SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४२ संस्कृतनिबन्धशतकम् संचरति, न प्रवहति च देशभक्तिधारा तज्जीवनं शुष्कसरिदेव । अतएव मातृभूमिस्तुतौ प्रत्यहं गीयते । वन्दे मातरम् । सुजलां सुफलां मलयजशीतलाम् । शस्य-श्यामलां मातरम, वन्दे मातरम् । आंग्लभाषाया बैरन-कविराह-यो न राष्ट्रे स्निह्यति, न स स्नेहं कर्तुं जानीते। He, who loves not his country, can love nothing. . --Byion. का नाम सा शक्तिर्या.मातृभूमि-हिताय सर्वस्वार्पणं प्रति प्रेरयति । देशभक्तिरेव सा शक्तिर्या दीपशिखासु पतङ्गवद् आत्मोत्सर्ग शिक्षयति । तयैव प्रेरणया महाराणा प्रताप-शिवाजी-महात्मा गान्धि-सुभाषचन्द्रबोस-जवाहरलाल नेहरू-वीर सावरकर-लाला लाजपतराय-बालगंगाधर तिलक-सरदार भगतसिंहचन्द्रशेखर आजाद-ऊधमसिंह-गोखले-रामप्रसाद बिस्मिल-लक्ष्मीबाई-मङ्गल पाण्डेय-नानासाहब-भामा शाह-स्वामी दयानन्द-सरदार पटेल-प्रभृतयः स्वदेहमोहं परित्यज्य मातृभूमि-रक्षार्थ स्वोत्सर्ग चक्रुः । देशभक्ति-भावनयैव स्वदेशाभिमानम्, स्वदेश-रक्षा-संकल्पः, आत्मोत्सर्ग-भावना, परोपकार-प्रवणता, नैतिकाभ्युन्नतिश्च संभाव्यते । 'स्वातन्त्र्यम् अस्माकं जन्मसिद्धोऽधिकारः' इति महात्मनस्तिलकस्य वचनम् अद्यापि जीवनं प्रेरयति । माता भूमिः पुत्रो अहं पृथिव्याः--भारतभूमिरस्माकं जननी। तत्पुत्रत्वेन मातुः रक्षणम् अस्माकं परमं कर्तव्यम् । अतएव साधु व्याहियते 'जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।' वयं तुभ्यं बलिहृतः स्याम । अथर्व० १२-१-६२ सत्यवसरे सत्यां चावश्यकतायां मातृभूमेः संकटनिवारणार्थं प्राणार्पणेनापि मातृभूमि-हितसंपादनं सर्वेषां श्रेष्ठं कर्म । धन्या भारतभूः–भारतभूमेर्गुणगौरवं प्रकृष्टोन्नतत्वं च ध्यायं ध्यायं धीमद्भिः भारतभू-प्रशंसनं व्यधायि । उक्तं च विष्णुपुराणे-- गायन्ति देवाः किल गीतकानि, धन्यास्तु ते भारतभूमिभागे । स्वर्गापवर्गास्पदमार्गभूते, भवन्ति भूयः पुरुषाः सुरत्वात् ॥ विष्णु० एतस्य गुणगौरवोत्कृष्टत्वं प्रेक्ष्यैव मनुनोद्घोष्यते एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ मनु० २-२० यदा सर्व जगद् अज्ञान-ध्वान्तावृतम् अभूत्, तदा भारते वेदोद्घोषः प्रावर्तत । अतएव भारतीया वैदिकी च संस्कृतिः प्राचीनतमा प्रेष्ठा च ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy