SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ६. रम्या रामायणी कथा ( १. आदिकविर्वाल्मीकिः, २. वन्दे वाल्मीकिकोकिलम् ) वाल्मीकेरादिकवित्वम्-इह सुविपुले वाङ्मये महाकवेर्वाल्मीके म वियति तरणिरिव विद्योततेतमाम् । कविरयं वैदिकवाङ्मयानन्तरं सरसलौकिककाव्योपज्ञो रसभावनिष्णातो धर्मार्थकाममोक्षात्मकचतुर्वर्गोपदेष्टा जीवनोन्नायक आदर्शसंस्थापको धर्मकामः मृदुलसरसपदपरिपूतो माधुर्य-मृद्वीका-रसमनोहरः प्रसादाच्छच्छायासमलंकृतः कस्य न सचेतसः चेतः आह्लादयति । वाल्मीकिपूर्ववति समग्रमपि वाङ्मयं धर्मप्रवणत्वाद् धार्मिकम् आध्यात्मिकं चाभवत् । वाल्मीकिरेव तादृशः प्रगतिशीलो लोकभावाभिज्ञः सरसभावानुविद्धो मानवमनोविज्ञान-विदग्धः कविरासीद् यो रामचरितम् आश्रित्य लौकिकभावमयं रस-भाव-भाषालंकारालंकृतं सर्वजनग्राह्यं महाकाव्यं प्रणिनाय । अतएवायम् 'आदिकविः' इत्युपाधिना विभूष्यते । रामायणेऽप्येतत् तथ्यं कविना उल्लिख्यते आदिकाव्यमिदं चार्ष पुरा वाल्मीकिना कृतम् । उत्तररामचरितेऽप्येतत् तथ्यं प्रतिपाद्यते । ऋषे, आद्यः कविरसि । आम्नायादन्यत्र नतनश्छन्दसामवतारः। ( अंक २) रामायणस्याविर्भावः-पुण्यसलिलायास्तमसायास्तटे क्रौञ्चवधमवलोक्य तस्य महाकवेः सहसा कारुण्यपूर्णा तेजोमयी वाक् प्रास्फुरत् मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ -रामायण १-२-१५ तत्कालादारभ्य भारतीयवाङ्मये लौकिकभावोपेतां रामकथामूला रामायणसरित् प्रसृता। एतदेवानुसृत्य महाकविः कालिदासः सीतापरित्यागप्रसङ्गे अवोचतनिषादविद्धाण्डजदर्शनोत्थः, श्लोकत्वमापद्यत यस्य शोकः।-रघु० १४-७० ध्वन्यालोककृद् आनन्दवर्धनाचार्योऽपि वाल्मीकिमेवं स्तौति । काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा। क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः॥ -ध्वन्यालोक १-५ रामायणस्य महत्त्वम्--महाकाव्यमिदं रामायणं विशिष्टेनोदात्तत्वेन, भाषाया माधुर्योजःप्रसादगुण-समन्वितत्वेन, रचनाशैल्याः प्राञ्जलतया, भावानां मनोहारिण्या विवृत्या, सर्वेषां रसानां यथास्थानम् उपन्यासात्, भारतीयायाः संस्कृतेविशदं विवरणात्, तात्कालिकसभ्यतायाः सुस्पष्ट चित्रणेन, आचारसंहितायाः संकलनेन, नीतिशिक्षायाः संग्रहेण, आयुर्वेद-धनुर्वेद-गान्धर्ववेदादीनां यथायथम् उपयोगात्, गाम्भीर्येण, अर्थगौरवेण, ललितपदपद्धत्या, मार्मिकभावाभिव्यञ्जनेन, अलंकाराणां सुनियोजनेन, छन्दसां संगीतात्मकत्वेन च
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy