________________
पुराणानां महत्त्वम् इतिवृत्त-वर्णनम् । (७) तीर्थानां प्रथित भौगोलिकस्थानानां तीर्थयात्रादीनां च वर्णनम् । (८) व्रत-जप-उपवास-प्रार्थनादीनां सानुष्ठानं वर्णनम् । (९) अवतारवादस्य मूर्तिपूजाया विविधदेवोपासनायाश्च संस्थापना। (१०) सगणोपासनाया भक्तिमार्गस्य च प्राधान्येन प्रतिपादनम् । (११) दार्शनिकधार्मिक-राजनीतिक-आचारशास्त्रादि-महत्त्वभाजां विषयाणां विवेचनं विश्लेषणं च । (१२) व्याकरण-काव्यशास्त्र ज्योतिःशास्त्र-शरीरविज्ञान-आयुर्वेदादि शास्त्रीयाणां वैज्ञानिकानां च विषयाणां तथ्यसंकलनम् ।।
पुराणानां महत्त्वम्--भारतीयायाः संस्कृतेः सभ्यतायाश्च यथायथम् अवगमाय पुराणानां नितरां महत्त्वमस्ति । पुराणानि विहाय न क्वचिदन्यत्र विपुलेऽपि वाङ्मये प्राचीनसंस्कृतेः सविस्तरं वर्णनम् उपलभ्यते । अतएव वायुपुराणे तन्महत्त्वम् उद्घोष्यते यत् चतुर्वेदविदपि पुराणज्ञानविहीनो न विचक्षणपदवीम् आरोढुं शक्नोति । उक्तम् च
यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः । न चेत् पुराणं स विद्यात् नैव स स्याद् विचक्षणः ॥ ( वायुपुराण ) पुराणानां धर्मार्थकाममोक्षात्मक-चतुर्वर्ग-साधनाद् वेदत्वं प्रतिपाद्यते । पुराणं पञ्चमो वेद इत्याद्रियते । उक्तम् च भागवते
इतिहासपुराणं च पञ्चमो वेद उच्यते ॥
सर्वजनहिताय सर्वजनबोधाय च प्रसादगुणोपेतायाः पद्धत्याः समाश्रयेण पूराणानां महत्त्वं प्रतिपदम् आलक्ष्यते । आबालवृद्धं पुराणानां प्रियत्वं न कस्यचिद् विपश्चितो विप्रतिपत्तेविषयः । कथाख्यानाश्रयेण निगूढतत्त्वनिरूपणं सरलतया तदभिव्यक्तिश्च पुराणानां महत्त्वम् एधयति । पुराणानां तादृशी मनोहरा शैली भावाभिव्यक्ति-प्रक्रिया च यथा ज्ञानलव-दुर्विदग्धोऽपि मानवो विविधविषयावगाहि ज्ञानं सरलतया अवाप्नोति । पुराणेषु क्वचित् काव्यच्छटा, क्वचित् प्रकृतिवर्णनम् , क्वचित् तीर्थादिवर्णनम्, क्वचित् सृष्टि-स्थिति-प्रलयवर्णनम्, क्वचिद् भावोत्कर्षः, क्वचिद् ज्ञानस्योदयः, क्वचित् तत्त्वार्थचिन्ता, क्वचित् कर्तव्योद्बोधनम्, क्वचित् ज्ञानमीमांसा च ऐन्द्रधनुषीम् आभां विस्तारयति ।
पुराणानां तादृशं महत्त्वम् यथा 'भिन्नरुचिहि लोकः' स्वरुचिम् अनुसृत्य प्रवृत्तोऽपि स्वेष्टं प्रतिगृह्णाति । विदुषे तत्त्वज्ञानविषयाः, बालिशाय शृङ्गाररसरुचिराणि आख्यानानि, नीतिज्ञाय नीतितत्त्वानि, राज्ञे राजकर्माणि, व्यवहारिणे अर्थागमसाधनानि, अध्यात्महशे ब्रह्मतत्त्वमीमांसा, वनिताभ्यो भक्तिमार्गः, जिज्ञासवे भूगोल-ऐतिह्यादि-सम्बद्धा विषयाः, यथायथं तच्चित्तावर्जकत्वेन प्रथन्ते ।
इतिहासपुराणाम्यां वेदं समुपद्व्हयेत्--महाभारतकृता वेदार्थस्य विशदी