SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् रामायणस्य महत्त्वं बृहद्धर्मपुराण-स्कन्दपुराणादिषु जेगीयते । तद्यथा पठ रामायणं व्यास काव्यबीजं सनातनम् । यत्र रामचरितं स्यात् तदहं तत्र शक्तिमान् ॥ बृहद्धर्मपुराण रामायणं नाम परं तु काव्यं पुण्यप्रदं वै शृणुत द्विजेन्द्राः।। यस्मिन् श्रुते जन्मजरादिनाशो भवत्यदोषः स नरोऽच्युतः स्यात् ॥ स्कन्दपुराण रामायणस्य विषयाः-रामायणे क्वचिद् दर्शनानाम्, क्वचिद् आगमानाम्, क्वचिद् उपनिषदाम्, क्वचित् स्मृतीनाम्, क्वचिन्नीतिशास्त्रस्य, क्वचित् विज्ञानस्य, क्वचिन्मनोविज्ञानस्य, क्वचिद् आयुर्वेद-धनुर्वेद-ज्योतिष-मनोविज्ञान-तन्त्रादीनां सारः तत्संबद्धा उपयोगिनो विषयाश्च समुपस्थाप्यन्ते । दिङ्मात्रमिह केचन श्लोका उदाह्रियन्ते :यस्मिस्तु सर्वे स्युरसंनिविष्टा धर्मो यतः स्यात् तदपक्रमेत। द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता । अयोध्या० २१-५८ कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।। चारित्रमेव व्याख्याति चि वा यदि वाऽचिम् ॥ सत्यमेवेश्वरो लोके सत्ये धर्मः सदाश्रितः। सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् । अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ सुन्दरकांड सर्ग १२ नाराजके जनपदे धनवन्तः सुरक्षिताः। शेरते विवृतद्वाराः कृषिगोरक्ष-जीविनः ॥ अयोध्या० ६७-१९ अतएवेयं रामायणी गङ्गा भुवनत्रयपावनीति प्रशस्यतेवाल्मीकिगिरिसंभूता रामाम्भोनिधि-संगता। श्रीमदरामायणी गङ्गा पुनाति भुवनत्रयम् ॥ त्रिविक्रमभट्टो नलचम्पूकाव्ये विरोधाभासमाश्रित्य वाल्मीकिम् अभिनन्दयन् आह सदूषणापि निर्दोषा सखरापि सुकोमला। नमस्तस्मै कृता येन रम्या रामायणी कथा ॥ नलचम्पू १-११ .
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy