________________
८. पुराणं पञ्चलक्षणम्
(पुराणं दशलक्षणम् ) पुराणानां स्वरूपम्-पुराणानि भारतीय-संस्कृतेः पुरातनं स्वरूपं प्रकाशयन्ति, वेदार्थं च कथा-आख्यानादिरूपेण विशदयन्ति, प्राचीनम् इतिहासम् अज्ञातं चापि ऐतिह्यं प्रकाशताम् आपादयन्ति । एवं भारतीयैतिह्य-ज्ञानाय, भारतीय-संस्कृतेः ज्ञानाय, प्राचीनाचार-विचार-परिज्ञानाय, प्राचीन-भौगोलिकविवरण-ज्ञानाय, विविध-शास्त्राणां च सारज्ञानाय पुराणानां महत्त्वं न केनापि निराकतुं शक्यते ।
पुराणं पञ्चलक्षणम्-विष्णुपुराणादिषु प्रतिपाद्य-विषयम् आश्रित्य पुरा णानां लक्षणं निरूप्यते यत्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चल णम् ॥ .
पुराणेषु मुख्यतः पञ्चतत्त्वानां समावेशः स्वीक्रियते । लक्षणेष्वेतेषु कस्यचित् तत्त्वस्य कस्मिश्चित् पुराणे वैशिष्टयं निरूप्यते, अन्यस्मिश्च कस्यचिदन्यस्य तत्त्वस्य । एवं प्रतिपुराणं लक्षणानाम् एषां न्यूनाधिक्यम् अवलोक्यते । एवं क्वचित् पञ्चानामपि लक्षणानां समावेश उपलभ्यते, अन्यत्र च कस्यचिद् एकस्य द्वयस्य वा तत्त्वस्य समुपलब्धिर्भवति । सन्ति च कानिचित् पुराणानि येषु अन्येषामेव विषयाणां वैशिष्ट्येन प्रतिपादनं वर्तते । तथापि तेषां गणना पुराणेषु स्वीक्रियते ।
पुराणं दश-लक्षणम्-श्रीमद्भागवतपुराणानुसारं पुराणानां दश-लक्षणानि सन्ति । क्वचित् पञ्च लक्षणानि क्वचित् दश लक्षणानि, इति मतभेदस्य किं कारणमिति जिज्ञासायां तदुत्तरं भागवतकृता स्वयमेव व्यादिश्यते, यत् महापुराणेषु दश लक्षणानि प्राप्यन्ते, लघुषु च पुराणेषु केवलं पञ्चानामेव लक्षणानां प्राप्तिर्भवति । एवं महल्लघुभेदेन दश-पञ्च-लक्षणानां संगतिव्यवस्थाप्या।
दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः ।
केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ भागवतपु० १२-७-२० सामान्यतः स्वीकृतानां पञ्चानां लक्षणानां प्राग् विवृतिः प्रस्तूयते ।
सर्गः-श्रीमद्भागवत-पुराणे पञ्चानामपि लक्षणानां विवरणं प्राप्यते । तत्र च सर्गस्य स्वरूपं निरूप्यते यत्
अव्याकृत-गुणक्षोभान्महतस्त्रिवृतोऽहमः। भूतमात्रेन्द्रियार्थानां संभवः सर्ग उच्यते ॥ भागवतपु० १२-७-११