SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ भारतं पञ्चमो वेदः . २५ महाभारतस्य विविधविषयावगाहि-ज्ञानम् अर्थगौरवं भावगाम्भीयं च . प्रदर्शयितुं कतिपयानि सुभाषितानि दिङ्मात्रमत्र उपस्थाप्यन्ते। ' ( क ) दार्शनिकभावोपेतानि सूक्तानि नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् । क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद स परः कविः ॥ उद्योग० ३३-१०७ अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा, लिङ्गस्य योगेन च याति नित्यम् । तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम् ॥ उद्योग० ४६-१५ (ख ) नीतिशिक्षाविषयकाणि सुभाषितानि । यथायस्मिन् यथा वर्तते यो मनुष्यस्तस्मिन् तथा वर्तितव्यं स धर्मः। मायाचारो मायया वतितव्यः साध्वाचारः साधुना प्रत्युपेयः॥ उद्योग० ३-७७ वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च । अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ उद्योग० ३६-३० न च शत्रुरवज्ञेयो दुबलोऽपि बलीयसा। अल्पोऽपि दहत्यग्नि-विषमल्पं हिनस्ति च ॥ शान्ति० ५७-१७ (ग ) अर्थशास्त्रीयाः सूक्तयो यथा धनमाहः परं धर्म धने सर्व प्रतिष्ठितम् । जीवन्ति धनिनो लोके मृता ये त्वधना नराः॥ उद्योग० ७१-३१ धनात् कुलं प्रभवति धनाद् धर्मः प्रवर्धते । नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ॥ शान्ति०८-२२ (घ ) राजनीतिविषयकाणि सूक्तानि यथा राजा प्रजानां प्रथमं शरीरं प्रजाश्च राज्ञोऽप्रतिमं शरीरम् । राज्ञा विहीना न भवन्ति देशा देशैविहीना न नृपा भवन्ति ॥ __ शान्ति० ६७-५९ राजा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते। ___ यद् यदाचरते राजा तत् प्रजानां स्म रोचते ॥ शान्ति० ७५-४ एवं विज्ञायते यद् महाभारतं गुणगौरवात्, सर्वविषयावगाहित्वात्, आचारशिक्षणात्, पावनत्वाच्च पञ्चमो वेद इति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy