________________
संस्कृतनिबन्धशतकम् धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥ महा० १-६२-५३
महत्त्वाद् भारवत्त्वाच्च०-महाभारतस्य विशालं परिमाणमपि विलोक्यास्य महत्त्वविषये प्रोच्यते यद् महनीयोऽयं ग्रन्थो यथैव वपुषा विशालस्तथैव भावगाम्भीर्येण अर्थगौरवेण च । ज्ञानाग्निसमेधितत्वाच्च एतस्य महत्त्वं न कथंचिदपि अपलपितुं पार्यते । अतएव महत्त्वमेतस्य उद्गायता प्रोच्यते
महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते।
भारतं पञ्चमो वेदः-वेदानां धर्मप्रधानत्वाद् यज्ञादिकर्मकाण्डसमन्वितत्वाद् अध्यात्मभावप्रवणत्वाच्च न समेषां प्रियत्वम् । अतएव लोकाख्यानसमन्वितं नीतिदीक्षाविशिष्टं राजनीतिशिक्षासंजुष्टम् आचारशिक्षासंपुष्टं च कामिनीवचोमधुरं काव्यमिदं व्यासोपदिष्टम । सर्वमनोमोहनत्वाच्चैतद् न केवलं भारतवर्षे अपितु यव-सुवर्णादिपूर्वीयद्वीपेषु अन्येषु च वैदे शकेषु प्रदेशेषु नितरां प्रसिद्धि लेभे । एतदेवोद्दिश्य भागवते प्रोच्यते
भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः।
दश्यते यत्र धर्मादि स्त्रीशद्रादिभिरप्युत ॥ भागवत०१-४-२९
वेदचतुष्टय्यां द्विजानामेव विशिष्टा गतिः धर्मत्वेनाभिरुचिश्च, परं महाभारते समेषामपि वर्णानां सामान्याभिरुचिः प्रीतिर्गतिश्च । अस्य पावनत्वम् उत्कृष्टत्वं सर्वार्थसाधकत्वं च प्रेक्ष्य 'पञ्चमोऽयं वेदः' इति विपश्चिद्भिः साह्लादम उद्घोष्यते । .., यदिहास्ति तदन्यत्र०-समन्वयात्मकमिदं महाकाव्यम् अत्र सर्वविषयसंकलनात् सकलशास्त्रीयतत्त्वसारग्रहणाद् विश्वकोशत्वेन गणना महाभारतस्यास्य गौरवं विवृणुते । तदानीन्तनः समग्रोऽपि वैदिको लौकिकश्च प्रथितो विषयो महाभारते संलक्ष्यते । महाभारतेऽस्मिन् काव्यम्, दर्शनम्, अध्यात्मम्, वैदिकं तत्त्वम्, ऐतिह्यम्, आख्यानम्, नीतितत्त्वम्, राजनीतिसारः, अन्यच्चापि लोकोपयुक्तं तत्त्वजातं सुमधुरया शैल्या संगृह्योपस्थाप्यते । अतएव ग्रन्थकर्तुः इयम् उद्घोषणा न विप्रतिपत्तिम आश्रयते यद
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥
अतएव महाभारतस्य गुणगौरवं समीक्ष्य वेणीसंहारे भट्टनारायणो व्यासवचनं सुधामधुरमिति संस्तवीति
श्रवणाञ्जलिपुटपेयं विरचितवान् भारताख्यममृतं यः।
तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ वेणीसंहार १-४ स्वगुणगौरवादेव व्यास: त्रिदेववद् आद्रियते संमान्यते च । उक्तं चअचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः। अभाललोचनः शम्भुर्भगवान् बादरायणः॥