SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ९. पुराणानां महत्त्वम् ( इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ) पुराण-शब्दार्थः--किं तावत् पुराणमिति जिज्ञासायां पुराण-शब्दार्थो बहुधा निरुच्यते । काश्चन निरुक्तयोऽत्र समासतो निर्दिश्यन्ते । ( १ ) पुराणम् आख्यानं पुराणम् इति, अर्थात् प्राचीनानि आख्यानानि पुराणानीति । (२) यस्मात् पुरा हि अनति इदं पुराणम् ( वायुपुराण १-२०३), यत् पुरा सजीवम् आसीत् तत् पुराणम् । (३) जगतः प्रागवस्थाम् अनुक्रम्य सर्गप्रतिपादकं वाक्यजातं पुराणम् ( सायण, ऐ० ब्रा० भूमिका), संसारोत्पत्तेः विकासक्रमस्य च बोधकं पुराणम् । ( ४ ) पुरार्थेषु आनयतीति पुराणम् ( पद्मपुराण ), पुरुष-प्रकृत्यादि-पूर्वतत्त्वचिन्तनपरं पुराणमिति । ( ५ ) पुरा परम्परां वक्ति पुराणं तेन वै स्मृतम् ( वायुपुराण), प्राचीन-परम्परा-प्रतिपादका ग्रन्थाः पुराणमिति । ( ६ ) विश्वसृष्टेरितिहासः पुराणम् (मधुसूदन-सरस्वती )। विश्वरचनाया ऐतिह्यमेव पुराणशब्दाभिमतम् । १८ पुराणानि, १८ उपपुराणानि च पुराणनाम्ना व्यवह्रियन्ते । पुराणं पञ्चलक्षणम्--प्रतिपाद्यविषयम् आश्रित्य पुराणानां पञ्चलक्षणानि निर्दिश्यन्ते सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।। ___वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ( विष्णु पुराण) पुराणेषु पञ्चतत्त्वानां समावेशोऽपेक्ष्यते। (१) सर्गः-सृष्ट्युत्पत्तिवर्णनम् । (२) प्रतिसर्गः-प्रलयस्य, सृष्टेः पुनरुद्भवस्य च वर्णनम् । (३) वंशःदेवानाम् ऋषीणां च वंशावल्या वर्णनम् । (४) मन्वन्तराणि---प्रत्येकस्य मनोः कालः, तत्काल-घटितानां वृत्तानां च वर्णनम् । ( ५ ) वंशानुचरितम्--सूर्यचन्द्रादि-वंशजानां नपाणाम् इतिवृत्तात्मकं वर्णनम् । पञ्चलक्षणमिति सामान्यो निर्देशः । नैतेन सर्वविषय-संग्राहकत्वम् । विषयान्तराणामपि पुराणेषु सद्भावात्, पञ्चलक्षणस्य च क्वचित् परिहारात् । पुराणानां रचनाकालः-पुराणानां रचनाकाल: ६०० ईसवीयपूर्वादारभ्य ५०० ईसवीयसंवत्सरं यावत् स्वीक्रियते । पुराणेषु प्रतिपाद्या विषयाः-पुराणेषु मुख्यतो निम्नाङ्कितानां तथ्यानां वर्णनम अवाप्यते । (१) कस्यचिद् देवस्य कस्याश्चिद् देव्या वोपासना। तस्यैव देवस्य सर्वोत्कृष्टता-प्रतिपादनं च । (२) ब्रह्म-विष्णु-महेशेषु कस्याप्येकस्य इष्टदेवत्वेन वर्णनम् । (३ ) सृष्टेरुत्पत्तेः स्थितेः प्रलयस्य च वर्णनम् । (४) देवानाम् ऋषीणां च वंशावलिः, तज्जीवनवृत्तं च । ( ५ ) मनोः मन्वन्तरस्य च वर्णनम् ( ६ ) नन्द-मौर्य-शुङ्ग-आन्ध्र-गुप्तादिवंशजानां नृपाणां भूपतीनां च
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy