SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ७. भारतं पञ्चमो वेद: ( १. यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्, २. महत्वाद् भारवत्त्वाच्च महाभारतमुच्यते ) महाभारतस्य कर्तृत्वं विवरणं च - महाभारतस्य कर्तृत्वविषये प्रचुरो विवादः । अस्य परिमाणविषयेऽपि नैकमत्यं विदुषाम् । महाभारते क्वचिद् ग्रन्थोऽयं जयनाम्ना, क्वचिद् भारत- नाम्ना, क्वचिच्च महाभारत- नाम्नोल्लिख्यते । सूक्ष्मेक्षिकयाऽवलोकनेन विज्ञायते यद् महाभारतस्य प्रगतेः चरणत्रयं वर्तते । प्रथमे चरणे जयनामकं काव्यमेतत् ८८०० श्लोकपरिमितं व्यासकृतं धर्मचर्चाम् आश्रित्य वैशम्पायनाय श्रावितमभूत् । द्वितीयचरणे भारतनामकं महाकाव्यमेतद् वैशम्पायनकृतं २४ सहस्रश्लोकपरिमितं जनमेजयस्य नागयज्ञे जनमेजयाय श्रावितमभूत् । तृतीयचरणे महाभारत - नामकं महाकाव्यमेतत् सौतिकृतम् एकलक्षश्लोकपरिमितं नैमिषारण्ये यज्ञकाले शौनकादिभ्य ऋषिभ्यः श्रावितमभवत् । अत्र प्रधानतः कौरव - पाण्डवानाम् इतिवृत्तं विवादो गीतोपदेशो महाभारतयुद्धे पाण्डवानां विजयावाप्तिश्च वर्ण्यन्ते । अस्य कर्तृत्वरूपेण व्यासो वेदव्यासो वा प्राधान्येन प्रकीर्त्यते । व्यासस्य जन्मादिविषये बहुविधा किंवदन्ती श्रूयते । परं वेदानां यथायथं विभाजनाद् वेदव्यासः समासतो व्यास इति नामान्तरं संगच्छते । ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया । विव्यास वेदान् यस्मात् स तस्माद् व्यास इति स्मृतः ॥ ( महा० १-६६-८८ ) व्यासो वर्षत्रयेण महाकाव्यमेतत् प्रणिनायेति तद्वचनादेव विज्ञायते । त्रिभिर्वर्षेः सदोत्थाय कृष्णद्वैपायनो मुनिः । महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥ महाभारत १-५६-३२ लक्षश्लोकपरिमितत्वादेव गुप्तकालीन शिलालेखेषु 'शतसाहस्री संहिता' इति नाम्ना ग्रन्थोऽयं निर्दिश्यते । अत्र कथाविभागम् आश्रित्य १८ पर्वाणि सन्ति । महाभारतस्य वैशिष्ट्यम् - महाभारतमिदं न केवलम् आख्यानम् अपितु समग्रस्यापि संस्कृतवाङ्मयस्य सारभूतम् । सर्वलोकप्रियत्वाय निखिलमपि वैदिकं लौकिकं च तथ्यम्, दर्शनम्, शास्त्रसारम्, आख्यानम्, नीतिशास्त्रम्, आचारशास्त्रम्, अन्यच्चापि लोकोपयोगि तत्त्वम् अत्र संगृह्य प्रस्तूयते । महाभारतकृतोऽवर्तत महत्त्वाकाङ्क्षयं यद् धर्मार्थ-क -काम-मोक्ष-विषयकम् अखिलमपि जिज्ञासितं तथ्यम् अत्रावाप्येत । न च किंचिद् उच्छिष्येत । अतएवोच्यते—
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy