________________
संस्कृतनिबन्धशतकम् इन्द्रियसंयमः साफल्यस्य साधनमिति न केनापि व्यपदेष्टुं पार्यते । अतएवोच्यते यत् संयमिन एव प्रज्ञा प्रतिष्ठिता भवति ।
तस्माद् यस्य महाबाहो निगहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ( २-६८)
कर्तव्यस्य कर्मणः अनिवार्यत्वम् उपपादयता उपस्थाप्यते यत् कर्तव्यानुष्ठानम् अन्तरेण लोकयात्राऽपि न प्रवर्तेत ।
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः॥ ( ३-८) यज्ञस्य महत्त्वम् उपवर्णयता तस्य सर्वाभीष्टप्रदत्वम् उपपाद्यतेदेवान् भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ( ३-११) तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ( ३-११) आत्मसमर्पणस्य आत्मप्राप्तिसाधकत्वं प्रतिपाद्यतेब्रह्माणं ब्रह्म हविब्रह्माग्नौ ब्रह्मणा हतम । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ( गीता ४-२४)
ज्ञानस्य परमपावनत्वं सर्वकर्मनाशकत्वं सर्वदुःखनिवारकत्वं च प्रतिपाद्यते
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ ( ४-३७ ) नहि ज्ञानेन सदृशं पवित्रमिह विद्यते । ( ४-३८ )
जीवने श्रद्धायाः किं महत्त्वं किं च तदुपयोगित्वमिति निरूपयता प्रोच्यते
श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः। ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ( ४-३९ )
युक्ताहारविहार एव योगसाधने सक्षमः । तादृशस्यैव आत्यन्तिकी दुःखप्रहाणिः संजायते
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मस् । युक्यस्वप्नावबोधस्य योगो भवति दुःखहा ॥ ( ६-१७ )
अभ्यासाद् ज्ञानम्, ज्ञानाद् ध्यानम्, ध्यानात् कर्मफलत्यागो विशिष्यते । कर्मफलत्यागः शान्तेः प्रमुखं सोपानम् ।
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागस्त्यागाछान्तिरनन्तरम् ॥ ( १२-१२) ऊर्ध्वमूलस्याश्वत्थस्य वर्णनं दर्शनसारसंग्रहम् उपलक्षयति । ' ऊर्ध्वमूलमधःशाखमश्वत्यं प्राहुरव्ययम् ।। छन्दांसि यस्य पर्णामि यस्तं वेद स वेदवित् ॥ (१५-१)