SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ रम्या रामायणी कथा विशालेऽस्मिन् काव्याकाशे चकास्तितमाम् । अतएव भूयोभूयो महाकाव्यमिदं संस्तूयते प्रशस्यते अभिवन्द्यते च विद्वद्धौरेयैविदग्धैः । अनर्घराघवे कविर्मुरारि:-अहो, सकलकविसार्थ-साधारणी खल्वियं वाल्मीकीया सुभाषितनीवी ( प्रस्तावना ), इति वाल्मीकि प्रशंसति । श्रीभोजराजो रामायणचम्पूग्रन्थे तं मधुररचनाप्रचारचतुरं कवीनां मार्गदर्शकं चेति मन्यते मधुमयभणितीनां मार्गदर्शी महर्षिः॥ रामायणचम्पू १-८ महाकाव्यमिदं परवर्तिनां काव्यानां नाटकानां चोपजीव्यत्वेन संस्तूयते । बाल्मीकेर्मतं यद् रामचरितम् अनाश्रित्य न काव्यानां यशोभाक्त्वं प्रसिध्यति । उक्तं च रामायणेन ह्यन्योऽर्हति काव्यानां यशोभाग् राघवाद् ऋते। रामायण, उत्तर० ९८-१८ रामायणस्योपजीव्यत्वम्-महाकाव्यमेतदाश्रित्य प्रवृत्तानि कानिचित् काव्यानि नाटकानि च दिङ्मात्रमिह उदाह्रियन्ते । ( १ ) भासकृतम्-प्रतिमानाटकम्, (२) कालिदासकृतम्-रघुवंशमहाकाव्यम्, ( ३ ) दिङ्नागकृता-कुन्दमाला, (४) भट्टिकृतम्-भट्टिकाव्यम्, (५) भवभूतिकृतम्-महावीरचरितम्, उत्तररामचरितं च, (६) मुरारिकृतः-अनर्घराघवः (७) क्षेमेन्द्रकृता-रामायणमञ्जरी, (८) भोजराजकृतः-रामायणचम्पूः । रामायणस्य लोकप्रियता-रामायणस्य तादृशी लोकप्रियता यथा न केवलमेतद् विदुषामेव विभूषणम्, अपि तु सामान्यरूपेण सर्वजनानां धनिनांनिर्धनानाम्, विदग्धानाम्-अज्ञानाम्, पुरुषाणां-स्त्रीणाम्, आबालवृद्धं कण्ठाभरणताम् आपद्यते । आचारसंहितारूपेणेदं सर्वत्र आद्रियते, भक्तानां भवनेषु च प्रतिदिनं पारायणीक्रियते । अतः सत्यमुच्यते भगवता वाल्मीकिना यद् यावद् स्थास्यन्ति गिरयः सरितश्च महीतले। तावद् रामायणकथा लोकेषु प्रचरिष्यति ॥ रामायण बालकाण्ड २-३६ रामायणमेतद् नवरसरुचिरा कृतिः । अत्र यथास्थानं सर्वेषामपि रसानाम् अभिव्यक्तिरवलोक्यते । तत्रापि विप्रलम्भशृंगारस्य करुणरसस्य चाभिव्यक्ती चरमोत्कर्षत्वं लक्ष्यते । उक्तं च हास्य-शृङ्गार-कारुण्य-रौद्र-वीर-भयानकैः। बीभत्साद्भुत-संयुक्तं काव्यमेतदगायताम् ॥ रा० बाल० ४-९ वाल्मीकिः काव्यकानने राम-रामेति मधुरं कूजन् कलरवरुचिरः कोकिला इति संस्मर्यते सूरिभिः कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकि-कोकिलम् ॥
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy