SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २ संस्कृतनिबन्धशतकम् करणं पुराणानां महत्त्वरूपेण प्रतिपाद्यते। वेदेषु यानि तत्त्वानि यत्र तत्र वर्ण्यन्ते तेषां विशदीकरणं पुराणेषु आख्यानरूपेण प्राप्यते । वेदार्थविशदीकरणेन पुराणानि वेदार्थावगमे साहाय्यम् आचरन्ति । पुराणानां धार्मिक महत्त्वं कस्य न विपश्चितो विदितम् । पुराणानि भारतीय-संस्कृतेः सनातनधर्मस्य च प्राणभूतानि सन्ति । एतेषामपि श्रुतितुल्यं प्रामाण्यं गृह्यते । विष्णु-शिवादि-देवानाम् उपासनापद्धतेः सविस्तरो बोधः पुराणैरेव संजायते। __ ऐतिह्यदृष्ट्याऽपि पुराणानाम् अतुलं महत्त्वम् । भारतीयैतिह्यस्य अज्ञात इतिहासो राजानं परीक्षितम् आरभ्य पद्मनन्दं यावत् पुराणेष्वेवोपलभ्यते । विष्णुपुराणे मौर्यवंशावलिः, मत्स्यपुराणे आन्ध्रवंशावलिः, वायुपुराणे गुप्तवंशावलिः च साम्प्रतं पुरातत्त्वविद्धिः प्रामाण्यरूपेण उररी क्रियते । पुराणेष प्राप्या आभीर-शक-यवन-तुषार-हूणादि-राजवंशानां वंशावली ऐतिह्यविदां कृते बहुमूल्यस्वरूपा। पुराणानां भौगोलिकमपि महत्त्वं वर्तते । एषु चतुर्तीपाया वसुमत्याः, सप्तद्वीपाया वसुमत्याः, १८ द्वीपानाम्, १४ भुवनानाम्, क्षीरसागरादीनां वर्णनम्, भूविभाजनम्, तीर्थानाम्, सागराणाम्, सरिताम्, गिरीणाम्, भौगोलिकमहत्त्वभाजाम् अन्येषां च स्थानानां यत्र तत्र वर्णनं भूगोल-खगोलविदां कृते विशिष्टं महत्त्वम् आधत्ते । पुराणानां सामाजिकमपि महत्त्वम् अवर्णनीयम् । पुराणेषु वर्णाश्रमव्यवस्थाम् आश्रित्य गुणानां कर्मणां च वर्णनम्, विविधसंस्काराणां विवरणम्, पारिवारिक-संबन्धस्य विस्तरशो विवेचनम्, गुरुशिष्यसंबन्धस्य वैशिष्टयेन समपस्थापनम, राजधर्मादिवर्णनं च तेषां समाजशास्त्रीयं महत्त्वम् उपस्थापयति । पुराणेषु विविधा विद्या यथास्थानं वर्ण्यन्ते । क्वचिद् व्याकरणम्, क्वचित् छन्दः, क्वचिद् ज्योतिषम्, क्वचिद् धर्मशास्त्रम्, क्वचिद् आयुर्वेदः, क्वचिद् शरीरविज्ञानादिकं च तेषां शास्त्रीयं वैज्ञानिकं च महत्त्वं समर्थयन्ते । पुराणेषु अग्निपुराणं विविधशास्त्रीयज्ञान-समन्वितत्वाद् विश्वकोषः स्वीक्रियते। एवं पुराणानां महत्त्वं सर्वथा प्रसिध्यति । उक्तं च नारदीयपुराणे वेदार्थादधिकं मन्ये पुराणार्थ वरानने । वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः॥ ( ना० पु०, २-२४-१७ ).
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy