________________
गीता सुगीता कर्तव्या दैवीसम्पद आसुरीसम्पदश्च वर्णनम् आचारशास्त्रं मानवजीवनस्य कर्तव्याकर्तध्यं च प्रस्तौतितराम् । अहिंसादिगुणगणसंपृक्ता दैवी सम्पद् विमोक्षाय, हिंसा-मिथ्याभाषणादिदुर्गुण-तति-निरता आंसुरी सम्पद् बन्धनाय विनाशाय च प्रवर्तेते, नात्र संशीतिः ।
दैवी संपद् विमोक्षाय निबन्धायसुरी मता ॥ (१६-५ )
श्रद्धाया मनोवैज्ञानिक रूपम् उपस्थापयता प्रोच्यते यत् पुरुषोऽयं श्रद्धामयः । यादृशी मानवस्य श्रद्धा तादृशः सोऽवगन्तव्यः ।
___ श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ (१७-३)
जीवने सर्व-कर्म-परित्यागेऽपि यज्ञ-दान-तपसाम् अपरिहार्यत्वम् अवश्यकर्तव्यत्वं च गृहमेधिनां यतीनां च कृते निरूप्यते । जीवनस्य पावनत्वं त्रयाणामप्येषां फलम् ।
'यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्च व पावनानि मनीषिणाम् ॥ (१८-५) स्वधर्मानुशिष्टं कर्म कथमपि न परिहेयम् । स्वधर्मे निधनमपि श्रेयोवहम् ।
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ (३-३५ )
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । ( १८-४८)
एवमिह गीता-प्रतिपादितानां केषांचिद् राद्धान्तानां समासतोऽत्र वर्णनम् उपस्थापितम् । एतस्यावलोकनेन निश्चप्रचम् एतत् सिध्यति यद् गीतायां सर्वेषां दर्शनानाम् उपनिषदां च सारः प्रस्तूयते । यदि केवलं गीतका एव अधीयते, विविच्यते, चिन्त्यते, लौकिकजीवने व्यवह्रियते च तर्हि मानवजीवनं सर्वथा सुख-शान्ति-समन्वितं सदुदकं च भविष्यति । अतः साधूच्यते
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद् विनिःसृता ॥