SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २९ पुराणं पञ्चलक्षणम् रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे। , तिर्यमर्त्यषिदेवेषु हन्यन्ते यैस्त्रयोद्विषः ॥ भाग० १२-७-१४ संस्था-संस्थाशब्देन सर्गस्यास्य प्रलयस्य वर्णनम् अभीष्टमस्ति । प्रल-- यश्च चतुर्विधो भवति-नैमित्तिकः, प्राकृतिकः, नित्यः, आत्यन्तिकश्च । ___हेतुः-हेतु-शब्देन जीवस्य ग्रहणं भवति । स एव अविद्यावशगो भूत्वा जायते म्रियते च । अत्र जाग्रत्-स्वप्न-सुषुप्ति-दशानां वर्णनं भवति । अपाश्रयः--अपाश्रयशब्देन तुरीयतत्त्वस्य ब्रह्मणो वर्णनम् अभीष्टमस्ति । व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु । मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः ॥ भाग १२-७-१९ एवं पञ्चलक्षणेन दशलक्षणेन च पुराणानां महत्त्वं वैशिष्ट्यं च प्रतिपाद्यते ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy