________________
२८
संस्कृतनिबन्धशतकम् अंशावताराणां च वर्णनं तत्सम्बद्धं च विविधं वृत्तं संग्राह्यम् । प्रतिकल्पं चतुर्दश मनवो भवन्ति । प्रतिमन्वन्तरं के राजानोऽभवन्, तत्र के ऋषयो महर्षयश्चाभवन्, तैः किं विशिष्टं कृत्यजातं व्यधायि, तस्मिन् काले किं किं विशिष्टं वृत्तं वा घटितम्, इत्यादि सर्वमपि मन्वन्तर-वर्णने वर्ण्यते । ऐतिह्यस्य याथातथ्यतोऽवबोधाय मन्वन्तरस्य ज्ञानमपि नितराम् आवश्यकम् ।
वंशानुचरितम्--वंशानुचरिते विशिष्टवंशोत्पन्नानां नृपादीनां विशिष्टं चरितं विशदतया वर्ण्यते । भागवतानुसारं तल्लक्षणं विद्यते
वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ भागवतपु० १२-७-१६ वंशानुचरिते सूर्य-चन्द्रादि-वंशजानां नृपाणां तवंशधराणां च जीवनचरितं सविस्तरं प्रतिपाद्यते । वंशानुचरितस्य पुराणेषु महती आवश्यकता वर्तते । ये केचन तत्र राजर्षयो महात्मानः पुण्यात्मानश्चाभवन्, तेषां सविशदं चरितम् अनुश्रुत्यैव परवर्तिनः सामान्या नराः स्वजीवनं पावयन्ति, तथाविधकर्मानुष्ठानेन विपत्पारावारं समुत्तितीर्षन्ति, स्वजन्म सफलं चिकीर्षन्ति, लौकिकं पारलौकिकं च पुण्यं चिचीर्षन्ति । यद्यैवं विचार्यते चेत् तर्हि वंशानुचरित-वर्णनस्यापि महती आवश्यकता उपयोगिता चास्ति ।
पुराणं दशलक्षणम्-श्रीमद्भागवते पुराणे पुराणं दशलक्षणमिति निरूप्यते । भागवतकृता चैवं तद्वर्णनं निर्दिश्यते
पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिनिरूपितम् । शृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः॥८॥ सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च । वंशो वंशानुचरितं संस्था हेतुरपाश्रयः॥९॥ दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः।
केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ भागवत० १२-७-१०
एषां दशलक्षणानां पञ्चकं प्राग निरूपितमेव । अवशिष्टं पंचकं संक्षेपतो निरूप्यते।
वृत्तिः--अत्र वृत्तिशब्देन जीवानां भोजनाच्छादनादिकं तेषां जीविकानिर्वाहोपायाः, कृत्याकृत्यादिवर्णनम्, हेयोपादेयादिकं च निरूप्यन्ते । उच्यते च
वृत्तिर्भूतानि भूतानां चराणामचराणि च ।
कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा ॥ भागवत० १२-७-१३
तत्र काचिद्वत्तिः स्वेच्छया स्वीक्रियते, काचिच्च शास्त्रानुसारतो जीविकानिर्वाहार्थं वा।
रक्षा---अत्र वेदादीनां वैदिकर्मिणां च रक्षार्थं विष्णोः अवतारस्य वर्णनं भवति । अवतारं प्राप्तस्य विष्णोर्वेदविरोधिनां संहारस्य पुण्यात्मनां रक्षायाश्च वर्णनं भवति । उच्यते च--