________________
७१. वसुधैव कुटुम्बकम्
( १. विश्वबन्धुत्वम् ; २. विश्वधर्मः) विश्वबन्धुत्वस्यावश्यकता-जगदिदं सुख-दुःखात्मकम् । सुखानन्तरं दुःखम्, दुःखानन्तरं च सुखम् । सुख-दुःखयोः परिवृत्त्या भुवनमेतद् विपद्यते । नहि लोके कश्चन दुःखम् इष्टत्वेन कामयते । मुमूर्षुरपि, जराव्याधिशीर्णगात्रोऽपि, चिन्ता-सहस्र-विषण्णोऽपि, दुःखं मृत्युं वा नाभिलष्यति, तर्हि कथमिव दुःखनिरोधः संभाव्यते । दुःखनिरोधस्यैक एवोपायः-भुवने शान्तेः सद्धर्मस्य च संस्थापना। यदि मानवो मानवं स्वबन्धुत्वदृशा निरीक्षेत तर्हि पर-शोषणप्रक्रियैव समाप्यते । शोषणस्य कि मूलम् ? स्वार्थसिद्धिः, स्वसूखावाप्तिकामना च । महत्त्वाकांक्षा च मानवं परशोषणे प्रेरयति । यदि परार्थ-निष्पादनपूर्वकं स्व-सुख-साधनम् अभिलष्येत् तर्हि न पारस्परिको विवादः कलहः संघर्षः परशोषणं च प्रवर्तेरन् ।
विश्वबन्धुत्वस्योपयोगिता–अत्रेदं विचार्य यत् कथं मानव आत्मानं देवं मानवं दानवं वा कतु प्रभवति । ऐहलौकिक-सुख-कामनया सहैव चेत् पारलौकिकी बुद्धिः स्यात्, जीवनान्तरे सुखाभिलाषश्च भवेत्, तर्हि न तथा मानवः पापाचरणे प्रवर्तेत । पर-हित-विनाशनम् , परापकृति-साधनम्, परार्थनाशनं च न केवलं दोषायैव, अपितु अपकर्तरपि विनाशं साधयति । दुष्कृतं दष्कृतं जनयति, सुकृतं च सुकृतम् । विद्वेषो विद्वेषं जनयति, विरोधो विरोधम्, कलहः कलहम्, युद्धं च युद्धान्तरम् । तथैव स्नेहः स्नेहं वर्धयति, प्रेम प्रेमभावनां जागरयति, सहानुभूतिः सहानुभूतिम्, सद्भावः सद्भावम् , ममता ममत्वं च । द्वयोरपि पक्षयोः परिणामः सुलभः, अनायास-प्रेक्ष्यश्च । सामाजिकं राष्ट्रियम् अन्ताराष्ट्रियं वा कार्य यदि सहानुभूति-विश्वास-मूलकं तर्हि तत् सुखदं समृद्धिकारि लोकहितकारि च संपद्यते ।
प्राचीन रतीयैर्ऋषिभिर्महर्षिभिश्च सततमेवोदीरितं यत् सर्व-भूतहित-साधनम् अस्माकं लक्ष्यम् । तत्र राष्ट्रदेशादिभेदो विपज्जनक एव । यदा स्वार्थबुद्धिीयते तदैव देवत्वं जागति । वेदेषु यज्ञ-प्रक्रियाया एतदेव महत्त्वं यत् तत्र स्वार्थ-परिहार-पूर्वकं परार्थ-साधनं शिक्ष्यते । एतदेव यज्ञप्रक्रियायां स्वाहा ( स्व-आ हा, स्वार्थस्य सर्वथा त्यागः ), इदं न मम, इत्यादिभिः पदैनिर्दिश्यते । निजत्व-परत्वभावना तु अल्पधियामेवाभिमता। ते ममेदम् , परकीयम् एतद् इति विभेदम् आश्रयन्ते । परं ज्ञानिनस्तत्त्वदर्शिनश्च समत्व-बुद्धिम् आश्रित्य जगद्-हितचिन्तने सर्वलोक-कल्याणे च प्रवर्तन्ते । अत एव साधूच्यते
अयं निजः परो वेति गणना लघुचेतसाम्।। उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ हितोपदेश १-६९