________________
गीता सुगीता कर्तव्या नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। म चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥ (गीता २-२३)
मृत्युना शरीरनाशो न त्वात्मविनाशः अन्यजन्मधारणं जीर्णवस्त्रपरिवर्तनेन नव-वस्त्र-धारणमिव विज्ञेयम् । तद्यथा
वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ (२-२२} सांख्याभिमतः सत्कार्यवादः श्लोकद्वयेन साधूपस्थाप्यते। नासतो विद्यते भावो नाभावो विद्यते सतः। (२-१६ ) अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिवेदना ॥ (गीता २-२८)
स्वकर्तव्यपालनं मानवस्य परमं कर्तव्यम् । कर्तव्यपालनेनैव जीवनस्य साफल्यं सिद्धलाभश्च तद्यथा
स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः॥ (१८-४५ )
कीतिरक्षा मानवस्य मुख्य लक्ष्यम् । अयशोदूषितस्य नरस्य जीवनेन अलम् । यशो हि परमं भूषणम् ।
संभावितस्य चाकोतिर्मरणादतिरिच्यते ॥ (२-३४)
कर्मफलस्य अवश्यंभावित्वम् उपपादयता साधु निरूप्यते यत् नहि कर्मनाशः न च कर्मफले प्रत्यवायः । स्वल्पमपि सुकृतं महद्भयविनाशकम् इति ।
नेहाभिकमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ( २-४० ) अनासक्तभावेनैव कार्यकरणं गीतायाः परमोपदेशः । तदुच्यतेकर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ (२-४७ )
अनासक्तिभावनया क्रियमाणं कर्म न बन्धनहेतुः, न च विषयोपलेपसाधनम्, अपि तु दुःख-पाप-विनाशनत्वाद् योगरूपं सत् त्रिविधतापापहं संजायते । उच्यते च
. बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। __तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ (२-५०)
विषयासक्तेः पुरुदर्कत्वं दुष्परिणामित्वं च कथमिव मनोवैज्ञानिक्या शैल्या प्रतिपाद्यते यद्
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते। संगात् संजायते कामः कामात् क्रोधोऽभिजायते ॥ क्रोधाद् भवति संमोहः संमोहात् स्मृतिविभ्रमः। स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥ (२-६२, ६३)