SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पुराणं पञ्चलक्षणम् २७. सर्ग-शब्देन सृष्ट्युत्पत्तेः वर्णनम् अभिप्रेतमस्ति । भागवतानुसारं सर्गशब्देन सांख्याभिमता सृष्टि-प्रक्रिया स्वीक्रियते । साम्यावस्थाम् आपन्नायां मूलप्रकृतौ यदा गुणक्षोभ आपद्यते, तदा महत्-तत्त्वम् उत्पद्यते, ततश्च अहंकारस्योद्भवो भवति, गुणत्रयम् आश्रित्य त्रिविधाद् अहंकारात् पञ्चतन्मात्राणाम् एकादशेन्द्रियाणां चोत्पत्तिर्भवति । पञ्चतन्मात्राभ्यश्च पञ्चमहाभूतानाम् उद्भवो जायते। प्रतिसर्गः-प्रतिसर्ग-शब्देन प्रलयस्य सृष्टेः पुनरुद्भवस्य च वर्णनम् अभीष्यते । भागवतानुसारं प्रतिसर्ग-लक्षणम् अस्ति पुरुषानुगृहीतानामेतेषां वासनामयः। विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् ॥ भा० पु० १२-७-१२ इदं सकलं चराचरात्मकं जगत् स्व-वासनामयैः संस्कारैः पुनः पुनः सृष्टिरचनायां जनिम् आपद्यते । यथा बीजानि वृक्षादिरूपेण समुद्भूतानि प्रलये बीजरूपं प्राप्तान्यपि पुनः वृक्षादिरूपेण आविर्भवन्ति, तथैव स्थावरं जङ्गमं च जगत् स्वसंस्कारवशात् पुनर्जायते । एतस्यैव वर्णनं प्रतिसर्ग-शब्देन अभीष्यते। वंशः-वंश-शब्देन राज्ञाम् ऋषीणां च वंशावल्या वर्णनम् इष्टमस्ति । वंश-लक्षणं भागवतानुसारमस्ति राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः। भागवतपु० १२-७-१६ ब्रह्मण: समुद्भूतानां नृपाणां त्रिकालमाश्रित्य वंशावल्या वर्णनं वंशशब्दस्याभिप्रायः । वंश-शब्देन न केवलं नृपाणामेव, अपि तु ऋषीणां देवादीनां चापि वंशावलिः संग्राह्या। रामायण-महाभारतादिषु कस्यचिदेकस्य वंशस्य वर्णनमाप्यते, परं पुराणेषु सामान्यरूपेण अतीत-वर्तमान-अनागतानां च नृपादीनां वंशावलिर्वर्ण्यते । इद चात्रावधेयं यत् पुराणानि सांस्कृतिक दृष्ट्या ऐतिहासिक-दृष्टया चातीव महत्त्वपूर्णानि रत्नानि सन्ति । सृष्टेः प्रारम्भादारभ्य विविधानां नपवंशावलीनां वर्णनं यथा व्यवस्थितरूपेण पुराणेषूपलभ्यते, न तथान्यत्र । बहूनि चात्र वर्णितानि तथ्यानि प्राप्तेभ्यः शिलालेखादिभ्यः पुष्टि. मुपयान्ति । सूर्यवंश-चन्द्रवंशादीनां प्रथितानां वंशानां विविधवत्त-समन्वितं वर्णनं पुराणेषु साधूपलभ्यते । एवं वंशवर्णनम् ऐतिह्य-दृष्ट्या नितान्तं महत्त्वपूर्ण सिध्यति। __ मन्वन्तरम्--मन्वन्तर-शब्देन प्रत्येकस्य मनोः कालः, तदानीन्तनानां विविधानां वृत्तानां सुव्यवस्थितम् उल्लेखो वर्णनं च मन्वन्तर-शब्देनाभीष्टं वर्तते । भागवतानुसारं मन्वन्तरस्य लक्षणं विद्यते-- मन्वन्तरं मनुदेवा मनुपुत्राः सुरेश्वरः। ऋषयोंऽशावतारश्च हरेः षड्विधमुच्यते ॥ भागवतपु० १२-७-१५ मन्वन्तर-शब्देन मनोः देवानां मनुपुत्राणाम् इन्द्रस्य सप्तर्षीणां विष्णोः
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy