् तादृशी शिक्षा श्रेयस्करी या मानवानां जीविकोपार्जने साहाय्यम् आचरेत्; तेषां बौद्धिक विकासम् आपादयेत्; मानवं सुसंस्कृतं सभ्यं च विधाय तत्र सांस्कृतिकम् उत्कर्ष संपादयेत्; जीवनस्य च सर्वाङ्गीणं विकासम आपाद्य पूर्णत्वं संसाधयेत् । चरित्र-निर्माणेन नैतिकताया विकासनम् , स्वार्थपरता-उच्छलतादिप्रवृत्तीनां निरोधेन जीवनं सामाजिक कुर्याद्, यथा व्यष्टेः समष्टेः, व्यक्तः समाजस्य च सामञ्जस्य-पूर्णः समन्वयः स्यात्; स्वावलम्बनभावना विकसेत्; उत्तरदायित्वभावना प्रचरेत्; सर्वासु सम-विषमासु परिस्थितिषु कार्यसंपादन-क्षमता संजायेत । बालकानां तथाविधं सर्वाङ्गीणम् उन्नयनं स्याद् यथा स्वस्थ शरीरे स्वस्थं मनः, कर्मठे देहे व्यावहारिकी बुद्धिः, मोक्षावाप्तिसाधकं ज्ञानं च विलसेत् । भारतीय-शिक्षाविदां मतम्-शिक्षाविदो महर्षेर्दयानन्दस्याभिमतं यत् शिक्षार्थ गुरुकुलीया पद्धतिरेव श्रेष्ठा । गुरुकुलीयादर्शानां च संस्थापना स्यात् । रवीन्द्रनाथठाकुर-महोदयो रूसो-महोदयस्य मतम् अनुसृत्य प्राकृतिक वातावरणे प्रकृति-सहयोगमूलकम् उन्मुक्त-शिक्षा-ग्रहणं श्रेयस्करं मनुते । पण्डित मदनमोहनमालवीयः शिक्षाया उद्देश्यम्-सच्चरित्रताम, सत्य-ब्रह्मचर्य-स्वाध्याय-देशभक्ति-ईश्वरविश्वासादि-सद्गुणग्रहणम्, शारीरिकी पुष्टिम्, आत्मत्याग-भावनायाश्च प्रतिष्ठाम् अङ्गीचकार । महात्मा गान्धिस्तु सत्याहिंसा-व्रत-पालनेन सममेव कस्यचित् शिल्पस्य ज्ञानप्राप्त्या स्वावलम्बनस्य आत्मनिर्भरतायाश्च शिक्षणं शिक्षाया उद्देश्यं स्वीचकार । तत्प्रतिपादिता शिक्षापद्धतिौलिक-शिक्षा ( Basic Education )-नाम्ना व्यवह्रियते । स श्रमस्य महत्त्वं प्रत्यपादयत् । एवं समासतः शिक्षाया उद्देश्यं विद्यते-मानवस्य शारीरिकी मानसिको बौद्धिकी नैतिकी च समुन्नतिस्तथा संपादनीया यथा तस्य व्यक्तित्वं पूर्णत्वं प्राप्य स्वोन्नत्या सममेव समाजहितं विश्वहितं च कतु प्रभवेत् । शिक्षोद्देश्यं स्यात् 'सर्वे भवन्तु सुखिनः। Page #274 -------------------------------------------------------------------------- ________________ ७७. अभिनवभारते संस्कृतम् (१. भारतीयभाषासु संस्कृतस्य योगदानम्; २. संस्कृतसाहित्यं तत्प्रवृत्तयश्च; ३. संस्कृतं राष्ट्रभाषा भवितुमर्हति ) अभिनवभारते संस्कृतम्-अभिनवभारते यद्यपि गीर्वाणवाण्याः न तादृशी समुन्नतिः प्रगतिर्वा, तथापि निश्चप्रचम् एतद्वक्तुं सुकरं यत् संस्कृतवाङ्मयं साम्प्रतमपि जीवति, जिजीविषति च । यद्यपि न विक्रमादित्य-भोजादिवत् राजाश्रयित्वम्, तथापि तपःपूताः संस्कृतरक्षणकचेतसः नानाविधाधिव्याधिक्लेशसम्पीडिताः, वृत्त्यभावादिदोषविषण्णाः, स्वाभिमानकधनाः सन्ति तादृशाः ब्रह्मऋणानण्यलन्धुकामाः, बलिदानभावोद्दीप्तमानसाः विपश्चितः. येऽनवरतं संस्कृतकाव्यादिनिर्माणतत्पराः पत्रपत्रिकादिसम्पादनसंलग्नाः संदृश्यन्ते । समासतोऽत्र वर्तमानसमये क्रियमाणं कार्य विवियते प्रस्तूयते च' संस्कृतकाव्यकाराः-वर्तमानसमयेऽपि केचन विद्वत्तल्लजाः काव्यरसलिप्सवो दृश्यन्ते । यथा-यतीन्द्रजीवनचरितकारः शिवकुमारशास्त्री, भारतपारिजात-पारिजातापहार-पारिजातसौरभादिकारः भगवदाचार्यः, दयानन्ददिग्विजयकारः अखिलानन्द-शर्मा, मुनिचरितामृतकारो दिलीपदत्तशर्मोपाध्यायः, भारतानुवर्णनकारः रामावतार-शर्मा, अलिविलाससंलापकारः गङ्गाधरशास्त्री तैलङ्गः, दयानन्ददिग्विजयकारो मेधाव्रत-कविरत्नः, चन्द्रोपालम्भवर्णनकारो रघुनाथ-शास्त्री, प्रतापविजयकारो मथुराप्रसाद-शास्त्री, स्वराज्यविजयकारो द्विजेन्द्रनाथ-शास्त्री, बोधिसत्त्वचरित-गुरुगोविन्दसिंह-महाकाव्यकारो डॉ० सत्यव्रतशास्त्री, राष्ट्रगीताञ्जलिकारो डॉ० कपिलदेव-द्विवेदी, सीताचरितकारो डॉ० रेवाप्रसाद-द्विवेदी, गांधीगौरव-लालबहादुरशास्त्रिचरितबंगलादेशादिकारो रमेशचन्द्र-शुक्ल-प्रभृतयो विशेषतोऽत्र उल्लेखमर्हन्ति ।। संस्कृतनाटककाराः-वर्तमाननाटककृत्सु प्राधान्येन उल्लेख्याः सन्तिसावित्रीचरित-ध्रुवाभ्युदय-पार्वतीपरिणयादिकारः शङ्करलालमहामहोपाध्यायः, छत्रपतिसाम्राज्य-प्रतापविजय-संयोगितास्वयंवरकारो मूलशङ्करमाणिकलालयाज्ञिकः, सामवतादिकारो अम्बिकादत्त-व्यासः, बङ्गीयप्रताप-शिवाजीचरितादिकारो हरिदाससिद्धान्तवागीशः, वीरप्रताप-गांधीविजय-भारतविजयादिकारो मथुराप्रसाद-दीक्षितः, यां चिन्तयामि-प्राणाहुतीकारो वेलणकरः, परिवर्तनकारो डॉ० कपिलदेव-द्विवेदिप्रभृतयः । १. विस्तृत विवरणार्थं द्रष्टव्यम्-लेखककृत-संस्कृत सा० समीक्षात्मक इतिहास, पृष्ठ २५४, २६३, ४४२, ४५३, ५०६, ५२१, ५६०-५७० । Page #275 -------------------------------------------------------------------------- ________________ २५८ संस्कृतनिबन्धशतकम् गद्यकाव्यकाराः—गद्यकाव्यपरम्पराऽपि अविच्छिन्नाऽवलोक्यते । तत्र प्राधान्येनोल्लेख्या गद्यकृतः सन्ति — मन्दारमञ्जरीकारो विश्वेश्वरपाण्डेयः, शिवराजविजयकारो अम्बिकादत्तव्यासः, प्रबन्धमञ्जरीकारो हृषीकेशभट्टाचार्यः, कथापञ्चक-ग्रामज्योतिः-कथामुक्तावली - प्रभूतिकृत् पण्डिताक्षमाराव, कौमुदी - कथा कल्लोलिनीकारो रामशरण त्रिपाठी, विद्वच्चरितपञ्चककारो नारायणशास्त्री खिस्ते, कुमुदिनीचन्द्रकारो मेधाव्रताचार्यः, लोकमान्यतिलकचरितकारो वामनकृष्ण चित्तले, प्रतापचम्पूकारो दिलीपदत्तशर्मा, गांधीचरितकारो भागवताचार्य:, सेतुयात्रानुवर्णनकारो गणपतिशास्त्री कलाकौमुदीकारो रामावतार शर्मा, गांधीचरितकारः चारुदेवशास्त्री च । पत्रपत्रिकाः – संस्कृतभाषायामद्यत्वेऽपि काश्चन साप्ताहिक - पाक्षिकमासिक - प्रेमासिक- पाण्मासिक वार्षिक पत्रपत्रिकाः प्रकाश्यन्ते । ताश्च प्रचुर - प्रचाराः । तद्यथा- - भवितव्यम् (नागपुरम् ), गाण्डीवम् ( बाराणसी), संस्कृतमञ्जूषा ( कलिकाता), गुरुकुल-पत्रिका ( कांगड़ी, हरिद्वार: ), भारतीयविद्या ( बम्बई), भारतोदय: ( गुरुकुल म० वि०, ज्वालापुरम् ), सङ्गमनी ( प्रयागः ), ब्रह्मविद्या ( मोडियार ), सरस्वती-सुषमा (संस्कृत वि० वि०, वाराणसी), सागरिका ( सागर वि० वि० ), पुराणम् (वाराणसी), संस्कृतप्रतिभा ( नई दिल्ली ) । शोधसंस्थानानि – संस्कृते प्राच्य - पाश्चात्त्य - वेज्ञानिक पद्धतिमाश्रित्य प्रायः सर्वेषु विश्वविद्यालयेष्वनुसन्धानकार्यं प्रवर्तते । प्रतिवर्षं बहवो शोधच्छात्राः डॉक्टरोपाधिभिर्विभूष्यन्ते । एतदतिरिक्तं भण्डारकर - शोधसंस्थानम् ( पूना ), विश्वेश्वरानन्द - शोध संस्थानम् ( होशियारपुर ), काशिराज- शोध संस्थानम् (वाराणसी), गङ्गानाथ झा शोध संस्थानम् (प्रयाग), इत्यादीनि संस्थानानि शोधकार्यं प्रसारयन्ति, प्रोत्साहयन्ति च । निर्णयसागर - वेङ्कटेश्वर - स्वाध्यायमण्डल - आयं साहित्यमण्डल - वेदवाणी - गीता प्रेस-प्रभृतयः संस्कृत वाङ्मयप्रसारकार्ये बहुमूल्य साहाय्यमाचरन्ति । भारतीय भाषासु संस्कृतस्य योगदानम् - नास्ति कापि भारतीय भाषा या संस्कृतवाङ्मयमुपेक्ष्व जीवितुं क्षमा । प्रायशः सर्वा अपि संस्कृतनिष्ठाह्मीलिपिसमुद्गता एव भारतीयभाषालिपयः । आर्यभाषाणां व्याकरणमपि संस्कृतभाषाव्याकरणाश्रयत्वं द्योतयते । सर्वास्वपि आयं द्रविड- परिवारभाषासु संस्कृतशब्दानां बाहुल्यमवलोक्यते । क्वचित् षष्टिप्रतिशतं क्वचिच्चाशीतिप्रतिशतं संस्कृतशब्दप्रयोगाः प्रवर्तन्ते । भाषाणां तुलनात्मकाध्ययनेऽपि संस्कृतस्यैव प्राधान्यम् अवगम्यते । संस्कृतवाङ्मयं सम्यगनुशीलितं चेत् न तादृशी काप्यन्या भारतीयाऽऽर्यभाषा या स्वल्पेनैव कालेनाधिगन्तुं न पार्येत । हिन्दीभाषा तु Page #276 -------------------------------------------------------------------------- ________________ अभिनवभारते संस्कृतम् २५९ संस्कृतभाषाया एव आत्मजा । सा सर्वथा मातृऋणात् उन्मुक्ता भवितुं न पारयति । हिन्दीभाषाया समग्रमपि काव्यशास्त्र, दर्शनशास्त्रं, साहित्यं च संस्कृतभाषाश्रयि । संस्कृतसाहित्यं तत्प्रवृत्तयश्च — वैदिककालादारभ्य संस्कृतवाङ्मयं सर्वं - तोदिक्कं प्रवर्तते प्रवर्धते च । जीवनोपयोगि न तत् किमप्यङ्गं यन्नात्र गवेषितं, परिशीलितं विवेचितं च । वेदाः, उपनिषदः, दर्शनानि, साहित्यशास्त्रम्, व्याकरणायुर्वेद धनुर्वेद-नाट्यशास्त्र धर्मशास्त्र- गणित - ज्योतिष वास्तुशास्त्रादिकं संस्कृतवाङ्मयस्य सर्वाङ्गीणत्वं समर्थयन्ते । वैदिकं साहित्यं, पद्य - गद्य - गीतिप्रभेदेन त्रिधा विभज्यते । लौकिकं साहित्यं गद्य-पद्य-चम्पूभेदेन त्रिविधमुपलभ्यते । पद्यात्मकं काव्यं गुरुलघुभेदेन महाकाव्य-काव्य - गीतिकाव्यादिभेदमश्नुते । गद्यात्मकं काव्यं कथाख्यायिकाभेदेन द्विविधम् । दृश्य-श्रव्यत्व-भेदेन काव्यं द्विविधम् । काव्य - महाकाव्यादिकं श्रव्यम् । दृश्यन्तु रूपकम् । नाटक - प्रकरणभाण-व्यायोग-समवकार- प्रहसनादिभेदेन तद्दशधा विभज्यते । उपरूपकाणाम् अष्टादश भेदाः । वैदिक साहित्ये श्रौतसूत्रं धर्मसूत्रं गृह्यसूत्रं, सर्वमपि पाणिनीयमन्यच्च व्याकरणं, सर्वाणि च दर्शनानि, सूत्रपद्धतिमाश्रित्यैवावतिष्ठन्ते । सूत्रपद्धतेः विशदीकरणार्थं भाष्याणां भाष्योपभाष्याणां महती परम्परा, या अनुदिनं प्रवर्धत एव । संस्कृतं राष्ट्रभाषा भवितुमर्हति - पूर्वोक्तेन विवेचनेन स्फुटमेतत् प्रतीयते यत् सर्वा अपि भारतीया भाषाः संस्कृतनिष्ठाः संस्कृतसम्पृक्ताश्च । समग्रे भारतवर्षे निखिले च देशजवाङ्मये संस्कृतस्यैव प्राधान्यं प्रचुरप्रवृत्तित्वं च । नास्ति देशस्य कोऽपि भागो यत्र संस्कृतवाङ्मयं नाधीयते, नावगम्यते, न श्रूयते, न चाद्रियते च । विधानादिसम्पादने भाषायाः विशदत्वं, स्थिरत्वं, गूढभावाभिव्यञ्जनसामथ्यं चापेक्ष्यते । राष्ट्रभाषापदलाभाय लोकप्रियत्वं, सरसत्वं, सम्मानास्पदत्वम्, अक्षयवाङ्मय सम्पत्तिमत्त्वम्, अविवादग्रस्तत्वं च भाषाया नितरामपेक्ष्यते । तदत्र व्यस्तं समस्तं च सर्वथा सुलभम्। संस्कृतवाङ्मयज्ञानमपि सारल्येन स्वल्पेन कालेन च सम्भाव्यते । एवं विचारहशा विविच्यते चेत् संस्कृतं राष्ट्रभाषापदम् अलङ्कर्तुं सर्वथा सक्षमा, योग्योपयुक्ता च । , " Page #277 -------------------------------------------------------------------------- ________________ ७८. त्रिभाषासूत्रं संस्कृतं च (शिक्षाक्रमे संस्कृतस्य स्थानम् ) त्रिभाषासूत्रम्-भारतीयसर्वकारस्यादेशमनुसृत्य कैश्चिद्विपश्चिद्भिः त्रिभाषासूत्रं समर्थितम् । भारतसर्वकारेणापि समर्थितमनुमोदितं च तत् त्रिभाषासूत्रं भारतवर्षस्य सर्वेषु प्रान्तेषु प्रवर्तितम् । त्रिभाषासूत्रस्य ( Three language formula ) किन्निमित्तं, कोऽत्र हेतुः, किमस्य प्रयोजनश्च । भारतवर्षे शिक्षाक्रमे भाषाणां पौर्वापर्यम्, उच्चावचत्वं, न्यूनाधिकत्वश्चाश्रित्य विविधाः विवादाः प्रादुरभवन् । तद्विवादशान्तये समरूपताऽऽकलनाय च त्रिभाषासूत्रस्य जनिरभूत् । त्रिभाषासूत्रप्रवर्तकानामभिमतमेतद् यत् शिक्षाक्रमे भाषाणां तथा समन्वयः, सङ्कलनञ्च स्याद् यथा राष्ट्रहितसम्पादनेन सममेव अध्येतृणां वैज्ञानिकी, भौतिकी चोन्नतिः सञ्जायेत । एतद् विमृश्य राष्ट्रभाषारूपेण आर्यभाषाया हिन्दीभाषाया वा प्रथम स्थानं निर्दिश्यते । एवं हिन्दीभाषा सर्वोत्कृष्टत्वमाश्रयते । अन्ताराष्ट्रियज्ञानोपादानार्थं वैदेशिक्याः कस्याश्चन भाषाया अनिवार्यरूपेणाध्ययनमन्वभूयत । तत्राङ्ग्लभाषाया अन्ताराष्ट्रियख्यातिमुद्दिश्य पराधीनताकालिकी च तत्प्रसृतिमाश्रित्य द्वितीयाऽनिवार्यभाषारूपेणाङ्ग्लभाषा समर्थिता । सन्ति भारते विविधाः प्रादेशिका भाषाः, यासां साहित्यमपि प्रचुरं, प्रशस्तं, हृद्यं, लोकपयोगि, ज्ञानविज्ञानवर्धकञ्च । सर्वेषां भारतीयानां प्रादेशिकभाषाज्ञानमपि नितरामनिवार्यम्, अनुदिनं तत्प्रयोगोपपत्तेः । एवं प्रान्तीया भाषाः तृतीयं स्थानमलभन्त । अत्र राष्ट्रभाषा-अन्ताराष्ट्रियभाषा-प्रान्तीयभाषाणां समाहारः समन्वयश्च अभीष्यते । त्रिभाषासूत्रे संस्कृतम्--त्रिभाषासूत्रं सूक्ष्मेक्षिकया परीक्ष्यते विविच्यते चेत् संस्कृतभाषा भर्तृविरहिता नारीव, पुत्रादिपरित्यक्ता मातेव, निर्वसना, अवधूता, अवहेलितेव संदृश्यते। न भारतीयानामध्येतृणां तादृशं श्रमाभिमुखत्वं, विविधभाषाज्ञानाभिरुचित्वञ्च, येन भाषात्रयाध्ययनानन्तरं तुरीयभाषाध्ययनं सम्भाव्येत । यद्यपि विदेशेषु सन्ति तादृशाः प्रदेशाः जर्मनी-फ्रांसस्विटजरलैण्डप्रभृतयः यत्र भाषात्रयं भाषाचतुष्टयं वा सामान्यजनैरपि अधीयते, शिक्ष्यते, व्यवह्रियते च । परं न भारते वर्षे तादृशी भाषा-जिज्ञासा, अभिरुचिश्च । अतः कृतेऽपि प्रयत्ने भारते चतुर्थभाषाध्ययनं सर्वथोपेक्ष्यते । येषां प्रदेशानां न प्रान्तीया भाषा हिन्दी-भाषा, ते स्वप्रान्तीयभाषाध्ययने प्रवर्तन्ते । अन्ताराष्टियभाषारूपेण सत्यपि जर्मन-फ्रेंच-रूसी-भाषाणां सङ्ग्रहे आङ्ग्लभाषैवसर्वकारस्याभिप्रेता, समथिता, प्रचारिता च । राष्ट्रभाषारूपेण हिन्दीभाषाध्ययनं तेषां कृते अनिवार्यम् । एवम् अहिन्दीभाषिषु प्रान्तेषु संस्कृतस्य शिक्षाक्रमे स्यापनमध्यापनश्च दुष्करमिव प्रतीयते । हिन्दीभाषिषु प्रदेशेषु राष्ट्रभाषा हिन्दी Page #278 -------------------------------------------------------------------------- ________________ २६१ त्रिभाषासूत्रं संस्कृतं च द्वितीयभाषारूपेण पाठ्यते। तृतीयभाषारूपेण दाक्षिणात्यभाषा, संस्कृतभाषा वा वैकल्पिकरूपेण स्वीक्रियते । यत्र कुत्रापि दाक्षिणात्यभाषाध्ययने दुराग्रहो निधीयते तत्र गीर्वाणवाण्याः कृते प्रवेशो निषिद्ध एवावगन्तव्यः। कियन्तः सन्ति तादृशाः संस्कृतानुरागिणो ये धर्मभावनया कर्तव्यबुद्धया तत्त्वार्थज्ञानाधिगमाय वा संस्कृतभाषाध्ययने प्रवृत्ताः । एवं सुकरमेतद्वक्तुं यत् त्रिभाषासूत्रं संस्कृतभाषाध्ययने प्रत्यवायरूपमेव, न तु साधकम् । त्रिभाषासूत्रेणानेन आङ्ग्लभाषाप्रचारे महत्साहाय्यमदायि इति निर्विवादम् । राष्ट्रभाषायाः कृते प्रान्तीयभाषाणां च कृते मार्गः प्रशस्यते, परं संस्कृतस्य कृते मार्गावरोध एवाविर्भाव्यते । शिक्षाक्रमे संस्कृतस्य स्थानम्-साम्प्रतिकः शिक्षाक्रमो भारतसर्वकारादेशानुसारं प्रवय॑ते । यद्यपि त्रिभाषासूत्रानुसारं शिक्षाक्रमः प्रतिप्रदेशमायोज्यते प्रचार्यते च । सन्ति केचन प्रदेशाः यत्र संस्कृतस्य गौरवमनुरुध्य तत्संरक्षण-बुद्धया च हिन्दीभाषापाठ्यक्रमे एव न्यूनाधिकरूपेण संस्कृतस्य समावेशो बिधीयते । एवं क्षतविक्षताया अपि देववाण्याः वाङ्मात्रोपचारः, शुश्रूषणं च सम्पाद्यते । एवमेवोच्चकक्षास्वपि संस्कृतस्य यत्र तत्र समन्वय आधीयते । परं सर्वमेतत् संस्कृतभाषाप्रचारदृष्टया न पर्याप्तम्, न च श्रेयोवहम् । हिन्दीभाषिषु प्रान्तेषु तृतीयभाषारूपेण संस्कृतस्य शिक्षाक्रमे स्थानमनिवार्यत्वेन सम्भाव्यते, आशास्यते च । अहिन्दीभाषिषु प्रदेशेषु तथाविधो विधिविधेयः यथा अनिवार्यरूपेण संस्कृताध्ययनं सम्भाव्येत । तदर्थ हिन्दीभाषापाठ्यक्रमे प्रान्तीयभाषापाठ्यक्रमे वा न्यूनाधिकरूपेण संस्कृतस्य समाहारो विधेयः । संस्कृतं हि परमो निधिर्भारतस्य । कथमप्युपेक्षिता संस्कृतभाषा राष्ट्रस्य विनाशायैव भविता । यदा संस्कृतस्य गुणगौरवमुग्धाः पाश्चात्त्या अपि देशाः संस्कृताध्ययने प्रवर्तन्ते, विश्वविद्यालयादिषु संस्कृताध्ययनाध्यापनादेर्व्यवस्थामातिष्ठन्ते, तदा किं नैतद् दुःखावहं, खेदजनकं च यद् भारते संस्कृतभाषा उपेक्ष्येत । प्राचीनसंस्कृतिसंरक्षणार्थम्, भारतवैभवज्ञानार्थम्, अध्यात्मतत्त्वावबोधाय, विविधशास्त्रावगाहिज्ञानोपादानाय च, वीणापाणिवाङ्मधुरं संस्कृतवाङमयं सर्वथा शिक्षाक्रमे प्रवेश्यम् आधेयं च । Page #279 -------------------------------------------------------------------------- ________________ ७९. अनुशासन - समस्या ( शिक्षाधिषु निरङ्कुशत्वम्, तनिरोषोपायाश्च ) कि नामानुशासनम् ? - अनुपूर्वात् शास्धातोर्व्युटि अनुशासनं सिध्यति । शासन विधिर्नियमो वा तदनुकूलं चाचरणम् अनुशासनम् इति । जीवनेऽनुशासनस्य तादृश्येवावश्यकता यथा शरीररक्षाये भोजनस्य बौद्धिक विकासाय ज्ञानस्य च । न स्याच्चेदनुशासनं तर्हि समग्रमपि मानवजीवनं निष्फलं निष्क्रियम् आरण्यकजीवन संकाशं च संपद्येत । अनुशासनस्य महत्त्वम् — जीवनोन्नत्यै जीवनसाफल्याय चानुशासनम् अनिवार्यम् । शैशवाद् आरभ्य वृद्धत्वं यावद् अनुशासनम् आवश्यकम् । बाल्ये मातापित्रोः, विद्यालये गुरोः, गृहस्थजीवने पत्युः पत्न्या वा, वृत्तिस्थानेषु उच्चाधिकारिणाम् अनुशासनं पाल्यते । अन्तरेणानुशासनं पारिवारिकं सामाजिकं राष्ट्रियं च संगठनं विच्छिद्येत । रत्नं घर्षण - च्छेदनादिनाऽनुशिष्टं सद् महाघंत्वं भजते । अश्वाः सुनियन्त्रिताः समरभूमौ विजयं लम्भयन्ति । सैनिका अनुशासनं पालयन्तः स्वसेनापतेः संकेतमात्रेण एकधा आचरन्ति व्यवहरन्ति च । सेनासु यादृशं कठोरम् अनुशासनम्, तादृश्येव विजय - वैजयन्ती समासाद्यते । किमन्यत्, महात्मनो गान्धेर्नेतृत्वम् अनुशासनं चानुसृत्यैव भारतं स्वातन्त्र्यं लेभे । अनुशासनस्यैव एतन्महत्त्वं यत् सामाजिक राष्ट्रियं च कार्यंजातं सारल्येन प्रचरति । अनुशासन - दृष्ट्येव निर्दिश्यते - 'लालयेत् पञ्च वर्षाणि दश वर्षाणि ताडयेत्' । 'लालनाश्रयिणो दोषास्ताडनाश्रयिणो गुणाः' । तैत्तिरीयोपनिषदि अतएव प्रोच्यते — वेदमनूच्याचार्योऽन्तेवासिनम् अनुशास्ति । सत्यं वद । ( ० १ - ११ - १ ) । धर्मंसूत्रेषु स्मृत्यादिषु चाचारवर्णनम्, कर्तव्याकर्तव्यविधाननिरूपणम्, सर्वमप्यनुशासनमूलकम् । अनुशासनं सर्वविध- समुन्नतेर्मूलम् । अनुशासनमेव साधनां शिक्षयति । बुद्धेस्तथाविधानुशासनेन कवित्वम् ऋषित्वं ज्ञानित्वं वैज्ञानिकत्वं च सिध्यति । अनुशासनमूलकमेव संगीत-नृत्य- विविधकला-विशेषज्ञत्वम् । छात्रेष्वनुशासन-समस्या – साम्प्रतं सर्वतः छात्रेष्वनुशासन-समस्याऽवलोक्यते श्रूयते च । न केवलं भारतेऽपितु विदेशेष्वपि छात्रानुशासनसमस्या विदुषां शिक्षाशास्त्रिणां च विचार चर्चा- विषयः । भारते छात्रानुशासनसमस्या विविच्यते विश्लिष्यते चेत् तर्हि कतिपयानि कारणानि पुरतः समायन्ति, तानि निराक्रियन्ते चेत् समस्या समाधानं भवितुम् अर्हति । अनुशासन - समस्या- कारणानि - ( १ ) शिक्षाप्राप्त्यनन्तरं वृत्ति-प्राप्ति Page #280 -------------------------------------------------------------------------- ________________ २६३ समस्या 1-अपि वा वृद्धि प्राप्ति-सौकर्यं । M.B.B.S., B.A., M.A., Ph.D., B.E., M.E., M.Sc., M.Sc. (Ag.), LL.B., M.Com. प्रभृतिपरीक्षीर्णा अपि न मूति जीविकोपार्जनं च लभन्ते इत्येतत् महलोऽसन्तोषस्य मूलम्, मेराश्यस्य च कारणम् । ( २ ) विश्वविद्यालयादिषु आचारसदाचार- शिष्टाचारादि-विषयेषु अनवधानम् । चारित्रिकी शिक्षाम् अन्तरेण अनुशासनसमस्या-समाधानम् आकाश- कुसुमम् इव दुर्लभम् । ( ३ ) गुरुशिष्ययोः अध्यापकाध्येतृषु प्रेममूलकः श्रद्धासमन्वितश्च गुरुशिष्य संबन्धः । अध्यापका अध्येतारश्च उभयेऽपि स्वकमंच्युताः संलक्ष्यन्ते, तदा कथं गुरुभक्तिराचार्य - भक्तिर्वा प्रचरेत् । ( ४ ) शिक्षालयेषु प्रबन्ध - दुरवस्था | महाविद्यालयादीनां प्रबन्धका जातिवाद संप्रदायवाद-संबन्धिवादादि दोष प्रस्ताः । अतोऽयोग्यानां निर्वाचनम्, योग्यानां च परिहारो लक्ष्यते । ( ५ ) शिक्षाकेन्द्रेषु भ्रष्टाचारग्रस्तानां नेतॄणां राजनीतिविदां चाव्याहतः प्रसरः । भ्रष्टाश्चारित्र्यहीना नेतारो युक्तायुक्त उचितानुचित गहिताऽगहित साधनेः स्ववर्ग-जाति-दलादिसंबद्ध - शिक्षक नियुक्ती प्रभवन्ति । ( ६ ) शिक्षकेषु आचार्येषु चापि यत्र तत्र चारित्र्यदोषः, आचारदोषः, धूम्र-पानादि - विविध-दोष - दूषितत्वं च संलक्ष्यन्ते । अत एवानुशासन - समस्यापि उदेति । ( ७ ) छात्रेष्वपि केचन वंश-परम्परागत - दोष-कारणात्, कुसंगति-जन्य-दोषात्, परिस्थिति-जन्य - दोषाच्च आचारादिविषयक-दोषग्रस्ताः संलक्ष्यन्ते । एतस्मादपि अनुशासन - समस्योद्भवति । ( ८ ) महाविद्यालयेषु, विश्वविद्यालयेषु च छात्रसंघस्थापनम्, छात्राणां नेतृत्वकामना, राजनीतिक दल - संबन्ध - द्वारा महत्त्वाकांक्षा - पूर्ति - कामना, विविधान् दोषान् जनयति । ( ९ ) लक्ष्यनिर्णयाभाव: । शिक्षायाः किं लक्ष्यम् ? इत्येतस्या निर्णीतत्वात्, लक्ष्यज्ञानाभावात्, सत्पथभ्रष्टत्वात् किंकर्तव्यता- विमूढत्वाच्च छात्राणाम् अध्ययनेऽरुचिः, उद्दण्डतायाम् उच्छृङ्खलतायां चाभिरुचिः । ( १० ) अनुसन्धान-शोध-विशेषज्ञतादिकं प्रति रुच्यभावः । ( ११ ) शिक्षा-पद्धत्या दोषपूर्णत्वम् । ( १२ ) परीक्षा-प्रणाल्या अत्यन्तदोषाकुलत्वम् । ( १३ ) शिक्षा - लयेषु समुचित साधनाभावः । ( १४ ) देशे भ्रष्टाचार-व्याप्तिः । अनुष् - समस्यानां निराकरणम् – (१) वृत्तिसमस्या समाधानार्थं योग्यतानुसारं शिक्षितानां विविधवृत्तिषु विनियोजनम् । औद्योगिकादि-संस्थानां संस्थापनं सर्वकारस्य प्रमुखं कर्तव्यम् । ( २ ) विश्वविद्यालयादिषु सदाचार - शिक्षाया आचारशिक्षायाश्चानिवार्यत्वं स्यात् । ( ३ ) अध्यापकाध्येतृषु प्राचीनो गुरुशिष्य संबन्धः संस्थाप्येत । ( ४ ) शिक्षणालय व्यवस्थासु योग्य - प्रबन्धकानां नियुक्ति: स्यात्, सर्वकारेण वा संस्थानां स्वायत्तीकरणं स्यात् । ( ५ ) शिक्षणालयेषु भ्रष्ट नेतॄणां प्रवेशो निषिध्येत । ( ६ ) आचारवन्त एव शिक्षकाः Page #281 -------------------------------------------------------------------------- ________________ संस्कृत निबन्धशतकम् शिक्षणालयेषु विनियोज्याः । ( ७ ) छात्रेष्वाचार शिक्षाया अनिवार्यत्वं स्यात् । दूषितानाम् अवाच्छनीयानां च छात्राणां प्रवेशो निरुध्येत । सम्यक् परीक्ष्यैव छात्राः शिक्षालयेषु प्रवेश्या: । ( ८ ) छात्रसंघ सदस्यत्वम् ऐच्छिकं स्यात् । ( ९ ) मनोवैज्ञानिक - परीक्षणेन प्रवृत्तिमूलकमेव विविध विषयाध्यापनं स्यात् । (१०) विशिष्टाध्ययन - रुचयः, शोध प्रवृत्तयश्च छात्रा विश्वविद्यालयेषु प्रवेश्याः, इतरे च प्रत्याख्येयाः । ( ११ ) शिक्षा पद्धत्याः देश-युग-परिस्थित्यनुसारं पुनर्मूल्याङ्कनं पुनर्निर्माणं च स्यात् । ( १२ ) परीक्षा प्रणाली - दोष- वारणार्थं मासिक परीक्षादिमूला कक्षोन्नतिः स्यात् । ( १३) साधनाभाववन्तो विद्यालयाः समाप्याः । सर्वकारेण वा तत्र साधनानि संयोजनीयानि ( १४) देशे सुतरां व्याप्तो भ्रष्टाचारोऽपि छात्रानुशासनं दूषयति । तस्योन्मूलनमपि सर्वेषामेव कर्तव्यम् | २६४ Page #282 -------------------------------------------------------------------------- ________________ ८०. आचार्यदेवो भव (क. आचार्यो ब्रह्मणो मूर्तिः; ख. गुरुपूजा ) को नामाचार्यः ?-यो ह्याचारं ग्राहयति, छात्रोपयोगिविषयान् संगृह्णाति, छात्रबुद्धि विकासयति च, स आचार्यः । उक्तं च निरुक्ते आचार्यः कस्मात् ? आचार्य आचारं ग्राहयति । आचिनोत्यर्थान् । आचिनोति बुद्धिमिति वा ॥ निरुक्त १-४ यः सदाचार-शिक्षणपूर्वकं छात्रेषु जितेन्द्रियत्वं पोषयति, स आचार्यः । अथर्ववेदे प्रोच्यते आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ॥ अथर्व० ११-५-१७ भाचार्यस्य स्वरूपम्-अथर्ववेदे आचार्यो मृत्युवरुणः सोम इत्युच्यते । आचार्योऽनुशासनप्रियत्वाद् यमः, न्यायाचरणाद् वरुणः, छात्रालादकत्वात् शीलसंपन्नत्वाच्च सोमः । आचार्यो मृत्युवरुणः सोम ओषधयः पयः ॥ अथवं० ११-५-१४ गुरुविविधविद्या-पारदृश्वा, ज्ञान-विज्ञान-नदीष्णः, अध्यापनविधिनिष्णातश्चाभूत् । अतएव स वाचस्पतिरित्याख्यां जगाम । तस्य मनसो दिव्यत्वं संयमप्रियत्वं च प्रशस्यते । पुनरेहि वाचस्पते देवेन मनसा सह । अथर्व ० १-१-२ ।। वाचस्पतिनि गच्छतु मय्येवास्तु मथि श्रुतम् । अथर्व० १-१-३ आचार्यस्य जीबनं श्रुति-संमतम् अभूत् । तस्य जितेन्द्रियत्वम् अनुरुध्यैवान्तेवासिनस्तस्मिन् श्रद्दधुः । सं श्रुतेन गमेमहि मा श्रुतेन विराधिषि ॥ अथर्व० १-१-४ आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ॥ अ० ११-५-१६ . आचार्यप्रवर एव कुलपतिरित्याख्यां जगाम । स दशसहस्रं यावत् छात्रवृन्दं मुनीश्चाध्यापयत् । मुनीनां दशसाहस्रं योऽन्नपानादिपोषणात् । अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥ गुरु-शिष्य-संबन्धः-आचार्य-शिष्ययोः पितापुत्रवत् संबन्ध आस्थीयते । उपनयन-संस्कारेण शिष्यस्य गुरोः समीपनिवासाद् अन्तेवासित्वं संजायते । परीक्षणकाले गुरुसविधे रात्रित्रयावस्थानेनाचार्यस्य मातृत्वं निर्दिश्यते । एवं गुरु-प्रदत्त-ज्ञानावाप्ततेजस्वित्वं च छात्र संलक्ष्यते । एतदेवाभिप्रेत्य प्रोच्यते Page #283 -------------------------------------------------------------------------- ________________ २६६ संस्कृतनिबन्यशतकम् आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः । तं रात्रीस्तित्र उबरे बिर्भात तं जातं द्रष्टुमभिसंयन्ति देवाः ॥ अ० ११-५-३ आचार्यनिरीक्षणेऽधीयानोऽन्तेवासी सामान्यवेषं मेखलादिकं च धारयन् घोरेण परिश्रमेण तपोमय जीवनेन च लोकत्रयं पुष्णाति । ब्रह्मचारी समिना मेखलया श्रमेण लोकांस्तपसा पिति ॥ अ० ११-५-४ ब्रह्मचारिणः सर्वगुण-समृद्धया इन्द्रत्वम्, सर्वदुरितविनाशनाद् असुरविनाशनं च निर्दिश्यते । इन्द्रोह भूत्वाऽसुरांस्तर्ह ॥ अथर्व ० ११-५-७ तैत्तिरीयोपनिषदि गुरु-शिष्ययोस्तथा एकोद्देश्यत्वं चित्तैकत्वं च निर्दिश्यते यथा द्वयोरेव सामञ्जस्येन श्रीवृद्धि:, विद्यायाश्च तेजस्वित्वं संपद्यते । सह नाववतु, सह नौ भुनक्तु, सह वीर्यं करवावहै । तेजस्वि नावीतमस्तु मा विद्विषावहै ॥ तैत्ति० २-१-१ सह नौ यशः । सह नो ब्रह्मवर्चसम् ( तैत्ति० १-३- १ ) इत्यनेन निर्दिश्यते यद् गुरोराशीर्वादेन छात्रस्य यशः, तेजस्विभिश्छाश्च गुरोर्यशः प्रथते । गुरोर्विश्वामित्रस्य कृपया रामस्य यशः, छात्रस्य दयानन्दस्य च तेजस्विता गुरोर्विरजानन्दयतेयंशोऽप्रथत । गुरु-शिष्ययोर्द्वयोरेव सामञ्जस्येन सद्भावेन च द्वयोरपि तेजोवृद्धिः संजायते । अतएवोच्यतेआचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या संधिः । प्रवचनं संघानम् ॥ तैत्ति० १-३-३ आचार्यश्छात्रवृन्द-हित-करणार्थं छात्र-ज्ञान-वृद्धयर्थं च प्रतिपलम् अचिन्तयत् । अतएवोच्यते आमा यन्तु ब्रह्मचारिणः स्वाहा । यशो जनेऽसानि स्वाहा । यथापः प्रवता यन्ति । एवं मां ब्रह्मचारिणः, वातरायन्तु सर्वतः स्वाहा ॥ तैत्ति० १-४-२, ३ आचार्यानुशासने स्फुटमेतद् आचार्येण आदिश्यते यद् गुरोरपि सत्कर्मैव अनुकरणीयम्, नान्यत् । यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि, नो इतराणि ॥ तैत्ति० १-११-२ गुरोर्वे क्त्वम् - गुरोर्देवत्वं कस्य न विदितम् । गुरुरेव अज्ञानान्धतमसं व्यवच्छिद्य ज्ञान ज्योतिज्वलयति । तत्कृपयेव दिव्यदृष्टित्वं प्राप्यते । उच्यते च अज्ञानतिमिरान्धस्य ज्ञानाञ्जन-शलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीपुरवे नमः ॥ < Page #284 -------------------------------------------------------------------------- ________________ आचार्यदेवो भव आचार्य एव गुण- वेशिष्टात् ब्रह्मणो मूर्तिसंत्ते । आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । मनु० २-२२६ गुरु-शुश्रूषयेव ज्ञानावाप्तिः, यथा कूपखननेन जलाधिगमः । गुरु-सेवाफलं वयते यद् गुरु-शुश्रूषयैव ब्रह्मलोकप्राप्तिर्जायते । उक्तं च गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते । मनु० २-२३३ एवं स्फुटमेतद् विज्ञायते यद् गुरोः कृपाया आनृण्यं कथमपि नावाप्तुं पायंते । गुरोः कृपयैव ऋषयो महर्षयः कवयो महाकवयो विविधविद्या निष्णाताश्चान्तेवासिनोऽभूवन् । अतो गुरुराचार्यो वा सदा देववत् पूज्यः । अतः साधूच्यते आचार्यदेवो भव ॥ २६७ Page #285 -------------------------------------------------------------------------- ________________ ८१. ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः (मुहुर्त ज्वलितं श्रेयो न च धूमायितं चिरम् ) । तेजस्विताया महत्त्वम्-सूक्तिमुक्तयमुपलभ्यते महाकवे रवेः कृती किरातार्जुनीये । कविरिहोपदिशति तेजस्विताया मानितायाश्च महत्त्वम् । प्रज्वलितमग्निमाक्रमितुं नोत्सहते धृष्टोऽपि कश्चित्, परं भस्मनां पुजं लघुरपि जनः प्रभवत्याक्रमितुम् । कोऽत्र भेदः ? प्रदीप्तोऽग्निर्दाहगुणसमवेतस्तेजसा समन्वितश्च प्रभवति दग्धुं निखिलं जगदिदम् । तत्तेजस्तनोति साध्वसमतुलं स्वान्तेऽपि सन्त्रासकस्य । न धृष्णोति धृष्टोऽपि धाष्टर्यमाधातुं मनसि कृशानुधर्षणस्य । भस्मानि तु निस्तेजांसि । नानुभवन्ति तानि मानावमानम् । अतस्तेषां धर्षणं शक्यम् । एवमेव मानिनोऽपि सहर्षम् असून उज्झन्ति, न तु स्वतेजस्त्यजन्ति । अतो निगद्यते भारविणा ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः। अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः॥ किराता० २-२० जीवनस्य साफल्यम्-किं नाम जीवनम् ? किं नाम पुरुषत्वम् ? के गुणास्ते ये जीवनं साफल्यं लम्भयन्ति, पुरुषे पौरुषश्चादधति ? तदेव जीवनं येन स्थास्नु यशश्चीयते, सुखमुपभुज्यते, शान्तिः स्थिरीक्रियते । तदेव पुरुषत्वं यत्र तेजः स्वाभिमानिता पौरुषं च प्राधान्येनाश्रयं लभन्ते । तेजस्विता मानिता गुणार्जनं श्रीसंग्रहश्चेति गुणाः सर्वेषामेव जीवनानि सफलयन्ति, पुरुषे पौरुषमाविष्कुर्वन्ति च । भारविलंक्षयति पुरुषत्वं यन्मानित्वमेव प्रधानं पुरुषस्य लक्षणम्, मान-विहीनो न नरः । विजहाति चेन्मानं स तृणवदगण्यः, निरर्थक च तस्य जन्म । पुरुषस्तावदेवासौ यावन्मानान्न हीयते । कि० ११-६१ जन्मिनो मानहीनस्य तृणस्य च समा गतिः। कि० ११-५९ स्वाभिमानस्य गौरवम्-मानश्चेदभीप्सितः, कस्तदवाप्त्युपायः ? भारविस्तदवाप्तिसाधनमभिदधाति तेज इति । 'स्थिता तेजसि मानिता' (कि० १५-२१)। तेजस्वितागुणमेवावष्टभ्य मानिता प्रवर्तते प्रवर्धते च । यत्र तेजस्विता तत्रैव यशः श्रीगंणगणाश्च । तेजस्विनो हि विराजन्ते तरणिवदाभया । ते दुष्करमपि सुकरम्, दुर्गममपि सुगमम्, दुर्लभमपि सुलभम्, दुःसहमपि सुसहं सम्पादन्ति । न तेषां वयो विचार्यते । बाल एव रामः खरदूषणवधं विधातुमशकत् । अत आह कालिदासः-'तेजसां हि न वयः समीक्ष्यते' ( रघु० ११-१)। यश्च तेजसा परिहीयते परिक्षीयते Page #286 -------------------------------------------------------------------------- ________________ ज्वलितं न हिरण्यरेतसं खयमास्कन्दति भस्मनां जनः २६९ तत्र मानिता । मानपरिक्षये च सर्वे गुणा अपि तत्र क्षयमेवाश्रयन्ते । निर्वाणे तु दीपके ज्योतिरपि तदाश्रयमुज्झति । तदाह— तेजोविहीनं विजहाति दर्पः शान्ताचिषं दीपमिव प्रकाशः । किराता० १७ - १६ निस्तेजाः सर्वत्रैवावगण्यते परिभूयते धिक्क्रियते धृष्यते च । तस्य निस्तेजस्त्वम् अजस्रम् अवमानम् आवहति । अतो निगदितं भासेन - 'मृदुः परिभूयते ' ( प्रतिमा० १ - १८ ) उक्तं च मृच्छकटिके शूद्रकेण - ' निस्तेजाः परिभूयते' ( १ - १४ ) । तेजसा सममेव समेधते स्वावलम्बनस्य साधीयसी साधना । तेजस्विनो न पराश्रयमपेक्षन्ते, न च परसाहाय्यमेव समीहन्ते । ते स्वतेजसा जगद् व्याप्नुवन्ति । तदुच्यते लघयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः । किराता० २ - १८ तेजस्विता प्रतापाय - महाकविना माघेनापि तेजस्विताया मानितायाश्च महत्त्वं बहुधा वर्णितम् । मानिनोऽवमन्तॄन् समूलमुन्मूल्यैव शान्ति श्रयन्ते, यथा सप्तसप्तिः समस्तं नैशं तिमिरमपाकृत्यैवोदेति— समूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ शिशु० २ - ३३ परावमानं यः सहते, न स पुंशब्दभाक् । तादृशस्य नराधमस्याजनिरेव श्रेयसी । स केवलं मातृक्लेशकारी । पादाहतं रजोऽप्युत्थाय मूर्धानमारोहति । योऽपमानेऽपि गतव्यथः, स रजसोऽपि हीनः । तिग्मता प्रतापाय, म्रदिमा परिभवाय चेति स्फुटं समीक्ष्यते । राहुर्द्रुतं ग्रसते चन्द्रं, भानुं च चिरेण । मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । शि० २-४५ पादाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद् वरं रजः ॥ शि० २-४६ तुल्येऽपराधे तन्त्रदिम्नः स्फुटं फलम् । शि० २-४९ तेजस्विता गौरवाय - महाकविना कालिदासेनापि तेजस्विताया महिमो-ररीक्रियतेऽभिधीयते च । ऋषयः शान्तिसमन्विता अपि तेजोमयाः । सति चाभिभवे सूर्यकान्तमणिवद् उद्गिरन्ति तेजः । न ते सहन्तेऽभिभवं जातु । सत्यभिभवे प्रज्वलति जातवेदाः, सति च परिभवे तेजस्विनोऽपि स्वमुग्र-रूपं धारयन्ति । शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः । शाकु० २-७ज्वलति चलितेन्धनोऽग्निविप्रकृतः पन्नगः फणां कुरुते । प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः । शा० ६-३१ Page #287 -------------------------------------------------------------------------- ________________ २७० संस्कृतमिबन्धशतकम् कीतिर्यस्य स जीवति–सन्तः सदैव श्रेयस्करमाचक्षते यश एव । विनश्वरे जगति यश एवेकं स्थास्तु । यशसे एव जीवन्ति म्रियन्ते च साधवः । यश एव परमं धनं मन्वते मानिनः । उच्यते च ___ 'यशोधनानां हि यशो गरीयः'; 'कोतिर्यस्य स जीवति'। श्रीरनुयाति तादृशान् मानिनो यशस्विनश्च । मानिनो गत्वरैरसुभिः स्थायि यशश्चिचीषन्ति । तथोक्तं भारविणा अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः। अधिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥ कि० २-१९ अवधेयमिह चैतत् । ये हि मानिनो मानमेव प्रधानतो गणयन्ति, न ते जात्वभिलषन्ति श्रियम् । श्रियमवमत्य मानमाद्रियन्ते । मानस्य सम्पदश्चैकत्रावस्थानं सुदुर्लभम् । तदुच्यते भारविणा न मानिता चास्ति भवन्ति च षियः । किराता० १४-१३ मुहर्त ज्वलितं भेयो०-तेजोऽवाप्तये सम्पद्यतेतरामावश्यकता गुणाजनस्य । नान्तरेण गुणसंग्रह मानिता तेजस्विता वा संभवति । गुणार्जनं मूलं मानितायास्तेजस्वितायाश्च । गुणेरेवावाप्यते यशो महिमा च । गुणैरेव गौरवावाप्तिरादरास्पदत्वं च । उक्तं च भारविणा-'गुरुतां नयन्ति हि गुणा न संहतिः' ( कि० १२-१०)। गुणार्जनस्य महत्त्वमन्यत्रापि श्रूयते ।। 'गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम्' । भवभूतिरपि गुणानामेव पूज्यत्वमाचष्टे, न तु वय आदीनाम् । 'गुणाः पूजास्थानं गुणिषु न च लिङ्ग न च वयः' ( उत्तर० ४-११)। गुणेरेव स्थायिनी कीर्तिः सुलभा, शरीरं तु गत्वरम् । यशःसिद्धयै एव सिध्यन्ति साधूनां सच्चरितानि । तदुच्यते शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥ हितोपदेशः १-४९ तेजस्विन एव नामाभिनन्दन्ति रिपवोऽपि। स एव सत्यं पुंशब्दाभिधेयः। नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान् । किराता० ११-७३ क्षणमपि तेजःसहितं जीवितं श्रेयो न च चिरं सावमानम् । तेजस्वितैव तत्त्वं जीवितस्य । अतः साधूच्यते मुहूर्त ज्वलितं श्रेयो न च धूमायितं चिरम् । महाभारत Page #288 -------------------------------------------------------------------------- ________________ ८२. नालम्बते दैष्टिकतां न निषीदति पौरुषे । शब्दार्थों सत्कविरिव द्वयं विद्वानपेक्षते ॥ ( शिशु० २-८६ ) ( १. दिष्टं पौरुषं च; २. भाग्यवादः पुरुषार्थवादश्च; ३. सर्वकषा भगवती भवितव्यतैव; ४. अनतिक्रमणीयो हि विधिः; ५. यदभावि न तद्भावि; ६. शिरसि लिखितं लङ्घयति कः॥) दिष्टं पौरुषं च-देवस्योद्योगस्य च गुरुलाघवं बलाबलं च निश्चिन्वतां विपश्चितामस्ति गरीयसी विप्रतिपत्तिविषयेऽस्मिन् । केचन दिष्टया देवस्य वा माहात्म्यमुद्घोषयन्ति, ते दैष्टिका इत्यभिधीयन्ते । अन्ये पौरुषस्य महत्त्वमाचक्षाणाः पुरुषार्थमेव सिद्धः सोपानत्वेनाङ्गीकूर्वन्ति । ईदृशे महति विरोधे वर्तमाने केचन मनीषिणो व्योरेव समन्वयं श्रेयस्करमाचक्षते । विचारणीयं तावदेतद् यत् कतमा सरणिरिह साषीयसी, यामवलम्ब्य सकलो छोको भुवनेऽस्मिन् भच्यां भूतिमासाच चिरसश्चितपुण्यपरिपाकसम्प्राप्तस्य मानवजीवनस्यास्य चरितार्थतां संपादयन् ऐहिकमामुष्मिकं चोभयं क्षेममधिगच्छति । भाग्यपुरवायोः स्वरूपम्-विमृश्यते तावद् दिष्ट्या एव बलाबलत्वं प्राक् । का नाम दिष्टिः, कथं च प्रभवत्येषा जीवलोकस्योदयास्तमयस्योत्कर्षापकर्षस्य पातोत्पातस्य वा ? यदि विचारदृशा निपुणं परीक्ष्यते तहि न भूयात् भेदोऽनयोः । प्राक्कृतस्य कर्मण एव नामान्तरं दिष्टिरिति देवमिति भाग्यमिति वा । अतः साधूच्यते-'पूर्वजन्मकृतं कर्म तद्देवमिति कथ्यते' । दिष्टिरेव साधकत्वेन बाधकत्वेन वोपतिष्ठते निखिलेषु क्रियमाणेषु कर्मसु । अतः कर्मणां सिद्धिरसिद्धिर्वा देवाधीनेति व्यवह्रियते । प्राक्कृतकर्मफलपरिपाको नियतोऽतो नियतिरिति च देवस्य नामान्तरं भवति । न च नियतिः साम्प्रतिकैः कर्मभिरन्यथा भवितुमर्हतीति नियतेनियोगोऽधृष्य इति गण्यते। अब दैष्टिका उदाहरन्तिसूर्याचन्द्रमसौ तेजसां वरिष्ठो नियत्यधीनत्वादेवास्तं समुपगच्छतः। वियां पौरुषं चाननुरुध्य लोको दैवातुरूपमेव फलमश्नुते । सुरासुरकृतसमुद्रमन्थने समेऽपि भागे प्राप्तव्ये हरिलक्ष्मी लेभे, हरस्तु हालाहलमेव । उकं च-'देवं फलति सर्वत्र न विद्या न च पौरुषम् । समुद्रमथनाल्लेभे हरिलक्ष्मी हरो विषम्' । अनतिक्रमणीया हि निमतिः-प्रतिकूलतामुपगते हि देवे न मनागपि सिध्यति साध्यम् । अत एवाह माधः-'प्रतिकूलतामुपगते हि विधी विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि' । तादृशं देवस्य प्राबल्यं यज्जनस्य चेतरचेतयते तदेव यद् देवमभिलष्यति । अत एवाह श्रीहर्ष:-'अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयाऽनुगम्यते जनस्य चित्तेन भृशावशात्मना'। विरुद्ध हि विधौ श्रम Page #289 -------------------------------------------------------------------------- ________________ २७२ संस्कृतनिबन्धशतकम् सहस्रमपि वितथं स्यात् । भाग्येऽनुकूले दोषा अपि गुणत्वमायान्ति । उक्तं च'गुणोऽपि दोषतां याति वक्रीभूते विधातरि । सानुकूले पुनस्तस्मिन् दोषोऽपि च गुणायते' । दुःखानि सुखानि च भाग्यानुसारमेव सम्भवन्ति । उच्यते च'भाग्य-क्रमेण हि धनानि भवन्ति यान्ति' । दैवानुसारमेव मनुष्यस्य बुद्धिवृत्तिरपि सम्पद्यते । विधिश्चाघटितघटनापटुर्घटितस्य विघटने च दक्षः । 'अघटितघटितं घटयति, सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति, यानि पुमान् नैव चिन्तयति' । सिद्धिरसिद्धिश्च दिष्ट्यनुरूपमेव परिणमतः । नियतेः कर्मायत्तत्वम् अवितथमेतद्यद् दैवं फलति, सिद्धिश्च दैवाधीना। परन्त्ववगन्तव्यमेतद् यत् पूर्वकृतकर्मपरिपाक एव दैवमिति नान्यत् । यदि सुनिश्चितमेतदवधारितं तर्हि भाग्यमनुकूलयितुं भवतितरामावश्यकता सुविचारितस्य कर्मणः, कठिनस्य श्रमस्य च । अत एवावितथमाह श्रीकृष्णो गीतायाम्-'नियतं कुरु कर्म त्वम्, कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिध्येदकर्मणः' । कर्म च कर्मफलासक्ति विहायैव कार्यम् । तदेव साफल्यं लम्भयति । 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भर्मा ते सङ्गोऽस्त्वकर्मणि' । सत्फलं तपसा श्रमेण सुचरितेन च लभ्यम् । तदेव च परिणमति काले । 'भाग्यानि पूर्वतपसा किल संचितानि, काले फलन्ति पुरुषस्य यथैव वक्षाः' । भाग्याद् गुरुतरं कर्म, तदेव फलति, तदेव चोपास्यम् । 'नमस्तत् कर्मभ्यो विधिरपि न येभ्यः प्रभवति'। शिरसि लिखितं लङ्घति कः-जगति समेषामपि सत्त्वानां नैसर्गिकीयमभिवाञ्छा यत् स्याद् दुःखास्यात्ययः सुखाधिगमश्च । का नु वरीयसी सृतिरिह स्वीकार्या साध्यमेतत् साधयितुम् । शान्तेन स्वान्तेन चिन्त्यते चेत्तर्हि पुरुषार्थमन्तरा न साधनान्तरं दृष्टिपथमुपयाति । धीरा वा, वीरा वा, मनीषिणो वा, वाग्वैभवसम्पन्ना वाग्मिनो वा, कविताकामिनीकान्ताः कविवरा वा, सर्वेऽपि पौरुषमाश्रित्यैवाभीष्टां सिद्धिमधिजग्मुः। अकर्मण्यताऽऽलस्यं पौरुषहीनत्वं दैष्टिकता वाऽत्र प्रत्यवायरूपेणावतिष्ठते । यद्यस्ति हार्दिकी सुखलिप्सा, अभीष्टमात्महितं, चिकीर्षितं परहितं, काङ्कितं कुलहितं, वाञ्छितं विश्वहितं, समीहितं समाजसुखं वा तर्हि आलस्यं नाम रिपुरपनेयश्चेतसोऽपहरणीयाऽकर्मण्यताऽपहस्तयितव्यं चापौरुषत्वम् । पौरुषस्य प्राधान्यम्-उद्यम उद्योगोऽध्यवसायो वा मानवस्यानुपमो बन्धुः, यमवष्टभ्य यदभिलषितं तदधिगम्यते। तथा चोच्यते-'आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति'। योगवासिष्ठेऽप्यभिधीयते-'पौरुषाद् दृश्यते सिद्धिः पौरुषाद् धीमतां क्रमः' । यावज्जीवं जीवः कर्मनिरतोऽध्यवसायपरश्च स्यात्, कर्मफलासक्तिं च परिहरे Page #290 -------------------------------------------------------------------------- ________________ नालम्बते दैष्टिकतां न निषीदति पौरुषे २७३ न्मनसेत्यादिशति वेदः। पथाऽनेनैवाभीप्सितमखिलं सिध्यति सताम् । 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे' ( यजु० ४०।२)। या काऽपि सिद्धिरभीष्टा, साऽविकला शक्यते लब्धुमुद्यमेनैवेति चेच्चेतसि क्रियते तहि नालभ्यं किंचिदस्ति जगति । अतः साधूक्तम्-'उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः' । 'उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः' । अध्यवसायिन एव साहाय्यमाचरति विभुरपि । यथा चोक्तम्-'उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः। षडेते यत्र वर्तन्ते तत्र देवः सहायकृत्'। __ पक्षद्वयस्य बलाबलत्वविवेचनेन सिध्यत्यदो यत् सुविचार्य कृतमवदातं कर्म साधयति साध्यमिह जगति । तदेव च संस्काररूपेणावशिष्टं दैवमिति भवति, प्रवर्तयति च भाविकर्मजातम् । अत उभयस्याश्रयणं न्याय्यम् । Page #291 -------------------------------------------------------------------------- ________________ ८३. आशा बलवती राजन् शल्यो जेष्यति पाण्डवान् ( आशा हि परमं ज्योतिः) आशायाः स्वरूपम्-का नामाशा ? कथं चाचरतीयं विप्रियं सुप्रियं वा सर्वस्य लोकस्य ? अस्ति किमावश्यकता जीवने आशाया उपादानस्य परिहारस्य वा? उपादत्ता चेत् किमिति किंचित् साधयति साध्यमिह जगति ? निरस्ता चेत् किं सुफला विफला कुफला वा भवति ? आशाया नामग्राहेण समकालमेव समुपतिष्ठन्ते बहवोऽनुयोगाः। ते क्रमशोऽत्र विविच्यन्ते। तेषामौचित्यमनौचित्यं वाऽवधारयिष्यते सयुक्तिकम् । प्राक् ताबद् विचार्यते-का नामाशा ? आ समन्ताद् अश्नुते व्याप्नोति मानवानां चेतांसीत्याशा। आङ्पूर्वकादश्धातोरच्प्रत्ययेनेतद् रूपं निष्पद्यते । वैदिकवाङ्मये आशावादः-वेदेषूपलभ्यते सर्वत्राशावादस्य प्रवाहः । श्रुतयो मुहुर्मुहुरादिशन्ति मानवम् आशाम् अवलम्ब्य समुन्नत्यै समृद्ध्यै प्रगत्यै च-( क ) वयं स्याम पतयो रयीणाम् ( यजु० १०-२०), (ख ) अग्ने नय सुपथा राये ( यजु० ४०-१६ ), (ग) कृधी न ऊर्ध्वान् चरथाय जीवसे ( ऋ० १-३६-१४ ), (घ ) अदीनाः स्याम शरदः शतम् ( यजु० ३६-२४ ), (ङ) भूत्यै जागरणम्, अभूत्यै स्वपनम् ( यजु० ३०-१७), (च) उच्छ्रयस्व महते सौभगाय ( अथर्व० ३-१२-२), (छ) मयि देवा दधतु श्रियमुत्तमाम्० ( यजु० ३२-१६ ), ( ज ) मह्यं नमन्तां प्रदिशश्चतस्रः ( ऋ० १०-१२८-१)। आशैव जीवने धृति स्फूर्ति शक्तिं चादधाति । तामाश्रित्यैव सर्वविधा समुन्नतिः सुलभा । आशाया महत्त्वम्-आशा नामैषा मानवजीवनस्यास्ति आधारशिला । मानवजीवने यः संचारः प्रगतिरुद्गतिरुन्नतिर्वाऽवलोक्यते, तस्य मूलत्वेनाशायाः संचार एव जीवनेऽवगन्तव्यः । यदि नाम न स्यादाशा जीवने तत्प्रेरकत्वेन, न स्याज्जीवनं प्रगतिशीलम्, उन्नतिपथम् आरूढम्, अभ्युन्नतं च । आशा नाम जीवनेऽनुपमा स्फूर्तिप्रदायिनी काचिदपूर्वा शक्तिः । सैव मुमूर्षावपि जीवनाशां संचारयति । सैव वीरे वीराभिमानित्वम्, शूरे शौर्यम्, विदुषि वैदुष्यम्, धीरे धैर्यम्, साधी साधुत्वं च प्रसारयति । सैव दीने हीने खिन्ने विषण्णे विपन्नेऽपि च धैर्यमादधाति, दुःसहदुःखसहनशक्ति चाविष्करोति चेतसि । नेराश्यस्य घोरायां तमिस्रायामपि सेषाऽऽविर्भावयति जीवनशक्तिप्रदं जाज्वल्यमानं ज्योतिः । न ज्योतिरेतच्चला चपलेव क्षणभङ्गुरम् । जागत्यंदोऽहनिशं शान्तेऽपि स्वान्ते साधकस्य । ज्योतिरेतदेव प्रेरयति मुमुखं मोक्षाधिगमाय, साधकं साधनासिद्ध्यै, वाग्मिनं वाग्-वैशारद्याय, गुणिनं गुणग्रहणाय, विपश्चितं विद्यावैभवाय, कवि Page #292 -------------------------------------------------------------------------- ________________ आशा बलवती राजन् शल्यो जेष्यति पाण्डवान् २७५ काव्यकोशलाय, शूरं शौर्याय, धीरं धैर्याय च । अजस्रमेतदाचरति सुप्रिय सर्वलोकस्य । आशा परमं ज्योतिः - आशा नामेयं नितरामावश्यकी जीवनेऽस्मिन् । उपादेया चेयमुन्नतिमभिविधित्सुभिः । अस्ति चेच्चेतसि धैर्यंस्याऽऽधित्सा तहि नूनमियमाधेया । विपन्ने विषण्णे च मानसे धैर्यमादधात्याशैव । न हि विपच्छाश्वती, तदत्ययो ध्रुवः, निशावसानं नियतम्, निशात्यये उषस उद्गमोऽनिवार्यः, एवं विपदां क्षयोऽपि ध्रुवः, क्रमशः सम्पदां समुपस्थितिश्च सुनिश्चितेति विचारं विचारं धीधैर्यं धारयति । आशाबन्धः सुखावाप्तये - समाश्रिता चेदियं साधयत्यसाध्यमपि साध्यं साधूनाम् । परहितनिरता हि साधवः पीड्यन्ते पापिष्ठैः पुरुषः । अज्ञानसंभारसंक्षीणसद्भावा ह्यसाधवो न चिन्तयन्ति चारुचेतसां चरितानि । अपगते चाज्ञानमले त एव साधूनां सच्चरितानि चिन्तयन्ति, प्रशंसन्ति च तेषां परहितनिरतत्वम् । धृत्या आश्रयणेनैव साधवोऽसाधून विजयन्ते । प्रोषिते हि भर्तरि वियोगदुःखविधुरा वामा न लभन्ते जातु शान्तिम् । आशैव त्रायते तासां जीवनम् । सैव साहयति गुर्वपि विरहदुःखम् । अत आह कालिदासः - गुर्वपि विरहदुःखमाशाबन्धः साहयति । शा० ४-१६ अतिमृदुलं हि मानसं भवति मनस्विनीनाम् । आशाबन्धमन्तरेण न शक्यं ताभिर्विप्रयोगदुःखं सोढुम् । अत उच्यते— आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां, सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि । ( मेघ० पूर्व० ९ ) आशा आशा बलवती राजन् ० - आशामवष्टभ्यैव वीतरागभयक्रोधाः संसारासारत्वोपदेशदक्षा ऋषयो मुनयश्च मुमुक्षवस्तीक्ष्णं तपस्तप्यन्ते । माश्रित्यैवान्तेवासिनो महच्छ्रममनुष्ठाय परीक्षोदधिमुत्तीर्यं जीवने साफल्यं भजन्ते । महाभारतयुद्धे गते भीष्मे हते द्रोणे कर्णे च देवभूमिं गते आशामाश्रित्येव शल्यं सैनापत्येऽभ्यषेचयन् कौरवाः । अत एवोच्यतेगते भीष्मे हते द्रोणे कर्णे च विनिपातिते । आशा बलवती राजञ्छल्यो जेष्यति पाण्डवान् ॥ वेणी० ५-२३ देशाभ्युदयः समाजोन्नतिश्चाशाश्रयणेनैव संभवति । भारतवर्षे विविधाः पञ्चवर्षीया योजना देशाभ्युदयस्याशयैव प्रवर्त्यन्ते । अवगम्यत एवमाशाया महत्त्वम् । आशा तृष्णयोरन्तरम् — इदं चात्रावधेयम् । सूक्तं केनापि — 'अति सर्वत्र वर्जयेत्' । यद्याशैवैषा तृष्णारूपेण परिणमते चेद् भवत्येषैव विपदां निदानम् । नहि शाम्यति तृष्णा, तदुपकरणानि तु शाम्यन्ति । तावत्येवाशा श्रेयस्करी Page #293 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् सुखसाधनस्वरूपा च यावदियं नोल्लङ्घते स्वीयां मर्यादाम् । मर्यादातिक्रमे तु सर्वमेव दुःखात्मकतां भजते इत्यत्र न कस्यापि विपश्चितो विप्रतिपत्तिः । एतच्चेतसि कृत्वैव क्रियते कोविदैराशायास्तिरस्क्रिया, संतोषस्य च सत्क्रिया । उच्यते च___बाशा हि परमं दुःखं नैराश्यं परमं सुखम्।। न स्याज्जात्वाशाया वशंवदः, अपि त्वाशामेव वशंवदां विदधीत । आशा चेद् वशगा तहि सर्वोऽपि लोको वशगो भवेत् ।। अत उच्यते आशाया ये दासास्ते दासाः सर्वलोकस्य । आशा येषां दासी तेषां दासायते लोकः ॥ सू० र०, पृ० ७६ आशावशगस्य न भवति मोक्षः स्थविरत्वेऽपि । अतः साधूच्यते शंकराचार्येण चर्पटमंजर्याम् 'अङ्ग गलितं पलितं मुण्डं दशनविहीनं जातं. तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥' 'कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः।' तदेवं सिध्यत्यदो यत् तृष्णात्वेन नाश्रयेदाशाम् । आशां वशगां विधायक तामाश्रित्य च साधयेत् सकलं साध्यम् । Page #294 -------------------------------------------------------------------------- ________________ ८४. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी __(१. मातृदेवो भव; २. माता भूमिः पुत्रो अहं पृथिव्याः।) मातुर्महत्त्वम्-अस्मिन् संसारे मातैव सा शक्तिः, या विनय-माधुर्यशीला, ममतामूर्तिः, क्षमाप्रवणा, स्नेहसिक्ता, अनुरागरक्ता, सौम्यगुणसंपृक्ता, अनुरक्ताऽपि विरक्ता, लघ्वी अपि गुर्वी, अबलाऽपि सबला, कठोराऽपि मृद्वी, स्वीय-स्नेहादिगुणैर्भुवं दिवं चाप्यतिशेते । न मातुर्महत्त्वं कथमपि निर्वचनीयं वर्णनीयम् उपमेयं च । सा ह्यनुपमा अपूर्वा दिव्या च शक्तिः । सा ममताया आगारम्, गुणानां निधिः, शीलस्य मूर्तिः, विनयस्याकरः, क्षमायाः खनिः, स्नेहस्य सागरश्चास्ति अभूद् वर्तते वतिष्यते च । सा स्थैर्येण अचलम्, धैर्येण सागरम्, पावनत्वेन पवनम्, माधुर्येण पीयूषम्, क्षमया धरित्रीम्, सत्त्वोद्रेकेण पावकम्, आह्लादनेन चन्द्रमसम्, दीप्त्या भानुं चाप्यतिशेते। को हि शक्तो मातुर्गुणगणगणने । सा नाममात्रेण स्नेहं संचारयति, सद्भावान् आविर्भावयति, दुर्भावान् दमयते, विनयं प्रथयति, शीलं संपोषयति च । . वेदादिषु मातुर्गौरवम्-वेदेषूपनिषत्सु धर्मशास्त्रेषु च मातुर्महत्त्वं गौरवं चानेकधा प्रतिपाद्यते । यजुर्वेदे माता पावयित्री शोधिका च प्रोच्यते । 'आपो अस्मान् मातरः शुन्धयन्तु' ( यजु० ४-२ )। तैत्तिरीयोपनिषदि 'मातृदेवो भव' 'पितृदेवो भव' ( तै० १-११-२) इत्यनुशिष्यते । मनुना मातुर्महत्त्वं निर्दिश्यते यन्माता पितृसहस्रमपि गौरवेणातिरिच्यते। उक्तं च ___ सहस्रं तु पितृन् माता गौरवेणातिरिच्यते ॥ मनु० २-१४५ बालस्य पालन-संवर्धनादिषु यथाविधं क्लेशं पितरौ सहेते, तस्य आनृण्यं वर्षशतैरपि न शक्यम् । अतएव मनुनोच्यते यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।। न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ मनु० २-२२७ स्वधैर्य-क्षमादि-गुण-महत्त्वाच्च सा पृथिव्या मूर्तिर्मन्यते । माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः॥ मनु० २-२२६ मनूक्तदिशा पित्रोणुरोश्च शुश्रूषणं सर्वोत्तमं तपः। तयोनित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा । तेष्वेव त्रिषु तुष्टेषु तपः सर्व समाप्यते ॥ मनु० २-२२८ पित्रादेः शुश्रूषयैव चतुर्विध-फलावाप्तिर्मनुना शस्यते । अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि संप्रवर्धन्ते आयुर्विद्या यशो बलम् ॥ मनु० २-१२१ Page #295 -------------------------------------------------------------------------- ________________ संस्कृतनिबन्धशतकम् महाभारतेऽपि व्यासेन निर्दिश्यते - नास्ति मातृसमो गुरुरिति । दशाचार्यानुपाध्याय उपाध्यायान् पिता दश । पितॄन् दश तु मातैका सर्वां वा पृथिवीमपि ॥ गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः ॥ महाभारत एवमेव मातुर्महत्त्वम् अन्यत्रापि श्रूयते - ' माता परं दैवतम्', गुरुतरा भूमेः । मातैव शिशोर्विविधकार्य संपादनात् शक्ति-धात्री - जननी - अम्बाइत्यादिभिः शब्दः स्तूयते । उक्तं च 'माता कुक्षौ संधारणाद् धात्री जननाज्जननी तथा । अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः ॥ शिशोः शुश्रूषणाच्छक्तिर्माता स्यान्माननाच्च सा ॥ २७८ माता स्वर्गाद् गरीयसी - मातैव शिशोः सर्वस्वम् । मातैव ममताया: खनिः, कारुण्यस्य मूर्तिश्च । सा शिशु -हित- चिन्तनपरा, शिशुसंरक्षणसंसक्ता कष्टसहस्रमपि तृणवद् गणयति । शिशोः संवर्धनं रक्षणं पालनं सर्वविधसमुत्कर्षंश्च तस्या जीवनस्य लक्ष्यम् । मातृ स्नेह - जल-सिक्तो बाल-पादपो विकसति वर्धते पुष्णाति च । स्नेह-वारि-विहीनस्य बालस्य नान्या गतिरभ्युदयस्य । अतएव बालोऽपि मातरं स्व- जीवन - सर्वस्वं स्वर्गाद् विशिष्टं च मनुते । अतएव जननी स्वर्गादपि गरीयसी स्मर्यते । मातृभूमेराकर्षणम् - सा मानवस्य मातृभूमिजन्मभूमिर्वा, यं प्रदेश स स्वजनुषाऽलंकरोति । मातृभूमि - क्रोड - लालितस्य जनस्य स्वजन्मभूमि प्रति तथाविधोऽनुरागो जायते यत् स यावज्जीवनं मातृभूमि स्मरत्येव । तन्नामस्मरणमात्रेण तन्नामधेय-श्रवणेन चाह्लादमनुभवति । लोके यः कोऽपि मानवः स्यात्, तस्य स्वमातृभूमि प्रति गुरुतमा भक्तिः प्रीतिरनुरक्तिश्च । न तस्या आनृण्यं कथमपि साधयितुं शक्यम् । मातृभूमिर्हि मानवानां गरिष्ठा प्रेष्ठा वरिष्ठा च । मातृभूमेर्रजोऽपि स्वर्गादधिकां चमत्कृतिम् आतनोति । बालो युवा वृद्धो वा मातृभूमि स्नेहम् आश्रित्यैव आत्मसमर्पणमपि विधित्सति । अयोध्या । सरयूं च प्रेक्ष्य भावविह्वलस्य रामस्य भावाभिव्यक्ति कालिदासो मनोज्ञया पदावल्या तनुते । यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवधितानाम् । सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम् ॥ सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूवियुक्ता । दूरं वसन्तं शिशिरानिलैमी तरङ्गहस्तैरुपगूहतीव ॥ रघुवंश १३-६२,६३ Page #296 -------------------------------------------------------------------------- ________________ जननी जन्मभूमिश्च स्वर्गादपि गरीयसी २७९ माता भूमिः पुत्रो अहं पृथिव्याः - वेदेषु विशेषतश्चाथर्ववेदस्य भूमिसूक्ते मातृभूमेर्वेशिष्ट्यस्य ६३ मन्त्रेषु विशदं वर्णनम् अवाप्यते । मातृभूमिः कथमिव द्विपदश्चतुष्पदश्च धारयति । मानव-रक्षण - पुरःसरं सैव ज्ञान - ज्योतिरपि ज्वलयति । त्वज्जातास्त्वयि चरन्ति मयस्त्वं बिभर्ष द्विपदस्त्वं चतुष्पदः । तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येम्य उद्यन्त्सूर्यो रश्मिभिरातनोति । अथर्व० १२-१-१५ मातृभूमेर्मातृरूपेण वर्णनं न कस्य सचेतसश्चेत आवर्जयति । भूमिर्माताऽदितिर्नो जनित्रम् द्यौर्नः पिता । अथर्व० ६-१२०-२ सा सुवर्णमयी भूमिः सततं समेषां प्रणतिमर्हति । तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः । अथर्व ० १२-१-२६ सा मातृभूमिरस्मान् पुत्रवद् गणयन्ती सुखं समृद्धि तेजश्च दिशेत् । तत्पुत्रा वयं सहोदरवद् व्यवहरेम । .... सा नो भूमिविसृजतां माता पुत्राय मे पयः । अथर्व० १२-१-१० सा नो भूमे प्ररोचय हिरण्यस्येव संदृशि, मा नो द्विक्षत कश्चन । अथवं १२-१-१८ सा ज्ञानं वाग्मित्वं समृद्धिं च वितरेत् । सेयं मातृभूमिः श्रियै प्रतिष्ठायै भूत्यै चाजस्रं प्रार्थ्यते । न केवलमेतदेव, साक्षाद् मातृभूमेः पुत्रत्वम् अङ्गीकृत्य तद्वदाचरणं समथ्यंते । वाचो मधु पृथिवि धेहि मह्यम् । अथर्व ० १२-१-१६ भूमे मार्तान घेहि मा भद्रया सुप्रतिष्ठितम् । संविदाना दिवा कवे श्रियां मां धेहि भूत्याम् ॥ अ० १२-१-६३ माता भूमिः पुत्रो अहं पृथिव्याः । अथर्व० १२-१-१२ मातृभूमेगौरवम् - मातृभूमेरेवैतद् गौरवं यद् वीरा धीरा युवानो युवत्यः स्थविराश्च सोत्साहं सहर्षं च मातृभूमिसंरक्षणार्थम्, परतन्त्रता -पाश-विच्छेदार्थं च स्वजीवनं बलिदानभावनया समर्पयन्ति । को नु शक्नोति वर्णयितुं क्रान्तिध्वज-धारिणां धीरधौरेयाणां वीरवरेण्यानां भगतसिंह चन्द्रशेखर आजादरामप्रसाद बिस्मिल - वीर सावरकर - खुदीराम बोस - प्रभृतीनां पुण्यानि चरितानि । परतन्त्रता-पाश-विच्छेदार्थं कतिभिर्न वीरैः स्वजीवनानि मातृभूमि- चरणेषु समर्पितानि । देशभक्ति-भावनयैव प्रेरिताः पुण्यात्मानो महात्मानो महर्षिदयानन्द Page #297 -------------------------------------------------------------------------- ________________ २८० संस्कृतनिबन्धशतकम् स्वामिविवेकानन्द-लोकमान्य बालगंगाधर तिलक-लाला लाजपतराय-चितरञ्जनदास-गोपालकृष्ण गोखले-महात्मा गान्धि-सुभाषचन्द्रबोस-जवाहरलालनेहरुसरदारवल्लभ भाई पटेल-श्यामाप्रसाद मुकर्जी-प्रभृतयो धीरतल्लजा विद्वदग्रेसराः स्वीयं सर्वस्वं समर्प्य देशोधृति-भावना-भावितान्तरात्मानो देशे विदेशेषु च भारतभूगौरवम् अभ्यवर्धयन् । देशभक्ति-भावनैव सा भावना याऽन्तश्चेतनां प्रेरयति उद्बोधयति च । सैव दिव्यशक्तिरूपेण मुमूर्षों मृतप्राये च प्राणसंचारं विदधाति । देशभक्तिभावनोद्भासित-चेतसो न दुःखं गणयन्ति, न सुखं कामयन्ते, न कष्टजातं चिन्तयन्ति, न विघ्नसहस्रं समीक्षन्ते, न भौतिकाभ्युदयं लिप्सन्ते, न स्वार्थ संपिपादयिषन्ति, न च स्वोत्साह-भङ्गम् ईहन्ते । ते लक्ष्यैकप्रवणाः, कार्य वा साधयेयं शरीरं वा पातयेयम्' इति मन्त्रम् उद्घोषयन्तः, 'वांसासि जीर्णानि यथा विहाय०' 'नैनं छिन्दन्ति शस्त्राणि०' इति च व्याहरन्तः सह शूलिमप्यालिङ्गन्ति, गोलिकापातमपि सहन्ते, मृत्युदण्डमपि कामयन्ते, जीवनोत्सर्ग च समीहन्ते । विष्णुपुराणे भारतभुवो गौरवं प्रोच्यते, गायन्ति देवाः किल गीताकानि, धन्यास्तु ते भारतभूमिभागे। स्वर्गापवर्गास्पदमार्गभूते, भवन्ति भूयः पुरुषाः सुरत्वात् ॥ भारतमातुर्गौरवकीर्तनार्थमेव प्रोच्यते वन्दे मातरम् । सुजलां सुफलां मलयजशीतलाम्। शस्यश्यामलां मातरम्, बन्दे मातरम् ॥ अपि च हुतात्मनां भस्म निधाय मूनि, स्वजीवनोत्सर्गवता अजस्रम् । असून् जहुर्ये निजराष्ट्रहेतोस्त एव देवा अमराः सुराश्च ॥ ( कपिलस्य ) हुतात्मनां चरित्रं तु सर्वदोषविनाशकम् । अनुकुर्वन् नरो नूनं सर्वपापैः प्रमुच्यते ॥ ( कपिलस्य ) Page #298 -------------------------------------------------------------------------- ________________ ८५. संघे शक्तिः कलौ युगे (संहतिः श्रेयसी पुंसाम् ) संघस्योपयोगित्वम्--जगति प्रतिपदम् अवलोक्यते यत् संघेनैव कार्यसिद्धिः संपद्यते । एकम् उद्देश्य लक्ष्यीकृत्य बहूनां लोकानाम् एकत्वभावनया कार्यकरणं संहतिः, एकता, संगठनम्, संघो वाऽभिधीयते। संघः संहतिः एकता वा स गुणो वर्तते यो व्यक्ती समाजे राष्ट्र चापूर्वी चमत्कृतिम् आदधाति । संघबलेनैव समाजो देशश्च उन्नतिपथम् अधिरोहतः । संहतिमूला शक्तिनं केनापि व्यवच्छेत्तुं संधर्षयितुं वा पार्यते।। __ संहतेमहत्त्वम्-वैदिकं वाङ्मयम् अनुशील्यते निरीक्ष्यते चेत् तत्रैकत्वभावनायाः सहयोगस्य सामञ्जस्यस्य च महत्त्वं प्रतिपाद्यते । ऋग्वेदेऽन्तिमसूक्ते एकतायाः संहतेश्च महत्त्वं निर्दिश्यते । तत्रादिश्यते यत् समेत्य समवायरूपेण वा गमनं वचनं चिन्तनं मननं मन्त्रणं वा श्रेयसे भवति । उक्तं च सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ॥ समानो मन्त्रः समितिः समानी, समानं मनः सह चित्तमेषाम् । समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥ समानी व आकूतिः समाना हृदयानि वः। . समानमस्तु वो मनो यथा वः सुसहासति ॥ ऋग्० १०. १९१. २-४ अथर्ववेदे सामञ्जस्यस्य द्वेषाभावस्य पारस्परिकसहयोगस्य एकलक्ष्यतायाश्चादेशः प्राप्यते । गौर्यथा वत्से स्निह्यति, तथैव पारस्परिकं सौहार्द स्यात् । रथेऽरा इव समाजे सहयोगं कुर्वन्तो लोका अभ्युदयं लभेरन् । तेषां भोजनस्थानं जलपानस्थानं चैकरूपं स्यात् । एवम् एकोद्देश्यत्वे सति समाजोन्नतिः राष्ट्रोन्नतिश्च संपत्स्यते । सहृदयं सांमनस्यमविद्वेषं कृणोमि वः। अन्यो अन्यमभि हर्यत जातं वत्समिवाघ्न्या ॥ अथर्व० ३-३०.१ समानी प्रपा सह वोऽन्नभागः, समाने योक्त्रे सह वो युनज्मि । सम्यञ्चोऽग्नि सपर्यतारा नाभिमिवाभितः ॥ अथर्व० ३-३०-६ संघस्य लोकोपयोगित्वम्-जीवने प्रतिपदं संघस्योपयोगिता प्रेक्ष्यते । यत्र यत्र संघस्तत्र तत्र बलं शक्तिमत्त्वं च । पराधीनता-पाश-निगडितस्य भारतस्य भारतीयानाम् एकतया सहयोगेन च स्वातन्त्र्यलाभः । एकताया अभावादेव भारतं पराधीनता-पाश-निबन्धनम् आससाद । महात्मनो गान्धेर्नेतृत्वे लोकैकत्वभावोदयेन पराधीनता-पाश-छेदनं समजायत । Page #299 -------------------------------------------------------------------------- ________________ २८२ संस्कृतनिबन्धशतकम् संहतिः श्रेयसी पुंसाम्-संहतेबलेनैव तृणानि रज्जुभावं समासादयन्ति । ततश्च गजेन्द्रोऽपि बध्यते । जल-बिन्दु-समूह एव नदीत्वं सागरत्वं चाप्नोति । रजःकणसमूह एव महापर्वतरूपं धत्ते । तन्तुसमूह एव सुदृढ-पटरूपेण परिणमति । अतएवोच्यते-संहतिः श्रेयसी पुंसाम् । संहतेमहत्त्वं नीतिशास्त्रकारैः प्रतिपाद्यते यद् अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥ हितो० १-३४ । यत्रैवैकताया अभावो विरोधो वैषम्यं च, तत्र कार्यस्यासिद्धिः क्षयो नाशो विनाशो हानिरधोगतिर्वा लक्ष्यते । अतों महाभारते प्रोच्यते न वै भिन्ना जातु चरन्ति धर्म, न वै सुखं प्राप्नुवन्तीह भिन्नाः । न वै भिन्ना गौरवं प्राप्नुवन्ति, न वै भिन्नाः प्रशमं रोचयन्ति ॥ अतएव संबन्धिनो ज्ञातयः सुहृदश्च न विरोध्याः। तुरैरपि परित्यक्तास्तण्डुला न प्ररोहन्ति । उक्तं च संहतिः श्रेयसी पुंसां स्वकुलरल्पकैरपि । तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ हितो० १-३५ संघे शक्तिः कलो युगे यदि साम्प्रतं भुवनेऽवलोक्यते चेत् तहि सर्वत्रैव आर्थिक सामाजिके औद्योगिके राष्ट्रिय राजनीतिके शैक्षिके च क्षेत्रे संघस्य महत्त्वं प्रेक्ष्यते । आर्थिकक्षेत्रे श्रमिकाणाम् , व्यवसायिनाम्, शिल्पिनाम्,चर्मकाराणाम, नापितानाम, रिक्शा-चालकानाम्, मोटरचालकानाम्, प्रकाशकानाम्, लेखकानाम्, औद्योगिकानाम्, बैंक-कर्मचारिणाम, मिलश्रमिकाणां च शतशः संघा दृष्टिपथमुपयान्ति । सामाजिकक्षेत्रे छात्राणाम्, लेखकानाम्, साहित्यिकानाम्, कलाकाराणाम्, महिलानां च विविधाः संघाः समीक्ष्यन्ते श्रूयन्ते च । राष्टिरक्षेत्रे विविध-वाद-प्रवर्तकाः संघा दृग्गोचरताम् उपगच्छन्ति, यथा-समाजवादिनाम्, साम्यवादिनाम्, शोषितानाम्, कृषकाणाम, लोकतन्त्रादिवादिनां विविधाः संघाः कस्य न श्रुतिपथमवतरन्ति । एवमेव कांग्रेस-जनसंघ-भारतीय लोकदल-भारतीयक्रान्तिदल-समाजवादि-साम्यवादि-प्रभृतयोऽनेके राजनीतिकसंघाः प्रचरन्ति । नाटो-सीटो-प्रभृतयो देशसंघाः, संयुक्त राष्ट्र-संघश्च विश्वदेशसंघाः प्रावर्तन्त। संयुक्तराष्ट्रसंघो विश्वहितचिकीर्षया विश्वदुःखपरिजिहीर्षया च प्रवर्तितः संघः। लोके एकाकिनो जनस्य बालस्य स्थविरस्य वा न तथा शक्तिसंपुष्टं गौरवास्पदं च वचनम्, यथा तत् सर्वत्राद्रियेत । कार्यसाधनक्षमत्वं संहतो एकतायां Page #300 -------------------------------------------------------------------------- ________________ संघे शक्तिः कलौ युगे २८३ च दरीदृश्यते । समूहावलम्बनम् अनाश्रित्य विहितं कर्म न तथा सद्यः फलदायि कार्यसिद्धिसाधकं च, यथा समवायेन समूहाश्रयणेन च । अतएव लोके विविधाः संघाः प्रवर्त्यन्ते । समूहाश्रयस्य कार्याणि लक्ष्यं चाल्पीयसैवायासेन सिध्यन्ति । वस्तुतः कलो काले संघ एव कार्यसाधकः, कष्टशमकः, दुर्गति-दमकः, अवृत्तिनिरोधकः, शोषणनाशकः, हितसंपादकः, अदम्योत्साहसंचारकश्च । अतएव शस्यते संघे शक्तिः कलौ युगे। Page #301 -------------------------------------------------------------------------- ________________ ८६. चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च (१) कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा; ( २ ) नोचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण; ( ३ ) पतनान्ताः समुच्छ्याः ; (४) चकारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः । जगतः परिवर्तनशीलत्वम्-निखिलं जगदिदं परिवर्तनशालि । प्रतिक्षणं प्रतिपलं सर्वोऽपि भूतग्रामः स्वात्मनि परिवत्तिमनुभवति । परिवत्तिधर्मत्वमेवास्य भुवनस्य विलोकं विलोकं विपश्चिद्भिः ‘गच्छतीति जगत्' इति निर्वचनमाश्रित्य जगदिति नामधेयं विहितम् । 'संसरति गच्छति चलति वेति संसारः, संसृतिर्वा' इति व्युत्पत्तिनिमित्तकं संसारः संसृतिरिति च नामद्वयं प्रवर्तितं कोविदः । जगत्, संसारः, संसृतिरित्यादयः शब्दाः समुद्घोषयन्ति संसारस्य परिवर्तनशालित्वम् । नेह किञ्चिद्वस्तु शाश्वतं, स्थिरम्, अपरिवर्तनशालि वा । यदा सर्वस्य लोकस्येदृश्यवस्था तदा न संभवति मानवजीवनस्यापरिवृत्तित्वम्, तत्रापि च सुखस्य दुःखस्य वा समावस्थया समवस्थानम् । प्रकृतौ परिवर्तनम-जगति यथर्तवः परिवर्तन्ते, यथा सप्तसप्तिरुदेति, विधुरस्तमेति, निशाकरश्चोदयं याति, प्रभाकरश्चास्तमुगच्छति, यथा रात्रेरनन्तरं दिनं दिवसानन्तरं च विभावरी, तथैव सुखानन्तरं दुःखं, दुःखानन्तरं च सुखम्, सम्पदनन्तरं विपत्, विपदनन्तरं च सम्पदिति । सर्वमेतत् परिवर्तनस्य क्रममात्रम् । एतदेव तथ्यं समीक्ष्य सन्दिशति शाकुन्तले कविकुलगुरुः कालिदास:-'यात्येकतोऽस्तशिखरं पतिरोषधीनाम्, आविष्कृतोऽरुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ( शाकु० ४।२)। उत्थानं पतनम्, उत्कर्षोऽपकर्षः, जन्म मृत्युः, सम्पत्तिविपत्तिः, सुखं दुःखमिति च परिवृत्तेरवस्थान्तरमेव नान्यत् । यथा शैशवं, तदनु यौवनं, तदनु वार्धकम्, तदनु देहावसानं, तदनु जन्मान्तरं, तदनु पुनः शैशवम् । एवमेव जीवने सुखदुःखे परिवर्तेते। परिवृत्ते रवश्यंभावित्वादनिवार्यत्वाच्च । परिवर्तनस्यावश्यकता-संभवति परिवर्तनेऽस्मिन् केषामप्यापत्तिरनिष्टापत्तिर्वा । परं निपूर्ण विचार्यते तर्हि प्रतीयते परिवृत्तेः सुतरामावश्यकतोपयोगिता च । भुवनेऽस्मिन् नाभविष्यत् परिवर्तनं चेन्नाभविष्यत् प्रगतिरुन्नतिरभ्युदयश्च लोकानाम् । ऋतूनां परिवृत्तिमन्तरेण नाभविष्यत् वसन्तो, ग्रीष्मो वर्षा वा। न चेदभविष्यत् सवष्टि भविष्यत् सुभिक्षम् । नाभविष्यच्चेद् दुःखं नानुभूतमभविष्यत् सुखम् । दुःखस्य सत्तैव सुखमनुभावयति, सुखस्य सत्ता च दुःखम् । यद्येको यावज्जीवं सुखं सम्पत्तिमेवानुभवेदन्यश्च दुःखं विपत्तिमेव वा, तर्हि न प्रसरिष्यति लोकस्थितिः । कर्मणामावश्यकतोपयोगिता चानुभूयते सर्वैरेव । कर्मविपाकोऽपि नियतोऽत: कर्मानुरूपं । Page #302 -------------------------------------------------------------------------- ________________ चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च २८५ कश्चित् स्वकृत- सुकृतपरिपाकरूपेण सुखमधिगच्छति, तद्विपर्ययेण च दुःखम् । सुखदुःखं परिवर्तमानमेतत् सुतरां शिक्षयति निखिलं जगत् सुकृत्यस्य सत्परिणामित्वं, दुष्कृत्यस्य च दुष्परिणामित्वम् । । परिवृत्तेरेतस्या महत्त्वमालोक्यैव महाकविभिर्विविधाः सूक्तयो विषयेऽस्मिन् वणिताः । यथा च - ( क ) अतोऽपि नैकान्तसुखोऽस्ति कश्चिन्नैकान्तदुःखः पुरुषः पृथिव्याम् | ( बुद्धचरितम् ११-४३ ) | ( ख ) भाग्यक्रमेण हि धनानि भवन्ति यान्ति ( मृच्छ० १।१३ ) । - सुखदुःखयोः स्वरूपम् — किं नाम सुखं, किञ्च दुःखमिति । सुखदुःखस्य बहूनि लक्षणानि वर्ण्यन्ते विविधैः शास्त्रकारैः । भगवान् मनुरत्र निर्दिशति यत् सर्वमात्माधीनं सुखम्, आत्मायत्तत्वं वा सुखत्वमिति, परायत्तत्वं च दुःखत्वमिति । तदाह - 'सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतद् विद्यात् समासेन लक्षणं सुखदुःखयो:' । केचन चान्ये सुखदुःखयोर्लक्षणं निगदन्ति । सु सुष्ठु सुखकरं वा खेभ्य इन्द्रियेभ्य इति सुखम्, ज्ञानेन्द्रियेभ्यः सुखकरं यत् तत्सुखमिति । एवमेव ज्ञानेन्द्रियेभ्यो दुःखकरं यत् तद् दुःखमिति । मन्मत्या तु लक्षणान्तरमपि शब्दयोरनयोः सम्भवति । सुष्ठु खानि सुखानि, दुष्टानि खानि दुःखानि इति । इन्द्रियाणि चेत् संयतानि तर्हि सर्वमपि विषयजातं सुखत्वमापद्यते । दुष्टानि चेदिन्द्रियाणि तर्हि सर्वोऽपि विषयग्रामो दुःखत्वेनापतति । इत्थं सुखदुःखशब्दद्वयमेवेन्द्रियसंयमस्य महत्त्वमुपदिशति । कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा - सुखवद् दुःखस्यापि जीवने - नल्पं महत्त्वम् । दुःखनिशीथिनीं धृत्योत्तीर्यैव धीराः श्रीकौमुदीमाकाङ्क्षन्ति । अननुभूय दुःखं न सुखं साधूपभुज्यते । अतः साधूच्यते—– सुखं हि दुःखान्यनुभूय शोभते ( मृच्छ० १।१० ), यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् (विक्रमो०३।२१ ) । समीक्ष्यते चैतत् प्रत्यहं यन्न सुखं सुलभं दुःखानुभूतिमन्तरा प्रत्यवायमन्तरेण च । दुःखमनुभूय प्रत्यूहान् निरस्य च श्रेयः सुलभम् । अत एवाभिधीयते - श्रेयांसि लब्धुमसुखानि विनान्तरायैः ( किराता० ५/४९ ), विघ्नवत्यः प्राथितार्थसिद्धयः ( शाकु० अङ्क ३ ) । चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च -- कर्मविपाकस्य बलीयस्त्वात् समापतति चेद् दुःखं तर्हि किं नु विधेयं वराकेण विपद्ग्रस्तेन । दुःखोदधौ निमग्नेन धैर्यमेवावलम्बनीयम् । धैर्यमाश्रित्यैव धीराः विपत्पारावारमुत्तरन्ति । पारावारे पोतभङ्गेऽपि सांयात्रिको धृतिमवष्टभ्य तितीर्षत्येव । उक्त च - ' त्याज्यं न धैर्यं विधुरेऽपि काले, धैर्यात् कदाचिद् गतिमाप्नुयात् सः । याते समुद्रेऽपि च पोतभङ्गे, सांयात्रिको वाञ्छति तर्तुमेव' । घोरे दुःखेऽपि नर आत्मशक्तिमाश्रयते चेत् स दुःखप्रहाणि कर्तुं प्रभवति । नहि किंचिदसाध्यमात्मशक्त्या । आत्म Page #303 -------------------------------------------------------------------------- ________________ २८६ संस्कृतनिबन्धशतकम् शक्तिहि सर्वोदयस्य मूलम् । सा दुःखविभावरी स्वप्रखरांशुभिः सद्यः संहरति । अत उच्यते-'उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ धैर्यधना हि साधवः। ते सम्पदि न हृष्यन्ति, न च विपदि विषीदन्ति । अतः सुखदुःखे समे कृत्वा प्रवर्तेत । सम्पदि विपदि च महतामेकरूपतैव लक्ष्यते । यथा चोच्यते-'उदेति सविता ताम्रस्ताम्र एवास्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता' । अतः सम्पदि न हृष्येत्, न च विपदि विषीदेत् । विपदि धैर्यमाधाय चेतसि स्वीयं कर्तव्यमतिवाहयेत् ॥ Page #304 -------------------------------------------------------------------------- ________________ ८७. आर्जवं हि कुटिलेषु न नीतिः ( १. शठे शाठ्यं समाचरेत; २. मायाचारो मायया बर्तितव्यः, ३. मृदुर्हि परिभूयते ।) शठेषु आर्जवं न हिताय-आर्जवं साधुत्वम्, ऋजुता, विनयाश्रिता च पद्धतिनिगद्यते । लोके द्विविधा प्रवृत्तिर्मानवानाम्, साधुत्वमूला असाधुत्वमूला च । साधुत्वमूला प्रवृत्तिः सद्भावान् संचारयति, सद्गुणान् प्रबोधयति, किन्तु असाधुत्वमूला प्रवृत्तिः असाध्वाचरणे, परार्थघाते, स्वार्थसाधने, स्तेयादिना धनसंग्रहे, विषादिप्रयोगेण परस्वहरणे च प्रेरयति । असाधुवृत्तयो जनाः स्वस्य देशस्य च घोरम् अहितं विदधति । एतादृशा एव दुर्वत्ता दुराचारा वश्चकाः पापाचाराश्च शठशब्देन गृह्यन्ते । तथाविधा नरा देश-समाज-राष्ट्रादीनाम् अवनतेः कारणानि । एते कण्टकवद् यत्र कुत्रापि स्थिता दोषजातमेव प्रवर्तयन्ति । एतेषां हननं ताडनं निष्कासनं नियन्त्रणं परिपीडनं च शास्त्रकारैरादिश्यते । तथाविधेषु करुणा दया आजवं वा न कथमपि हिताय प्रवर्तते । शठे शाठ्यं समाचरेत्-नीतिशास्त्रकारैरनुमोद्यते यद् यस्मिन् यो यथा वर्तते, तस्मिन् तथैव वर्तितव्यम् । साधुस्वभावः साधुस्वभावेनोपगन्तव्यः, खलो दुर्जनो वा मायाचारेण अपकारेण निग्रहेण वोपगम्यः । महाभारतेऽतएव यथायोग्यव्यवहार आदिश्यते । यस्मिन् यथा वर्तते यो मनुष्यस्तस्मिस्तथा वर्तितव्यं स धर्मः। मायावारो मायया वर्तितव्यः, साध्वाचारः साधुना प्रत्युपेयः॥ महा० महाभारते साहसिका जना आततायिनो गण्यन्ते । यथा-गृहादिदाहकः, विषप्रदः, वधकर्ता, धनहर्ता, स्त्रीहर्ता च । अग्निदो गरवश्चैव शस्त्रोन्मत्तो धनापहः। क्षेत्रदारहरश्चैतान् षड् विद्यावाततायिनः ॥ मनु० आततायिनमायान्तं हन्यादेवाविचारयन् ॥ मनु० ८-३५० - आततायिनां वधे न कश्चन दोषो गण्यते । आततायिनम् आगच्छन्तमेव हन्यात् । आततायिनां वधादिः, साहसप्रवृत्तस्य च शासनं राज्ञः प्रथमं कर्तव्यम्, न च तान् उपेक्षेत । न केवलमेतदेव, अपि तु शठ-निग्रहार्थ शस्त्रग्रहणं द्विजातीनां कृते आदिश्यते । आत्मरक्षार्थम्, स्त्री-विप्रादिरक्षार्थ शठं निघ्नन् जनो न दोषभाग् भवति ।। आत्मनश्च परित्राणे दक्षिणानां च संगरे । स्त्रीविप्राभ्युपपत्तोच, धर्मेण घ्नन् न दुष्यति ॥ मनु० ८-३४९ Page #305 -------------------------------------------------------------------------- ________________ २८८ संस्कृत निबन्धशतकम् मायाचारो मायया वतितव्यः-महाभारतकता व्यासेन साधच्यते यद मायाविना सह माययैव वर्तितव्यम् । नीतिकारैर्महाकाव्यकारैश्च शठे शाठ्यमेव समर्थ्यते । नीतिकारैरादिश्यते यत् ‘पयःपानं भुजङ्गानां केवलं विषवर्धनम् ।' कालिदासेनापि निर्दिश्यते यत्-'शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः' । महाकविना भासेनापि एतदेव समर्थ्यते–'मृदुर्हि परिभूयते' (प्रतिमानाटक १-१८)। महाकविना श्रीहर्षेण नैषधीयचरिते प्रतिपाद्यते यद् 'आर्जवं हि कुटिलेषु न नीतिः' । महाकविना भारविणा विषयेऽस्मिन् विशदं विविच्यानुमोद्यते यत् खलेषु आर्जवं न नीतिसंमतम् । किरातार्जुनीये तेनाभिधीयते यद् मायाविनः शठा धृश्चेिषव इव मर्मस्थलभेदिनो भवन्ति । तादृशा नराः शाठयेनैव शिक्षणीयाः । यत्र मन्युः क्रोधो वा भवति, तस्यैव नरा वशवर्तिनो भवन्ति, अन्यस्य तु उपहासास्पदत्वं भवति । उक्तं च-- व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः। प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान् निशिता इवेषवः॥ अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः। अमर्षशून्येन जनस्य जन्तना न जातहार्देन न विद्विषादरः॥ . किराता० १-३०, ३३ आर्जवं हि कुटिलेषु न नीतिः-महाकविना माघेनापि समर्थ्यते यद् रोगः शत्रुश्च कथमपि नोपेक्ष्यौ, यतो हि तौ वृद्धिमापन्नौ दोषाय विनाशाय च संपद्यते। उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता। समौ हि शिष्टैराम्नातौ वय॑न्तावामयः स च ॥ शिशु० २-१० अरातेः समूलमुन्मूलनेन विना प्रतिष्ठा दुर्लभा, यथा धूलिं पङ्कताम् अप्रापय्य उदकं नावस्थातं शक्नोति । विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ शिशु० २-३४ अन्यत्र च माघेन प्रतिपाद्यते यद् यावदेकोऽपि शत्रुरवशिष्यते तावन्न सुखं शयितुं शक्यम् । तथाविधो दुर्जनः प्रतिपदं क्लेशायैव संजायते । समेषामपि सुराणां समक्षं राहुः सुधांशु ग्रसते क्लिश्नाति च । ध्रियते यावदेकोऽपि रिपस्तावत् कुतः सुखम् । पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥ शिशु० २-३५ अतएव साधूच्यते केनापि-'अग्नेः शेषम् ऋणाच्छेषं शत्रोः शेषं न शेषयेत्'। Page #306 -------------------------------------------------------------------------- ________________ आर्जवं हि कुटिलेषु न नीतिः २८९ कण्टकेनैव कण्टकम्-लोकेऽपि दृश्यते यत् कण्टकेनैव कण्टकम् उध्रियते, एवं खलोऽपि आर्जवमनाश्रित्य शठत्वाश्रयणेनैव दुश्चरिताद् व्यावर्तते । होम्योपैथिकचिकित्सा-पद्धतावपि 'विषस्य विषमौषधम्' इति सिद्धान्त आस्थीयते । ऐलोपैथिक-चिकित्सा-पद्धतौ तु सर्पमुखघर्षणप्रक्रियाम् आश्रित्य सद्योरोगोपशमन-प्रक्रिया क्रियते । नहि शठः साधुनोपायेन सत्पथम् आश्रयते। ऐतिह्यमप्येतदेव शिक्षयति यत् शठे शाठ्येनैव व्यवहरेत् । तथैव कार्यसिद्धिः साफल्यं च । अतएव कालिदासेनाप्यभिधीयते शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः॥ कुमार० Page #307 -------------------------------------------------------------------------- ________________ ८८. धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुत्तमम् ( १. शरीरमाद्यं खलु धर्मसाधनम्, २. आरोग्यम् ) आरोग्यस्य पुरुषार्थसाधनत्वम्-धर्मार्थकाममोक्षाः पुरुषार्थचतुष्टयं मन्यते । एतत् पुरुषार्थचतुष्टयमेव जीवनस्य लक्ष्यत्वेन निर्धार्यते । एकेनाप्यङ्गेन हीनं पुरुषार्थचतुष्टयं न जीवनोद्देश्यपूर्तये प्रभवति । कथमिव साध्यं पुरुषार्थचतुष्टयमिति जिज्ञासायाम् आरोग्यमेव तन्मूलत्वेन गृह्यते । सति जीवने नीरोगे, सति शरीरे स्वस्थे हृष्ट पुष्टे, सति च मानसिकविकासे मानवस्य सर्वोऽप्यभिलाषः, सर्वाऽपि महत्त्वाकाङ्क्षा, सर्वमप्यभीष्टं सुकरेणैवोपायेन सिध्यति । दीने, हीने, रुग्णे, आधिव्याधिसन्तप्ते, चिन्तासहस्रनिचिते, विक्षिप्तत्वादिदोषयुक्ते च न संभवति पुरुषार्थचतुष्टयावाप्तिः । अतएव महाभारते जीवलोकस्य षट्सुखवर्णने व्यासेन आरोग्यं प्राधान्येन निर्दिश्यते अर्थागमो नित्यमरोगिता च, प्रिया च भार्या प्रियवादिनी च। वश्यश्च पुत्रोऽर्थकरी च विद्या, षड् जीवलोकस्य सुखानि राजन् ॥ महाभारत शरीरमाद्यं खलु धर्मसाधनम्-सर्वस्य लोकस्य सुखमभीप्सितम्, शान्तिरिष्टा, समृद्धिश्च मनस्तोषप्रदा। परं सुख-शान्तेरवाप्तिः नैरोग्यमन्तरेण, शारीरिकस्वास्थ्यम् अपहाय च कथमपि न संभवति । स्वस्थे चित्ते एव नैरोग्यं स्वास्थ्यं च । पुरुषार्थचतुष्टयावाप्तिः अध्यवसायजन्या, अध्यवसाय: श्रमम् अपेक्षते, श्रमः स्वास्थ्यम्, स्वास्थ्यं नीरोगत्वम्, नीरोगत्वं चित्तप्रसादम्, चित्तप्रसादश्च सद्वत्तम् अपेक्षते । एवं वृत्तं शीलं वा स्वास्थ्यस्य परमं मूलम् । अतएव व्यासेन मनुना चोच्यते वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च । अक्षीणो वित्ततःक्षीणो वृत्ततस्तु हतो हतः॥ महा० आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः। आचाराद् धनमक्षय्यम् आचारो हन्त्यलक्षणम् ॥ मनु० ४-१५६ आरोग्यस्य धर्ममूलत्वम्-धर्मकृत्येषु सत्याहिंसा-ब्रह्मचर्यपालनम्, लोकसेवा, परोपकरणम्, यज्ञ-दान-तपःपूजोपासनादिकम्, सर्वमप्येतद् धर्मकृत्यम् आरोग्यायत्तम् । स्वस्थेनैव मानसेन, नीरोगेणैव मानवेन च यज्ञादिविधिः, पूजाकर्म, प्राणायामादिकम्, सन्ध्योपासनम्, विविधव्रतपालनम्, संयमः, शरणागतरक्षणम्, स्वाध्याय-प्रवचनम्, अध्यापनम् , अध्ययनम्, सदाचार-नियमपालनं च कर्तु पार्यते । न च निर्बलेन, रोगग्रस्तेन, शारीरिकबलहीनेन, खिन्नेन, निराशेन, विषण्णेन, चिन्ताततिग्रस्तेन च धर्मकार्य संपादयितुं शक्यम् । अतो धर्माचरणसिद्धयै आरोग्यम् अनिवार्यम् । Page #308 -------------------------------------------------------------------------- ________________ धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुत्तमम् २९१ आरोग्यस्यार्थमूलत्वम् - विदितमेवैतत् समेषामपि विद्वदग्रेसराणां यत्'सर्वे गुणाः काञ्चनमाश्रयन्ते', 'यस्यार्थास्तस्य मित्राणि', 'यस्यास्ति वित्तं स नरः कुलीनः', 'हिरण्यमेवार्जय निष्फला गुणाः' इत्यादीनि सुभाषितानि द्रव्यार्जनमेव समर्थयन्ति । अर्थार्जनं वित्तोपार्जनं द्रविणनिचयावाप्तिर्वा किं निःसत्त्वेन, किं रुजाक्रान्तेन किं क्षीणबलेन वा साध्यम् ? अर्थोपार्जने शक्तिमत्त्वस्य, उत्साहस्य, आरोग्यस्य च प्रतिपदम् आवश्यकताऽनुभूयते । अतएव - ‘अनिर्वेदः श्रियो मूलम्’, 'अध्यवसायः श्रियो मूलम्,' 'उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी:', इत्यादिकं व्यादिश्यते । आरोग्यस्य काममूलत्वम् - सांसारिका विषयभोगाः, विलासाः, मृगनयन्यो रमण्याः, विविध-रस-व्यञ्जन-संवलितानि भोज्यानि विविधानि च भौतिकानि सुखानि स्वस्थेनैव कलेवरेणोपभोक्तुं शक्यन्ते । स्वास्थ्याभावे क्षुधोऽपचयः, शिरोवेदनादिवृद्धिः, व्याधिग्रस्तत्वं शक्तिक्षयश्च । एवं नैरोग्यमेव भौतिकविषयोपभोगक्षमताम् आपादयति । आरोग्यस्य मोक्षसाधनत्वम् - मोक्षावाप्तये तपश्चरणं साधनाश्रयणं प्राणायामादिकं चाश्रीयते । तदर्थमपि आरोग्यस्यानिवार्यत्वम् । अतएव गीतायां प्रतिपाद्यते यन्ते । नात्यश्नतस्तु योगोऽस्ति, न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य, जाग्रतो नैव चार्जुन ॥ गीता ६-१६ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ गीता ६-१७ आरोग्यस्य साधनानि - रोगनिदानरूपेणाचार्यैः षट् कारणानि व्याहि अत्यम्बुपानाद् विषमाशनाच्च, दिवा शयाद् जागरणाच्च रात्रौ । संरोधनाद मूत्रपुरीषयोश्च षड्भिः प्रकारैः प्रभवन्ति रोगाः ॥ सर्वाण्येतानि रोगकारणानि सावधानतया परियाणि । स्वास्थ्यलाभाय बहुविधा व्यायामा निर्दिश्यन्ते । यथा - भ्रमणम्, धावनम्, क्रीडनम्, तरणम्, अश्वारोहणम्, मल्लयुद्धम्, इत्यादीनि । छात्रोपयोगिक्रीडासु पादकन्दुकक्रीडा, यष्टिकक्रीडा (हॉकी), करकन्दुक ( वॉलीबाल ) - क्रीडा च रुचिकरा : स्वास्थ्यafधन्यश्च । व्यायामेन शरीरपुष्टिश्चेतः प्रसादश्च । अतएवोच्यते—'स्वस्थे चित्ते बुद्धयः प्रस्फुरन्ति' । स्वस्थे चित्ते ज्ञानोदयः, स्फूर्तिसमन्वयश्च । स्वस्थस्यैव सर्वत्रादरः प्रतिष्ठा च । 'कृशे कस्यास्ति सौहृदम् ।' अतः सिध्यति — 'धर्मार्थकाममोक्षाणाम आरोग्यं मूलमुत्तमम् ।' Page #309 -------------------------------------------------------------------------- ________________ ८९. उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ( १. नास्त्युद्यमसमो बन्धुः २. क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे, ३. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । ) को नामोद्योगः ? -- एकोद्देश्येन सावहितेन चेतसा श्रमपूर्वं कृतं कर्म उद्योग इत्यभिधीयते । उद्योग एव उद्यम - पुरुषार्थ - अध्यवसाय प्रयत्नादिभिः शब्दैर्व्यवह्रियते । उद्योगे उद्यमे च महत्त्वाकाङ्क्षायाः, उत्कर्षस्य, प्रगतेः, विकासस्य, समुन्नतेश्च समन्वयोऽभीष्यते । उद्योग एव सकलेऽपि लोके जीवनस्य सर्वविधाम् आकाङ्क्षां सर्वविधं च मनोरथं पूरयति । स्वाभिलषितपूर्तये उद्योगाश्रयणम् अनिवार्यम् । उद्योगस्योपयोगित्वम् — सर्वोऽपि लोकः सुखम् अभिलष्यति, वैभवं लिप्सते, चिकीर्षितं विधित्सति, स्वकामनानुरूपं कर्मजातं निष्पादयितुम्, इच्छति च । तत्साधनाय उद्योगमन्तरेण नान्यत् साधनम् । उद्यम एव मनोबलविवर्धनपुरःसरं कर्मणि नियोजयति, चेतः प्रेरयति, जीवनम् उद्बोधयति, उत्साहं संचारयति, कार्यक्षमतां विवर्धयति, आत्मिक शक्ति स्वाभिमानं च समेधयति । एवम् उद्यमस्य सर्वासु क्रियासु अनिवार्यत्वं प्रेक्ष्यते । उद्यमेनैव सर्वाभीष्टलाभो वैभवावाप्तिश्चेत्युद्योग आश्रीयते । उक्तं च उद्योगिनं पुरुषसहमुपैति लक्ष्मीर्देवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या, यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ आलस्यम् उद्योगस्य परमोऽरातिः । सालसं न श्रीविन्दति । लक्ष्मीः श्रीः समृद्धिश्च सोत्साहं महोद्यमं कठिन कर्मोपशमित्त प्रत्यूहनिवहं दृढनिश्चयविदारितसंशीति-ध्वान्तमेव धीरधौरेयं वीरवरेण्यं च वृण्वते । उद्यमम् अन्तरेण सिंहोऽपि मृगादानेऽक्षमः । उद्यमम् आश्रित्येव पिपीलकाऽपि योजनानां सहस्रं याति । तुच्छाः पतत्रिणश्च योजनशतम् उड्डीयन्ते । यत्नाभावे वैनतेयोऽपि पदैकमपि प्रसतु न क्षमते । अतएवोच्यते मनोरथैः । आलस्यं हि मनुष्याणां शरीरस्यो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥ उद्यमेन हि सिध्यन्ति कार्याणि न नहि सुप्तस्य सिंहस्य प्रविशन्ति योजनानां सहस्रं तु शनैर्गच्छेत् अगच्छन् वैनतेयोऽपि पदमेकं न मुखे मृगाः ॥ पिपीलिका । गच्छति ॥ नास्त्युद्यमसमो बन्धुः -- को नाम बन्धुः ? यो हि विषमायां स्थितो, विषमे काले, विपन्नायां चावस्थायां साहाय्यम् आचरति, सहयोगम् आविर्भाव Page #310 -------------------------------------------------------------------------- ________________ २९३ उद्योगिनं पुरुषसिंहपैति लक्ष्मीः यति, सहानुभूति प्रकटयति, कष्टनिवारणे प्रभवति च, स एव बन्धुः सखा मित्र हितकृत् च । उद्यम एव स गुणो यो विषमे काले, विपत्पारावार-निमग्न-लोकोद्धृतौ च साहाय्यम् आचरति, धैर्य प्रेरयति, शान्ति प्रापयति, आत्मविश्वास जागरयति च, अतः सः बन्धुरिति व्यवह्रियते । उद्यमम् आश्रितस्य नात्मावसादः, न हीनत्वभावना, न च दुःखदावाग्नि-सन्तापः । अतएवोद्यमः प्रशस्यते । उच्यते च-नास्त्युद्यमसमो बन्धुः ।। उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः-यजुर्वेदे भगवद्गीतायां च निर्दिश्यते यत् कर्मैव मानवस्य जीवनम् । अनाश्रित्य कर्म जीवननिर्वाहोऽपि दुष्करः । योगक्षेमावाप्तये, सुखसाधनाय, शरीरयात्राप्रसिद्धयर्थं च कर्माश्रयणम् अनिवार्यम् । कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। यजु० ४०-२ नियतं कुरु कर्म त्वं कर्म ज्यायो झकर्मणः। शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः ॥ गीता ३-८ कर्मण्येव मानवाधिकारः, न तु कर्मफलप्राप्तौ । अतः कर्मफलासक्तिम् अनाश्रित्य कर्तव्यभावनयैव कर्म संपादनीयम् । उक्तं च कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ गीता २-४७ निष्कामभावनया कृतं कर्म सर्वकर्मभ्योऽतिरिच्यते । सिद्धिरसिद्धिर्वा, लाभो हानिर्वा, सर्वमेतत् न कर्तव्यभावनोदये निरीक्ष्यते विविच्यते च । क्वचित् कृतेऽपि कर्मणि, विहितेऽपि यत्ने, यदि न स्यात् फलावाप्तिः, तत्र न कश्चन दोषभाग् भवति । कृते च कर्मणि को दोष इति साध्वन्वेष्टव्यः । अतएवोच्यते यत्ने कृते यदि न सिध्यति कोऽत्र दोषः॥ हितो० प्र० ३१ क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे-मनोबलसमवेतानाम्, आत्मिकबलसंपुष्टानाम्, मानधनानां च कार्याणि स्वसत्त्वम् आश्रित्यैव प्रवर्तन्ते । ते 'कार्य वा साधयेयं शरीरं वा पातयेयम्' इति मन्त्रम् उद्घोषयन्ति जयन्ति च । वस्तुतो जीवने सत्त्वमेव कार्यसिद्धर्हेतुः । अतएव रामायणे निगद्यते-'अनिर्वेदः श्रियो मूलम् ।' अतएव श्रीरामचन्द्रः स्वमनोबलेनैव सर्वसाधनसंपन्नं लौकिक-साधन-समन्वितं दशाननं विजिग्ये । महात्मा गान्धिः आत्मिकबलाश्रयणेनैव आंग्ल-शासकवृन्दं विजित्य भारतवर्ष स्वातन्त्र्यम् अगमयत् । सर्वमेतत् सत्त्वमूलकमेव । अतएवोच्यते-क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे। यत्रोद्यमस्यावस्थानं तत्रैवेश्वरस्यापि साहाय्यम् । 'नायमात्मा बलहीनेन Page #311 -------------------------------------------------------------------------- ________________ २९४ संस्कृतनिबन्धशतकम् लभ्यः' इत्यत्र आत्मबल-संपन्नस्यैव विभुः साहाय्यम् आचरति । यत्रोद्यमादयः षड् गुणा वर्तन्ते, तत्र विभुरपि सहायकृदिति साधु प्रतिपाद्यते । उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः। षडेते यत्र वर्तन्ते तत्र साहाय्यकृद् विभुः॥ उद्यमनव निर्धनाः सधनाः, अज्ञा ज्ञानसंपन्नाः, अकुशलाः कुशलाः, निर्बला: सबलाः, दीना हीनाश्च सर्वविध-विभव-समन्विताश्च जायन्ते । उद्यमेनैव वाल्मीकि-व्यासादयः कविवरेण्याः संजाताः। महाकविः कालिदासश्चोद्यमेनैव कविकुलगुरुः, कविता-कामिनीकान्तश्च बभूव । सर्वमेतद् उद्यमस्यैव महिमानं व्यनक्ति । Page #312 -------------------------------------------------------------------------- ________________ ९०. उद्धरेदात्मनात्मानं नात्मानमवसादयेत् (मन एव मनुष्याणां कारणं बन्धमोक्षयोः) आत्मबलम्-लोके न काचिदपि शक्तिस्तादृशी बलवती फलवती सकलसामर्थ्यवती च, यादृशी आत्मशक्तिः। आत्मिकशक्तेौरवं नानुमातुं न च वर्णयितुं शक्यते । आत्मबलेन किं किं न साध्यते । आत्मबलेनैव इच्छाशक्तेरुद्गमः । इच्छाशक्तेः प्रतापेन न केवलं भौतिकम् अभीष्टं पूर्यते, अपि तु ईश्वरावाप्तिरपि तीव्रमनःसंकल्प-साध्या । अतएव योगदर्शने प्रोच्यते तीव्रसंवेगानामासन्नः । योग० १-२१ न बाह्या शक्तिस्तथा मानवस्योपकी, कार्यसाधिका च, यथा आत्मशक्तिः, आत्मविश्वासः, आत्मबलं च। आत्मबलसंग्रहे कृते सति दुष्करमपि सुकरम्, दुर्लभमपि सुलभम्, दुर्जयमपि सुजयं संपद्यते। का वा शक्तिरासीत् पुरुषोत्तमस्य रामस्य यत् स सैन्यबलहीनोऽपि, निर्वासितोऽपि, वानरमात्रसहायोऽपि त्रिभुवनविजयिनं सर्वसाधनसंपन्नं विविध-माया-बल-समवेतं रावणं विजयेत ? सा शक्तिरात्मशक्तिरासीत्, या रामं विजय-वैजयन्तीं प्रापयत् । उक्तं च विजेतव्या लङ्का चरणतरणीयो जलनिधिविपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः। तथाप्येको रामः सकलमवधीद् राक्षसकुलं क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ भोजप्र० १७० . उद्धरेदात्मनात्मानं नात्मानम् अवसादयेत्-लोके कस्य नाभीष्टा आत्मोन्नतिः। सर्वोऽपि लोक आत्मोन्नत्यै आत्माभ्युदयाय स्वाभिलषितपूर्तये च यतते अध्यवस्यति व्यवस्यति च । आत्मोन्नतिः सर्वस्य प्रेष्ठा गरिष्ठा च । यतो हि-'आत्मलाभमनु लाभसम्पदः' । स्वोन्नतिः सर्वोत्तमा। कश्च तदवाप्त्युपाय इति विचारणायाम् अवगम्यते यन्न परसाहाय्येनात्मोन्नतिः सुलभा सूकरा च । आत्मोन्नत्यै स्वावलम्बनं स्वपुरुषार्थाश्रयणं च सर्वोत्कृष्टम् । यत्र स्वावलम्बनं साहसं धैर्य च तत्र परमेश्वरोऽपि साहाय्यकृद् भवति । उक्तं चGod helps those who help themselves. उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः। षडेते यत्र वर्तन्ते तत्र साहाय्यकृद् विभुः॥ भगवद्गीतायां श्रीकृष्णेन प्रतिपाद्यते यद् आत्मबलाश्रयणेन आत्मोन्नतिर्जायते। पराश्रयणं दुःखोदकम् । आत्मैव पुरुषार्थाश्रयणे बन्धुत्वम् आपद्यते, हीनभावोपासने च शत्रुत्वेन विपरिणमते । अतो न कदाचिदपि हीनभावनाऽऽश्रयणीया । उच्यते च Page #313 -------------------------------------------------------------------------- ________________ २९६ संस्कृतनिबन्धशतकम् उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥ गीता ६-५ सुखदुःखयोर्लक्षणं व्यादिशता व्यासेनाप्येतदेव समर्थ्यते यत् स्वप्रयत्नाश्रितं यत् तत् सुखम्, यत् परायत्तं तद् दुःखमिति । सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ महा० मन एव मनुष्याणां कारणं बन्धमोक्षयोः-मन एव लोके सर्वोत्तम ज्योतिः । अतएव यजुर्वेदे मनो ज्योतिषां ज्योतिरिति वर्ण्यते । यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति । दूरगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु ॥ यजु० ३४-१ मनोबलं यथा शक्तिप्रदम्, न तथा लोके किंचनान्यत् । मनोबलमेव इच्छाशक्ति ( will-power )-रूपेण विपरिणमते । मनोबलस्य इच्छाशक्तेर्वा महत्त्वं सर्वलोकविदितम् । मनोबलेनैव महात्मा गान्धिः आंग्लशासकान् विजित्य भारत स्वातन्त्र्यम् आनैषीत् । मन एव सत्त्वगुणोपेतं चेत् तन्मोक्षसाधनं जायते। तदेव विपरीतं सत् तमोगुणोपेतं बन्धनस्य कारणम् आपद्यते । अतएवोच्यते'मन एव मनुष्याणां कारणं बन्धमोक्षयोः'। कथमिव मनसो निग्रहो वशीकरणं वा स्यादिति जिज्ञासायां गीतायां प्रतिपाद्यते यद् इन्द्रियजयेन अभ्यास-वैराग्याभ्यां च मनसो वशीकरणं संजायते । सति इन्द्रियजये आत्मा बन्धुरूपः, तदभावे च शत्रुरूपः । बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ गीता ६-६ - नीतिश्लोकेऽप्येतदेव समर्थ्यते यत्-'आत्मबुद्धिः सुखायैव, गुरुबुद्धिविशेषतः' इत्यनेन आत्मसाहाय्यमेव सुखसाधकं प्रोच्यते । महात्मना बुद्धेन एतदेवाश्रित्य मनसो महत्त्वं निर्दिश्यते यन्मन एव सर्वार्थसाधकम् । स्वस्थेन मनसा कृतं कर्म सुखदच्छायव सुखसाधकम् । मनो पव्वंगमा धम्मा मनोसेट्टा मनोमया। मनसा चे पसन्नेन भासति वा करोति वा। ततो 'नं सुखमन्वेति छाया' व अनपायिनी ॥धम्मपद १-२ अन्यत्रापि तेनोपदिश्यते यद् आत्मैव आत्मनः प्रभुः, आत्मैव आत्मनो गतिः । अत आत्मानं संयच्छेत, वणिक् सदश्वमिव । अत्ता हि अत्तनो नाथो अत्ता हि अत्तनो गति । तस्मा सामयत्तानं अस्सं भद्रव वाणिजो॥धम्मपद २५-२१ एवं सिध्यति यद्-'उद्धरेदात्मनात्मानं नात्मानमवसादयेत्' । . Page #314 -------------------------------------------------------------------------- ________________ ९१. योगः कर्मसु कौशलम् ( १. कर्मण्येवाधिकारस्ते०; २. कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । ) कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः - 'यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म:' ( वैशेषिक० ) इति व्याहरता महर्षिणा कणादेन, 'भोगापवर्गार्थं दृश्यम्' ( योग० २-१८ ) इति च प्रतिपादयता महर्षिणा पतञ्जलिना साध्विदं निर्दिश्यते यद् जीवनस्य लक्ष्यं लौकिक- पारलौकिकोभय-सुखावाप्तिः । नान्तरेण कर्म लौकिकी पारलौकिकी वा सिद्धिः साध्या । कर्मणैव जीवनस्य साफल्यम् । कर्मैव स्वाभीष्टसाधन-पुरःसरं मोक्षावाप्तिमपि साधयति । अतएव यजुर्वेदे आदिश्यते यत् कर्माणि कुर्वन्नेव शतवर्षं यावद् जिजीविषेत् । निष्कामकर्मभावनया कर्मकरणेन न बन्धनावाप्तिः, न च कर्मफलावलेपः । उक्तं चकुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ यजु० ४०-२ कर्मण्येवाधिकारस्ते— कार्यप्रवृत्तिमन्तरेण जीवने न किंचित् साफल्यं संभाव्यते । अतएव कर्मणोऽनिवार्यत्वं शस्यते निर्दिश्यते च । उक्तं चनियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ गीता ३-८ कृतेऽपि कर्मणि कथमिव कर्म बन्धनसाधनं न स्याद् इति जिज्ञासायां प्रोच्यते यद् इन्द्रियनिग्रह - पुरःसरम् अनासक्तिभावनया कृतं कर्म न बन्धन हेतुत्वं भजते । अतएवोच्यते स्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ गीता ३-७ एवं गीतायां प्रतिपाद्यते यद् मानवेन स्वजीवन निर्वाहार्थम्, आजीविकासंचालनार्थम्, वृत्तिप्रवर्तनार्थं च कर्म कार्यम् । तच्च अनासक्ति भावनया विधेयम्, न च फलाभिलाषस्तत्र श्रेयस्करः । फलकामनाऽभावेऽपि अकर्मणि प्रवृत्ति: सर्वथा दुःखायैव । अतएवोच्यते- कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ गीता २-४७ योगः कर्मसु कौशलम् - - कर्मसु कौशलमेव योगः । किमत्र कर्मकौशलेनाभिप्रेतम् ? कुशान् लाति छिनत्ति इति कुशलः । यथा सावधानेन तीक्ष्णकुशाग्रच्छेदनेन कुशलत्वं सिध्यति, तथैव कर्म-विषयेऽपि कुशलत्वम् इष्यते । कर्म द्विविधम्- - १. सुखोदर्कम्, २. दुःखोदकं च । सकामभावनया फललिप्सया च क्रियमाणं कर्म मनोनुकूल - फल - लाभाभावे दुःखोदर्कम् । निष्कामभावनया च क्रियमाणं कर्म फलेप्साऽभावात् सुखोदकं सुखसाधकं च । अतएव भगवता Page #315 -------------------------------------------------------------------------- ________________ २९८ संस्कृत निबन्धशतकम् कृष्णेन संदिश्यते यद् ज्ञानपूर्वकं कृतं कर्म पापपुण्यात्मकं द्विविधमपि फलं परिजहाति । एतादृशं कर्म कौशलेन संपादितं प्रोच्यते । एतदेव योगस्य स्वरूपम् । उक्तं च— बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ गीता २ - ५० यत्र निष्कामभावना तत्र शाश्वती शान्तिः, अन्यत्र च सकामत्वेन बन्धनम् । अतः कथं कार्यं कार्यम् इति जिज्ञासायां कमलपत्रनिदर्शनेन विषयोऽयं विशदीक्रियते । यथा सलिलस्थमपि पद्मपत्रं न सलिलेन लिप्यते, तथैव अनासक्तभावेन ब्रह्मार्पणबुद्धया च कृतं कर्म न दोषाय, न च बन्धनाय । ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ गीता ५-१० युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ गीता ५- १२ वासनाक्षयाद् योगसिद्धिः -- मुक्तिकोपनिषदि विषयोऽयं महता विस्तरेण विविच्यते । तत्र चैवं प्रतिपाद्यते यदियं वासनासरित् शुभाशुभाभ्यां मार्गाभ्यां प्रचरति सा शुभे पथि नियोज्या । यदा वासनेयम् अशुभाद् निवर्त्य शुभे पथि नियोज्यते तदा सर्ववासनाक्षयाद् मुक्तिपदलाभो भवति । सेयं वासना विविध - जन्मसंबद्धा । इयं चिराभ्यासयोगेन क्षीयते । यावद् वासना - समुदयो न तावद् मानसिक शान्तिः । वासना- विनाशे तु चेतः शान्ताचिर्दीप इव शमम् उपैति । वासनाहेतोरेव प्राणसंचार:, तेन च वासना, तथा च चित्तबीजाङ्कुरोद्गमः । चित्तवृक्षस्य द्वे बीजे - प्राणस्पन्दनं वासना च । द्वयोरेकस्यापि निग्रहे द्वयोरेव विनाशः संजायते । अस्य संसारवृक्षस्य मन एव मूलम् । तदेव संकल्परूपेण प्रतिपुरुषम् अवतिष्ठते । तस्योपशमेन संसारवृक्षस्य विनाशः संजायते । वासनयैव बन्धनम्, वासनाक्षयेण च मोक्षः । उक्तं च शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् । मुक्तिको० ५ पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ मुक्ति० ६ वासनाविलये चेतः शममायाति दीपवत् ॥ मुक्ति० १८ द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । एकस्मिश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥ मुक्ति० २७ अस्य संसारवृक्षस्य मनो मूलमिदं स्थितम् । संकल्प एव तन्मन्ये संकल्पोपशमेन तत् ॥ मुक्ति० ३७ बन्धो हि वासनाबन्धो मोक्षः स्याद् वासनाक्षयः । मुक्ति० ६८ Page #316 -------------------------------------------------------------------------- ________________ .९२. गुणाः पूजास्थानं गुणिषु न च लिङ्ग न च वयः ( १. गुणैर्गौरवमायाति न महत्यापि सम्पदा; २ गुरुतां नयन्ति हि गुणा न संहतिः; ३. तेजसां हि न वयः समीक्ष्यते; ४. योऽनूचानः स नो महान् ।) गुणाः पूजास्थानम्-संसारेऽस्मिन् सन्ति बहनि वस्तुनि, यानि पुरुष संमानं लम्भयन्ति, यथा धनम्, वैभवम्, कला, सौन्दर्यम्, विद्या, चारित्र्यादिकं च। तत्र महाकवेर्भवभूतेर्मतमिदं यत्-न सौन्दर्यादिना, न लिङ्गविशेषण पुंस्त्वेन स्त्रीत्वेन वा, न च वैभवेन गुरुत्वम् आसाद्यते, अपि तु गुणैरेव गौरवम् अवाप्यते । गुणगौरवसंपन्ना भुवि भूपतिभिरपि आद्रियन्ते संमान्यन्ते च । किनु कारणं यद् ऋषयो महर्षयो यतयः संन्यासिनश्च सर्वलोकवन्द्यतां समधिगच्छन्ति ? तत्र गुणगौरवम्, चारित्र्यादिमहत्त्वम्, तपःपावनत्वादिकं च तेषां गुणोत्कर्षे हेतुः । यत्र यत्र गुणवत्त्वम् तत्र तत्रादरास्पदत्वम् । गुणा ब्रह्मणोंऽशरूपेण मानवे संस्थिताः । तेषां समुत्कर्षो जीवने ब्रह्मत्वाधानाद् ज्योतिज्वलयति, तेजः प्रवर्तयति, ओजश्च विकासयति । अतएव गुणवृद्धेषु ज्ञानवृद्धेषु च न वयः संलक्ष्यते । एतदेव कालिदासेन समर्थ्यते यत् तेजस्विनां वयो न गण्यते । 'तेजसां हि न वयः समीक्ष्यते' ( रघु० ११-१)। यः कोऽपि वा गुणगौरव संपन्नः, सद्भावभूषाभूषितः, ज्ञानालंकृतः, शीलसमन्वितश्च स एव सर्वेषां वन्द्यो मान्यः पूज्यश्च संपद्यते । अतएवोच्यते गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः। उत्तर० ४-११ योऽनूचानः स नो महान्–वेदेषु शास्त्रेषु च विप्राणां ज्ञानतो ज्येष्ठत्वं श्रेष्ठत्वं च स्वीक्रियते । मनुस्मृती कथनमेतद् निदर्शनेन समर्थ्यते यत् शिशुः आङ्गिरसः कविः पितरौ पाठयन् तान् 'पुत्रकाः' इत्युवाच । पितरौ बालस्य कथनम् अनुचितं मन्वानौ देवानुपेत्य तान् अपृच्छताम् । देवास्तु शिशोः कथनं न्याय्यमिति समर्थितवन्तः । आदिष्टं च अज्ञो भवति वै बालः पिता भवति मन्त्रदः। अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ मनु० २-१५३ एतत् स्मृतिशासनम् अनुरुध्य यः कोऽपि ज्ञानोपदेष्टा शिक्षकश्च स पितृतुल्यः, शिष्यश्च पुत्रतुल्यः । न वयसा वित्तेन परिवारादिना वा महत्त्वम्, अपि तु ज्ञान-विज्ञान-निष्णातत्वमेव महत्त्वस्य कारणम् । विप्राणां ज्ञानतः श्रेष्ठत्वम्, क्षत्रियाणां पराक्रमतः, वैश्यानां च धन-धान्य-समद्धया। शूद्राणामेव केवलं जन्मतो वयसा वा ज्येष्ठत्वं गण्यते । उक्तं च न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः। ऋषयश्चक्रिरे धर्म योऽनूचानः स नो महान् ॥ मनु० २-१५४ Page #317 -------------------------------------------------------------------------- ________________ ३०० संस्कृतनिबन्धशतकम् विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः। वैश्यानां धान्यधनतः, शूद्राणामेव जन्मतः॥ मनु० २-१५५ गुरुतां नयन्ति हि गुणा न संहतिः ( कि० १२-१०)-महाकविना भारविणा प्रतिपाद्यते यद् गुणैरेव मानवैर्गौरवं लभ्यते । न वयसा, न शरीरस्थौल्येन, नान्येन वा विभवादिना। अतएव लोकेऽवलोक्यते यद् गुणैरेव गौरवं कुलीनत्वं पूज्यत्वं च । कला-समृद्ध्यैव सुधांशुः शंभुना शिरसि धार्यते । गणैरेवोच्चत्वं तुङ्गत्वं च । प्रासादशिखर-गतोऽपि काको नाद्रियते, नीचैरासनगतोऽपि गरुडः पूज्यते । अतो गुणा एव साध्याः, गुणार्जनमेव श्रेयस्करम् । नहि केवलम् आडम्बरैः प्रपञ्चैर्वा नरो गौरवमवाप्नोति । क्षीरविरहिता गावो न सुन्दरघण्टा-रवेणैव विक्रीयन्ते । उक्तं च गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविजिताः॥ शाङ्गधरप० २९८ न केवलमेतदेव, नैव पितृवंशकीर्तनं स्वपूर्वजगुणानुवादो वा मानवम् आदरम् आवहति, अपि तु समादरकारणं गुणोच्चय एव । गुणोत्कर्षवैशिष्टयादेव वासुदेवः संमान्यते पूज्यते च, न तु तज्जनको वसुदेवः । गुणा एव नरस्य सौभाग्यवर्धकाः सौरभसंचारकाश्च । अतएव द्विरेफाः केतकीपुष्पगन्धम् आघ्राय स्वयं तत्रोपयान्ति । एवं गुणा दूतत्वं भजन्ते । गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः॥शागधरप० २९० शरीरस्य गुणानां च गौरवपरीक्षणे गुणा एव गौरवातिशयम् आश्रयन्ते । शरीरं क्षणभङ्गुरम्, गुणास्तु अविनश्वराः कल्पान्तस्थायिनश्च । शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गणाः॥हितो० १-४८ गणैर्गौरवमायाति न महत्यापि सम्पदा-न विभवेन, न धनधान्येन, न समृद्धया च, नरो लोके गुरुत्वं भजते, अपि तु गुणगणसमृद्धिरेव गौरवस्य निदानम् । गौरवस्य कारणानि सन्ति गुणा एव । ज्ञान-विद्या-धर्म-परोपकारसच्चारित्र्यादयो गुणा यमेव भूषयन्ति, स एव गुणगौरवनिधानताम् आपद्यते । गुणाः कस्तूरिकासौरभवद् दिदिगन्तरं स्वसौरभमहिम्ना वासयन्ति । तदर्थम् आत्मप्रशंसा हीनत्वभावनामूलैवावगन्तव्या । उक्तं च यदि सन्ति गुणाः पंसां विकसन्त्येव ते स्वयम् । नहि कस्तूरिकामोदः शपथेन विभाव्यते ॥ कुवलयानन्द ५१ अतएवोच्यते यद् गुणार्जने एव मानवेन प्रयत्न आस्थेयः । गुणैरेव दुर्लभमपि पदम् अवाप्तु पार्यते । गुणगौरवेणैव चन्द्रमसा शिवशिरोभूषणत्वम् आपन्नम्। Page #318 -------------------------------------------------------------------------- ________________ ३०१ गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः गुणेषु यत्नः पुरुषेण कार्यो न किंचिदप्राप्यतमं गुणानाम् । गुणप्रकर्षादुडुपेन शंभोरलध्यमुल्लङ्घितमुत्तमाङ्गम् ॥ . मृच्छक० ४-२३ गुणैरेव कौशेयं सुवर्णं पद्म चन्द्रादिकं च प्रशस्यते । सर्वमेतद् गुणोत्कर्षस्यैव महत्त्वम् । नहि गौरवं महत्त्वं वा जन्ममूलकम् । कौशेयं कृमिजं सुवर्णमुपलाद् दूर्वापि गोरोमतः पङ्कात् तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिोपित्ततो रोचना प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥ पंचतंत्र १-१०३ तेजसां हि न वयः समीक्ष्यते--गुणगौरवादेव तेजस्विनां वयो नालक्ष्यते । स्वोत्कर्षमूलैव तेषां प्रथितिरातिश्च । अचिरोद्गतस्यापि भानोः पादाः भूभृतां शिरसि निपतन्ति । बालोऽपि सिंहशावको मदमुचां गजेन्द्राणां मूर्धनि पादं निधत्ते । सर्वमेतत् तेजस्वितामूलकमेव । नहि तेजस्विषु वयोवृद्धिगुणवृद्धेमूलम् । उक्तं च बालस्यापि रवः पादाः पतन्त्युपरि भूभताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ पंचतत्र १-३५७ सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः॥ भर्तृ० नीति० ३८ . Page #319 -------------------------------------------------------------------------- ________________ ९३. सहसा विदधीत न क्रियाम् प्रस्तावना-महाकवर्भारवेर्महाकाव्ये किरातार्जुनीये सन्ति शतशः सूक्तिमुक्ताः । तत्रापि द्वित्राः सन्ति सूक्तयो याश्चकासति तरणि श्रियमिव । तास्वप्यन्यतमैषा सूक्तिः । सूक्तं तेन महाकविना यत् कोऽपि जन: सहसा किमपि विधेयं न विदधीत, यतो ह्यविवेकः परमापदां पदमस्ति । ये च विमृश्यकारिणो भवन्ति त एव श्रियः श्रयन्ते । यथोक्तं तेन सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ किराता० २-३० विवेकः संपदां मूलम--को नाम विवेकः ? कश्चाविवेकः ? क उपयोगो विवेकस्य ? किमिह साध्यं विवेकेन ? यदि नोपादीयतेऽयं कथमिव विपदां निदानत्वेन परिणमते ? विवेचनमेव विवेक इति । सदसतोः, पुण्यापुण्ययोः, कर्तव्याकर्तव्ययोः, हेयोपादेययोश्च येन विधिवद् विवेचनं क्रियते स विवेक इत्यभिधीयते । इतरश्चाविवेक इत्याख्यायते । विवेकस्य महत्युपयोगिता जीवनेऽस्मिन् । विवेक एव सदसतोः, पापपुण्ययोः, कर्माकर्मणोश्च फलाफलं गुरुलाघवं च चिन्तयति । स एव किं हेयं किच्चोपेक्ष्यमिति सन्दिशति । विवेक एवेह जगति ज्ञानमिति, बुद्धिरिति, धीरिति च व्यवह्रियते। विवेकमन्तरेण न भयान भेदो मनुष्येषु पशुषु च । अस्ति मानवे विवेकशक्तिः । यया सोऽर्थमनर्थं च बहुधा विभाव्य अर्थसाधकम् उपादत्तेऽनर्थसाधकं चोज्झति । जीवने हि सर्वस्येष्टं सुखम् । सर्वो हि यतते सुखावाप्तये । नहि दुर्जनोऽपि खलोऽपि मूढोऽपि हीनेन्द्रियोऽपि दुःखमिष्टत्वेन गणयति । सोऽपि सुखमेव कामयते, यतते च तल्लाभाय । अङ्गीकृतायाम् ईदृश्याम् अवस्थायां को तु मार्गो यः सुखसाधकत्वेन प्रवर्तेत । विचारचक्षुषा चिन्त्यते चेद् विवेकस्य महत्त्वं स्फुटं प्रतीयते । सर्वमपि साध्यं साध्यते विवेकेनैव । विवेकपूर्वा कृतिरेव लम्भयति श्रियम् । विवेक एव सुखस्य मूलम्, शान्तेनिधानम, धृत्या निदानम्, श्रिय आश्रयः, गुणानाम् आगारम्, विभवस्य भूमिः, उन्नतेः साधनम्, सत्कर्मणाम् आकरः, विनयस्य कारणम्, शीलस्य संधायकश्च । विवेक आश्रितश्चेद्, न जीवनेऽवसादावसरः । अनुपादत्तश्चेदयं प्रतिपलं प्रतिपदं चोपतिष्ठन्ते, विपदो दुःखानि प्रत्यूहाश्च । ___ अविवेकः परमापदां पदम्--ये हि विपश्चितो विचारशीलाश्च ते प्रतिपदं सम्यग् अवधार्य वस्तुस्थिति शान्तेन स्वान्तेन कर्तव्यस्याकर्तव्यस्य च गुरुलाघवं विमश्य यद् हितसाधकं सुखकारकं च तदेवोपाददते । नहि भयाद् वा, ह्रिया वा, सहसा वा, किञ्चित्तेऽनुतिष्ठन्ति । यत्कर्म सुविचार्य क्रियते तत् सत्फलमादधाति । अत उच्यते-- Page #320 -------------------------------------------------------------------------- ________________ सहसा विदधीत न क्रियाम् ३०३ सुचिन्त्य चोक्तं सुविचार्य यत्कृतं सुदीर्घकालेऽपि न याति विक्रियाम् । हितोपदेशः १-२२ ये चाविचार्य कर्मणि प्रवर्तन्ते, तेषां प्रवृत्तिरज्ञानमूला। अज्ञानं हि सर्वासामापदामास्पदम् । अज्ञानावृतत्वात् तेषां कर्मणां दुःखावाप्तिरेव सुलभा । तादृशा जना दिङ्मूढा इव सुखं दुःखमिति मन्यन्ते, दुःखं च सुखम्, पापं सुखसाधनमिति, पुण्यं च दुःखसाधनमिति । एवं ते व्यसनशतशरव्यतामुपगच्छन्ति, प्रत्यहमवनति चोपयान्ति । अत उक्तं भर्तृहरिणा विवेकभ्रष्टानां भवति विनिपातः शतमुखः। नीति० १० सहसा विदधीत न क्रियाम्-विपश्चितो हि विचार्य सर्वमपि क्रियाकलापं कर्मणि प्रवर्तन्ते । सुधियामवनिभृतां चैष परमो गुणो यद्विमृश्य ते कर्मसु प्रवृत्तिमादधते । भूभृतां मन्त्रशक्तिविचारमूलैव । किं कार्य कश्च तस्योपाय इति भृशं विविच्य ते कर्तव्यं कर्म निश्चिन्वन्ति । यद्यविचार्यैव निश्चीयते किञ्चित् तहि तत्फलं दुःखावहमेव भविता। एवं विद्वांसोऽपि यत् किञ्चिदपि स्यात् कर्तव्यम्, तत्र परिणति प्रधानतोऽवधारयन्ति । नहि ते सहसा कर्तव्यमकर्तव्यं वा विनिश्चित्य कर्मसु प्रवर्तन्ते। सहसा विहितं विधेयं दुःखं लम्भयति, चेतसि च शल्यतुल्यमाघातं विधत्ते । अतः साधूक्तं भर्तृहरिणा गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्ते र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ नीति० ९९ चिरकारक भद्रं ते--एष एवाभिप्रायश्चरकसंहितायामप्युपलभ्यते'परीक्ष्यकारिणो हि कुशला भवन्ति', 'नापरीक्षितमभिनिविशेत', 'सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा । व्यापच्चासम्यक्प्रयोगनिमित्ता'। भगवता चरकेणापि कर्तव्यस्य कर्मणः परीक्षणमनिवार्यत्वेन गण्यते । यदि सम्यग् विचार्य कर्तव्यं निर्धार्यते, तर्हि तस्य साफल्यमपि प्रागेवानुमातु पार्यते । अविचार्य कृते कर्मणि न केवलमसाफल्यमेव, अपितु विपद्, शरीरक्लेशः, साधनात्ययः, प्रत्यवायावाप्तिश्चापि । महाभारतेऽपि व्यासेन सुविचार्य कर्मप्रवृत्तिरुपदिष्टा । विमृश्यकारी सुखमेधते, श्रियमश्नुते, प्रत्यूहानपहन्ति, विपद् विदारयति, साध्यं साधयति च । उक्तं च महाभारते चिरकारक भद्रं ते, भद्रं ते चिरकारक' ।। __ मूढः परप्रत्ययनेयबुद्धिः--अनालोच्य शुभाशुभं जनो यत् कर्मणि प्रवर्तते, तस्य मूलमज्ञानमेव । अज्ञानावृतचेतसो हि मिथ्यामाहात्म्यगर्वनिर्भराः, प्राज्ञंमन्याः, कर्तव्याकर्तव्य विवेचनमप्यात्मप्रज्ञापरिभवत्वेनाकलयन्ति, न ते Page #321 -------------------------------------------------------------------------- ________________ ३०४ संस्कृतनिबन्धशतकम् शुश्रूषन्ते साधूनामुपदिष्टम्, क्रियाविलम्बम् अन्तरायान्तरणमवगच्छन्ति, क्षिप्रकारित्वं च श्रियः साधनं गणयन्ति । एवंविधयाऽऽत्मविडम्बनया विप्रलब्धास्तेऽतिरभसकारित्वाद् न केवलं विपत्पारावारे एव निमज्जन्ति, अपितु सर्वलोकस्योपहास्यतामवाप्य दुःखदुःखेन कालमतिवाहयन्ति । केचन हतबुद्धित्वाद् अज्ञानतमःप्रसरेण पीड्यमाना यथैवोपदिश्यते परैस्तथैवाचर्यते तैः । न ते स्वविवेकोपयोगेन साध्वसाधु वा निर्णेतुमध्यवस्यन्ति । परिणतिस्तु तस्य विपदुपताप एव । अतो निगदितं कालिदासेन-- 'सन्तः परीक्ष्यान्यतरद् भजन्ते, मूढः परप्रत्ययनेयबुद्धिः॥ मालविकाग्नि० १-२ विवेकमूलाः प्रवृत्तयः-विवेकमूल: सुविचारश्चेदाश्रीयते आश्रयत्वेन, नह्यसाध्यमिह किञ्चिज्जगति । प्रत्यहं समीक्ष्यते सर्वस्यां संसृतौ देशैरनेकैः स्वराष्ट्रोद्धाराय प्रवर्त्यमाना विविधा योजनाः। भारतेऽति पञ्चवर्षीया योजनाः प्रयुक्तचराः प्रयुज्यमानाः प्रयोक्ष्यमाणाश्चावेक्ष्यन्ते । विवेकमूलत्वादेवैतासां साफल्यमिष्यते संभाव्यते च । विपश्चितोऽपि विवेकजीवित्वात् जीवनस्य कार्यक्रमं विमृश्यावधारयन्ति । अध्यवसायावसिक्तेन मनसा मुहुर्मुहुर्यतमानास्ते स्वाभीप्सितमाश्रयन्ते । अविमश्यकारित्वं दःखाय-भारतीयैतिशमीक्ष्यते चेत तत्राप्यविचार्यकारित्वादेव विविधा विपदो वीक्ष्यन्ते । दाशरथी रामः सुर्वणमृगं प्रेक्ष्याविचार्यकारित्वादेव तमन्वधावत् । तत्कृत्यं च तस्य जानकीहरणत्वेन परिणेमे । गुरुलाघवमविमृश्यव रावणोऽपि सीताहरणे प्रवृत्तो निधनमवाप्तश्च सबान्धवः । अविवेकमाश्रित्यैव दुर्योधनोऽपि सच्यग्रमात्रभप्रदानेऽपि कार्पण्यं भेजे । तद्विपाकत्वेन महाभारतसमरे सपरिवारः सपरिजनः स्वेष्टजनसहितः सकलामवनि विहाय दिवमशिश्रियत् । अतो विचार्यैव कृतिरनुष्ठेया। अतिरभसत्वं च विपन्मूलकमिति परिहरणीयम् । Page #322 -------------------------------------------------------------------------- ________________ ९४. चिन्ताविषघ्नं रसायनम् (नास्ति चिन्तासमो व्याधिः ) चिन्तायाः स्वरूपम्-समग्रसुखनिधानेन भगवता जगदीशेन सृष्टि विदधता न जाने केन हेतुना मानवानां दुःखमूला चिन्ता-नामेयं काचिदपूर्वा पिचाशी समुत्पादिता। सेयं नराणां रक्तपायिनी, आधि-व्याधि-मूला, शरीरसंतापयित्री, मनोदाहिका, काचिद् राक्षसी । या न केवलं रुधिरपानेनैव तृप्तिम् अधिगच्छति, अपि तु अहर्निशं यावज्जीवं च विविधरूपाणि गृहीत्वा छायेव मानवम् अनुसरति । केचन सुखार्थिनः सुखलिप्सया, धनार्थिनो धनकाम्यया, क्षुधापीडिता धान्यार्थम्, ऋणग्रस्ता आनण्यार्थम्, अपुत्राः पुत्रार्थम्, अशिक्षिताः शिक्षार्थम्, गतविभवाः पुनर्विभवलाभार्थम्, अनिष्टग्रस्ता इष्टप्राप्त्यै च चिन्ताकुला दृश्यन्ते । येन केनापि प्रकारेणैकदा कृतवसतिरियं चेतःसू बलाद निःसार्यमाणापि, तिरस्कृतापि, ताड्यमानापि, पीड्यमानापि, बहुशो निर्भत्सितापि स्वाश्रयं नोज्झति । चिन्ता चितयैव समं शाम्यति । सेयं साम्यवाद-प्रतिष्ठापिकेव निर्धनं सधनं च, निर्गणं सगुणं च, अविद्याग्रस्तं विद्या-वैभव-भास्वरं च, कुलीनम अकुलीनं च, अन्त्यजम अग्रजन्मानं च, देशस्थं विदेशस्थं च, कलाविदं विज्ञान-भानु-प्रद्योतितान्तःकरणं च समदृष्टया निरीक्षमाणा रात्रिन्दिवं व्याकुलयति उत्पीडयति च । शुष्कं वृक्षं वह्निरिव, सच्छिद्रं पोतं सलिलमिव, पत्रसंचयं दवाग्निरिव, तृणाच्छन्नं गृहं मातरिश्वेव, निराशा-व्याकुल-मानसं मानवं विनाशयति चिन्तासमुत्थो जातवेदाः। चिन्ताया मूलमभावः-अभावश्चिन्ताया मूलम् । इष्टप्राप्ति-द्रविण-सुखाद्यभावोऽस्या मूलम् । यत्रेवाभावानुभवस्तत्रैव चिन्तायाः सदनम् । सैषा आश्रयाशो वह्निरिव यमेवाश्रयते तमेव भस्मसाद् विदधाति । अतः सुकरमेतद् वक्तुम्'नास्ति चिन्तासमो व्याधिः, नास्ति चिन्तासमो रिपुः । नास्ति चिन्तासमं दुःखं नास्ति चिन्तासमं भयम् ।' 'चिन्ता जरा मनुष्याणाम्'। नीरोगमपि प्रसन्नमानसमपि मानवं चिन्ताऽन्तः प्रविश्य व्याधिग्रस्तं निष्प्रभं शोकसन्तप्तं च विदधाति । सेयं न केवलं शोक-दुःख-लानि-ईर्ष्या-रूक्षता-असहिष्णुता-नैराश्यक्रोधादीनां मानसिक-दुःखानामेव मूलम्, अपि तु हृद्रोग-रक्तचाप-मधुमेहअनिद्रा - शिरोवेदना-पक्षाघात - मलावरोधादीनां व्याधीनामपि मुख्यं कारणम् । सूक्तं केनापि-'स्वच्छन्दं चरतो नरस्य हृदये चिन्ताज्वरो निर्मितः ।' चिन्ता मूलमनर्थानाम-चिन्तया नरो निश्चेष्टो जडश्च संजायते । यत्र यत्रैव जडत्वं निश्चेष्टता वा, तत्र तत्र दुःखावाप्तिः । प्रवहमानं सलिलं निर्दोषं निर्मलं पावनं मधुरं च भवति, तथैव चिन्ताविरहितं सोत्साहं प्रगतिशीलं च २० Page #323 -------------------------------------------------------------------------- ________________ ३०६ संस्कृत निबन्धशतकम् मानसं कार्याकार्यं-विवेक दक्षं हेयोपादेय ज्ञान - विशिष्टं सक्रियं सचेष्टं सद्गुण-गणविभूषितं स्व-पर-कृत्य-साधकं सदसद्विवेक - विभास्वरं च भासते । चिन्ता मूलमनर्थानाम्, आधि-व्याधिनिदानम्, मनसो दूषकम्, स्वान्तस्य संतापकम्, ज्ञान-विज्ञान - नाशकं च कारणम् इत्यवगत्य न केवलं हेयैवैषा, अपि तु सर्वथा हृदयाद् निःसार्या मनसोऽपाकरणीया, स्वान्ताच्च संहरणीया । चिन्ता दहति सजीवम् -- दहनक्रियायां चिन्ता चितामप्यतिशेते । चिता निर्जीवं दहति चिन्ता तु सजीवं भस्मसात् कुरुते । उक्तं च- 'चिन्तायाश्च चितायाश्च चिन्ता चैव गरीयसी । चिता दहति निर्जीवं चिन्ता चैव सजीवकम् ।।' बिन्दुमात्राधिक्यात् चितापेक्षयेयं दाहशक्ती बहुगुणा । 'बिन्दुनैवाधिका चिन्ता, चिताऽत्यल्पा हि भूतले ।' प्रविष्टमात्रैवैषा ससारं निःसारम्, सचेतनम् अचेतनम्, सबलं निर्बलम्, सशक्तम् अशक्तम्, मनस्विनं च हीनवृत्ति विदधाति । अतो यदैवैषा पापमूर्तिः पावनाद् मनोमन्दिराद् अस्पृश्येव, कुलटेव, 'कुलकलङ्किनीव, दुश्चरित्रेव, राक्षसीव बलाद् निष्कास्यते, अपसायंते, निराक्रियते, तदेव शोभनं पवित्रं च मुहूर्तम् । चिन्तानिरोधोपायाः - मानवलोकसंही चिन्ता -पिशाचीं समुत्पादयित्रा भगवता जगत्कृता किं समुत्पादितम् अस्याः पिशाच्या निरोधकं संहारकं वा किमपि रसायनम् ? अथवा किमेषा जीवनेन सममेव विनाशम् उपैष्यति ? भारतीयैः पाश्चात्त्यैश्च मनीषिभिः भिषग्वरैश्च चिन्ताप्रतीकारोपायाश्चिन्तिताः प्रचारिताश्च । स्वावलम्बनम्-स्वावलम्बनं तावदाद्यं चिन्ता-प्रतीकार-क्षमं रसायनम् । आश्रिते स्वावलम्बने, गृहीतेऽध्यवसाये, अवलम्बिते चात्मबले, समुपासिते च सदुद्योगे विषमाऽपि चिन्ता नीहारराजिवि, आकाशकुसुममिव, इन्द्रजालमिव, धूमावरणमिव, तुषारकणमिव पश्यत एवापक्षीयते, विनश्यति च । धैर्याश्रयणम् - धैर्यावष्टम्भस्तावद् द्वितीयं रसायनम् । धैर्यं हि निर्धनानां धनम्, निर्बलानां बलम्, अशक्तानां शक्तिः, चिन्ताकुलानां च चिन्ता-हरणक्षमं तन्त्रम् । धैर्याश्रयणं सुख-शान्ति - सदनम्, धैर्यावसादश्च विपदां निदानम् । सांयात्रिकोऽगाध-जलनिधि-मध्यगोऽपि स्वपोतभङ्गे न धैर्यं जहाति, अपि तु धैर्यम् आस्थाय समुद्रं तितीर्षति । एवं धैर्यस्याश्रयेण नरो महाविपदो विभुच्यते । सतत कार्य - व्यापृतित्वम् — कार्यव्यापृतिस्तृतीयं रसायनम् । कार्याव - सक्तमनसः कार्यान्तरापेक्षाभावात् स्वाभीष्ट - कर्मण्येव चेतो व्याप्रियते । 'युगपत् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्' । मनश्चैकस्मिन् समये कार्यद्वयं साधयितुम् अक्षमम् । कार्यान्तरे नियोजितं मनः चिन्तायाश्चिन्तनेऽसमर्थम् । संति तु घोरे विपत्पाते किंचित् स्वाभीष्टं कार्यम्, उपनिषदादि-ग्रन्थानाम् अध्ययनम्, गीतायाः Page #324 -------------------------------------------------------------------------- ________________ चिन्ताविषघ्नं रसायनम् ३०७ पठनं वा, मनोज्ञं शिल्पम्, हृद्यं व्यवसायान्तरं वाऽऽश्रयणीयम्, येन चिन्तार्थ समयाभावः संपद्येत । चिन्ताया हेयत्वज्ञानम्-चिन्ताया हेयत्वावबोधस्तुरीयं रसायनम् । सम्यग् अवगते चिन्ताया दुःखावसायित्वे, तदवरोध एव श्रेयान् । चिन्तया न किंचित् साध्यते । चिन्ता न सुख-साधयित्री, न च दुःखनिवारयित्री इति चेतसि कृत्वा न चिन्तायै स्थानलेशोऽपि देयः। सुकुमारावयवानां कुसुम-सदृशकोमल-हृदयानां कामिनीनां कृते कस्याश्चित् चित्रपटाभिनेत्र्या वचनं मधुरतरं प्रतिभाति यद्-चिन्ता मम लावण्यापही, रूपाजीविका चाहम्, स्ववृत्तिविरोधिस्वात्, रूपापकर्षकत्वात्, लावण्य-संहारकत्वात्, अवसादमयत्वाच्च, नाहं क्षणमात्रमपि रूपापहारिणी समाश्रये चिन्ताम् । रूप-समृद्धयै, सौन्दर्य-वृद्धय, स्वास्थ्य-समुन्नत्यै, तेजःसमुदयाय, ज्ञानोदयाय च चिन्ता स्वमनोमन्दिराद् अस्पृश्येवापसारणीया महिलाभिनिवैश्च। अन्यानि रसायनानि-अन्यान्यपि कानिचिद् रसायनानि चिन्ताविषघ्नानि अनुभूतप्रायाणि निर्दिष्टानि मनोविज्ञानविद्भिर्विपश्चिद्भिः। तद् यथा --'गतं न शोचामि, कृतं न मन्ये' । अतीतस्य चिन्ता परिहेया। वर्तमानं च कार्य सुविचार्यावहितेन चेतसाऽनुष्ठेयम् । 'कर्मफलस्यानिवार्यत्वम्'-प्राक्कृतकर्मणां यथाकालं विपाको जायते, सुखात्मकं दुःखात्मकं च । सुखात्मिका दुःखात्मिका वा स्यात् परिणतिः, उभयमपि साह्लादं सोत्साहं च स्वीकार्यम् । 'चिन्ताया बौद्धिकं समाधानम्'--तद्यथा, कश्चिन्ताया विषयः ? किमस्य निदानम् ? कोऽस्य प्रतीकारोपायः ? सति तु संभवे तत्प्रतीकारोपाये, तदर्थम् अध्यवसाय आस्थेयः । असंभवे च तत्प्रतीकारोपाये धैर्यम् अवलम्ब्य सोत्साह दुःखमपि सोढव्यम्, इत्येवं परीक्षिता चिन्ता सद्य एवोपशाम्यति । 'कार्यातिरेकव्यापृतिरपि अनर्थानां मूलम्' इत्यवगत्य एकस्मिन् समये एकस्यैव कार्यस्यानुष्ठानं हितकरम् । कार्यातिरेको मतिविभ्रमस्य दुःखावाप्तेश्च कारणम् इति सर्वदाऽवधेयम् । अन्ये प्रतीकारोपायाः--समयस्य सदुपयोगोऽपि चिन्तानिवारकं साधनम् अस्ति । समयः सम्यग् उपयुक्तश्चेत्, अहोरात्रं साधु विभाजितं चेत्, निखिलकार्यकलापाथं समयनिर्धारणं स्याच्चेत्, तहि न चिन्तावसर उपपद्यते । आत्मविश्वासः, दृढनिश्चयः, इच्छाशक्तेः प्राबल्यम्, पवित्रविचाराणाम् आश्रयणम्, सद्भावाविर्भावः, हृदय-दौर्बल्यस्य परित्यागश्च चिन्ताहरणानि रसायनानि । महात्मनां क्रान्तिकारिणां च चरितानां पठनं श्रवणं च विषयेऽस्मिन् महदुपकारि । चिन्तावारणार्थं चैवं मनसि चिन्तनीयं ध्येयं च चिन्तेऽपेहि महापापे ! व्याधिमूले ! मनोव्यथे ! • गच्छारण्यं महाशैलं मुञ्च मां शुचिमानसम् ॥ (कपिलस्य ) . Page #325 -------------------------------------------------------------------------- ________________ ५६. विद्याधनं सर्वधनप्रधानम् ( १. विद्वान् सर्वत्र पूज्यते; २. ऋते ज्ञानान्न मुक्तिः; ३. विद्याविहीनः पशुः; ४. विद्या परं दैवतम्; ५. किं किं न साधयति कल्पलतेव विद्या; ६. नहि ज्ञानेन सदृशं पवित्रमिह विद्यते; ७. यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्; ८. सा विद्या या विमुक्तये।) का नाम विद्या ?-ज्ञानार्थकाद् विद्धातोविद्याशब्द: सिध्यति । कस्यचिदपि वस्तुनो विषयस्य वा सम्यग् ज्ञानं विद्येत्यभिधीयते । वेद-शास्त्र-विज्ञानादीनां साध्वनुशीलनं तत्त्वार्थज्ञानं च विद्येति स्वीक्रियते । उपनिषदाम् अनुसारं द्वे विद्य-परा अपरा च । तत्र अपरा--वेदा वेदाङ्गानि च । परा-यया तद् अक्षरम् अधिगम्यते। द्वे विद्ये वेदितव्ये........."परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरम् अधिगम्यते । मुण्डकोप० १-१-४, ५ यया लौकिकं ज्ञानं जायते, सा अपरा विद्या। यया च अक्षर-ब्रह्मविषयकं ज्ञानं जायते, सा परा विद्या। द्वे अपि विद्याशब्दवाच्ये, ज्ञातव्ये च वर्तेते। विद्याधनं सर्वधनप्रधानम्--विद्यैव तद् धनम्, यया सर्वोऽपि मानवीयो मनोरथोऽभिलाषो वा पूर्यते । विद्ययैव कर्तव्याकर्तव्यज्ञानम्, धर्माधर्म-परिज्ञानम्, पुण्यापुण्यविवेकः लाभालाभावबोधश्च । विद्ययैव लक्ष्यनिर्धारणम्, लौकिकविषयावाप्तिः, भौतिक-सुख-साधनम्, भूमि-गृह-विभवादीनाम् अवाप्तिश्च । अपरं चैतस्य वैशिष्ट्यं यदेतद् धनं न भ्रातृभाज्यम्, न नृपहार्यम्, न च भारकारि वर्तते । यथा यथा दीयते विभज्यते च तथा तथैव वृद्धिम् अश्नुते । उक्तं च न चोरहार्य न च राजहार्य न भ्रातृभाज्यं न च भारकारि। व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥ सुभा० पृ० ३० वसुमतीपतिना न सरस्वती बलवता रिपुणापि न नीयते। समविभागहरैर्न विभज्यते विबुधबोधबुधैरपि सेव्यते ॥ सुभा० पृ० ३० विद्याविहीनः पशुः-लोके विद्यैव तद् ज्योतिः यद् मानवे ज्ञानज्योतिज्वलयति, अविद्यान्धतमसं व्यपोहति, दुर्गुणगणं वारयति, सद्गुणततिं संचारयति, कीति प्रथयति, गौरवं विकासयति, यशो वितनोति, भूभृत्सु च आदरम् आवहति । अत एवोच्यते Page #326 -------------------------------------------------------------------------- ________________ विद्याधनं सर्वधनप्रधानम् ३०९ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः॥ भर्तृ० नीति० २० किं किं न साधयति कल्पलतेव विद्या--विद्या मानवस्य किं किं न साधयति ? अपि तु कल्पलतेव सर्वसुखसाधिका, सर्वगुणप्रदा, सर्वाभीष्टसंधात्री च । सैषा मातृवत् संरक्षिका, पितृवत् सत्पथप्रदर्शिका, कान्तावत् सुखदा मनोरञ्जिका च, कीर्तिप्रदा, वैभवदायिनी, दुर्गुणगणनाशेन मनसः पावयित्री च । सर्वमनोरथपूरणात् सेयं कल्पलतया उपमीयते। मातेव रक्षति पितेव हिते नियुङ्क्ते, कान्तेव चाभिरमयत्यपनीय खेदम् । लक्ष्मी तनोति वितनोति च दिक्षु कीति, कि कि न साधयति कल्पलतेव विद्या॥ भोजप्रबन्ध ५ श्रियः प्रदुग्धे विपदो रुणद्धि, यशांसि सूते मलिनं प्रमाष्टि। संस्कारशौचेन परं पुनीते, शुद्धा हि बुद्धिः किल कामधेनुः॥ विद्धशालभंजिका १-८ सा विद्या या विमुक्तये-किं नाम विद्याया लक्ष्यमिति विविच्यते चेत् तर्हि विद्यायाः परमं लक्ष्यं विद्यते भौतिक सुखसाधनेन सममेव पापावलेपनिरसन-पुरःसरं मुक्तेः संसाधनम् । यदि न स्याद् विद्या मुक्तेः साधनं तर्हि तदवाप्तिरपि न श्रेयसे न च सुखाय स्यात् । यया मोक्षाधिगमः सैव विद्या । उपनिषत्सु सैव परा विद्येति प्रकोय॑ते । अतएव भूयो भूयो निदिश्यते-'सा विद्या या विमुक्तये' । विद्यैव ज्ञानावाप्ति-साधनम् । ज्ञानेनैव ब्रह्मपथस्य साधु दर्शनात् तदभिमुखत्वम्, तेन च मोक्षाधिगमः । एतदेवाभिप्रेत्य प्रोच्यते--'ऋते ज्ञानान्न मुक्तिः' । गीतायामपि भगवता कृष्णेनैतदेव समर्थ्यते यद् यथा समिद्धो वह्निः समिधो भस्मसाद् विधत्ते, तथैव ज्ञानाग्निः सर्वकर्माणि विनाशयति भस्मावशेषं च विधत्ते । उक्तं च यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन। ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ गीता ४-३७ Page #327 -------------------------------------------------------------------------- ________________ ३१० संस्कृतनिबन्धशतकम् विद्ययैव तत्त्वज्ञानाधिगमाद् ब्रह्मरूपस्य अमृतत्वस्य च साक्षात्कारेण अमृतत्वावाप्तिब्रह्मज्ञानम् अमरत्वं च । एतदेवाभिप्रेत्य समर्थ्यते यत् __ विद्ययाऽमृतमश्नुते । विद्यया विन्दतेऽमृतम् । नहि ज्ञानेन सदृशं पवित्रमिह विद्यते-सर्वदोषविनाशनाद् ज्ञानाग्निसंदीपनाद् ब्रह्मतत्त्वसाधनात् पावनत्वसंचाराद् ज्ञानमेव मानवीयं कलेवरं देवत्वं प्रापयति । नहि लोके ज्ञानात् प्रशस्यतमं पावनतमम् उत्कृष्टं वा किंचित् । पावनत्व-गुणप्रकर्षादेव ज्ञानस्य महिमानम् उदीरयताऽभिधीयते श्रीकृष्णेन नहि ज्ञानेन सदृशं पवित्रमिह विद्यते । गीता ४-३८ । पावनत्व-गुणोत्कर्षादेव विद्या देववत् पूज्यते आद्रियते च । सा देववत् पन्थानं प्रथयति, सतिं सारयति, मार्ग मार्गयते, धियं द्योतयति, मेधां समेधयति, प्रज्ञां प्रज्वालयति, बुद्धि प्रबोधयति, चेतश्चेतयते, स्वान्तं संस्कुरुते, वैभवम् आविर्भावयति च । अत एवेयम्-परं दैवतम्, परा देवता वाऽभिधीयते । विद्या परं दैवतम् । विद्या परा देवता। यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्-शास्त्रं ज्ञानोदयसाधनम् । शास्त्रं बुद्धि विकासयति, मेधां प्ररोचयति, धियं समिन्धे, प्रज्ञां प्रज्वलयति च । यदि शास्त्राध्येतरि न स्याद् बुद्धरुत्कर्षः प्रज्ञाविर्भावश्च, तर्हि शास्त्रेण तत्र किं शक्यं कर्तम् । तत्रानग्नाविव शुष्कैधःपातनमेव संपत्स्यते । अतो विद्यया सममेव बुद्धरपि समन्वयोऽनिवार्यः । बुद्धिमन्तरेण विद्या मौढयमेवाविष्करोति । बुद्धिपूर्वैव विद्या सर्व विषयसारग्राहिका समस्तसुखसंनिधात्री च । अत एवोच्यते-'विद्याया बुद्धिरुत्तमा'। प्रज्ञाहीनोऽन्ध इवास्ते । शास्त्रं तस्य न किंचिद् उपकतु प्रभवति । अतएवोच्यते-यस्य नास्ति० । महर्षिणा पतञ्जलिनापि महाभाष्ये एतदेव समर्थ्यते । यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कहिचित् ॥ महा० आ० १ . Page #328 -------------------------------------------------------------------------- ________________ ९६. सत्संगतिः कथय किं न करोति पुंसाम् ( १. सतां सद्भिः संग ः कथमपि हि पुण्येन भवति; २. संसर्गजा दोषगुणा भवन्ति; ३. सतां संगो हि भेषजम्; ४. सतां हि संगः सकलं प्रसूयते; ५. संगः सतां किमु न मङ्गलमातनोति । ) सत्संगतिः - सतां सज्जनानां संगतिः सत्संगतिरित्यभिधीयते । लोके सत्संगतेस्तथाविधं महत्त्वं यथा निर्गुणोऽपि सगुणः, क्रूरोऽपि सहृदयः, अधर्मात्मापि धर्मात्मा, पापावृतचेता अपि सत्कर्मनिष्ठः, अज्ञानावृतलोचनोऽपि ज्ञानप्रभाप्रदीप्तः, सकलङ्कोऽपि निष्कलङ्कः संजायते । कियन्तो न दुराचाराः पापिष्ठा अधर्मप्रवणाश्च सतां संगतिमवाप्य दुर्गुणगण-परिहीणाः साध्वाचारभूषितान्तः करणाः पूतात्मानश्च समवर्तिषत । संगतिरेव मानवं तद्रूपेण विपरिणमयति । सतां संगः सततं गुणायैव, दुर्जनसंगतिश्चाजस्रं दोषायैव । यस्य यादृशैः संगतिः, तस्य तादृश्येव परिणतिः । अतएवोच्यते संसर्गजा दोषगुणा भवन्ति । ------ होयते हि मतिस्तात होनैः सह समागमात् । समैश्च समतामेति विशिष्टैश्व विशिष्टताम् ॥ हितोप० प्र० ४२ सत्संगते महत्त्वम् - सत्संगत्यैव नीचोऽपि गुणगौरवं धते । पद्मात्रस्थितं सलिलं मुक्ताफलाभां धत्ते । विष्णुहस्तगतः शङ्खस्त्रिभुवने महिमानम् आसादयति । मलयाचल - सुरभिणा तत्रस्थं काष्ठजातमपि चन्दनायते । तद्वत् सज्जनसंगत्या दुर्जनोऽपि सज्जनायते । उक्तं च 1 महाजनस्य संसर्गः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं वारिधत्ते मुक्ताफलश्रियम् ॥ ॥ पंचतंत्र ३-५९ सज्जन संगतिर्यथा शान्ति तनुते, न तथा सुधांशुरपि । न केवलं सज्जनानां संगतिरेव, अपि तु तेषां दर्शनेनैव दुरितात्ययः पापविनाशनं च । साधवस्तीर्थभूताः । तीर्था दूरस्थाः, सन्तश्चाविदूरस्थाः । सन्तः सद्यः फलप्रदाः । अतः सतां दर्शनमपि सकलमिष्टं जनयति । साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥ शुक्र० ६८ - १ चन्दनं चन्द्रश्च द्वयमपि शैत्यं जनयतः । परं द्वयमप्यतिशय्य साधुसंगतिरपूर्वमेव शैत्यं सौख्यं शान्ति चाविर्भावयति । चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः ॥ सु० २० पृ० ८६ Page #329 -------------------------------------------------------------------------- ________________ ३१२ संस्कृतनिबन्धशतकम् ___ सत्संगतेमहत्त्वं प्रतिपाद्यते यत् कीटोऽपि पुष्पसंसर्गमवाप्य सतां शिर:सु निधीयते । सद्भिः प्रतिष्ठापितः पाषाणोऽपि देवत्वेनाभिवन्द्यते । लोकेऽवलोक्यते यत् काचोऽपि काञ्चन-संसर्गमुपलभ्य मारकती द्युति धत्ते । उदयगिरेः सर्वमपि द्रव्यजातं भानुसंनिकर्षमासाद्य सुषमां दधाति । एवमेव सतां सांनिध्यम् उपलभ्य हीनवर्णोऽपि कान्ति धत्ते, अविद्यान्धतमसपिहितलोचनोऽपि विद्याप्रभाभासुरताम् आश्रयते, दुरितव्यवाय-पुरःसरं सद्गुण-सुधाधरत्वं प्रतिपद्यते । उक्तं च काचः काञ्चनसंसर्गाद् धत्ते मारकती द्युतिम् । तथा सत्संनिधानेन मूर्यो याति प्रवीणताम् ॥ हितो० प्र० ४१ कीटोऽपि सुमनःसंगाद् आरोहति सतां शिरः। अश्मापि याति देवत्वं महद्धिः सुप्रतिष्ठितः ॥ हितो० प्र० ४५ सत्संगतरुपयोगित्वम्-सत्संगतिरेवासाध्यमपि साध्यं साधयति । सत्संगत्यैव क्षुद्रा अपि पर्वतापगा महानदो-संपर्कमुपेत्य जलनिधिं विन्दन्ति । उच्यते च माघेन बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति । संभूयाम्भोधिमभ्येति महानद्या नगापगा॥ शिशु० २-१०० सतां संगः सर्वपापविनाशनाद् दुरित-व्यवच्छेदाच्च भेषजमिव पापानि शमयति, नैरोग्यप्रवर्तनेन चेतः प्रसादयति, सद्भावाविर्भावेन मानसं विमलीकरोति, पुण्यततिसंचारेण कल्पवृक्ष इव मङ्गलराशिं प्रथयति, दुर्गुणान् दमयते, सद्गुणान् समेधयति च । अतएवोच्यते संगः सतां किमु न मङ्गलमातनोति । संगस्य रागात्मकत्वाद् बन्धनहेतुत्वं प्रतिपाद्यते । अतएव सर्वविधः संगो हेयत्वेन परिगण्यते । सुधीभिरनुमोद्यते यत् संगः सर्वथा हेयः । परं यदि हातुं न शक्यते तहि सज्जनानामेव संगतिराश्रयणीया । अतएवोच्यते संगः सर्वात्मना त्याज्यः स चेत् त्यक्तं न शक्यते । स सद्धिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ हितो०४-९० । सत्संगतिमाश्रित्य खला अपि साधुत्वं भजन्ते, सदोषा अपि निर्दोषताम् आपद्यन्ते, मूढा अपि गुणित्वं प्रपद्यन्ते, बालिशा अपि विद्यार्जनप्रवणाः संलक्ष्यन्ते । नहि दुर्जनसंगः सत्सु दोषान् आविष्करोति, तेषां सद्गुणांश्च तिरोधापयति । प्रसूनगन्धं मद् धारयति, न तु मृद्गन्धं कुसुमानि प्रतिपद्यन्ते । उक्तं च Page #330 -------------------------------------------------------------------------- ________________ सत्संगतिः कथय किं न करोति पुंसाम् ३१३ सत्सङ्गाद् भवति हि साधुता खलानां • साधूनां नहि खलसंगमात् खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥ चाणक्यशतक १२-७ सत्संगतिः कथय किं न करोति पुंसाम्-नहि सत्संगतेर्महत्त्वं वर्णयितुं शक्यम् । सत्संगतिः सकलमपि दुःसाध्यं साध्यं विदधाति । निखिलमभीष्टं पूरयति, भावोन्नतिम् आदधाति, मौढ्यं निराकरोति, वाचि सत्यं सिञ्चति, मानोन्नतिं कुरुते, पापान्यपहन्ति, मनः परिष्करोति, यशः सूते । कि नास्ति यन्न सत्संगत्या साध्यम् । सत्यं सत्संगतिः कामदुधैव । उक्तं च जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नति दिशति पापमपाकरोति । चेतः प्रसादयति दिक्ष तनोति कीति सत्संगतिः कथय किं न करोति पुंसाम् ॥ नीतिशतक २३ उपसंहारः-ऐतिह्येऽप्यवलोक्यते यत् सत्संगतिमाश्रित्य निर्गुणा गुणिनः, अधार्मिका धार्मिकाः, अशिक्षिताः शिक्षिताः, दुराचाराश्च सदाचारा अभूवन् । श्रीरामचन्द्र-संपर्कम् अवाप्य विभीषणो हनुमान् सुग्रीवश्च महिमानं लेभिरे, रामकृष्णपरमहंस-संगतिमासाद्य स्वामि-विवेकानन्दः, स्वामिविरजानन्दसंगतिम् अवाप्य महर्षिर्दयानन्दश्च गुणगौरवं दधुः ।। महता पुण्येनैव सतां संगोऽवाप्यते। सतां संगो हि भेजषवत् सर्वदोषनिवारकः । संतां संगो निखिलम् अभीष्टं साधयति । सतां संगः सर्वविधं सौभाग्यं मङ्गलं क्षेमं चावहति । सतां संगः किं न चिकीर्षितम् ईप्सितं च साधयति । अत एवोच्यते ‘सतां हि संगः सकलं प्रसूयते' । Page #331 -------------------------------------------------------------------------- ________________ ९७. सर्वे गुणाः काञ्चनमाश्रयन्ते ( १. हिरण्यमेवार्जय निष्फला गुणाः; २. धनान्यर्जयध्वं धनान्यर्जयध्वम् ।) कि धनेन साध्यम् ?-लोके सर्वो लोक: सुखं लिप्सते, शान्तिम् ईप्सति च । सुखं शान्तिश्च कथमिव शक्यं समासादयितुम् ? सुखस्य मूलम् अर्थः । यत्र यत्र धनवृद्धिरर्थवैभवं च तत्रैव सुख-साम्राज्यमपि व्याप्नोति । 'सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः' । जीवने पुरुषार्थचतुष्टयमपि धनेनैव प्रवर्तते । धनं प्राणिनां जीवनम्, सर्वस्वम्, सर्वार्थसाधकं च । धनाद् ऋते न धर्मः, न कामः, न च मोक्षश्च प्राप्यते । लोके दशं दर्श धनस्य माहात्म्यं बालो वा, वृद्धो वा, नरो वा, नारी वा, यतिर्वा, नपतिर्वा, सर्वेऽपि धनावाप्तिकामाः संलक्ष्यन्ते । धनं हि जिजीविषोर्मर्त्यस्यापरे प्राणाः । यावज्जीवं न धनाशा मानवं परिजिहीर्षति, न विजहाति च । अतएवोच्यते-- धनाशा जीविताशा च गुरू प्राणभृतां सदा । हितो० १-११३ बलं शक्तिः समृद्धिर्गुणार्जनं समादरो ज्ञानविज्ञानावाप्तिश्च सर्वमपि वित्तेनैव सिध्यति । राज्ञामपि प्रभुत्वस्य मूलं धनमेवावगन्तव्यम् । धनेन बलवांल्लोके धनाद् भवति पण्डितः। हितो० १-२३ धनवान् बलवांल्लोके सर्वः सर्वत्र सर्वदा। प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ॥ हितो० १-१२२ नास्ति यत्र धनं वैभवं वा, तत्र सर्वेऽपि मनोरथाः, सर्वा अपि योजनाः, सर्वविधापि महत्त्वाकांक्षा क्षयं यान्ति, यथा ग्रीष्मे स्वल्पजला नद्यः । अर्थेन तु विहोनस्य पुरुषस्याल्पमेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ हितो० १-१२४ धनान्यर्जयध्वम्-वेदेष्वपि धनोपार्जनस्य धनस्वामित्वस्य चादेशो लभ्यते-- वयं स्याम पतयो रयीणाम्। ऋग्० १०-१२१-१०, यजु० १०-२०, अथर्व० ७-७९-४ धनेनैव महत्त्वाकाङ्क्षा पूर्यते, अभीप्सितम् आप्यते, मनोरथो लभ्यते । धनमेव सर्वविधां मनःकामनां पूरयति । यत्र धनाभावस्तत्र सर्वासामपि विद्यानाम्, सर्वेषामपि गुणानां च निष्फलत्वं दरीदृश्यते । नहि क्षुधातुरेण व्याकरणं भुज्यते, पिपासाकुलेन वा काव्यरस आस्वाद्यते, न च छन्दोभिः कुलोद्धारः संभाव्यते, अतो धनार्जने मनो देयम् । Page #332 -------------------------------------------------------------------------- ________________ सर्वे गुणाः काञ्चनमाश्रयन्ते बुभुक्षितव्याकरणं न भुज्यते, पिपासितैः काव्यरसो न पीयते। . न छन्दसा केनचिदुद्धृतं कुलं, हिरण्यमेवार्जय निष्फला गुणाः॥ · द्रविणमेव चतुर्वर्गसाधनम् । द्रविणेनैव यज्ञादिकाः क्रियाः, दक्षिणादानादिरूपो धर्मश्च प्रवर्तन्ते । कामो भौतिकविषयावाप्तिश्च वित्तमन्तरेण गगनकुसुममिवावगन्तव्यम् । मोक्षार्थं जीवननिर्वाहार्थं च वित्तस्य भूयस्यावश्यकता । लोके सर्वाः क्रिया अर्थमूला एव । धनैरेव कुलीनत्वम्, विपद्विघातः, लोकप्रियत्वम्, साहाय्यावाप्तिश्च । अतएवोच्यते धनिष्कुलीनाः कुलीना भवन्ति, धनरापदं मानवा निस्तरन्ति । धनेभ्यः परो बान्धवो नास्ति लोके, धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ नीतिसार० ३ हिरण्यमेवार्जय०-लोके विलोक्यते यद् हिरण्यमेव सर्वासां विद्यानां लक्ष्यम् । धनमेव सर्वं मनोरथं पूरयति । धनेनैव लौकिकोऽभ्युदयः, लोकप्रियत्वम्, नेतृत्वम्, धनाढयत्वम्, निर्वाचनेषु विजयावाप्तिः, मन्त्रित्वादिपदलाभश्च संजायते । उक्तं च यस्यास्तिस्य मित्राणि, यस्यास्तस्य बान्धवाः । यस्यार्थाः स पुमाललोके, यस्यार्थाः स च पण्डितः॥ पंच० १-३ धनसंपन्नस्यैव सर्वे गुणा याचकैः स्तूयन्ते । प्रतिपलं प्रतिपदं तद्गुणान् गायन्तः प्रचुरं पुरस्कारं स्तुतिपाठका विन्दन्ति । स एव कुलीनः, पण्डितः, गुणवान्, सुरूपश्चेति स्तुतिपटुभिरजस्रं प्रशस्यते । उक्तं च यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः। स एव वक्ता स च दर्शनीयः, सर्वे गणाः काञ्चनमाश्रयन्ते ॥ नीति० ४१ वित्तस्यैवैतद् माहात्म्यं यद् धनिनः सर्वमपि दोषजातं प्रच्छाद्यते । तस्य दुर्गुणगणमपि सद्गुणत्वेन प्रस्तूयते । तस्य पापाचरणान्यपि पुण्यत्वेनोपस्थाप्यन्ते । तस्य नैघृण्यं कारुण्यरूपेण प्रतिपाद्यते । तस्य गहितत्वं वन्द्यत्वेन कीय॑ते । न केवलमेतदेव, तस्य विद्यानुरागित्वं कलाप्रियत्वम् उदारत्वं दातृत्वं शिल्पज्ञत्वं धैर्य स्थैर्य च शतगुणं सहस्रगुणं वा विधायोद्गीर्यते प्रशस्यतेऽभिनन्द्यते च याचकैः । अत उच्यते पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च ॥ पंच० १-७ न सा विद्या न तद् दानं न तच्छिल्पं न सा कला। न तत् स्थैर्य हि धनिनां याचकर्यन्न गीयते ॥ पंच०१-४ Page #333 -------------------------------------------------------------------------- ________________ ३१६ संस्कृतनिबन्धशतकम् निर्धनता सर्वापदामास्पदम्-निर्धनत्वं सर्वासामेव विपदां निधानम् । नहि धनहीन आत्मत्राणे कलत्रत्राणे पुत्रत्राणे कुलपरिरक्षणे वा प्रभवति । स समाजे क्षीराद् उत्क्षिप्ता निष्कासिता वा मक्षिकेव बहिष्क्रियते । न तस्य कुले समाजे राष्ट्रे च प्रतिष्ठा समादरो वा । धनाभावेनैव ह्रीमत्त्वं सत्त्वभ्रंशः परिभवो निर्वेदः शोको बुद्धिनाशश्चेत्यादयो दोषाः प्रादुर्भवन्ति । सततं चिन्ताकुल• त्वम्, अजस्रम् अवमानः, सुहृदां घृणादृष्टिः, ज्ञातीनां विवादाश्रयणम्, अनवरतशोकाग्निप्रदाहश्चेति निर्धनताजन्य-दोषाः । साधूच्यते दारिद्रयाद् ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते। निविण्णः शुचमेति शोकपिहितो बुद्धया परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ मृच्छ० १-१४ निवासश्चिन्तायाः परपरिभवो वैरमपरं जुगुप्सा मित्राणां स्वजन-जनविद्वेषकरणम् । वनं गन्तं बुद्धिर्भवति च कलत्रात परिभवो हृदिस्थः शोकाग्निर्न च दहति सन्तापयति च ॥ मृच्छ० १-१५ धनाभावस्तथा मानवं पीडयति यथा नारातिरपि । न कश्चिदेनं भाषते, न स क्वचिदाद्रियते, समाजे च स सर्वथा तिरस्क्रियते, बहिष्क्रियते च । एतस्माद् धनार्जनं जीवनस्य परमं कर्तव्यम् । उक्तं च संगं नैव हि कश्चिदस्य कुरुते संभाषते नादरात संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते । दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥ मृच्छ० १-३७ . Page #334 -------------------------------------------------------------------------- ________________ ९८. त्याज्यं न धैर्यं विधुरेऽपि काले धेर्यस्यावश्यकता - सुखदुःखात्मकं जगत् । 'चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च' । सुखे हर्षानुभूतिः, दुःखोदये ग्लानिर्विषादश्च समेषामेव मानवानां सामान्येन संलक्ष्यते । परं विपदि धैर्यावसादो हीनवृत्तित्वं विषादः - क्लैब्यं किंकर्तव्यताविमूढत्वं वा न धीरोचितम् । को न जानाति जगदिदं दुःखाधिव्याधिपरीतम्, सन्तापानलसंतप्तम्, दुःखाब्धिपरिवेष्टितम्, व्यसनौघसंकुलं च । तत्र नात्मावसादः श्रेयस्करः । विपदि धैर्याश्रयेणैव कार्यं सिध्यति, ज्योतिरुदेति, प्रकाशः संचरति, मोहान्धतमसं च व्यपैति । नहि श्रीरामचन्द्रो महतीं दशाननचमूं प्रेक्ष्य धैर्यं तत्याज । नहि महात्मा गांधिः आंग्लशासकबलम् अवलोक्य धैर्यं जहौ । नहि महर्षि दयानन्दः परोपतापेन स्वचिकीर्षितम् अहासीत् । सर्वैरेवैतैर्मानधनैः धैर्यमवष्टभ्य विजयश्रीः समासादिता । समुद्रे पोतभङ्गे सति नाविको बाहुभ्यामेव सागरं तितीर्षति । वीरसावरकरस्तु सत्यमेव जलधिम् अतरत् । सर्वमेतद् धैर्याश्रयणस्यैव वैभवम् । 1 त्याज्यं न धैर्यं विधुरेऽपि काले, धैर्यात् कदाचिद् गतिमाप्नुयात् सः । या समुद्रेऽपि हि पोतभङ्गे सांयात्रिको वाञ्छति तर्तुमेव ॥ पञ्च० २ २१६धैर्यस्य महत्त्वम् - धीरैरेव जगदिदं जितम् । तत्राधमा जना विपत्पाताकलनात् कार्यमेव नारभन्ते, मध्यमाः प्रारब्धमपि कार्यं विघ्नौघपातसंत्रस्ता मध्येमागं विजहति कार्यम्, धीरास्तु विघ्नशतसन्तप्ता अपि न लक्ष्य परिजहति । प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नः सहस्त्र गुणितेरपि हन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति ॥ अतएव धर्मलक्षणे 'धृतिः क्षमा दमोऽस्तेयम् ० ' ( मनु० ६- ९२ ) - धृतेर्नाम सर्वप्रथमं गण्यते । न यत्र धृतिर्न तत्र धर्मावस्थानमपि । महात्मनो लक्षणेऽपि विपदि धैर्याश्रयणं सर्वप्रथमो गुण उच्यते । विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ हितोप० १-३१ धैर्यावष्टम्भेनैव विपत्पयोधिरुत्तीर्यते, आत्माव सादोऽवरोध्यते, सन्तापततिश्च निरोध्यते । धैर्येणैव साहसं श्रीविवेकश्च समुपतिष्ठन्ते । समुपस्थितायां तु विपत्ती धैर्यमाश्रित्य तत्प्रतीकारोपायश्चिन्तनीयः । उक्तं च- 'आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम्' । I Page #335 -------------------------------------------------------------------------- ________________ ३१८ संस्कृतनिबन्धशतकम् धैर्यस्याश्रयणेन लाभाः-प्रतिदिनं संलक्ष्यते यद् भानुस्ताम्र एवोदेति, ताम्र एव चास्तमेति, तथैव धीरा वीराश्च संपत्तौ विपत्तौ च समत्वं भजन्ते । उक्तं च संपत्तौ च विपत्तौ च महतामेकरूपता। उदये सविता रक्तो रक्तश्वास्तमये तथा ॥ पंचतन्त्र० २-७ गीतायामपि एतदेव प्रतिपाद्यते यद् हर्षशोकयोः समत्वबुद्धिरेव सर्वदुःखविनाशिका । यो न हृष्यति न च द्वेष्टि स एव प्रभुप्रियः । यो न हृष्यति न द्वेष्टि न शोचति न काइ क्षति । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥ गीता १२-१७ अतएव सम्पदि हर्षाभावो विपदि विषादाभावो महात्मनां लक्षणं गण्यते । महाकविना कालिदासेनापि एतदेव समर्थ्यते यद् विषमायां परिस्थिती यो न मुह्यति, किंकर्तव्यविमूढतां च न भजते स एव धीरः । उक्तं च संपदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ हितो० १-३२ विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः। कुमारसंभव धैर्य हि मानवस्य नैसर्गिको धर्मः। यत्र धैर्य न तत्रावसादो विषादोऽधीरत्वं वा। नाग्निशिखाऽधःकृताऽपि अधोमुखत्वं भजते । 'प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः' ( शिशु० १-२) । उक्तं च. कर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमाष्टम् । अधोमुखस्यापि कृतस्य वह्नधिः शिखा याति कदाचिदेव ॥ हितो० २-६९ धैर्य गुणोत्कर्षाय-लोके धोरा एव विजयं लभन्ते, वसुधां विजयन्ते च । धीरा एव जना विश्वस्य साम्राज्यं स्वीकुर्वते, धीरा एव जगतः प्रकाशस्तम्भाः। धीरैरेव धार्यते धरित्री। धीरैरेव राष्ट्र श्री-वृद्धिौरवावाप्तिश्च । नहि धीराणां कृते किंचिद् असाध्यम् । धीरास्तु असाध्यमपि साध्यम्, दुर्लभमपि सुलभम्, दुर्जयमपि सुजयम्, दुष्करमपि सुकरं विदधति । धीराणां कृते जलधिः कुल्यायते, पातालं स्थलीयते, सुमेरुश्च वल्मीकायते । अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य ॥ सुभाषितावलि २२७० परेशोऽपि धीराणां धैर्यध्वसं विधातं न क्षमः । कामं गिरयश्चलन्तु, परं धीराणां मनो निश्चलं सुस्थिरं च । चलन्ति गिरयः कामं युगान्तपवनाहताः। कृच्छेऽपि न चलत्येव धीराणां निश्चलं मनः ॥ सु० रत्न०, पृ० ७७ . Page #336 -------------------------------------------------------------------------- ________________ ९९. न निश्चितार्थाद् विरमन्ति धीराः (१. न्याय्यात् पथः प्रविचलन्ति पदं न धीराः; २. साहसे श्रीर्वसति; ३. मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ।) धैर्य हि महतां धनम्--किं नाम धीरत्वेनाभिलष्यते ? संप्राप्ते विषमे काले, समुपस्थितायां कठिनपरिस्थिती, समागते च संकटे यो न मुह्यति, न विवेकं जहाति, न धैर्यावसादं भजते, न किंकर्तव्यविमूढत्वम् आश्रयते, न च कर्तव्यपथात् प्रच्यवते, स धीरः । अस्मिन् सुख-दुःखात्मके, हर्षशोकसमवेते, संपद्विपत्परीते, त्रिभुवने धीरा एव मानवानां प्रकाशस्तम्भाः, प्रेष्ठाः पथिप्रदर्शकाः, कर्तव्योद्बोधकाश्च । धीरैरेव जगदिदम् उन्नीयते, उध्रियते, पाल्यते, संवर्ध्यते च । धीरा एव राष्ट्रहितचिन्तकाः, आत्मोत्सर्गप्रवणाः, मानकधना:, बलिदानभावना-संजुष्ट-स्वान्ताश्च लक्ष्यन्ते । यदेव कार्य ते प्रारभन्तेराष्ट्रहितम्, स्वराष्ट्ररक्षा, विश्वहितम्, समाजसुधारः, देशोन्नतिर्वा, तत् परिसमाप्यैव ते विश्रान्ति लभन्ते । न निश्चितार्थाद् विरमन्ति धीराः--स्वप्रतिज्ञापूर्तये, स्वलक्ष्यावाप्तये, स्वोद्देश्यसिद्धयै च ते भय-संत्रास-विपत्पातादि-विघ्नपारावारम् उत्तरन्ति, स्वेष्टसिद्धिं च समासादयन्ति । सुधाप्राप्तिरासीद् देवानां लक्ष्यम् । ते रत्नलाभेन न तुष्टाः, न विषमविषेण भीतिम् आप्ताः, अमृतम् अवाप्यैव ते विरेमुः । रत्नैर्महालै स्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् । . सुधां विना न प्रयविरामं न निश्चितार्थाद विरमन्ति धीराः॥ भर्तृ० नीति० ८१ धीरा न कान्ता-कटाक्ष-शराहता भवन्ति । न च तेषां चेतःसु क्रोधादयो दोषाः प्रविशन्ति । लोभो विषयाभिलाषश्च न तान् अपहरति । तथाविधा एव धीरा लोकत्रये विजयिनो महामनसश्च संजायन्ते । कान्ता-कटाक्षविशिखा न लुनन्ति यस्य चित्तं न निर्वहति कोपकृशानुतापः। कर्षन्ति भूरिविषयाश्च न लोभपाशै र्लोकत्रयं जयति कृत्स्नमिदं स धीरः॥ भर्तृ० नीति० १०६ धीराणां लक्ष्यसिद्धिपराणां धैर्यध्वंसं विधिरपि न विधातुं प्रभवति । ते धैर्याश्रयणे गिरिभ्यो जलनिधेश्चापि गरीयसः । यावज्जीवं तेषां धैर्यध्वंसो न लक्ष्यते, न च संभाव्यते । 'कार्य वा साधयेयं शरीरं वा पातयेयम्' इति तेषां प्रतिज्ञामन्त्रः । उक्तं च Page #337 -------------------------------------------------------------------------- ________________ ३२० संस्कृतनिबन्धशतकम् विरम विरमायासादस्माद् दुरध्यवसायतो विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे । अयि जड विधे कल्पापायव्यपेत-निजक्रमाः कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ भर्तृ० सं० ३२७ न्याय्याद् पथः प्रविचलन्ति पदं न धीराः - धीरा वीरा मनस्विनश्च यदेव प्रतिजानते, तदेव जीवनार्पणेनापि संपोषयन्ति पूरयन्ति च । दन्तिनां दन्ता इव तेषां वचनानि प्रतिज्ञाश्च न प्रतिनिवर्तन्ते । साधूक्तं पण्डितराजेन __जगन्नाथेन— विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः । याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ अन्योक्तिवि० ६३ दाशरथी रामः स्ववचनपरिपालनार्थं वह्निप्रवेशं समुद्रनिपातं विषपान - मपि च स्वीकर्तुम् आत्मानं प्रास्तीत् । 'रामो द्विर्नाभिभाषते' इति न कस्य लोकस्य विदितम् । रामः कैकेयीम् अभ्यदधात्— अहं हि वचनाद् राज्ञः पतेयमपि पावके ॥ १८-२८ भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ॥ १८-२९ तद् ब्रूहि वचनं देवि ! राज्ञो यदभिकाङ्क्षितम् । करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ रामा० अयो० १८-३० पार्वती शिवप्राप्तिमुद्दिश्य महत्तपस्तेपे । तस्या माता मेनापि तां दृढनिश्चयाद् वारयितुं नाशकत् । स्वनिश्चयेनैव सा त्रिपुरारि प्राप । अतएव कालिदासेनाभिधीयते - क ईप्सितार्थस्थिरनिश्चयं मनः, पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ कुमार० ५-५ धीराः स्तुतिनिन्दां परिहृत्य, लोभमोहम् अवहत्य, जीवनमृत्युं चावमत्य न्यायोचितामेव सरणिमाश्रयन्ते । तत्रभवतो रामचन्द्रस्य, भगवतः कृष्णस्य, महात्मनो बुद्धस्य, महर्षेर्दयानन्दस्य, महात्मनो गान्धेः, सुभाषचन्द्रवसोश्च नामानि सादरम् अत्रोल्लेखितुं शक्यन्ते यैः प्राणार्पणेनापि न न्यायोचिता सरणिः समुज्झिता, स्वीया प्रतिज्ञा च पूरिता । अत एवोच्यते निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु या यथेष्टम् । अद्यव वा मरणमस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ भर्तृ० नीति० ८४ Page #338 -------------------------------------------------------------------------- ________________ न निश्चितार्थाद् विरमन्ति धीराः ३२१ मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् — सुखं वा स्याद् दुःखं वा, लाभोऽलाभो वा, हर्षः शोको वा, मनस्विनः स्वेष्टकर्मपथान्न विरमन्ति । तेषां कृते प्राणपरित्यागः सुकरो न च प्रतिज्ञाभङ्गः, शूलावारोहणं हर्षप्रदं न च लक्ष्यस्यासिद्धिः। को न जानाति भारतीयानां क्रान्तिधौरेयाणां सुभाषचन्द्रवसुभगतसिंह चन्द्रशेखर आजाद प्रभृतीनां गौरवाधायकम् अदृष्टपूर्वम् अद्भुतं च साहसिकं कर्म । तेषां त्यागेन तपोबलेन च भारतस्य स्वातन्त्र्य - प्राप्तिः कस्य न मुदम् आवहति । अतएवोच्यते - 'साहसे श्रीवंसति' । तादृशा एव सन्तः सुखमथं कीर्ति चानभिलष्य स्वप्रतिज्ञामनुसरन्तो दुष्करं कर्मारभन्ते, तत्र साफल्यं चाश्नुवते । तेषां कृते समग्राऽपि वसुमती प्राङ्गणमेव, सुमेरुर्वल्मीकसंकाशः, सागरोऽपि कुल्यायते, पातालं च स्थलायते । नहि तेषां कृते किंचिद् दुष्करम् असाध्यं वा । अर्थः सुखं कीतिरपीह मा भूद् अनर्थ एवास्तु तथापि धोराः । निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्म समारभन्ते ॥ शार्ङ्ग ० प० ५ अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य ॥ सुभा० रत्न० पृ० ७७ यथा पावकस्योर्ध्वज्वलनं नहि केनापि वारयितुं शक्यं तथैव दृढनिश्चयस्य धीरस्यापि निश्चयो न ध्वस्यते, नावसीयते । कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्टुम् । अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिदेव ।। नीति० १०५ मनस्विनां दृढनिश्चयं सर्वस्वत्यागं सर्वविधदुःखसहिष्णुत्वं प्रतिज्ञापूर्ति - प्रवणत्वं च स्मारं स्मारं सूक्तं भर्तृहरिणां २१ क्वचित् पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ॥ Page #339 -------------------------------------------------------------------------- ________________ १००. पुराणमित्येव न साधु सर्वम् (क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीतायाः।) पुरातनस्य प्रयोजनम्-लोकेऽस्मिन् निरीक्ष्यते यद् द्विविधा प्रवृत्तिर्मानवानाम् । केचन प्राचीनपद्धतिप्रिया अपरे च नूतनपद्धतिप्रियाः । समाजो वा, राष्ट्रं वा, काव्यं वा, दर्शनं वा, साहित्यं वा, कलाकौशलं वा, रीतिर्वा, नीतिर्वा, वेषो वा, भूषा वा, रुचिर्वा, गतिर्वा, सर्वत्रापि वृत्तिवैषम्यं प्रेक्ष्यते, विचारभेदोऽवलोक्यते, प्रवृत्तिवैविध्यं च निरीक्ष्यते । प्राचीनपरम्परावादिनः सर्वेष्वपि विषयेषु पुरातनमेव प्रशंसन्ति, नवीनं चावमन्यन्ते । नव्यास्तु नव्यामेव सरणि साधीयसी मन्वते । एतादृशायां विप्रतिपत्तौ का नु सरणिः श्रेयसी इति विपश्चितां विवेचनम् अर्हति । विचारदृशा विविच्यते चेत् तर्हि निश्चप्रचमेतत् शक्यं वक्तुं यत् पुरातनं वा नूतनं वा नोकं साकल्येन साधु असाधु वा । पुरातनेऽपि किंचिद् ग्राह्यम्, नूतनेऽपि च तथैव किंचिद् ग्राह्यम् । उभयत्रापि किंचित् श्रेयस्करं सुखावहं लोकोपकारि च । तत्र मरालवृत्तेराश्रयणमेव श्रेयस्करम् अवगम्यते । साधूच्यते महाकविना कालिदासेन यद् हंसः क्षीरम् आदत्ते, तन्मिश्रा अपश्च जहाति । तथैव यस्यां कस्यामपि पद्धतौ यद्यत् श्रेयस्करं स्यात् तत्तदादेयम् । यच्च तत्राश्रेयस्करं तत् परिहेयम् । हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः । शाकु० ६-२८ विषयेऽस्मिन् भगवता मनुनाऽपि नीरक्षीरविवेक-पद्धतिरेव श्रेयस्करत्वेन समर्थ्यते । अतएव तेनादिश्यते यद् विषादप्यमृतम् आदेयम् । सुभाषितानि सद्वत्तानि विविधानि च शिल्पादीनि यत एव प्राप्यन्ते, तत एव आदेयानि । उक्तं च विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । अमित्रादपि सवृत्तम् अमेध्यादपि काञ्चनम् ॥ स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्वतः॥ मनु० २-२३९, २४० पुरातन-नूतनयोविवादे मनोर्मतं समीचीनतमं प्रतीयते । एवं प्राचीनपरम्परायां प्राचीनपद्धतौ च यद्यत् श्रेयस्करम्, तत्तद् यत्नतो ग्राह्यम्, अन्यच्च परिहेयम् । एतादृश्येव प्राचीना परम्परा । अतएव तैत्तिरीयोपनिषदि कर्मविप्रतिपत्तिमाश्रित्य निर्दिश्यते यत् Page #340 -------------------------------------------------------------------------- ________________ पुराणमित्येव न साधु सर्वम् ३२३ यान्यनवद्यानि कर्माणि, तानि सेवितव्यानि, नो इतराणि । तैत्ति० १-११-२ नवीनस्योपादेयत्वम्-महाकविना कालिदासेन न केवलं काव्यविषये एव, अपि तु सर्वमपि विषयमधिकृत्य क्रान्तिकारि वचनमेतत् प्रस्तूयते यद् न प्राचीनमेव सर्वोत्कृष्टम्, न च नव्यमिति परिहेयम् । सन्तः साधु परीक्ष्यैव ग्राह्य गृह्णन्ति, हेयं च परिजहति । काव्ये शास्त्रे समाजे नीतौ रीतौ च सर्वत्रैव विधिरेष पालनीयः । उक्तं च पुराणमित्येव न साधु सर्वं न चापि किचिन्नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद् भजन्ते, मूढः परप्रत्ययनेय-बुद्धिः ॥ मालविकाग्निमित्र १-२ यदि कालिदासस्य कथनमेतद् विकासवाददृष्ट्या परीक्ष्यते चेत् तर्हि सुतरामेतद् आपद्यते यद् जगति प्रतिपदं प्रतिक्षणं च विकासः प्रवर्तते । नहि लोकस्य जीवनस्य च किंचित् तत्त्वं यत्र विकासप्रक्रिया नोपलभ्येत । विकासप्रक्रियाश्रयणे तु सर्वत्रैव विकासो मन्यते । रीति-नीति-शिक्षा-वेष-भूषादिविषयेषु विकासक्रमो न केनापि संरोर्बु पार्यते । विज्ञान-समुदयाच्च विश्वस्यैवैकत्वं संजायते । सर्वाः सभ्यताः, सर्वाः संस्कृतयश्च किंचित् स्वीयं वैशिष्टयं धारयन्ति । तत्र यदेव श्रेयस्करं महत्त्वपूर्ण विशिष्टम् अपरिहार्य वाऽवलोक्येत, ततस्तदेवोपादेयम् । एवंविधदृष्टेराश्रयणेन वैज्ञानिकाविष्काराणामपि लाभाः साधूपभोक्तुं सम्यगुपयोक्तुं च पार्यन्ते । संस्कृत्यादिविषयेषु आचारसंवलिता, आस्तिक्य-समवेता, धर्ममूला च प्राचीन-संस्कृतिरपि जीवने न सर्वथा परिहार्यत्वं भजते । अन्यविषयेषु, प्राधान्येन संस्कृति-विषये, समन्वयवादः, सामञ्जस्यप्रक्रिया च श्रेयसे इति सुकरं वक्तम् । क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः-अहर्निशम् अवलोक्यते यत् सर्वेषु वृक्षेषु प्रत्यहं नूतनानि पुष्पाणि, नूतनानि फलानि, नूतनानि च किसलयानि प्रादुर्भवन्ति । सूर्यस्य रश्मिषु प्रत्यहं नूतनं ज्योतिर्नत्ना प्रभा नव्या प्रगतिश्च, सुधांशोः किरणेषु नूतना सुधा नूतनम् आह्लादनं च, पतत्रिणां रवेषु नूतनः कलरवः, प्रकृतौ प्रत्यहं प्रतिक्षणं च नूतनत्वं संप्रेक्ष्यते । जीवनेऽनुदिनं नवा स्फूर्तिः, नव उत्साहः, नवा प्रगतिरुद्गतिश्च निरीक्ष्यते । एवमनवरतं प्रतिपलं प्रतिपदं च नूतनत्वं दृश्यते । नित्य-नूतनत्वमेव प्रकृतेर्विकासस्य च मूलम् । बाले वा, शिशौ वा, तरुणेषु, तरुणीषु च नित्य-नूतनत्वं विकास-प्रक्रियामेवोद्घोषयति । काव्ये शास्त्रे लोके चैतन्नूतनत्वमेव रमणीयताम् आपादयति । Page #341 -------------------------------------------------------------------------- ________________ ३२४ संस्कृतनिबन्धशतकम् रोतिर्वा, नीतिर्वा, विधिर्वा, पद्धतिर्वा, सभ्यता वा, संस्कृतिर्वा, काव्यं वा, शास्त्रं वा, सर्वत्रैव नूतनत्वस्य साम्राज्यं लक्ष्यते । अतएव महाकविना माघेन साह्लादम् उद्घोष्यते यत् क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः । शिशु० ४-१७ भगवता कृष्णेन प्रतिपाद्यते यद् - ' वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि' ( गीता २ - २२ ) तद्वत् पुरातनं परित्यज्यते, नूतनं चाधीयते इति निसर्गक्रमः । एतदाश्रित्यैव शिशुषु नूना स्फूर्तिः, रमणीषु नूतनं लावण्यम्, पुष्पेषु नूतनं सौरभम् साहित्ये नूतनाभिव्यञ्जनाशक्तिः, संस्कृती नूतनो विधिश्च परिलक्ष्यते । नूतनत्वं विकासस्य प्रगतेश्च मूलम् इति सर्वत्रैव नूतनत्वम् आद्रियते । नूतनं च प्राचीनमूलम् इति प्राचीनमपि न सर्वथाऽवमन्तव्यम् | ‘गुणगृह्या वचने विपश्चितः ' ( किराता० २-५ ), सदसद्व्यक्तिहेतवश्च सन्तः पुरातन - नूतनयोरुभयोरपि सारं संगृह्य प्राचीननूतनयोः समन्वयमेवाश्रयन्ते आद्रियन्ते च । Page #342 -------------------------------------------------------------------------- ________________ . परिशिष्टम् महत्त्वपूर्णा निबन्धाः संकेत-सूची-IAS = I.A.S.; PCS = P.C.S. ( U.P.); AU = Agra University; ALD = Allahabad University; 'DLI = Delhi University; GKP = Gorakhpur University; MU = Meerut University. निबन्ध-संख्या विषयाः पृष्ठाङ्काः १. वैदिकाः शास्त्रीयाश्च निबन्धाः १. वेदानां महत्त्वम्-ALD-71, 74; DLI-65; AU-51, 73, MU-74. (क) वेदोऽखिलो धर्ममूलम्-IAS-68, 72; ALD-68, 72; ____DLI-68; AU-65, 70, 72; GKP-73. २. वेदाङ्गानां महत्त्वम्-AU-65; MU-73. (क) षडङ्गो वेदो०-AU-71. ३. मुखं व्याकरणं स्मृतम्-DLI-67, 69; GKP-72; MU-71. (क) तेषां हि सामय॑जुषां०-IAS-67. उपनिषदां महत्त्वम्-IAS-66; AU-61, 63. गीता सुगीता कर्तव्या-IAS-71; AU-61, 65, 69; GKP-73, MU-71, 73. (क) दुग्धं गीतामृतं महत्-IAS-68; AU-71. रम्या रामायणी कथा-IAS-66, 67, 75; AU-69, 71; MU-74. (क) आदिकविर्वाल्मीकिः-IAS-68; AU-52, 65. ७. भारतं पञ्चमो वेदः-IAS-65; AU-69, 73; MU-74. (क) यदिहास्ति तदन्यत्र०-IAS-66; PCS-67. (ख) महत्त्वाद् भारवत्त्वाच्च०-AU-70, 72; IAS-73. पुराणं पञ्चलक्षणम्-IAS-65, 73, 78; PCS-62, AU-683; __MU-74. पुराणानां महत्त्वम्-IAS-64; AU-54, 64, 73, 74. (क) इतिहास-पुराणाम्यां०-AU-70. १०. विद्यावतां भागवते परीक्षा-AU-62, 72. Page #343 -------------------------------------------------------------------------- ________________ ३२६ संस्कृतनिबन्धशतकम् निबन्ध-संख्या विषयाः पृष्ठाङ्काः २. दार्शनिका निबन्धाः ११. भारतीय-दर्शनानां महत्त्वम्-AU-66. १२. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन-IAS-77. १३. नास्ति सांख्यसमं ज्ञानम् १४. एकं सांख्यं च योगं च०-PCS-67. १५. नास्ति योगसमं बलम्-PCS-68. १६. ब्रह्म सत्यं जगन्मिथ्या-AU-66, 74; MU-70, 72. (क) सर्वं खल्विदं ब्रह्म-ALD-72, 73; DLI-67; AU - 69. ३. काव्यशास्त्रीया निबन्धाः १७. वाक्यं रसात्मकं काव्यम्-IAS-70, 75, 78; PCS-61, ALD-70; ___DLI-67, AU-50, 63; GKP-72. (क) काव्यलक्षणम्-IAS-76; GKP-71. १८. काव्यं हि वक्रोक्तिप्रधानम्-IAS-65. १९. रीतिरात्मा काव्यस्य-IAS-69; GKP-71. काव्यस्यात्मा ध्वनिः-IAS-77; ALD-74; AU-69; GKP-72, 73. विभावानुभावव्यभिचारिसंयोगाद्-IAS-77; ALD-71; AU-68, 73; MU-73. (क) रससिद्धान्तः-AU-63, 68. (ख) रसो वै सः-ALD-73; GKP-71; MU-71. २२. वैदर्भी ललितक्रमा-AU-68. २३. शब्दार्थयोः......"पाञ्चाली रीतिरिष्यते-AU-69. २४. काव्यशोभाकरान् धर्मान्-IAS-71. २५. सत्यं शिवं सुन्दरम् २६. एको रसः करुण एव-IAS-76; PCS-62; ALD-72; DLI-69. २७. शब्दशक्तयः ४. साहित्यिका निबन्धाः २८. कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम्-IAS-75. २९. उपमा कालिदासस्य-IAS-63, 71, 78; PCS-57, 62, 78; AU-63. Page #344 -------------------------------------------------------------------------- ________________ परिशिष्टम् निबन्ध संख्या विषया: ३०. भारवेरथं गौरवम् - IAS 63, 68, 75, PCS—57, 66, 77; AU-69. (क) नारिकेलफलसंमितं ० - IAS - 66, 72, 74; GKP−71. ३१. afosa: qamifmeun-IAS-67, 70, 72, 76; AU-73. ३२. ३३. ३४. ३५. ३६. ३७. ३८. ३९. ४०. (क) पञ्चबाणस्तु बाणः - IAS - 70. (ख) बाणः कवीनामिह चक्रवर्ती - IAS - 71; MU-73. (ग) वाणी बाणो बभूव ह - IAS - 74; PCS - 78; AU−71; GKP-72. (घ) कादम्बरी - रसज्ञानाम् ०-PCS-59. संस्कृत-साहित्ये गद्यस्य विकास : - IAS - 64; AU–50. नाटकोत्पत्तिविषयका वादा : - PCS - 71. ३२७ (क) नाट्योत्पत्ति - समीक्षा - IAS - 64. अपारे काव्यसंसारे कविरेव० - IAS - 72; DLI – 69; AU - 75. (क) भारती कवेर्जयति - IAS - 68, DLI – 65, 68. (ख) इदमेव तत्कवित्वं - IAS - 66. (ग) गिरः कवीनां जीवन्ति० - IAS - 67. पृष्ठाङ्काः and afa xuì gon:-IAS--65, 6), 73; PCS-64, 67, 70, 76; AU- 68, 71, 74; GKP-71. ११२ नैषधं विद्वदौषधम् - IAS - 68, 72, 76; PCS-66, 68, 77; AU-68, 72; DLI-65; GKP-72; MU-74. (क) नैषधे पदलालित्यम् - IAS - 74, 77; PCS-59, 69. (ख) उदिते नैषधे काव्ये ० IAS – 69, 70, 75, 78; GKP-71, 73. कारुण्यं भवभूतिरेव तनुते - IAS – 66, 74; AU–68, 71, 73; MU-74. (क) उत्तरे रामचरिते ० - IAS – 69, 77; PCS-60, 61; AU-75. काव्येषु नाटकं रम्यम्—IAS-66, 67, 70, 73; PCS−59, 63, 76; AU-59, 69, 70, 72; GKP-71, 72, 73; MU-74. गद्यं कवीनां निकषं वदन्ति - IAS - 63, 72; PCS-61; AU–71. (क) ओजः समासभूयस्त्वम्०-IAS-65. बाणोच्छिष्टं जगत् सर्वम् - IAS - 73, PCS - 66, 67, 76; DLI–67; AU-64; GKP-71. १०३ १०८ ११७ १२१ १२६ १२९ १३२ १३७ १४० १४३ Page #345 -------------------------------------------------------------------------- ________________ ३२८ संस्कृतनिबन्धशतकम् १५५ १७० निबन्ध-संख्या विषयाः पृष्ठाङ्काः ४१. कविकुलगुरुः कालिदासो विलासः-IAS-69, 78; ALD-66; ___DLI-67; AU-61, 67, 70, 72, 73; GKP-73; MU-74. १४७ (क) क इह रघुकारे न रमते-PCS-63. (ख) मेघे माघे गतं वयः-IAS-74,76; PCS-57; AU-68. ४२. सूत्रधार"...."भासो देवकुलैरिव-PCS-64, 73. १५१ ५. भाषावैज्ञानिका निबन्धाः ४३. भारतीयानां भाषा-विज्ञाने योगदानम् ४४. भाषोत्पत्तिविषयका वादाः १५९ ४५. अर्थविज्ञानम् वैदिक-लौकिकसंस्कृतयोः साम्यं वैषम्यं च-IAS-64. ४७. संस्कृत-प्राकृतभाषयोः साधयं वैधयं च ६. सांस्कृतिका निबन्धाः ४८. वैदिकी संस्कृतिः-DLI-67; AU-50. १७३ भारतीया संस्कृतिः-AU-51, 55, 64, 75. १७६ (क) भारतीयसंस्कृतमलतत्त्वानि-IAS-70; AU-73. संस्कृतिः संस्कृताश्रया-IAS-74, 78; ALD-72; AU-70 १८१ (ख) संस्कृतं भारतीयसंस्कृतेमलमाधत्ते-IAS-71; FCS-72; AU-70. भारतीयसंस्कृती नारीणां स्थानम्-AU-52. १८४ (क) यत्र नार्यस्तु पूज्यन्ते -ALD-74; DLI-69; AU-71, 74. (ख) भारतीयसमाजे महिलानां गौरवम्-ALD-70; AU-66, 71. नहि सत्यात् परो धर्मः-IAS-73; PCS-77; AU-53. १८९ ५३. अहिंसा परमो धर्मः-IAS-70; DLI-69; AU-50, 53. १९२ ५४. यतो धर्मस्ततो जयः-PCS-71, 77; ALD-59; AU-52, 67, १९४ (क) धर्मो रक्षति रक्षितः-IAS-63; DLI-69. (ख) धर्मो धारयते प्रजाः-ALD-69; DLI-68; AU-67. ५५. परोपकाराय सतां विभूतयः-IAS-72, 78; ALD-66, 67. ५६. आचारः परमो धर्म.-IAS-75; PCS-74, 75; ALD-66; AU-73. (ग) सुवृत्तैरेव शोभन्ते प्रबन्धाः सज्जना इव-IAS-66. ७. सामाजिका निबन्धाः ५७. स्त्रीशिक्षाया आवश्यकतोपयोगिता च-AU-55. १९७ Page #346 -------------------------------------------------------------------------- ________________ परिशिष्टम् निबन्ध-संख्या विषयाः ५८. विज्ञानस्य लाभा दोषाश्च - AU - 67, 73. ५९. चातुर्वण्यं मया सृष्टं० - AU - 68. (क) वर्णव्यवस्था - AU – 50, 53, 68. महर्षि दयानन्दः - AU-53. महात्मा गांधि: - AU - 65. ६०. ६१. ६२. ६३. ६४. ६५. ६६. ६७. ६८. ६९. ७०. ७१. ७२. ७३. ७४. ७५. ७६, कुटीरोद्योग : सहकारितान्दोलनम् परिवारनियोजनम् ८. आर्थिक निबन्धाः साम्यवादः विश्वशान्तेरुपायाः ९. पञ्चवर्षीय योजना: - AU - 62. जनतन्त्रवादः - IAS -70; AU-73; MU-72. (ग) सर्वेषां राजतन्त्राणां लोकतन्त्र ० - AU–65, 74; MU-73. समाजवाद:-AU-66, 75; IAS - 73. राष्ट्रीया निबन्धाः छात्राणां राजनीतौ प्रवेशः वसुधैव कुटुम्बकम् - IAS-75, 78; PCS-73. देशभक्ति:-PCS-72; AU–75. (ख) धन्या भारतभूः "प्रत्ना च तत्संस्कृतिः - AU - 65, 72. १०. शैक्षिका निबन्धाः संस्कृतभाषाया महत्त्वम् - AU - 67, 75; MU-72. (क) भारते भातु भारती - IAS - 75; AU - 71. (ख) भाषासु मधुरा मुख्या ० - PCS – 63; AU - 67. ( ग ) संस्कृताध्ययनस्य प्रयोजनानि - IAS - 68, AU−62, 63; MU-70, 74. संस्कृतस्य रक्षार्थं प्रचारार्थं चोपाया:- AU–54, 61, 64. भारतीय - शिक्षापद्धती अपेक्षिताः परिष्कारा:- AU - 55; MU - 71 (ख) शिक्षाया उद्देश्यम् - AU - 54. ३२९ पृष्ठाङ्काः २०५ २०८ २११ २१४ २१६ २१८ २२१ २२३ २२६ २३० २३२ २३५ २३७ २३९ २४१ २४४ २४८ २५० ३५३ Page #347 -------------------------------------------------------------------------- ________________ ३३० निबन्ध - संख्या ७७. ७८. ७९. ८०. ८३. ८४. ८७. संस्कृत निबन्धशतकम् विषयाः ११. प्रकीर्णा निबन्धाः ८१. (क) मुहूर्त ज्वलितं श्रेयो० - ALD- 63, 70. नालम्बते दैष्टिकतां न निषीदति पौरुषे - AU-64. (ख) भाग्यवादः पुरुषार्थवादश्च - AU-54. ८२. ८८. अभिनवभारते संस्कृतम् - ALD-70; AU– 51, 68. (क) भारतीयभाषासु संस्कृतस्य योगदानम् - IAS - 77; PCS-70; ८९. AU-73. (ख) संस्कृत साहित्यं तत्प्रवृत्तयश्च - IAS - 67. (ग) संस्कृतं राष्ट्रभाषा भवितुमर्हति - AU - 66, 73. त्रिभाषासूत्रं संस्कृतं च - IAS-69; PCS-67. (क) शिक्षाक्रमे संस्कृतस्य स्थानम् - IAS - 72; PCS-69. अनुशासन - समस्या आचार्यदेवो भव - AU-72. ८५. ८६. (क) कस्यैकान्तं सुखमुपनतं ० - ALD- 65. (ग) सर्वंकषा भगवती भवितव्यतैव - ALD-58; AU–70, 71. (च) शिरसि लिखितं ०– ALD-69, 71. (क) आशा हि परमं ज्योतिः - IAS - 75, DLI–68; AU—55. जननी जन्मभूमिश्च ० -AU - 71, 75. (क) मातृदेवो भव - IAS-74; AU-73. (क) संहतिः श्रेयसी पुंसाम् - ALD-59. पृष्ठाङ्काः २५७ (क) नास्त्युद्यमसमो बन्धुः ०–IAS 65; DLI–68. (ख) क्रियासिद्धिः सत्त्वे भवति महतां ० - IAS - 69. २६० २६२ २६५ २६८ २७१ (ख) नीचैर्गच्छत्युपरि च दशा० - IAS - 76, 78; PCS−69; ALD−71. (ग) पतनान्ताः समुच्छ्रयाः-PCS-68. आर्जवं हि कुटिलेषु न नीति : - IAS - 68; PCS−77; ALD-59; DLI-68; AU-68, 70. (क) शठे शाठ्यं समाचरेत् - IAS - 63, 74; PCS-78. धर्मार्थकाममोक्षाणाम् आरोग्यं०- ALD-70. २७४ २७७ २८१ २८४ २८७ २९० (क) शरीरमाद्यं खलु धर्मसाधनम् - IAS - 77; AU–67, 71. उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी: - IAS - 63, 74, 78; FCS−73, 76, 78; ALD-72; DLI-65. २९२ Page #348 -------------------------------------------------------------------------- ________________ निबन्ध - संख्या ९०. ९१. ९२. ९३. ९४. ९५. ९६. परिशिष्टम् विषयाः (ग) उद्यमेन हि सिध्यन्ति कार्याणि ० - IAS - 66; ALD-58, DLI-69. उद्धरेदात्मनात्मानं०- IAS - 63, 68; PCS - 74, 75. योगः कर्मसु कौशलम् - IAS - 68, 76; AU - 51,69. (क) कर्मण्येवाधिकारस्ते ० - IAS - 65, 70; ALD-59, 74; DLI–68; AU - 52. (ख) कुर्वन्नेवेह कर्माणि ० - AU - 56, 72. गुणाः पूजास्थानं० - IAS 69, 78; ALD-67, 69, 73. (क) गुणगौरवमायाति० - IAS - 71. (ग) तेजसां हि न वयः समीक्ष्यते - PCS - 71. सहसा विदधीत न क्रियाम् ० - IAS - 65, 72; PCS−78; ALD-58, 65; AU-71. ९७. ९८. ९९. चिन्ताविषघ्नं रसायनम् विद्याधनं सर्वधनप्रधानम् - IAS-74; ALD-67; AU−66. ( ख ) ऋते ज्ञानान्न मुक्ति: - IAS – 69; ALD-65, 68; DLI-65, 68; GKP-71. (ङ) किं किं न साधयति' 'विद्या - ALD-66. (च) नहि ज्ञानेन सदृशं पवित्रमिह विद्यते - ALD-63, 71; AU-65, 71, 72, 74. सर्वे गुणाः काञ्चनमाश्रयन्ते - IAS-69; AU−52, 68. (क) हिरण्यमेवार्जय० - IAS - 72. त्याज्यं न धैर्यम् ० - ALD-74. न निश्चितार्थाद् विरमन्ति धीराः - IAS - 64, 61; ALD—63. (क) न्याय्यात् पथः प्रविचलन्ति० - IAS -72; ALD−58, 67. (ख) साहसे श्रीर्वसति -AU-50. १००. पुराणमित्येव न साधु सर्वम् - IAS - 72, 76, PCS−78; AU−51. (छ) यस्य नास्ति स्वयं प्रज्ञा० - IAS - 65, 67. सत्संगतिः कथय किं न करोति पुंसाम् - IAS—64; ALD-59; AU-70. ३३१ पृष्ठाङ्काः २९५ २९७ २९९. ३०२ ३०५. ३०८ ३११ ३.१४ ३१७ ३१९. ३२२: Page #349 -------------------------------------------------------------------------- ________________ प्रमख संस्कृत प्रकाशन डॉ० भगवतीप्रसाद सिंह डॉ० रमाशंकर त्रिपाठी डॉ. कपिलदेव द्विवेदी १००.०० १५.०० (प्रेस में) __७.५. भुशुण्डि रामायण (पूर्व-खण्ड ), अभिज्ञानशाकुन्तलम् संस्कृत भाषाविज्ञान एवं भाषाशास्त्र प्रारम्भिक रचनानुवादकौमुदी रचनानुवादकौमुदी प्रौढ-रचनानुवादकौमुदी -संस्कृत व्याकरण राष्ट्रगीतांजलिः अलङ्कारप्रस्थानविमर्शः मुद्राराक्षसम् ( विशाखदत्त) वेदचयनम् कादम्बरी : कथामुख २५.०० (प्रेस में) १०.०० १०.०० (प्रेस में) १५.०० १०.०० पालि प्राकृत-अपभ्रंश संग्रह डॉ० लक्ष्मीनारायण सिंह डॉ. रमाशंकर त्रिपाठी विश्वम्भरनाथ त्रिपाठी डॉ. देवर्षि सनाढ्य तथा विश्वम्भरनाथ त्रिपाठी डॉ० रामअवध पाण्डेय तथा डॉ. रविनाथ मिश्र डॉ० हरिदत्त शास्त्री नगीनादास पारिख तथा डॉ० प्रेमस्वरूप गुप्त डॉ० दशरथ द्विवेदी डॉ० रमाशंकर त्रिपाठी डॉ. देवर्षि समाढ्य पं० गोपालशास्त्री दर्शनकेसरी २०.०० (प्रेसमें) ऋग्वेदभाष्य-भूमिका अभिनव का रसविवेचन २०.०० ७.५० २५.०० १.२० अभिनव रस-सिद्धान्त दशरूपकम् रघुवंश महाकाव्यम् ( द्वितीय सर्ग ) संस्कृत-शिक्षकम् गोमहिमाभिनय-नाटकम् ऋचाओं की छाया में ४.०० रामनिवास विद्यार्थी विश्वविद्यालय प्रकाशन चौक, वाराणसी Page #350 -------------------------------------------------------------------------- ________________ प्रमुख संस्कृत प्रकाशन " " " संस्कृत शिक्षा / भाग 1 से 5 तक डॉ. कपिलदेव द्विवेदी 12-50 प्रारम्भिक रचनानुवादकौमुदी 3-0. रचनानुवादकौमुदी 7.50 प्रौढ-रचनानुवादकौमुदी 25.00 संस्कृत व्याकरण " " " 30.00 लघुसिद्धान्तकौमुदी यंत्रस्थ संस्कृत भाषाविज्ञान एवं भाषाशास्त्र यंत्रस्थ राष्ट्रगीतांजलिः 15-00 अलंकारप्रस्थानविमर्शः डॉ० लक्ष्मीनारायण सिंह 15-00 दशरूपकम् डॉ. रमाशंकर त्रिपाठी 20.00 अभिनव-रस-सिद्धान्त डॉ० दशपथ द्विवेदी 7-50 अभिनव का रस-विवेचन नगीनदास पारेख तथा डॉ० प्रेमस्वरूप गुप्त 25-00 वक्रोक्तिजीवितम् डॉ० दशरथ द्विवेदी 15.00 शब्द-शक्ति-विवेचन डॉ० रामलखन शुक्ल 15-00 ध्वन्यालोकः (दीपशिखा टीका सहित) डॉ० चण्डिकाप्रसाद शुक्ल 40.00 वेदचयनम् विश्वम्भरनाथ त्रिपाठी 15-00 ऋङ्मणिमाला डॉ० हरिदत्त शास्त्री 8-00 भुशुण्डि रामायण ( खण्ड 1) सं० डॉ. भगवतीप्रसाद सिंह मूलकथा, भूमिका तथा प्रस्तावना भूमिका० डॉ० वी० राघवन् 100-00 अभिज्ञानशाकुन्तलम् ( कालिदास) डॉ. रमाशंकर त्रिपाठी 15.00 उत्तररामचरितम् ( भवभूति) डॉ० रामअवध पाण्डेय ( वीर राघवकृत टीका सहित) डॉ. रविनाथ मिश्र 15-00 शृंगारमंजरी सटकम् (श्रीमद्विश्वेश्वर) सं० बाबूलाल शुक्ल 10000 DO विश्वविद्यालय प्रकाशन * चौक, वाराणसी मूल्य : 20.00