SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ .. ५. गीता सुगोता कर्तव्या (दुग्धं गीतामृतं महत् ) गीताया महत्त्वम्-कस्य न विदितं विपश्चितो भगवद्गीताया गुण· गौरवम् । गीतेयं न केवलं प्रस्तवीति सर्वासामपि उपनिषदां सारभागम्, अपि तु श्रुतिसारमपि प्रस्तौतितराम् । सांख्य-योगदर्शनयोः सिद्धान्तानां वैशयेन विवेचनात् प्रतिपादनाच्च दर्शनसारसंग्रहोऽप्यत्र उपलभ्यते । वेदान्तदर्शनप्रतिपादितस्य 'तत्त्वमसि' इति महावाक्यस्यापि अत्रोपलम्भाद् वेदान्तावगाहित्वमप्यस्य लक्ष्यते । सेयं सरलया भावाभिव्यक्ति-प्रक्रियया, भूयिष्ठायाऽर्थगभीरतया, प्रेष्ठया पद्धत्या, श्रेष्ठया विवृतिसरण्या, साधिष्ठया योगसाधनादीक्षया, वरिष्ठया आत्मविशुद्धि-शिक्षया सर्वस्यापि लोकस्य आतिम् अनुभवति । दुग्धं गीतामृतम्-गीतायाम् अस्यां सर्वासामपि उपनिषदां सारः मनोज्ञया पद्धत्या साधुतरं विविच्यते । उपनिषत्सु ये भावाः केवलं दार्शनिकपद्धत्या नीरसशैल्या च समभिहिताः सन्ति, ते एव भावाः साधिष्ठया भावप्रकाशनशैल्या विशदं समासतश्च प्रस्तूयन्ते । गीता न केवलम् उपनिषादमेव अपि तु समग्रस्यापि पूर्ववर्तिनो वाङ्मयस्य सारम् उपस्थापयति । अत एव गीता लोकप्रिया विश्वप्रिया चाभवत् । उक्तं च सर्वोपनिषदो गावो दोग्धा गोपालगन्दनः। पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥ गीतायाः सर्वविषयावगाहित्वेन, ज्ञान-विज्ञानसमन्वयात्, अध्यात्मविद्याचरमोत्कर्षेण, जगतो विनश्वरता-प्रतिपादनेन, साधनापद्धतेः विवृत्या, आचारविचार-शिक्षया, कर्तव्याकर्तव्य-प्रबोधनेन, निष्काम-कर्म-दीक्षया, अनासक्तियोग-शिक्षया चेयं समेषामपि विपश्चितां हृद्या अपचितिभाक च संजाता। __ 'अस्या भाषाशैली तादृशी मनोरमा, प्रसादगुणोपेता, माधुर्यावगाहिनी च यत् स्वल्प-शिक्षा-प्रबुद्धोऽपि मानवोऽस्या: सामान्यमर्थम् अवगन्तं पारयति । अतएव 'गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः' इति वचने न संशीतिलेशोऽपि । गीताया विषयप्रतिपादनम्–केचन दार्शनिका भावा ये दर्शनानां सारभूता आदर्शरूपाश्च सन्ति ते तथा रुचिरया भाषयाऽभिहिताः सन्ति, यथा सर्वजन-ग्राह्यत्वं भजन्ते । यथा-आत्मनः अजरत्वम् अमरत्वम् अविनाशित्वं च यद् दर्शनानां सारमस्ति तत् कथमिव हृद्यरूपेण माधुर्येण च प्रस्तूयते अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ (गीता २-२०) . आत्मनः अवध्यत्वं शाश्वतत्वं चोपदिशता प्रोच्यते
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy