SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४० संस्कृतनिबन्धशतकम् वसुधैव कुटुम्बकम्-सर्वेऽपि देशीया विदेशीया वा, एकस्यैव परमात्मनः पुत्राः । तत्र कि कारणं भेदप्रथनम् ? यदाऽभेददृष्टिः प्रवर्तते, तदा जगदिदं स्वर्गमिव चकास्ति । न तत्र मोह-शोकादेरवसरः, न च तदा विजुगुप्सा विचिकित्सा वा बाधते । एकत्वबुद्धौ न दुःखाग्निलेशोऽपि, क्लेशलवोऽपि च । अतएव यजुर्वेदे ईशोपनिषदि च प्रोच्यते यस्तु सर्वाणि भूतान्यात्मन्नेवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विचिकित्सति ॥ यजु० ४०-६ यस्मिन्त्सर्वाणि भूतान्यात्मवाभूद विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ यजु० ४०-७ विश्वधर्म:-विश्वधर्म-भावना विश्वकल्याणमूला । 'कृण्वन्तो विश्वमार्यम्' (ऋग०९-६३-५ ) इति वदतो वेदस्याप्येतदेवाभिमतम् । सर्वेषां धर्माणां सारभूततत्त्वानां संग्रहेण विश्वधर्मत्वं संभवति । अतएव पतञ्जलिना अहिंसा-सत्यादि-यमानां महत्त्वं वर्णयता प्रोच्यते यद् यमास्ते गुणाः सन्ति ये सर्वधर्मः स्वीक्रियन्ते । एते 'सार्वभौमा महाव्रतम्' इति व्यपदिश्यन्ते । अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः। योगदर्शन २-३० जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महाव्रतम् । योग०२-३१ विश्वधर्मे सर्वोदय-भावना मूलम् आधत्ते । उच्यते च सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग भवेत् ॥ इत्यस्याप्येष एवाभिप्रायः । यदि विविच्यते तर्हि ज्ञायते यद् दुश्चरितं मानवं दानवं विधत्ते । सत्कर्म मानवस्य मानवत्वं पोषयति । परहिताश्रयणं विश्वबन्धुत्वं च मानवं देवत्वं प्रापयति । जीवने देवत्वप्राप्ति-कामना स्यात् चेत्तहि 'वसुधैव कुटुम्बकम्' इत्याप्तवाक्यत्वेनाश्रयणीयं व्यवहरणीयं च। .
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy