SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ७२. देशभक्तिः ( १. भारतमहिमा, २. धन्या भारतभूः प्रकामवसुधा प्रत्ना च तत्संस्कृतिः ।) न यत्र देशोद्धृतिकामनाऽऽस्ते, न मातृभूमेहितचिन्तनं च। न राष्ट्ररक्षा-बलिदानभावः, श्मशानतुल्यं नरजीवनं तत् ॥ (कपिलस्य) प्रस्तावना-निखिले भुवने न कोऽपि नरो यः स्वमातृभूमि स्वदेशं वा न प्रणमति । राष्ट्रियभावनैव सा भावना या मानवं स्वदेशोन्नत्यथं प्रेरयति, स्वदेशाभिमानं स्वदेशगौरवं च प्राणेभ्योऽप्यधिकं मन्यते । प्राचीनकालादेव देशभक्तिर्मानवजीवने ओता-प्रोता च । ऋग्वेदे-अहं राष्ट्री संगमनी वसूनाम् (ऋग्० १०-१२५-३), यजुर्वेद-वयं राष्ट्र जागृयाम पुरोहिताः स्याम ( यजु० ९-२३ ) । अथर्ववेदे च पृथ्वीसूक्ते बहवो मन्त्राः प्राप्यन्ते देशभक्तिभावोपेताः । यथा-माता भूमिः पुत्रो अहं पृथिव्याः ( अ० १२-१-१२), वयं तुभ्यं बलिहृतः स्याम ( अ० १२-१-६२) इत्यादयः । रामायण-महाभारत-पुराणादिषु स्वदेशगौरवं देशभक्तिश्च बहुधा कीर्त्यते । स्वदेशभक्ति-भावनयैव प्रेरिताः शतशो महात्मानः शूरा वीराश्च सर्वस्वं विहायापि देशरक्षणं व्यदधुः। केचन च देशोन्नती स्वीयान् असून तृणवद् उज्झांचक्रुः। देशभक्तेरावश्यकता-देश-प्रेम देशभक्तिश्च जन्मिनोऽनिवार्य कर्तव्यम् । देशभक्तिभावनयैव प्रेरिताः शतशो वीराः समराङ्गणे हेलया स्वजीवनानि समर्पयामासुः । देशभक्त्यैव देशोन्नतिभावना, समाजसुधारभावना, समाजोनतिकामना, राष्ट्र श्रीवृद्धिकरणम्, शत्रून्मूलन-पुरःसरं देशस्य सर्वविध-सुदृढीकरणं प्रवर्तते । यत्र न जागति देशभक्तिभावः स मानवः पशुसंकाशो गण्यते । उक्कं चार्यभाषा-कविना जिसको न निजगौरव तथा निजदेश का अभिमान है। वह नर नहीं, नर-पशु निरा है, और मृतक समान है। ___ आङ्ग्लभाषा-विद्वान् डेनियल-वेब्स्टर-महोदयो निर्दिशति यद् अस्माकं जीवनोद्देश्यं राष्ट्रमेव, समग्रं राष्ट्रम्, न किंचिद् अन्यत् । Let our object be, our country, our whole country, and nothing but our country. -Daniel Webster. हावार्ड-महोदयोऽपि देशहित-संपादनं सर्वोत्कृष्टं कर्तव्यं निर्दिशति । Our country's welfare is our first concern and who promotes that best, best proves his duty. -Havard. देशभक्तेमहत्त्वम्-देशभक्तिर्मानवानां सर्वोत्कृष्टं कर्तव्यम् । यत्र न
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy